भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 6.3

6.3.1

ब्र्हुप्भ्_6,2.16 अथ पुनर्ये नैवं विदुरुत्क्रान्त्याद्यग्निहोत्रसंबन्धपदार्थषट्कस्यैव वेदितारः केवलकर्मिणो यज्ञेनाग्निहोत्रादिना दानेन बहिर्वेदि भिक्षमाणेषु द्रव्यसंविभागलक्षणेन तपसा बहिर्वेद्येव दीक्षादिव्यतिरिक्तेन कृच्छ्रचान्द्रायणादिना लोकाञ्जयन्ति ।
लोकानिति बहुवचनात्तत्रापि फलतारम्यमभिप्रेतम् ।
ते धूममभिसंभवन्ति ।
उत्तरमार्ग इवेहापि देवता एव धूमादिशब्दवाच्याः ।
धूमदेवतां प्रतिपद्यन्त इत्यर्थः ।
आतिवाहिकत्वं च देवतानां तद्वदेव ।
धूमाद्रात्रिं रात्रिदेवतां ततो ऽपक्षीयमाणपक्षदेवतां ततो यान्षण्मासान्दक्षिणां दिशमादित्य एति तान्मासदेवताविशेषान्प्रतिपद्यन्ते ।
मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रम् ।
ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्रान्नभूतान्यथा सोमं राजानमिह यज्ञ ऋत्विज आप्यायस्वापक्षीयस्वेति भक्षयन्त्येवमेनांश्चन्द्रं प्राप्तान्कर्मिणो भृत्यानिव स्वामिनो भक्षयन्त्युपभुञ्जते देवाः आप्यायस्वापक्षीयस्वेति न मन्त्रः किं तर्ह्याप्याय्याऽप्याय्य चमसस्थं भक्षणेनापक्षयं च कृत्वा पुनः पुनर्भक्षयन्तीत्यर्थः ।
एवं देवा अपि सोमलोके लब्धशरीरान्कर्मिण उपकरणभूतान्पुनः पुनर्विश्रामयन्तः कर्मानुरूपं फलं प्रयच्छन्तः ।
तद्धि तेषामाप्यायनं सोमस्याऽप्यायनमिवोपभुञ्जत उपकरणभूतान्देवाः तेषां कर्मिणां यदा यस्मिन्काले तद्यज्ञदानादिलक्षणं सोमलोकप्रापकं कर्म पर्यवैति परिगच्छति परिक्षीयत इत्यर्थः ।
अथ तदेममेव प्रसिद्धमाकाशमभिनिष्पद्यन्ते ।
यास्ताः श्रद्धाशब्दवाच्या द्युलोकाग्नौ हुता आपः सोमाकारपरिणता याभिः सोमलोके कर्मिणामुपभोगाय शरीरमारब्धमम्मयं ताः कर्मक्षयाद्धिमपिण्ड इवाऽतपसंपर्कात्प्रविलीयन्ते ।
प्रविलीनाः सूक्ष्मा आकाशभूता इव भवन्ति तदिदमुच्यत इममेवाऽकाशमभिनिष्पद्यन्त इति ।
ते पुनरपि कर्मिणस्तच्छरीराः सन्तः पुरोवातादिना इताश्चामुतश्च नीयन्ते ऽन्तरिक्षगास्तदाह-आकाशाद्वायुमिति ।
वायोर्वृष्टिं प्रतिपद्यन्ते ।
तदुक्तम्-पर्जन्याग्नौ सोमं राजानं जुह्वतीति ।
ततो वृष्टिभूता इमां पृथिवीं पतन्ति ।
ते पृथिवीं प्राप्य व्रीहियवाद्यन्नं भवन्ति ।
तदुक्तमस्मिंल्लोके ऽग्नौ वृष्टिं जुह्वति तस्या आहुत्या अन्नं संभवतीति ।
ते पुनः पुरुषाग्नौ हूयन्ते ऽन्नभूता रेतःसिचि ।
ततो रेतोभूता योषाग्नौ हूयन्ते ततो जायन्ते लोकं प्रत्युत्थायिनस्ते लोकं प्रत्युत्तिष्ठन्तो ऽग्निहोत्रादिकर्मानुतिष्ठन्ति ।
ततो धूमादिना पुनः पुनः सोमलोकं पुनरिमं लोकमिति ।
त एवं कर्मिणो ऽनुपरिवर्तन्ते घटीयन्त्रवच्चक्रीभूता बंभ्रमन्तीत्यर्थः ।
उत्तरमार्गाय सद्योमुक्तये वा यावद्ब्रह्म न विदुः ।
इति नु कामयमानः संसरतीत्युक्तम् ।
अथ पुनर्य उत्तरं दक्षिणं चैतौ पन्थानौ न विदुरुत्तरस्य दक्षिणस्य वा पथः प्रतिपत्तये ज्ञानं कर्म वा नानुतिष्ठन्तीत्यर्थः ।
ते किं भवन्तीति ।
उच्यते-ते कीटाः पतङ्गा यदिदं यच्चेदं दन्दशूकं दंशमशकमित्येतद्भवन्ति ।
एवं हीयं संसारगतिः कष्टास्यां निमग्नस्य पुनरुद्धार एव दुर्लभः ।
तथा च श्रुत्यन्तरम्-"तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्व"इति ।
तस्मात्सर्वोत्साहेन यथाशक्ति स्वाभाविककर्मज्ञानहानेन दक्षिणोत्तरमार्गप्रतिपत्तिसाधनं शास्रीयं कर्म ज्ञानं वानुतिष्ठेदिति वाक्यार्थः ।
तथा चोक्तम्"अतो वै खलु दुर्निष्प्रपतरं तस्माज्जुगुप्सेत"इति श्रुत्यन्तरान्मोक्षाय प्रयतेतेत्यर्थः ।
अत्राप्युत्तरमार्गप्रतिपत्तिसाधन एव महान्यत्नः कर्तव्य इति गम्यते ।
एवमेवानुपरिवर्तन्त इत्युक्तत्वात् ।
एवं प्रश्नाः सर्वे निर्णीताः ।
एसौ वै लोक इत्यारभ्य पुरुषः संभवतीतिचतुर्थः प्रश्नो यतिथ्यामाहुत्यामित्यादिः प्रथम्येन ।
पञ्चमस्तु द्वितीयत्वेन देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वेति दक्षिणोत्तरमार्गप्रतिपत्तिसाधनकथनेन ।
तेनैव च प्रथमो ऽप्यग्नेराभ्य केचिदर्चिः प्रतिपद्यन्ते केचिद्धूममिति विप्रतिपत्तिः ।
पुनरावृत्तिश्च द्वितीयः प्रश्न आकाशादिक्रमेणेमं लोकमागच्छन्तीति ।
तेनैवासौ लोको न संपूर्यते कीटपतङ्गादिप्रतिपत्तेश्च केषाञ्चिदिति तृतीयो ऽपि प्रश्नो निर्णीतः16 ॥
इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य द्वितीयं ब्राह्मणम् ॥2॥
स्तर्त् ब्र्हुप् 6,3.1
स यः कामयेत -- महत् प्राप्नुयाम् इत्य् उदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहम् उपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निम् उपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति --
यावन्तो देवास् त्वयि जातवेदस् तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् ।
तेभ्यो ऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस् तर्पयन्तु स्वाहा ।
या तिरश्ची निपद्यसे ऽहं विधरणी इति ।
तां त्वा घृतस्य धारया यजे संराधनीम् अहं स्वाहा

6.3.2

ब्र्हुप्भ्_6,3.1 स यः कामयेत ।
ज्ञानकर्मणोर्गतिरुक्ता ।
तत्र ज्ञानं स्वतन्त्रं कर्म तु दैवमानुषवित्तद्वयायत्तं तेन कर्मार्थं वित्तमुपार्जनीयम् ।
तच्चाप्रत्यवायकारिणोपायेनेति तदर्थं मन्थाख्यं कर्माऽरभ्यते महत्त्वप्राप्तये ।
महत्त्वे च सत्यर्थसिद्धं हि वित्तम् ।
तदुच्यते-स यः कामयेत स यो वित्तार्थी कर्मण्यधिकृतो यः कामयेत ।
किम् ।
महन्महत्त्वं प्राप्नुयां महान्स्यामितीत्यर्थः ।
तत्र मन्थकर्मणो विधित्सितस्य कालो ऽभिधीयते-उदगयन आदित्यस्य तत्र सर्वत्र प्राप्तावापूर्यमाणपक्षस्य शुक्लपक्षस्य ।
तत्रापि सर्वत्र प्राप्तौ पुण्याहे ऽनुकूल आत्मनः कर्मसिद्धिकर इत्यर्थः ।
द्वादशाहं यस्मिन्पुण्ये ऽनुकूले कर्म चिकीर्षति ततः प्राक्पुण्याहमेवाऽरभ्य द्वादशाहमुपसद्व्रती ।
उपसत्सु व्रतमुपसदः प्रसिद्धा ज्योतिष्टोमे ।
तत्र च स्तनोपचयापचयद्वारेण पयोभक्षणं तद्व्रतम् ।
अत्र च तत्कर्मानुपसंहारात्केवलमितिकर्तव्यताशून्यं पयोभक्षणमात्रमुपादीयते ।
ननूपसदो व्रतमिति यदा विग्रहस्तदा सर्वमितिकर्तव्यतारूपं ग्राह्यं भवति तत्कस्मान्न परिगृह्यत इति ।
उच्यते-स्मार्तत्वात्कर्मणः ।
स्मार्तं हीदं मन्थकर्म ।
ननु श्रुतिविहितं सत्कथं स्मार्तं भवितुमर्हति ।
स्मृत्यनुवादिनीहि श्रुतिरियम् ।
श्रौतत्वे हि प्रकृतिविकारभावस्ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणो न त्विह श्रौतत्वम् ।
अत एव चाऽवसथ्याग्नावेतत्कर्म विधीयते ।
सर्वा चाऽवृत्स्मार्तैवेति ।
उपसद्व्रती भूत्वा पयोव्रती सन्नीत्यर्थः ।
औदुम्बर उदुम्बरवृक्षमये कंसे चमसे वा तस्यैव विशेषणं कंसाकारे चमसाकारे वौदुम्बर एव ।
आकारे तु विकल्पो नौदुम्बरत्वे ।
एत्र सर्वौषधं सर्वासामोषधीनां समूहं यथासम्भवं यथाशक्ति च सर्वा ओषधीः समाहृत्य तत्र ग्राम्याणां तु दश नियमेन ग्राह्या व्रीहियवाद्या वक्ष्यमाणाः ।
अधिकग्रहणे तु न दोषः ।
ग्राम्याणां फलानि च यथासम्भवं यथाशक्ति च ।
इतिशब्दः समस्तसम्भारोपचयप्रदर्शनार्थः ।
अन्यदपि यत्सम्भरणीयं तत्सर्वं संभृत्येत्यर्थः ।
क्रमस्तत्र गृह्योक्तो द्रष्टव्यः ।
परिसमूहनपरिलेपने भूमिसंस्कारः ।
अग्निमुपसमाधायेति वचनादावसथ्ये ऽग्नाविति गम्यते ।
एकवचनादुपसमाधानश्रवणाच्च ।
विद्यमानस्यैवोपसमाधानम् ।
परिस्तीर्य दर्भानावृता स्मार्तत्वात्कर्मणः स्थालीपाकावृत्परिगृह्यते ।
तयाऽज्यं संस्कृत्य पुंसा नक्षत्रेण पुंनाम्ना नक्षत्रेण पुण्याहसंयुक्तेन मन्थं सर्वौषधफलपिष्टं तत्रौदुम्बरे चमसे दधनि मधुनि घृते चोपसिच्यैकयोपमन्थन्योपमंमथ्य संनीय मध्ये संस्थाप्यौदुम्बरेण स्रुवेणाऽवापस्थान आज्यस्य जुहोत्येतैर्मन्त्रैर्यावन्तो देवा इत्याद्यैः ॥1॥
स्तर्त् ब्र्हुप् 6,3.2-3
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
प्राणाय स्वाहा वसिष्ठायै स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
वाचे स्वाहा प्रतिष्ठायै स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
चक्षुषे स्वाहा संपदे स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
श्रोत्राय स्वाहायतनाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
मनसे स्वाहा प्रजात्यै स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
रेतसे स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति

6.3.3

अग्नये स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
सोमाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
भूः स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
भुवः स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
स्वः स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
भूर् भुवः स्वः स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
ब्रह्मणे स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
क्षत्राय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
भूताय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
भविष्यते स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
विश्वाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
सर्वाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।
प्रजापतये स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति

6.3.4

ब्र्हुप्भ्_6,3.2-3 ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यारभ्य द्वे द्वे आहुती हुत्वा मन्थे संस्रवमवनयति ।
स्रुवावलेपनमाज्यं मन्थे संस्रावयति ।
एतस्मादेव ज्येष्ठाय श्रेष्ठायेत्यादिप्राणलिङ्गाज्ज्येष्ठश्रेष्ठादिप्राणविद एवास्मिन्कर्मण्यधिकारः ।
रेतस इत्यारम्भैकैकामाहुतिं हुत्वा मन्थे संस्रवमवनयत्यपरयोपमन्थन्या पुनर्मथ्नाति ॥2-3 ॥
स्तर्त् ब्र्हुप् 6,3.4
अथैनम् अभिमृशति -- भ्रमद् असि ।
ज्वलद् असि ।
पूर्णम् असि ।
प्रस्तब्धम् असि ।
एकसभम् असि ।
हिङ्कृतम् असि ।
हिङ्क्रियमानम् असि ।
उद्गीथम् असि ।
उद्गीयमानम् असि ।
श्रावितम् असि ।
प्रत्याश्रावितम् असि ।
आर्द्रे संदीप्तम् असि ।
विभूर् असि ।
प्रभूर् असि ।
अन्नम् असि ।
ज्योतिर् असि ।
निधनम् असि ।
संवर्गो ऽसीति

6.3.5

ब्र्हुप्भ्_6,3.4 अथैनमभिमृशति भ्रमदसीत्यनेन मन्त्रेण ॥4॥
स्तर्त् ब्र्हुप् 6,3.5
अथैनम् उद्यच्छत्य् आमंस्य् आमं हि ते महि ।
स हि राजेशानो ऽधिपतिः ।
स मां राजेशनो ऽधिपतिं करोत्व् इति

6.3.6

ब्र्हुप्भ्_6,3.5 अथैनमुच्छति सह पात्रेण हस्ते गृह्णात्यामंस्यामंहि ते महीत्यनेन ॥5॥
स्तर्त् ब्र्हुप् 6,3.6
अथैनम् आचामति --
तत् सवितुर् वरेण्यम् ।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर् नः सन्त्व् ओषधीः ।
भूः स्वाहा ।
भर्गो देवस्य धीमहि
मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः ।
मधु द्यौर् अस्तु नः पिता ।
भुवः स्वाहा ।
धियो यो नः प्रचोदयात् ।
मधुमान् नो वनस्पतिर् मधुमां अस्तु सूर्यः ।
माध्वीर् गवो भवन्तु नः ।
स्वः स्वाहा ।
सर्वां च सावित्रीम् अन्वाह ।
सर्वाश् च मधुमतीर् अहम् एवेदं सर्वं भूयासं भूर् भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति ।
प्रातर् आदित्यम् उपतिष्ठते ।
दिशाम् एकपुण्डरीकम् असि ।
अहं मनुष्याणाम् एकपुण्डरीकं भूयासम् इति ।
यथेतम् एत्य जघनेनाग्निम् आसीनो वंशं जपति

6.3.7

ब्र्हुप्भ्_6,3.6 अथैनमाचामति भक्षयति गायत्र्याः प्रथमपादेन मधुमत्यैकया व्याहृत्या च प्रथमया प्रथमग्रासमाचामति ।
तथा गायत्रीद्वितीयपादेन मधुमत्या द्वितीयया द्वितीय या च व्यहृत्या द्वितीयं ग्रासम् ।
तथा तृतीयेन गायत्रीपादेन तृतीयया मधुमत्या तृतीयया च व्याहृत्या तृतीयं ग्रासम् ।
सर्वां सावित्रीं सर्वाश्च मधुमतीरुक्त्वाहमेवेदं सर्वं भूयासमिति चान्ते भूर्भवः स्वः स्वाहेति समस्तं भश्रयति ।
यथा चतुर्भिर्ग्रासैस्तद्द्रव्यं सर्वं परिसमाप्यते तथा पूर्वमेव निरुप्येत् ।
यत्पात्रावलिप्तं तत्पात्रं सर्वं निर्णिज्य तूष्णीं पिवेत् ।
पाणी प्रक्षाल्याप आचम्य जघनेनाग्निं पश्चादग्नेः प्राक्शिराः संविशति ।
प्रातः संध्यामुपास्याऽदित्यमुपतिष्ठते दिशामेकपुण्डरीकमित्यनेन मन्त्रेण ।
यथेतं यथागतमेत्याऽगत्य जघनेनाग्निमासीनो वंशं जपति ॥6॥
स्तर्त् ब्र्हुप् 6,3.7-12
तं हैतम् उद्दालक आरुणिर् वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच -- अपि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति

6.3.8

एतम् उ हैव वाजसनेयो याज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच -- अपि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति

6.3.9

एतम् उ हैव मधुकः पैङ्ग्यश् चूलाय भागवित्तये ऽन्तेवासिन उक्त्वोवाच -- अपि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति

6.3.10

एतम् उ हैव चूलो भागवित्तिर् जानकय आयःस्थूणायान्तेवासिन उक्त्वोवाच -- अपि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति

6.3.11

एतम् उ हैव जानकिर् आयस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच -- अपि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति

6.3.12

एतम् उ हैव सत्यकामो जाबालो ऽन्तेवासिभ्य उक्त्वोव -- अचापि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति ।
तम् एतं नापुत्राय वानन्तेवासिने वा ब्रूयात्

6.3.13

ब्र्हुप्भ्_6,3.7-12 तं हैतमुद्दालक इत्यादि सत्यकामो जाबालो ऽन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरन्नेवास्मिञ्शाखाः प्ररोहेयुः पलाशानीत्येवमन्तमेनं मन्थमुद्दालकात्प्रभृत्येकैकाचार्यक्रमागतं सत्यकाम आचार्यो बहुभ्यो ऽन्तेवासिभ्य उक्त्वोवाच ।
किमन्यदुवाचेत्युच्यते-अपि य एनं शुष्के स्थाणौ गतप्राणे ऽप्येनं मन्थं भक्षणाय संस्कृतं निषिञ्चेत्प्रक्षिपेज्जायेरन्नुत्पद्येरन्नेवास्मिन्स्थाणौ शाखा अवयवा वृक्षस्य प्ररोहेयुश्च पलाशानि पर्णानि यथा जीवतः स्थाणोः किमुतानेन कर्मणा कामः सिध्येदिति ।
ध्रुवफलमिदं कर्मेति कर्मस्तुत्यर्थमेतत् ।
विद्याधिगमे ष्टतीर्थानि तेषामिह सप्राणदर्शनस्य मन्थविज्ञानस्याधिगमे द्वे एव तीर्थे अनुज्ञायेते पुत्रश्चान्तेवासी च ॥8-12 ॥
स्तर्त् ब्र्हुप् 6,3.13
चतुरौदुम्बरो भवति ।
औदुम्बरः स्रुव औदुम्बरश् चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ ।
दश ग्राम्याणि धान्यानि भवन्ति ।
व्रीहियवास् तिलमाषा अणुप्रियंगवो गोधूमाश् च मसूराश् च खल्वाश् च खलकुलाश् च ।
तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चति ।
आज्यस्य जुहोति

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc