भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 6.2

6.2.1

ब्र्हुप्भ्_6,1.14 सा ह वाक्प्रथमं बलिदानाय प्रवृत्ता ह किलोवाचोक्तवती यद्वा अहं वसिष्ठास्मि यन्मम वसिष्ठत्वं तत्तवैव तेन वसिष्ठगुणेन त्वं तद्वसिष्ठो ऽसीति ।
यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठो ऽसि या मम प्रतिष्ठा सा त्वमसीति ।
चक्षुः ।
समानमन्यत् ।
सम्पदायतनप्रजातित्वगिणान्क्रमेण समर्पितवन्तः ।
यद्येवं साधु बलिं दत्तवन्तो भवन्तो ब्रूत तस्य उ म एवङ्गुणविशिष्टस्य किमन्नं किं वास इति ।
आहुरितरे-यदिदं लोके किञ्च किञ्चिदन्नं नामाप्या श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यः ।
यच्च श्वान्नं कृभ्यन्नं कीटपतङ्गान्नं च तेन सह सर्वमेव यत्किञ्चित्प्राणिभिरद्यमानमन्नं तत्सर्वं तवान्नं सर्वं प्राणस्यान्नमिति दृष्टिरत्र विधीयते ।
केचितु सर्वभक्षणे दोषाभावं वदन्ति प्राणान्नविदः ।
तदसत् ।
शास्रान्तरेण प्रतिषिद्धत्वात् ।
तेनास्य विकल्प इति चेत् ।
न ।
अविधायकत्वात् ।
न ह वा अस्यानन्नं जग्धं भवतीति सर्वं प्राणस्यान्नमित्येतस्य विज्ञानस्य विहितस्य स्तुत्यर्थमेतत् ।
तेनैकवाक्यतापत्तेः ।
न तु शास्रान्तरविहितस्य बाधने सामर्थ्यमन्यपरत्वादस्य ।
प्राणमात्रस्य सर्वमन्नमित्येतद्दर्शनमिहि विधित्सितं न तु सर्वं भक्षयेदिति ।
यत्तु सर्वभक्षणे दोषाभावज्ञानं सन्मिथ्यैव प्रमाणाभावात् ।
विदुषः प्राणत्वात्सर्वान्नोपपत्तेः सामर्थ्याददोष एवेति चेत् ।
न ।
अशेषान्नत्वानुपपत्तेः ।
सत्यं यद्यपि विद्वान्प्राणो येन कार्यतकरणसंघातेन विशिष्टस्य विद्वत्ता तेन कार्यकरणसंघातेन कृमिकीटदेवाद्यशेषान्नभक्षणं नोपपद्यते ।
तेन तत्राशेषान्नभक्षणे दोषाभावज्ञापनमनर्थकम् ।
अप्राप्तत्वादशेषान्नभक्षणदोषस्य ।
ननु प्राणः सन्भक्षयत्येव कृमिकीटाद्यन्नमपि ।
बाढम् ।
किन्तु न तद्विषयः प्रतिषेधो ऽस्ति ।
तस्माद्दैवरक्तं किंशुकं तत्र दोषाभावः ।
अतस्तद्रूपेण दोषाभावज्ञापनमनर्थकम् ।
अप्राप्तत्वादशेषान्नभक्षणदेषस्य ।
येन तु कार्यकरणसंघातसम्बन्धेन प्रतिषेधः क्रियते तत्सम्बन्धेन त्विह नैव प्रतिप्रसवो ऽस्ति ।
तस्मात्तत्प्रतिषेधातिक्रमे दोष एव स्यादन्यविषयत्वान्न ह वा इत्यादेः ।
न च ब्राह्मणादिशरीरस्य सर्वान्नत्वदर्शनमिह विधीयते किन्तु प्राणमात्रस्यैव ।
यथा च सामान्येन सर्वान्नस्य प्राणस्य किञ्चिदन्नजातं कस्यचिज्जीवनहेतुः ।
यथा विषं विषजस्य क्रिमेस्तदेवान्यस्य प्राणान्नमपि सद्दृष्टमेव दोषमुत्पादयति मरणादिलक्षणम् ।
तथा सर्वान्नस्यापि प्राणस्य प्रतिषिद्धान्नभक्षणे ब्राह्मणत्वादिदेहसंबन्धाद्दोष एव स्यात् ।
तस्मान्मिथ्याज्ञानमेवाभक्ष्यभक्षणे दोषाभावज्ञानम् ।
आपो वास इत्यापो भक्षमाणा वासःस्थानीयास्तव ।
अत्र च प्राणस्याऽपो वास इत्येतद्दर्शनं विधीयते ।
न तु वासःकार्ये आपो विनियोक्तुं शक्याः ।
तस्माद्यथाप्राप्ते ऽब्भक्षणे दर्शनमात्रं कर्तव्यम् ।
न ह वा अस्य सर्वं प्राणस्यान्नमित्येवंविदो ऽनन्नमनदनीयं जग्धं भुक्तं न भवति ह ।
यद्यप्यनेनानदनीयं भुक्तमदनीयमेव भुक्तं स्यान्न तु तत्कृतदोषेण लिप्यत इत्येतद्विद्यास्तुतिरित्यवोचाम ।
तथा नानन्नं प्रतिगृहीतं यद्यप्यप्रतिघ्राह्यं हस्त्यादि प्रतिगृहीतं स्यात्तदप्यन्नमेव प्रतिग्राह्यं स्यात्तत्राप्यप्रतिग्राह्यप्रतिग्रहदोषेण न लिप्यत इति स्तुत्यर्थमेव य एवमेतदनस्य प्राणस्यान्नं वेद ।
फलं तु प्राणात्मभाव एव न त्वेतत्फलाभिप्रायेण किं तर्हि स्तुत्यभिप्रायेणेति ।
नन्वेतदेव फलं कस्मान्न भवति ।
न प्राणात्मदर्शिनः प्राणात्मभाव एव फलम् ।
तत्र च प्राणात्मभूतस्य सर्वात्मनो ऽनदनीयमप्याद्यमेव ।
तथाप्रतिग्राह्यमपि प्रतिग्राह्यमेवेति यथाप्राप्तमेवोपादाय विद्या स्तूयते ।
अतो नैव फलविधिसरूपता वाक्यस्य ।
यस्मादापो वासः प्राणस्य तस्माद्विद्वांसो ब्राह्मणाः श्रोत्रिया अधीतवेदा अशिष्यन्तो भोक्ष्यमाणा आचामन्त्यपो ऽशित्वाऽचामन्ति भुक्त्या चोत्तरकालमपो भक्षयन्ति ।
तत्र तेषामाचामतां को ऽभिप्राय इत्याह-एतमेवानं प्राणमनग्नं कुर्वन्तो मन्यन्ते ।
अस्ति चैतद्योयस्मै वासो ददाति स तमनग्नं करोमीति हि मन्यते ।
प्राणस्य चाऽपो वास इति ह्युक्तम् ।
यदपः पिबामि तत्प्राणस्य वासो ददामीति विज्ञानं कर्तव्यमित्येवमर्थमेतत् ।
ननु भोक्ष्यमाणो भुक्तवांश्च प्रयतो भविष्यामीत्याचामति ।
तत्र च प्राणस्यानग्नताकरणार्थत्वे च द्विकार्यताऽचमनस्य स्यात् ।
न च कार्यद्वयमाचमनस्यैकस्य युक्तम् ।
यदि प्रायत्यार्थं नानग्नतार्थमथानग्नतार्थं न प्रायत्यार्थम् ।
यस्मादेवं तस्माद्द्वितीयमाचमनान्तरं प्राणस्यानग्नताकरणाय भवतु ।
न ।
क्रियाद्वित्वोपपत्तेः ।
द्वे ह्येते क्रिये भोत्र्यमाणस्य भुक्तवतश्च यदाचमनं स्मृतिविहितं तत्प्रायत्यार्थं भवति ।
क्रियामात्रमेव न तु तत्र प्रायत्यं दर्शनाद्यपेक्षते ।
तत्र चाऽचमनाङ्गभूतास्वप्सु वासोविज्ञानं प्राणस्येतिकर्तव्यतया चोद्यते न तु तस्मिन्क्रियमाण आचमनस्य प्रायत्यर्थता वाध्यते क्रियान्तरत्वादाचमनस्य ।
तस्माद्भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं तत्रा ।
आपो वासः प्राणस्येति दर्शनमात्रं विधीयते ।
अप्राप्तत्वादन्यतः ॥14॥
इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य प्रथमं ब्राह्मणम् ॥1॥
स्तर्त् ब्र्हुप् 6,2.1
श्वेतकेतुर् वा आरुणेयः पन्चालानां परिषदम् आजगाम ।
स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् ।
तम् उदीक्ष्याभ्युवाद कुमारा3 इति ।
स भो3 इति प्रतिशुश्राव ।
अनुशिष्टो न्व् असि पित्रेति ।
ओम् इति होवाच

6.2.2

ब्र्हुप्भ्_6,2.1 श्वेतकेतुर्ह वा आरुणेयः इत्यस्य संबन्धः ।
खिलाधिकारो ऽयं तत्र यदनुक्तं तदुच्यते ।
सप्तमाध्यायान्ते ज्ञानकर्मसमुच्चयकारिणाग्नेर्मार्गयाचनं कृतम्-अग्ने नय सुपथेति ।
तत्रानेकेषां पथां सद्भावो मन्त्रेण सामर्थ्यात्प्रदर्शितः ।
सुपथेति विशेषणात् ।
पन्थानश्च कृतविपाकप्रतिपत्तिमार्गाः ।
वक्ष्यति च यत्कृत्वेत्यादि ।
तत्र च कति कर्मविपाकप्रतिपत्तिमार्गा इति सर्वसंसारगत्युपसंहारार्थो ऽयमारम्भः ।
एतावती हि संसारगतिः ।
एतावान्कर्मणो विपाकः स्वाभाविकस्य शास्रीयस्य च सविज्ञानस्येति ।
यद्यपि द्वया ह प्राजापत्या इत्यत्र स्वाभाविकः पाप्मा सूचितः ।
न च तस्येदं कार्यमिति विपाकः प्रदर्शितः ।
शास्रीयस्यैव तु विपाकः प्रदर्शितस्त्र्यन्नात्मप्रतिपत्त्यन्तेन ।
ब्रह्मविद्यारम्भे तद्वैराग्यस्य विवक्षितत्वात् ।
तत्रापि केवलेन कर्मणा पितृलोको विद्यया विद्यासंयुक्तेन च कर्मणा देवलोक इत्युक्तम् ।
तत्र केन मार्गेण पितृलोकं प्रतिपद्यते केन वा देवलोकमिति नोक्तम् ।
तच्चेह खिलप्रकरणे ऽशेषतो वक्तव्यमित्यत आरभ्यते ।
अन्ते च सर्वोपसंहारः शास्रस्येष्टः ।
अपि चैतावदमृतत्वमित्युक्तं न कर्मणो ऽमृतत्वाशास्तीति च तत्र हेतुर्नोक्तस्तदर्थश्चायमारम्भः ।
यस्मादियं कर्मणो गतिर्न नित्ये ऽमृतत्वे व्यापारो ऽस्ति तस्मादेतावदेवामृतत्वसाधनमिति सामर्थ्याद्धेतुत्वं संपद्यते ।
अपि चोक्तमग्निहोत्रे न त्वेवैनयोस्त्वमुत्क्रातिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृतिं न लोकं प्रत्युत्थायिनं वेत्थेति ।
तत्र प्रतिवचने ते वा एते आहुती हुते उत्क्रामत इत्यादिना आहुतेः कार्यमुक्तम् ।
तच्चैतत्कर्तुराहुतिलक्षणस्य कर्मणः फलम् ।
न हि कर्तारमनाश्रित्याऽहुतिलक्षणस्य कर्मणः स्वातन्त्र्येणोत्क्रान्त्यादिकार्यारम्भ उपपद्यते ।
कर्त्रर्थत्वात्कर्मणः कार्यारम्भस्य ।
साधनाश्रयत्वाच्च कर्मणः ।
तत्राग्निहोत्रस्तुत्यर्थत्वादग्निहोत्रस्यैव कार्यमित्युक्तं षट् प्रकारमपि ।
इह तु तदेव कर्तुः फलमित्युपदिश्यते ।
षट्प्रकारमपि कर्मफलविज्ञानस्य विवक्षितत्वात् ।
तद्द्वारेण च पञ्चाग्निदर्शनमिहोत्तरमार्गप्रतिपत्तिसाधनं विधित्सितम् ।
एवमशेषसंसारगत्युपसंहारः ।
कर्मकाण्डस्यैषा निष्ठेत्येतद्द्वयं दिदर्शयिषुराख्यायिकां प्रणयति ।
श्वेतकेतुर्नामतो ऽरुणस्यापत्यमारुणिस्तस्यापत्यमारुणेयः ।
हशब्द ऐतिह्यार्थः ।
वै निश्चयार्थः ।
पित्रानुशिष्टः सन्नात्मनो यशःप्रथनाय पञ्चालानां परिषदमागत्य जित्वा राज्ञो ऽपि परिषदं जेष्यामीति गर्वेण स आजगाम ।
जीवलस्यापत्यं जेवलिं पञ्चालराजं प्रवाहणनामानंस्वभृत्यैः परिचारयमाणमात्मनः परिचरणं कारयन्तमित्येतत् ।
स राजा पूर्वमेव तस्य विद्याभिमानगर्वं श्रुत्वा विनेतव्यो ऽयमिति मत्वा तमुदीक्ष्योत्प्रेक्ष्याऽगतमात्रमेवाभ्युवादाभ्युक्तवान्कुमारा3इति संबोध्य ।
भर्त्सनार्था प्लुतिः ।
एवमुक्तः स प्रतिशुश्राव भो3इति ।
भो3इत्यप्रतिरूपमपि क्षत्त्रियं प्रत्युक्तवान्क्रुद्धः सन् ।
अनुशिष्टो ऽनुशासितो ऽसि भवसि किं पित्रेत्युवाच राजा ।
प्रत्याहेतर ओंमिति बाढमनुशिष्टो ऽस्मि पृच्छ यदि संशयस्ते ॥1॥
स्तर्त् ब्र्हुप् 6,2.2
वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता3 इति ।
नेति होवाच ।
वेत्थो यथेमं लोकं पुनर् आपद्यन्ता3 इति ।
नेति हैवोवाच ।
वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर् न संपूर्यता3 इति ।
नेति हैवोवाच ।
वेत्थो यतिथ्याम् आहुत्यां हुतायाम् आपः पुरुषवाचो भूत्वा समुत्थाय वदन्ती3 इति ।
नेति हैवोवाच ।
वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा ।
यत् कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा ।
अपि हि न ऋषेर् वचः श्रुतं --
द्वे सृती अशृणवं पितॄणाम् अहं देवानाम् उत मर्त्यानाम् ।
ताभ्याम् इदं विश्वम् एजत् समेति यद् अन्तरा पितरं मातरं चेति ।
नाहम् अत एकं चन वेदेति होवाच

6.2.3

ब्र्हुप्भ्_6,2.2 यद्येवं वेत्थ विजानासि किं यथा येन प्रकारेणेमाः प्रजाः प्रसिद्धाः प्रयत्यो म्रियमाणा विप्रतिपद्यन्ता3इति विप्रतिपद्यन्ते विचारणार्था प्लुतिः ।
समानेन मार्गेण गच्छन्तीनां मार्गद्वैविध्यं यत्र काश्चित्प्रजा अन्येन मार्गेण गच्छन्ति काश्चिदन्येनेति विप्रतिपत्तिः ।
यथा ताः प्रजा विप्रतिपद्यन्ते तत्किं वेत्थेत्यर्थः ।
नेति होवाचेतरः ।
तर्हि वेत्थ उ यथेमं लोकं पुनरापद्यन्ता3इति पुनरापद्यन्ते यथा पुनरागच्छन्तीमं लोकम् ।
नेति हैवोवाच श्वेतकेतुः ।
वेत्थो यथासौ लोकः एवं प्रसिद्धेन न्यायेन पुनः पुनरसकृत्प्रयद्भिर्मरियमाणैर्यथायेन प्रकारेण न संपूर्यता3इति न संपूर्यते ऽसौ लोकस्तत्किं वेत्थ ।
नेति हैवोवाच ।
वेत्थो यतिथ्यां यत्संख्याकायामाहुत्यामाहुतौ हुतायामापः पुरुषवाचः पुरुषस्य या वाक्सैव यासां वाक्ताः पुरुषवाचो भूत्वा पुरुषशब्दवाच्या वा भूत्वा ।
यदा पुरुषाकारपरिणतास्तदा पुरुषवाचो भवन्ति ।
समुत्थाय सम्यगुत्थायोद्भूताः सत्यो वदन्ती3इति ।
नेति हैवोवाच ।
पुरुषाकारपरिणतास्तदा पुरुषवाचो भवन्ति ।
समुत्थाय सम्यगुत्थायोद्भूताः सत्यो वदन्ती3इति ।
नेति हैवोवाच ।
यद्येवं वेत्थ उ देवयानस्य पथो मार्गस्य प्रतिपदं प्रतिपद्यते येन सा प्रतिपत्तां प्रतिपदं पितृयाणस्य वा प्रतिपदं प्रतिपच्छब्दवाच्यमर्थमाह ।
यत्कर्म कृत्वा यथाविशिष्टं कर्म कृत्वेत्यर्थः ।
देवयानं वा पन्थानं मार्गं प्रतिपद्यन्ते पितृयाणं वा यत्कर्म कृत्वा प्रतिद्यन्ते तत्कर्म प्रतिपदिच्यते तां प्रतिपदं किं वेत्थ देवलोकपितृलोकप्रतिपत्तिसाधनं किं वेत्थेत्यर्थः ।
अप्यत्रास्यार्थस्य प्रकाशकमृषेर्मन्त्रस्य वचो वाक्यं नः श्रुतमस्ति ।
मन्त्रो ऽप्यस्यार्थस्य प्रकाशको विद्यत इत्यर्थः ।
को ऽसौ मन्त्र इति ।
उच्यते-द्वे सृती द्वौ मार्गावशृणवं शृतवानस्मि तयोरेका पितृणां प्रापिका पितृलोकसंबद्धा तया सृत्या पितृलोकं प्राप्नोतीत्यर्थः ।
अहमशृणवमिति व्यवहितेन संबन्धः ।
देवानामुतापि देवानां संबन्धिन्यन्या देवान्प्रापयति सा ।
के पुनरुभाभ्यां सृतिभ्यां पितॄन्देवांश्च गच्छन्तीति ।
उच्यते-उतापि मर्त्यानां मनुष्याणां संबन्धिन्यौ मनुष्या एव हि सृतिभ्यां गच्छन्तीत्यर्थः ।
ताभ्यां सृतिह्यामिदं विश्वं समस्तमेतद्गच्छत्समेति संगच्छते ।
ते च द्वे सृती यदन्तरा ययोरन्तरा यदन्तरा पितरं मातरं च मातापित्रोरन्तरा मध्य इत्यर्थः ।
कौ तौ मातापितरौ द्यावापृथिव्यावण्डकपाले ।
इयं वै मातासौ पितेति हि व्याख्यातं ब्राह्मणेन ।
अण्डकपालयोर्मध्ये संसारविषये एवैते सृती नाऽत्यन्तिकामृतत्वगमनाय ।
इतर आह-नाहमतो ऽस्मात्प्रश्नसमुदायादेकञ्चनैकमपि प्रश्नं न वेद नाहं वेदेति होवाच श्वेतकेतुः ॥2॥
स्तर्त् ब्र्हुप् 6,2.3
अथैनं वसत्योपमन्त्रयां चक्रे ।
अनादृत्य वसतिं कुमारः प्रदुद्राव ।
स आजगाम पितरम् ।
तं होवाच -- इति वाव किल नो भवान् पुरानुशिष्टान् अवोच इति ।
कथम् सुमेध इति ।
पञ्च मा प्रश्नान् राजन्यबन्धुर् अप्राक्षीत् ।
ततो नैकं चन वेदेति ।
कतमे त इति ।
इम इति ह प्रतीकान्य् उदाजहार

6.2.4

ब्र्हुप्भ्_6,2.3 अथानन्तरमपनीय विद्याभिमानगर्वमेनं प्रकृतं श्वेतकेतुं वसत्या वसतिप्रयोजनेनोपमन्त्रयाञ्चक्रे ।
इह वसन्तु भवन्तः पाद्यमर्प्यं चाऽनीयतामित्युपमन्त्रणं कृतवान्राजा ।
अनादृत्य तां वसतिं कुमारः श्वेतकेतुः प्रदुद्राव प्रतिगतवान्पितरं प्रति ।
स चाऽजगाम पितरमागत्य चोवाच तं कथमिति वाव किलैवं किल नो ऽस्मान्भवान्पुरा समावगतवान्पितरं प्रति ।
स चाऽजगाम पितरमागत्य चोवाच तं कथमिति वाव किलैवं किल नो ऽस्मान्भवान्पुरा समावर्तनकाले ऽनुशिष्टान्सर्वाभिर्विद्याभिरवोचो ऽवोचदिति ।
सोपालम्भं पुत्रस्य वचः श्रुत्वाऽह पिता ।
कथ केन प्रकारेण तव दुःखमुपजातं हे सुमेधः शोभना मेधा यस्येति सुमेधाः ।
शृणु मम यथा वृत्तं पञ्च पञ्चसंख्याकान्प्रश्नान्मा मां राजन्यबन्धू राजन्या बन्धवो यस्येति ।
परिभववचनमेतद्राजन्यबन्धुरिति ।
अप्राक्षीत्पृष्टवांस्ततस्तस्मान्नैकञ्चनैकमपि न वेद न विज्ञातवानस्मि ।
कतमे ते राज्ञाः पृष्टाः प्रश्ना इति पित्रोक्तः पुत्र इमे त इति ह प्रतीकानि मुखानि प्रश्नानामुदाजहारोदाहृतवान् ॥3॥
स्तर्त् ब्र्हुप् 6,2.4
स होवाच -- तथा नस् त्वं तत जानीथा यथा यद् अहं किंच वेद सर्वम् अहं तत् तुभम् अवोचम् ।
प्रेहि तु तत्र ।
प्रतीत्य ब्रह्मचर्यं वत्स्याव इति ।
भवान् एव गच्छत्व् इति ।
स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेर् आस ।
तस्मा आसनम् आहृत्योदकम् आहारयां चकार ।
अथ हास्मा अर्घ्यं चकार ।
तं होवाच -- वरं भगवते गौतमाय दद्म इति

6.2.5

ब्र्हुप्भ्_6,2.4 स होवाच पिता पुत्रं क्रुद्धमुपशमयंस्तथा तेन प्रकारेण नो ऽस्मांस्त्वं हे तात वत्स जानीथा गृह्णीथा यथा यदहं किञ्च विज्ञानजातं वेद सर्वं ततुभ्यमवोचमित्येव जानीथाः ।
को ऽन्यो मम प्रियतरो ऽस्ति त्वत्तो यदर्थंरक्षिष्ये ।
अहमप्येतन्न जानामि यद्राज्ञा पृष्टम् ।
तस्मात्प्रेह्यागच्छ तत्र प्रतीत्य गत्वा राज्ञि ब्रह्मचर्यं वत्स्यावो विद्यार्थमिति ।
स आह भवानेव गच्छत्विति नाहं तस्य मुखं निरीक्षितुमुत्सहे ।
स आजगाम गौतमो गोत्रतो गौतम आरुणिर्यत्र प्रवाहणस्य जैवलेरासाऽसनमास्थायिका षष्ठीद्वयं प्रथममास्थाने ।
तस्मै गौतमायाऽगतायाऽसनमनुरूपमाहृत्योदकं भृत्यैराहारयाञ्चकार ।
अथ हास्मा अर्ध्यं पुरोधसा कृतवान्मन्त्रवन्मधुपर्कं च ।
कृत्वा चैवं पूजां तं होवाच वरं भगवते गौतमाय तुभ्यं दद्भ इति गोश्वादिलक्षणम् ॥4॥
स्तर्त् ब्र्हुप् 6,2.5
स होवाच -- प्रतिज्ञतो म एष वरः ।
यां तु कुमारस्यान्ते वाचम् अभाषथास् तां मे ब्रूहीति

6.2.6

ब्र्हुप्भ्_6,2.5 स होवाच गौतमः प्रतिज्ञातो मे ममैष वरस्त्वयास्यां प्रतिज्ञायां दृढी कुर्वात्मानं यां तु वाचं कुमारस्य मम पुत्रस्यान्ते समीपे वाचमभाषथाः प्रश्नरूपां तामेव मे ब्रूहि स एव नो वर इति ॥5॥
स्तर्त् ब्र्हुप् 6,2.6
स होवाच -- दैवेषु वै गौतम तद् वरेषु ।
मानुषाणां ब्रूहीति

6.2.7

ब्र्हुप्भ्_6,2.6 स होवाच राजा दैवेषु वरेषु तद्वै गौतम यस्त्वं प्रार्थयसे मानुषाणामन्यतमं प्रार्थय वरम् ॥6॥
स्तर्त् ब्र्हुप् 6,2.7
स होवाच -- विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य ।
मा नो भवान् बहोर् अनन्तस्यापर्यन्तस्याभ्यवदान्यो भूद् इति ।
स वै गौतम तीर्थेनेच्छसा इति ।
उपैम्य् अहं भवन्तम् इति ।
वाचा ह स्मैव पूर्व उपयन्ति ।
स होपायनकीर्त्योवास

6.2.8

ब्र्हुप्भ्_6,2.7 स होवाच गौतमो भवतापि विज्ञायते ह ममास्ति सः ।
न तेन प्रार्थितेन कृत्यं मम यं त्वं दित्ससि मानुषं वरम् ।
यस्मान्ममाप्यस्ति हिरण्यस्य प्रभूतस्यापात्तं प्राप्तं गोऽअश्वानानामापात्तमस्तीति सर्वत्रानुषङ्गो दासीनां प्रवाराणां परिवाराणां परिधानस्य च ।
न च यन्मम विद्यमानं तत्त्वत्तः प्रार्थनीयं त्वया वा देयम् ।
प्रतिज्ञातश्च वरस्त्वया त्वमेव जानीषे यदत्र युक्तं प्रतिज्ञा रक्षणीया तवेति ।
मम पुनरयमभिप्रायो मा भून्नो ऽस्मानभ्यस्मानेव केवलान्प्रति भवान्सर्वत्र वदान्यो भूत्वावदान्यो मा भूत्कदर्यो मा भूदित्यर्थः ।
बहोः प्रभूतस्यानन्तस्यानन्तफलस्येत्येतत् ।
अपर्यन्तस्यापरिसमाप्तिकस्य पुत्रपौत्रादिगामिकस्येत्येतत् ।
ईदृशस्य वित्तस्य मां प्रत्येव केवलमादाता मा भूद्भवान् ।
न चान्यत्रादेयमस्ति भवतः ।
एवमुक्त आह-स त्वं वै हे गौतम तीर्थेन न्यायेन शास्रविहितेन विद्यां मत्त इच्छासा इच्छान्वाप्तुमित्युक्तो गौतम आह-उपैम्युपगच्छामि शिष्यत्वेनाहं भवन्तमिति ।
वाचा ह स्मैव किल पूर्व ब्राह्मणाः क्षत्त्रियान्विद्यार्थिनः सन्तो वैश्यान्वा क्षत्त्रिया वा वैश्यानापद्युपयन्ति शिष्यवृत्त्या ह्युपच्छन्ति नोपायनशुश्रूषादिबिः ।
अतः ।
स गौतमो होपायनकोर्त्योपगमनकीर्तनमात्रेणैवोवासोषितवान्नोपायनं चकार ॥7॥
स्तर्त् ब्र्हुप् 6,2.8
स होवाच -- तथा नस् त्वम् गौतम मापराधास् तव च पितामहाः ।
यथेयं विद्येतः पूर्वं न कस्मिंश् चन ब्राह्मन उवास ।
तां त्व् अहं तुभ्यं वक्ष्यामि ।
को हि त्वैवं ब्रुवन्तम् अर्हति प्रत्याख्यातुम् इति

6.2.9

ब्र्हुप्भ्_6,2.8 एवं गौतमेनाऽपदन्तर उक्ते स होवाच राजा पीडितं मत्वा क्षामयंस्तथा नो ऽस्मान्प्रति मापराधा अपराधं मा कार्षीरस्मदीयो ऽपराधो न ग्रहीतव्य इत्यर्थः ।
तव च पितामहा अस्मत्पितामहेषु यतापराधं न जगृहुस्तथा पितामहानां वृत्तमस्मास्वपि भवता रक्षणीयमित्यर्थः ।
यथेयं विद्या त्वया प्रार्थितेतस्त्वत्संप्रदानात्पूर्वं प्राङ्न कस्मिन्नपि ब्राह्मण उवासोषितवतीतथा त्वमपि जानीषे सर्वदा क्षत्त्रियपरम्परयेयं विद्याऽगता सा स्थितिर्मयापि रक्षणीया यदि शक्यत इत्युक्तं दैवेषु गौतम तद्वरेषु मानुषाणां ब्रूहीति न पुनस्तवादेयो वर इतीतः पर न शक्यते रक्षितुम् ।
तामपि विद्यामहं तुभ्यं वक्ष्यामि को ह्यन्यो ऽपि हि यस्मादेवं ब्रुवन्तं त्वामर्हति प्रत्याख्यातुं न वक्ष्यामीति ।
अहं पुनः कथं न वक्ष्ये तुभ्यमिति ॥8॥
स्तर्त् ब्र्हुप् 6,2.9
असौ वै लोको ऽग्निर् गौतम ।
तस्यादित्य एव समित् ।
रश्मयो धूमः ।
अहर् अर्चिः ।
दिशो ऽङ्गाराः ।
अवान्तरदिशो विष्फुलिङ्गाः ।
तस्मिन्न् एतस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति ।
तस्या आहुत्यै सोमो राजा संभवति

6.2.10

ब्र्हुप्भ्_6,2.9 असौ वै लोको ऽग्निर्गोतमेत्यादिचतुर्थः प्रश्नः प्राथम्येन निर्णीयते ।
क्रमभङ्गस्त्वेतन्निर्णयायत्तत्वादितरप्रस्ननिर्णयस्य ।
असौ द्यौर्लोको ऽग्निर्हे गौतम द्युलोके ऽग्निदृष्टिरनग्नौ विधीयते यथा योषित्पुरुषयोस्तस्य द्युलोकाग्नेरादित्य एव समित्समिन्धनात् ।
आदित्येन हि समिध्यते ऽसौ लोकः ।
रश्मयो धूमः समिध उथ्थानसामान्यात् ।
आदित्याद्धि रश्मयो निर्गताः ।
समिधश्च धूमो लोक उत्तिष्ठति ।
अहरर्चिः प्रकाशसामान्यात् ।
दिशो ऽङ्गारा उपशमसामान्यात् ।
अवान्तरदिषो विस्फुलिङ्गा विस्फुलिङ्गवद्विक्षेपात् ।
तस्मिन्नेतस्मिन्नेवङ्गुणविशिष्टे द्युलोकाग्नौ देवा इन्द्रादयः श्रद्धां जुह्वत्याहुतिद्रव्यस्थानीयां प्रक्षिपन्ति ।
तस्या आहुत्या आहुतेः सोमो राजा पितॄणां ब्राह्मणानां च संभवति ।
तत्र के देवाः कथं जुह्वति किंवा श्रद्धाख्यं हविरित्यत उक्तमस्माभिः संबन्धे ।
न त्वेवैनयोस्त्वमुत्क्रान्तिमित्यादिपदार्थषट्कनिर्णयार्थमग्निहोत्र उक्तम् ।
ते वा एते अग्निहोत्राहुती हुते सत्यावुत्क्रामतः ।
ते अन्तरिक्षमाविशतः ।
ते अन्तरिक्षमाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिम् ।
ते अन्तरिक्षन्तर्पयतः ।
ते तत उत्क्रामतः ।
ते दिवमाविशतः ।
ते दिवमाहवनीयं कुर्वाते आदित्यं समिधमित्येवमाद्युक्तम् ।
तत्राग्निहोत्राहुती ससाधने एवोत्क्रामतः ।
यथेह यैः साधनैर्विशिष्टे ये ज्ञायेते आहवनीयाग्निसमिद्धूमाङ्गारविस्फुलिङ्गाहुतिद्रव्यैस्ते तथैवोत्क्रामतो ऽस्माल्लोकादमुं लोकम् ।
तत्राग्निरग्नित्वेन समित्समित्त्वेन धूमो धूमत्वेनाङ्गारा अङ्गारत्वेन विस्फुलिङ्गत्वेनाऽहुतिद्रव्यमपि पय आद्याहुतिद्रव्यत्वेनैव सर्गादावव्याकृतावस्थायामपि परेणसूक्ष्मेणाऽत्मना व्यवतिष्ठते ।
तद्विद्यमानमेव ससाधनमग्निहोत्रलक्षणं कर्मापूर्वेणाऽत्मना व्यवस्थितं सत्तत्पुनर्व्याकरणकाले तथैवान्तरिक्षादीनामाहवनीयाद्यग्न्यादिभावं कुर्वद्विपरिणमते ।
तथैवेदानीमप्यग्निहोत्राख्यं कर्म ।
एवमग्निहोत्राहुत्यपूर्वविपरिणामात्मकं जगत्सर्वमित्याहुत्योरेव स्तुत्यर्थत्वेनोत्क्रान्त्याद्या लोकं प्रत्युत्थायिनान्ताः षट् पदार्थाः कर्मप्रकरणे ऽधस्तान्निर्णीताः ।
इह तु कर्तुः कर्मविवक्षायां द्युलोकाग्न्याद्यारभ्य पञ्चाग्निदर्शनमुत्तरमार्गप्रतिपत्तिसाधनं विशिष्टकर्मफलोपभोगाय विधित्सितमिति द्युलोकाग्न्यादिदर्शनं प्रस्तूयते ।
तत्र य आध्यात्मिकाः प्राणा इहाग्निहोत्रस्य होतारस्त एवाऽधिदैविकत्वेन परिणताः सन्त इन्द्रादयो भवन्ति त एव तत्र होतारो द्युलोकाग्नौ ।
ते चेहाग्निहोत्रस्य फलभोगायाग्निहोत्रं हुतवन्तः ।
त एव फलपरिणामकाले ऽपि तत्फलभोक्तृत्वात्तत्र तत्र होतृत्वं प्रतिपद्यन्ते तथा तथा विपरिणममाना देवशब्दवाच्याः सन्तः ।
अत्र च यत्पयोद्रव्यमग्निहोत्रकर्माश्रयभूतमिहाऽहवनीये प्रक्षिप्तमग्निना भक्षितमदृष्टेन सूक्ष्मेम रूपेण विपरिणतं सह कर्त्रा यजमानेनामुं लोकं धूमादिक्रमेणान्तरिक्षाद्द्युलोकमाविशति ।
ताः सूक्ष्मा आप आहुतिकार्यभूता अग्निहोत्रसमवायिन्यः कर्तृसहिताः श्रद्धाशब्दवाच्याः सोमलोके कर्तुः शरीरान्तरारम्भाय द्युलोकं प्रविशन्त्यो हूयन्ते इत्युच्यन्ते ।
तास्तत्र द्युलोकं प्रविश्य सोममण्डले कर्तुः शरीरमारभन्ते ।
तदेतदुच्यते देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा संभवतीति ।
"श्रद्धा वा आपः"इति श्रुतेः ।
वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्तोति प्रश्नस्तस्य च निर्णयविषये ऽसौ वै लोको ऽग्निरिति प्रस्तुतम् ।
तस्मादापः कर्मसमावायिन्यः कर्तुः शरीरारम्भिकाः श्रद्धाशब्दवाच्या इति निश्चीयते ।
भूयस्त्वादापः पुरुषवाच इति व्यपदेशो न त्वितराणि भूतानि न सन्तीति ।
कर्मप्रयुक्तश्च शरीरारम्भः ।
कर्म चाप्समवायि ।
ततश्चापां प्राधान्यं शरीरकर्तृत्वे ।
तेन चाऽपः पुरुषवाच इति व्यपदेशः ।
कर्मकृतो हि जन्मारम्भः सर्वत्र ।
तत्र यद्यप्यग्निहोत्राहुतिस्तुतिद्वारेणोत्क्रान्त्यादयः प्रस्तुताः षट्पदार्था अग्निहोत्रे तथापि वैदिकानि सर्वाण्येव कर्माण्यग्निहोत्रप्रभृतीनि लक्ष्यन्ते ।
दाराग्निसंबद्धं हि पाङ्क्तं कर्म प्रस्तुत्योक्तम्-कर्मणा पितृलोक इति ।
वक्ष्यति च-अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्तीति ॥9॥
स्तर्त् ब्र्हुप् 6,2.10
पर्जन्यो वा अग्निर् गौतम ।
तस्य संवत्सर एव समित् ।
अभ्राणि धूमः ।
विद्युद् अर्चिः ।
अशनिर् अङ्गाराः ।
ह्रादुनयो विष्फुलिङ्गाः ।
तस्मिन्न् एतस्मिन्न् अग्नौ देवाः सोमं राजानं जुह्वति ।
तस्या आहुत्यै वृष्टिः संभवति

6.2.11

ब्र्हुप्भ्_6,2.10 पर्जन्यो वा अग्निर्गौतम द्वितीय आहुत्याधार आहुत्योरावृत्तिक्रमेण ।
पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवतात्मा ।
तस्य संवत्सर एव समित् ।
संवत्सरेण हि शरदादिभिर्ग्रीष्मान्तैः स्वावयवैर्वपरिवर्तमानेन पर्जन्यो ऽग्निर्दीप्यते ।
अभ्राणि धूमः ।
धूमप्रभवत्वाद्धूमवदुपलक्ष्यत्वाद्वा ।
विद्युदर्चिः ।
प्रकाशसामान्यात् ।
अशनिरङ्गाराः ।
उपशान्तकाठिन्यसामान्याभ्याम् ।
ह्रादुनयो ह्लादुनयः स्तनयित्नुशब्दा विस्फुलिङ्गाः ।
विक्षेपानेकत्वसामान्यात् ।
तस्मिन्नेतस्मिन्नित्याहुत्यधिकरणनिर्देशः ।
देवा इति त एव होतारः सोमं राजानं जुह्वति ।
यो ऽसौ द्युलोकाग्नौ श्रद्धायां हुतायामभिनिर्वृत्तः सोमः स द्वितीये पर्जन्याग्नौ हूयते ।
तस्याश्च सोमाहुतेर्वृष्टिः संभवति ॥10॥
स्तर्त् ब्र्हुप् 6,2.11
अयं वै लोको ऽग्निर् गौतम ।
तस्य पृथिव्य् एव समित् ।
अग्निर् धूमः ।
रात्रिर् अर्चिः ।
चन्द्रमा अङ्गाराः ।
नक्षत्राणि विष्फुलिङ्गाः ।
तस्मिन्न् एतस्मिन्न् अग्नौ देवा वृष्टिं जुह्वति ।
तस्या आहुत्या अन्नं संभवति

6.2.12

ब्र्हुप्भ्_6,2.11 अयं वै लोको ऽग्निर्गोतम ।
अयं लोक इति प्राणिजन्मोपभोगाश्रयः क्रियाकारकफलविशिष्टः स तृतीयो ऽग्निः ।
तस्याग्नेः पृथिव्येव समित् ।
पृथिव्या ह्ययं लोको ऽनेकप्राण्युपभोगसंपन्नया समिध्यते ।
अग्निर्धूमः ।
पृथिव्याश्रयोत्थानसामान्यात् ।
पार्थिवं हीन्धनद्रव्यमाश्रित्याग्निरुत्तिष्ठति ।
यथा समिदाश्रयेन धूमः ।
रात्रिरर्चिः ।
समित्संबन्धप्रभवसामान्यात् ।
अग्नेः समित्संबन्धेन ह्यर्चिः संभवति ।
तथा पृथिवीसमित्संबन्धेन शर्वरी ।
पृथिवीछायां हि शार्वरं तं आचक्षते ।
चन्द्रमा अङ्गाराः ।
तत्प्रभवत्वसामान्यात् ।
अर्चिषो ह्यङ्गाराः प्रभवन्ति तथा रात्रौ चन्द्रमाः ।
उपशान्तत्वसामान्याद्वा ।
नक्षत्राणि विस्फुलिङ्गाः ।
बिस्फुलिङ्गवद्विक्षेपसामान्यात् ।
तस्मिन्नेतस्मिन्नित्यादि पूर्ववत् ।
वृष्टिं जुह्वति तस्या आहुतेरन्नं संभवति ।
वृष्टिप्रभवत्वस्य प्रसिद्धत्वाद्व्रीहियवादेरन्नस्य ॥11॥
स्तर्त् ब्र्हुप् 6,2.12
पुरुषो वा अग्निर् गौतम ।
तस्य व्यात्तम् एव समित् ।
प्राणो धूमः ।
वाग् अर्चिः ।
चक्षुर् अङ्गाराः ।
श्रोत्रं विष्फुलिङ्गाः ।
तस्मिन्न् एतस्मिन्न् अग्नौ देवा अन्नं जुह्वति ।
तस्या आहुत्यै रेतः संभवति

6.2.13

ब्र्हुप्भ्_6,2.12 पुरुषो वा अग्निर्गौतम प्रसिद्धः शिरःपाण्यादिमान्पुरुषश्चतुर्थो ऽग्निस्तस्य व्यात्तं विवृतं मुखं समित् ।
विवृतेन हि मुखेन दीप्यते पुरुषो वचनस्वाध्यायादौ ।
यथा समिधाग्निः प्राणो धूमस्तदुत्थानसामान्यात् ।
मुखाद्धि प्राण उत्तिष्ठति ।
वाक्यशब्दो ऽर्चिर्व्यञ्जकत्वसामान्यात् ।
अर्चिश्च व्यञ्जकम् ।
तथा वाक्शब्दो ऽभिधेयव्यञ्जकः ।
चक्षुरङ्गारा उपशमसामान्यात्प्रकाशाश्रयत्वाद्वा ।
श्रोत्रं विस्फुलिङ्गा विक्षेपसामान्यात् ।
तस्मिन्नन्नं जुह्वति ।
ननु नैव देवा अन्नमिह जुह्वतो दृश्यन्ते ।
नैष दोषः ।
प्राणानां देवत्वोपपत्तेः ।
अधिदैवमिन्द्रादयो देवास्त एवाध्यात्मं प्राणास्ते चान्नस्य पुरुषे प्रक्षेप्तारः ।
तस्या आहुते रेतः संभवति ।
अन्नपरिणामो हि रेतः ॥12॥
स्तर्त् ब्र्हुप् 6,2.13
योषा वा अग्निर् गौतम ।
तस्या उपस्थ एव समित् ।
लोमानि धूमः ।
योनिर् अर्चिः ।
यद् अन्तः करोति ते ऽङ्गाराः ।
अभिनन्दा विष्फुलिङ्गाः ।
तस्मिन्न् एतस्मिन्न् अग्नौ देवा रेतो जुह्वति ।
तस्या आहुत्यै पुरुषः संभवति ।
स जीवति यावज् जीवति ।
अथ यदा म्रियते

6.2.14

ब्र्हुप्भ्_6,2.13 योषा वा अग्निर्गौतम ।
योषेति स्री पञ्चमो होमाधिकरणो ऽग्निस्तस्या उपस्थ एव समित् ।
तेन हि सा समिध्यते ।
लोमानि धूमस्तदुत्थानसामान्यात् ।
योनिरर्चिर्वर्णसामान्यात् ।
यदन्तः करोति ते ऽङ्गारा अन्तः करणं मैथुनव्यापारस्ते ऽङ्गारा वीर्योपशमहेतुत्वसामान्यात् ।
वीर्याद्युपशमकारणं मैथुनम् ।
तथाङ्गारभावो ऽग्नेरुपशमकारणम् ।
अभिनन्दाः सुखलवाः क्षुद्रत्वसामान्याद्विस्फुलिङ्गाः ।
तस्मिन्रेतो जुह्वति ।
तस्या आहुतेः पुरुषः संभवति ।
एवं द्युपर्जन्यायंलोकपुरुषयोषाग्निषु क्रमेम हूयमानाः श्रद्धासोमवृष्ट्यन्नरेतोभावेन स्थूलतारतम्यक्रममापद्यमानाः श्रद्धाशब्दवाच्या आपः पुरुषशब्दमारभन्ते ।
यः प्रश्नश्चतुर्थो वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरषवाचो भूत्वा समुत्थाय वदन्ती3इति स एष निर्णीतः ।
पञ्चम्यामाहुतौ योषाग्नौ हुतायां रेतोभूता आपः पुरुषवाचो भवन्तीति ।
स पुरुष एवं क्रमेण जातो जीवति ।
कियन्तं कालमिति ।
उच्यते-यावज्जीवति यावदस्मिञ्छरीरे स्थितिनिमित्तं कर्म विद्यते तावदित्यर्थः ।
अथ तत्क्षये यदा यस्मिकाले म्रियते ॥13॥
स्तर्त् ब्र्हुप् 6,2.14
अथैनम् अग्नये हरन्ति ।
तस्याग्निर् एवाग्निर् भवति ।
समित् समित् ।
धूमो धूमः ।
अर्चिर् अर्चिः ।
अङ्गारा अङ्गाराः ।
विष्फुलिङ्गा विष्फुलिङ्गाः ।
तस्मिन्न् एतस्मिन्न् अग्नौ देवाः पुरुषं जुह्वति ।
तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति

6.2.15

ब्र्हुप्भ्_6,2.14 अथ तदैनं मृतमग्नये ऽग्न्यर्थमेवान्त्याहुत्यै हरन्ति श्रत्विजस्तस्याऽहुतिभूतस्य प्रसिद्धो ऽग्निरेव होमाधिकरणं न परिकल्प्यो ऽग्निः ।
प्रसिद्धैव समित्समिद्धूमो धूमो ऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गा यथाप्रसिद्धमेव सर्वमित्यर्थः ।
तस्मिन्पुरुषमन्त्याहुतिं जुह्वति तस्या आहुत्या आहुतेः पुरुषो भास्वरवर्णो ऽतिशयदीप्तिमान्निषेकादिभिरन्त्याहुत्यन्तैः कर्मभिः संस्कृतत्वात्संभवति निष्पद्यते ॥14॥
स्तर्त् ब्र्हुप् 6,2.15
ते य एवम् एतद् विदुर् ये चामी अरण्ये श्रद्धां सत्यम् उपासते ते ऽर्चिर् अभिसंभवन्ति ।
अर्चिषो ऽहः ।
अह्न आपूर्यमाणपक्षम् ।
आपूर्यमाणपक्षाद् यान् षण् मासान् उदङ्ङ् आदित्य एति ।
मासेभ्यो देवलोकम् ।
देवलोकाद् आदित्यम् ।
आदित्याद् वैद्युतम् ।
तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ।
ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति ।
तेषां न पुनर् आवृत्तिः

6.2.16

ब्र्हुप्भ्_6,2.15 इदानीं प्रथमप्रश्ननिराकरणार्थमाह-ते ।
के ।
य एवं यथोक्तं पञ्चाग्निदर्शनमेतद्विदुः ।
एवं शब्दादग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गश्रद्धादिविशिष्टाः पञ्चाग्नयो निर्दिष्टास्तानेवमेतान्पञ्चाग्नीन्विदुरित्यर्थः ।
नन्वग्निहोत्राहुतिदर्शनविषयमेवैतद्दर्शनम् ।
तत्र ह्युक्तमुत्क्रान्त्यादिपदार्थषट्कनिर्णये दिवमेवाऽहवनीयं कुर्वाते इत्यादि ।
इहाप्यमुष्य लोकस्याग्नित्वमादित्यस्य च समित्त्वमित्यादि बहु साम्यम् ।
तस्मात्तच्छेषमेवैतद्दर्शनमिति ।
न, यतिथ्यामिति प्रस्नप्रतिवचनपरिग्रहात् ।
यतिथ्यामित्यस्य प्रश्नस्य प्रतिवचनस्य यावदेव परिग्रहस्तावदेवैवंशब्देन पराम्रष्टुं युक्तम् ।
अन्यथा प्रश्नानर्थक्यान्निर्ज्ञातत्वाच्च संख्याया अग्नय एव वक्तव्याः ।
अथ निर्ज्ञातमप्यनूद्यते ।
यथाप्राप्तस्यैवानुवदनं युक्तं न त्वसौ लोको ऽग्निरिति ।
अथोपलक्षणार्थः तथाप्याद्येनान्त्येन चोपलक्षणं युक्तम् ।
श्रुत्यन्तराच्च ।
समाने हि प्रकरणे छान्दोग्यश्रुतौ पञ्चाग्नीन्वेदेति पञ्चसंख्याया एवोपादानादनग्निहोत्रशेषमेतत् ।
पञ्चाग्निदर्शनम् ।
यत्त्वग्निसमिदादिसामान्यं तदग्निहोत्रस्तुत्यर्थमित्यवोचाम ।
तस्मान्नोत्क्रान्त्यादिपदार्थषट्कपरिज्ञानादर्चिरादिप्रतिपत्तिः ।
एवमिति प्रकृतोपादानेनार्चिरादिप्रतिपत्तिविधानात् ।
के पुनस्ते य एवं विदुर्गृहस्था एव ।
ननु तेषां यज्ञादिसाधनेन धूमादिप्रतिपत्तिर्विधित्सित ।
न, अनेवंविदामपि गृहस्थानां यज्ञादिसाधनोपपत्तेः ।
भिक्षुवानप्रस्थयोश्चारण्यसंबन्धेन ग्रहणात् ।
गृहस्थकर्मसंबद्धत्वाच्चपञ्चाग्निदर्शनस्य ।
अतो नापि ब्रह्मचारिण एवं विदुरिति गृह्यन्ते ।
तेषां तूत्तरे पथि प्रवेशः स्मृतिप्रामाण्यात्-"अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ।
उत्तरेणार्यम्णः पन्थास्ते ऽमृतत्वं हि भेजिरे"इति ।
तस्माद्ये गृहस्था एवमग्निजो ऽहमग्न्यपत्यमित्येवं क्रमेणाग्निभ्यो जातो ऽग्निरूप इत्येवं ये विदुस्ते च ये चामी अरण्ये वानप्रस्थाः परिव्राजकाश्चारण्यनिष्ठाः श्रद्धां श्रद्धायुक्ताः स्नतः सत्यं ब्रह्म हिरण्यगर्भात्मानमुपासते न पुनः श्रद्धां चोपासते ते सर्वे ऽर्चिरभिसंभवन्ति ।
यावद्गृहस्थाः पञ्चाग्निविद्यां सत्यं वा ब्रह्म न विदुस्तावच्छ्रद्धाद्याहुतिक्रमेण पञ्चम्यामाहुतौ हुतायां ततो योषाग्नेर्जाताः पुनर्लोकं प्रत्युत्थायिनो ऽग्निहोत्रादिकर्मानुष्ठातारो भवन्ति ।
तेन कर्मणा धूमादिक्रमेण पुनः पितृलोकं पुनः पर्जन्यादिक्रमेणेममावर्तन्ते ।
पुनर्योषाग्नेर्जाताः पुनः कर्म कृत्वेत्येवमेव घटीयन्त्रवद्गत्यागतिभ्यां पुनः पुनरावर्तन्ते ।
यदा त्वेवं विदुस्ततो घटीयन्त्रभ्रमणाद्विनिर्मुक्ताः सन्तो ऽर्चिरभिसंभवन्ति ।
अर्चिरिति नाग्निज्वालामात्रं किं तर्ह्यर्चिरभिमानिन्यर्चिः शब्दवाच्या देवतोत्तरमार्गलक्षणा व्यवस्थितैव तामभिसंभवन्ति ।
न हि परिव्राजकानामग्न्यर्चिषैव साक्षात्संबन्धो ऽस्ति ।
तेन देवतैव परिगृह्यते ऽर्चिःशब्दवाच्या ।
अतो ऽहर्देवताम् ।
मरणकालनियमानुपपत्तेरहःशब्दो ऽपि देवतैव ।
आयुषः क्षये हि मरणम् ।
न ह्येवंविदाहन्येव मर्तव्यमित्यहर्मरणकालो नियन्तुं शक्यते ।
न च रात्रौ प्रेताः सन्तो ऽहः प्रतीक्षन्ते ।
"स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति"इति श्रुत्यन्तरात् ।
अह्न आपूर्यमाणपक्षमहर्देवतयातिवाहिता आपूर्यमाणपक्षदेवतां प्रतिपद्यन्ते शुक्लपक्षदेवतामित्येतत् ।
आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङुत्तरां दिशमादित्यः सवितैति तान्मासान्प्रतिपद्यन्ते शुक्लपक्षदेवतयातिवाहिताःसन्तः ।
मासानिति बहुवचनात्संघचारिण्यः षडुत्तरायणदेवतास्तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिता देवलोकाभिमानिनीं देवतां प्रतिपद्यन्ते ।
देवलोकादादित्यमादित्याद्वैद्युतं विद्युदभिमानिनीं देवतां प्रतिपद्यन्ते ।
विद्युद्देवतां प्राप्तान्ब्रह्मलोकवासी पुरुषो ब्रह्मणा मनसा सृष्टो मानसः कश्चिदेत्याऽगत्य ब्रह्मलोकान्गमयति ।
ब्रह्मलोकानित्यधरोत्तरभूमिभेदेन भिन्ना इति गम्यन्ते ।
बहुवचनप्रयोगात् ।
उपासनतारतम्योपपत्तेश्च ।
ते तेन पुरुषेण गमिताः सन्तस्तेषु ब्रह्मलोकेषु पराः प्रकृष्टाः सन्तः स्वयं परावतः प्रकृष्टाः समाः संवत्सराननेकान्वसन्ति ।
ब्रह्मणो ऽनेकान्कल्पान्वसन्तीत्यर्थः ।
तेषां ब्रह्मलोकं गतानां नास्ति पुनरावृत्तिरस्मिन्संसारे न पुनरागमनमिहेति शाखान्तरपाठात् ।
इहेत्याकृतिमात्रग्रहणमिति चेच्छ्वोभूते पौर्णमासीमिति यद्वत् ।
न, इहेतिविशेषणानर्थक्यात् ।
यदि हि नाऽवर्तन्त एवेहग्रहणमनर्थकमेव स्यात् ।
श्वोभूते पौर्णमासीमित्यत्र पौर्णमास्याः श्वोभूतत्वमनुक्तंन ज्ञायत इति युक्त विशेषयितुम् ।
न हि तत्र श्वआकृतिः शब्दार्थो विद्यत इति श्वशब्दो विरर्थक एव प्रयुज्यते ।
यत्र तु विशेषणशब्दे प्रयुक्ते ऽन्विष्यमाणे विशेषणफलं चेन्न गम्यते तत्र युक्तो निरर्थकत्वेनोत्स्रष्टुं विशेषणशब्दो न तु सत्यां विशेषणफलावगतौ ।
तस्मादस्मात्कल्पादूर्ध्वमावृत्तिर्गम्यते ॥15॥
स्तर्त् ब्र्हुप् 6,2.16
अथ ये यज्ञेन दानेन तपसा लोकाञ् जयन्ति ते धूमम् अभिसंभवन्ति ।
धूमाद् रात्रिम् ।
रात्रेर् अपक्षीयमाणपक्षम् ।
अपक्षीयमाणपक्षाद् यान् षण् मासान् दक्षिणादित्य एति ।
मासेभ्यः पितृलोकम् ।
पितृलोकाच् चन्द्रम् ।
ते चन्द्रं प्राप्यान्नं भवन्ति ।
तांस् तत्र देवा यथा सोमं राजानम् आप्यायस्वापक्षीयस्वेत्य् एवम् एनांस् तत्र भक्षयन्ति ।
तेषां यदा तत् पर्यवैत्य् अथेमम् एवाकाशम् अभिनिष्पद्यन्ते ।
आकाशाद् वायुम् ।
वायोर् वृष्टिम् ।
वृष्टेः पृथिवीम् ।
ते पृथिवीं प्राप्यान्नं भवन्ति ।
ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ।
लोकान् प्रत्युथायिनस् त एवम् एवानुपरिवर्तन्ते ।
अथ य एतौ पन्थानौ न विदुस् ते कीटाः पतङ्गा यद् इदं दन्दशूकम्

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc