भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 6.4

6.4.1

ब्र्हुप्भ्_6,3.13 चतुरौदुम्बरो भवतीति व्याख्यातम् ।
दश ग्राम्याणि भवन्ति ग्राम्याणां तु धान्यानां दश नियमेन ग्राह्या इत्यवोचाम ।
के त इति निर्दिश्यन्ते-व्रीहियवास्तिलमाषा अणुप्रियङ्गवो ऽणवश्चाणुशब्दवाच्याः क्वचिद्देशे ।
प्रियङ्गवः प्रसिद्धाः कङ्गुशब्देन ।
खल्वा निष्पावा वल्लशब्दवाच्या लोके खलकुलाः कुलत्थाः ।
एतद्व्यतिरेकेण यथाशक्ति सर्वौषधयो ग्राह्याः फलानि चेत्यवोचामायाज्ञिकानि वर्जयित्वा ॥13॥
इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य तृतीयं ब्राह्मणम् ॥2॥
स्तर्त् ब्र्हुप् 6,4.1
एषां वै भूतानां पृथिवी रसः ।
पृथिव्या आपः ।
अपाम् ओषधयः ।
ओषधीनां पुष्पाणि ।
पुष्पाणां फलानि ।
फलानां पुरुषः ।
पुरुषस्य रेतः

6.4.2

ब्र्हुप्भ्_6,4.1"सर्वेभ्यो ऽङ्गेभ्यस्तेजः संभूतम्"इति श्रुत्यन्तरात् ॥1॥
स्तर्त् ब्र्हुप् 6,4.2
स ह प्रजापतिर् ईक्षां चक्रे -- हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे ।
तां सृष्ट्वाध उपास्त ।
तस्मात् स्त्रियम् अध उपासीत ।
स एतं प्राञ्चं ग्रावाणम् आत्मन एव समुदपारयत् ।
तेनैनाम् अभ्यसृजत

6.4.3

ब्र्हुप्भ्_6,4.2 यत एवं सर्वभूतानां सारतममेतद्रेतो ऽतः का नु खल्वस्य योग्या प्रतिष्ठेति स ह स्रष्टा प्रजापतिरीक्षाञ्चके ।
ईक्षां कृत्वा स स्रियं ससृजे ।
तां च सृष्ट्वाध उपास्त मैथुनाख्यं कर्माधौपासनं नाम कृतवान् ।
तस्मात्स्रियमध उपासीत श्रेष्ठानुश्रयणा हि प्रजाः ।
अत्र वाजपेयसामान्यकॢप्तिमाह-स एतं प्राञ्चं प्रकृष्टगतियुक्तमात्मनो ग्रावाणं सोमाभिषवोपलस्थानीयं काठिन्यसामान्यात्प्रजननेन्द्रियमुदपारयदुत्पूरितवान्स्रीव्यञ्जनं प्रति तेनैनां स्रियमभ्यसृजदभिसंसर्गं कृतवान् ॥2॥
स्तर्त् ब्र्हुप् 6,4.3
तस्या वेदिर् उपस्थः ।
लोमानि बर्हिश् ।
चर्माधिषवणे ।
समिद्धो मध्यतस् तौ मुष्कौ ।
स यावान् ह वै वाजपेयेन यजमनस्य लोको भवति तावान् अस्य लोको भवति ।
य एवं विद्वान् अधोपहासं चरत्य् आसां स्त्रीणां सुकृतं वृङ्क्ते ।
अथ य इदम् अविद्वान् अधोपहासं चरत्य् आस्य स्त्रियः सुकृतं वृञ्जते

6.4.4

ब्र्हुप्भ्_6,4.3 एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहाधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः ।
तथा नाको मौद्गल्यः कुमारहारितश्च ।
किं त आहुरित्युज्यते-बहवो मर्या मरणधर्मिणो मनुष्या ब्राह्मणा अयनं येषां ते ब्रह्मणायना ब्रह्मबन्धवो जातिमात्रोपजीविन इत्येतत् ।
निरिन्द्रिया विश्लिष्टेन्द्रिया विसुकृतो विगतसुकृतकर्माणो ऽविद्वांसौ मैथुनकर्मासक्ता इत्यर्थः ।
ते किमस्माल्लोकात्प्रयन्ति परलोकात्परिभ्रष्टा इति मैथुनकर्मणो ऽत्यन्तपापहेतुत्वं दर्शयति-य इदमविद्वांसो ऽधोपहासं चरन्तीति ।
श्रीमन्थं कृत्वा पत्न्या ऋतुकालं ब्रह्मचर्येण प्रतीक्षते यदीद रतः स्कन्दति बहु वाल्पं वा सुप्तस्य वा जाग्रतो वा रागप्राबल्यात् ॥4॥
स्तर्त् ब्र्हुप् 6,4.4
एतद् ध स्म वै तद् विद्वान् उद्दालक आरुनिर् आह ।
एतद् ध स्म वै तद् विद्वान् नाको मौद्गल्य आह ।
एतद् ध स्म वै तद् विद्वान् कुमारहारित आह -- बहवो मर्या ब्राह्मनायना निरिन्द्रिया विसुकृतो ऽस्माल् लोकात् प्रयन्ति य इदम् अविद्वांसो ऽधोपहासं चरन्तीति ।
बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति

6.4.5

ब्र्हुप्भ्_6,4.4 एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहाधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः ।
तथा नाको मौद्गाल्य- कुमारहारितश्च ।
किं त आहुरित्युच्यते-बहवो मर्या मरणधर्मिणो मनुष्या ब्राह्मणा अयनं येषां ते ब्राह्मणायना ब्रह्मबन्धवो जातिमात्रोपजीविन इत्येतत् ।
निरिन्द्रिया विशिलष्टेन्द्रिया विसुकृतो विगतसुकृतकर्माणो ऽविद्वांसौ मैथुनकर्मासक्ता इत्यर्थः ।
ते किमस्माल्लोकात्प्रयन्ति परलोकात्परिभ्रष्टा इति मैथुनकर्मणो ऽत्यन्तपापहेतुत्वं दर्शयति-य इदमविद्वांसो ऽधोपहासं चरन्तीति ।
श्रीमन्थं कृत्वा पत्न्या श्रतुकालं ब्रह्मचर्येण प्रतीक्षते यदीद रतः स्कन्दति बहु वाल्पं वा सुप्तस्य वा जाग्रतो वा रागप्राबल्यात् ॥4॥
स्तर्त् ब्र्हुप् 6,4.5
तद् अभिमृशेद् अनु वा मन्त्रयेत -- यन् मे ऽद्य रेतः पृथिवीम् अस्कान्त्सीद् यद् ओषधीर् अप्य् असरद् यद् अपः ।
इदम् अहं तद् रेत आददे ।
पुनर् माम् ऐतु इन्द्रियं पुनस् तेजः पुनर् भगः ।
पुनर् अग्निर् धिष्ण्या यथास्थानं कल्पन्ताम् ।
इत्य् अनामिकाङ्गुष्ठाभ्याम् आदायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात्

6.4.6

ब्र्हुप्भ्_6,4.5 तदभिमृशेदनुमन्त्रयेत वानुजपेदित्यर्थः ।
यदाभिमृशति तदानामिकाङ्गुष्ठाभ्यां तद्रेत आददे इत्येवमन्तेन मन्त्रेण पुनर्मामित्येतेननिमृज्यादन्तरेण मध्ये भ्रुवौ भ्रुवेर्वा स्तनौ स्तनयोर्वा ॥5॥
स्तर्त् ब्र्हुप् 6,4.6
अथ यद्य् उदक आत्मानं पश्येत् तद् अभिमन्त्रयेत -- मयि तेज इन्द्रियं यशो द्रविणं सुकृतम् इति ।
श्रीर् ह वा एषा स्त्रीणां यन् मलोद्वासाः ।
तस्मान् मलोद्वाससं यशस्विनीम् अभिक्रम्योपमन्त्रयेत

6.4.7

ब्र्हुप्भ्_6,4.6 अथ यदि कदाचिदुदक आत्मानमात्मच्छायां पश्येत्तत्राप्यत्रिमन्त्रयेतानेन मन्त्रेण-मयि तेज इति ।
श्रीर्ह वा एषा पत्ना स्रीणां मध्ये यद्यस्मान्मलोद्वासा उद्गतमलवद्वासास्तस्मात्तां मलोद्वाससं यशस्विनीं श्रीमतीमभिक्रम्याभिगत्योपमन्त्रयेतेदमद्याऽवाभ्यां कार्यं यत्पुत्रोत्पादनमिति त्रिरात्रान्त आप्लुताम् ॥6॥
स्तर्त् ब्र्हुप् 6,4.7
सा चेद् अस्मै न दद्यात् कामम् एनाम् अवक्रिणीयात् ।
सा चेद् अस्मै नैव दद्यात् कामम् एनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत् ।
इन्द्रियेन ते यशसा यश आदद इति ।
अयशा एव भवति

6.4.8

ब्र्हुप्भ्_6,4.7 सा चेदस्मै न दद्यान्मैथुनं कर्तुं यत्पुत्रोत्पादनमिति त्रिरात्रान्त ज्ञापयेत् ।
तथापि सा नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेन्मैथुनाय ।
शाप्स्यामि त्वां दुर्भगां करिष्यामीति प्रख्याप्य तामनेन मन्त्रेणोपगच्छेदिन्द्रियेण ते यशसा यश आदद इति ।
सा तस्मात्तदभिशापाद्वन्ध्या दुर्भगेति ख्यातायशा एव भवति ॥7॥
स्तर्त् ब्र्हुप् 6,4.8
सा चेद् अस्मै दद्याद् इन्द्रियेण ते यशसा यश आदधामीति ।
यशस्विनाव् एव भवतः

6.4.9

ब्र्हुप्भ्_6,4.8 सा चेदस्मै दद्यादनुगुणैव स्याद्भर्तुस्तदानेन मन्त्रेणोपगच्छेन्द्रियेण ते यशसा यश आदधामीति तदा यशस्विनावेवोभावपि भवतः ॥8॥
स्तर्त् ब्र्हुप् 6,4.9
स याम् इच्छेत् -- कामयेत मेति तस्याम् अर्थं निष्ठाय मुखेन मुखं संधायोपस्थम् अस्या अभिमृश्य जपेत् --
अङ्गाद् अङ्गात् संभवसि हृदयाद् अधिजायसे ।
स त्वम् अङ्गकषायो ऽसि दिग्धविद्धाम् इव मादयेमाम् अमूं मयीति

6.4.10

ब्र्हुप्भ्_6,4.9 स यां स्वभार्यामिच्छेदियं मां कामयेतेति तस्यामर्थं प्रजननेन्द्रियं निष्ठाय निक्षिप्य मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेदिमं मन्त्रमङ्गादङ्गादिति ॥9॥
स्तर्त् ब्र्हुप् 6,4.10
अथ याम् इच्छेन् न गर्भं दधीतेति तस्याम् अर्थं निष्ठाय मुखेन मुखं संधायाभिप्राण्यापान्यात् ।
इन्द्रियेण ते रेतसा रेत आदद इति ।
अरेता एव भवति

6.4.11

ब्र्हुप्भ्_6,4.10 अथ यामिच्छेन्न गर्भं दधीत न धारयेद्गर्भिणी मा भूदिति तस्यामर्थमिति पूर्ववत् ।
अभिप्राण्याभिप्राणनं प्रथमं कृत्वा पश्चादपान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यनेन मन्त्रेणारेता एव भवति न गर्भिणी भवतीत्यर्थः ॥10॥
स्तर्त् ब्र्हुप् 6,4.11
अथ याम् इच्छेद् दधीतेति तस्याम् अर्थं निष्ठाय मुखेन मुखं संधायापान्याभिप्राण्यात् ।
इन्द्रियेण ते रेतसा रेत आदधामीति ।
गर्भिण्य् एव भवति

6.4.12

ब्र्हुप्भ्_6,4.11 अथ यामिच्छेद्दधीत गर्भमिति तस्यामर्थमित्यादि पूर्ववत् ।
पूर्वविपर्ययेणापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥11॥
स्तर्त् ब्र्हुप् 6,4.12
अथ यस्य जायायै जारः स्यात् तं चेद् द्विष्याद् आमपात्रे ऽग्निम् उपसमाधाय प्रतिलोमं शरबर्हिः स्तीर्त्वा तस्मिन्न् एताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात् ।
मम समिद्धे ऽहौषीः ।
प्राणापानौ त आददे ऽसाव् इति ।
मम समिद्धे ऽहौषीः ।
पुत्रपशूंस् त आददे ऽसाव् इति ।
मम समिद्धे ऽहौषीः ।
इष्टासुकृते त आददे ऽसाव् इति ।
मम समिद्धे ऽहौषीः ।
अशापराकाशौ त आददे ऽसाव् इति ।
स वा एष निरिन्द्रियो विसुकृतो ऽस्माल् लोकाद् प्रैति यम् एवंविद् ब्राह्मणः शपति ।
तस्माद् एवंवित्श्रोत्रियस्य दारेण नोपहासम् इच्छेत् ।
उत ह्य् एवंवित् परो भवति

6.4.13

ब्र्हुप्भ्_6,4.12 अथ पुनर्यस्य जायायै जार उपपतिः स्यात्तं चेद्द्विष्यादभिचरिष्याम्येनमिति मन्येत तस्येदं कर्म ।
आमपात्रे ऽग्निमुपसमाधाय सर्वं प्रतिलोमं कुर्यात्तस्मिन्नग्नावेताः शरभृष्टीः शरेषीकाः प्रतिलोमाः सर्पिषाक्ता घृताभ्यक्ता जुहुयान्मम समिद्धे ऽहौषीरित्याद्या आहुतीरन्ते सर्वासामसाविति नामग्रहणं प्रत्येकम् ।
स एष एवंविद्या ब्राह्मणः शपति स विसुकृतो विगतपुण्यकर्मा प्रैति ।
तस्मादेवंविच्छ्रोत्रिस्य दारेण नोपहासमिच्छेन्नर्मापि न कुर्यात्किमुताधोपहासं हि यस्मादेवंविदपि तावत्परो भवति शत्रुर्भवतीत्यर्थः ॥12॥
स्तर्त् ब्र्हुप् 6,4.13
अथ यस्य जायाम् आर्तवं विन्देत् त्र्यहं कंसे न पिबेत् ।
अहतवासाः ।
नैनां वृषलो न वृषल्य् अपहन्यात् ।
त्रिरात्रान्त आप्लुत्य व्रीहीन् अवघातयेत्

6.4.14

ब्र्हुप्भ्_6,4.13 अथ यस्य जायामार्तवं विन्देदृतुभावं प्राप्नुयादित्येवमादिग्रन्थः श्रीर्ह वा एषा स्रीणामित्यतः पूर्वं द्रष्टव्यः सामर्थ्यात् ।
त्र्यहं कंसेन पिबेदहतवासाश्च स्यात् ।
नैनां स्नातामस्नातां च वृषलो वृषली वा नोपहन्यान्नोपस्पृशेत् ।
त्रिरात्रान्ते त्रिरात्रव्रतसमाप्तावाप्लुत्य स्नात्वाहतवासा स्यादिति व्यवहितेन संबन्धः ।
तामाप्लुतां व्रीहीनवघातयेद्व्रीह्यवघाताय तामेव विनियुञ्ज्यात् ॥13॥
स्तर्त् ब्र्हुप् 6,4.14
स य इच्छेत् -- पुत्रो मे शुक्लो जायेत वेदम् अनुब्रुवीत सर्वम् आयुर् इयाद् इति क्षीरौदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् ।
ईश्वरौ जनयितवै

6.4.15

ब्र्हुप्भ्_6,4.14 स य इच्छेत्पुत्रो मे शुक्लो वर्णतो जायेत वेदमेकमनुब्रुवीत सर्वमायुरियाद्वर्षशतं क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामाश्वरौ समर्थौ जनयितवै जनयितुम् ॥14॥
स्तर्त् ब्र्हुप् 6,4.15
अथ य इच्छेत् -- पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदाव् अनुब्रुवीत सर्वम् आयुर् इयाद् इति दध्योदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् ।
ईश्वरौ जनयितवै

6.4.16

ब्र्हुप्भ्_6,4.15 दध्योदनं दध्ना चरुं पाचयित्वा द्विदेवं चेदिच्छति पुत्रं तदैवमशननियमः ॥15॥
स्तर्त् ब्र्हुप् 6,4.16
अथ य इच्छेत् -- पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदान् अनुब्रुवीत सर्वम् आयुर् इयाद् इति उदौदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् ।
ईश्वरौ जनयितवै

6.4.17

ब्र्हुप्भ्_6,4.16 केवलमेव स्वाभाविकमोदनम् ।
उदग्रहणमन्यप्रसङ्गनिवृत्त्यथम् ॥16॥
स्तर्त् ब्र्हुप् 6,4.17
अथ य इच्छेद् -- दुहिता मे पण्डिता जायेत सर्वम् आयुर् इयाद् इति तिलौदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् ।
ईश्वरौ जनयितवै

6.4.18

ब्र्हुप्भ्_6,4.17 दुहितुः पाण्डित्यं गृहतन्त्रविषयमेव वेदे ऽनधिकारात् ।
तिलौदनं कृतरम् ॥17॥
स्तर्त् ब्र्हुप् 6,4.18
अथ य इच्छेत् -- पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदान् अनुब्रुवीत सर्वम् आयुर् इयाद् इति मांसौदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् ।
ईश्वरौ जनयितवाइ ।
औक्षेण वार्षभेण वा

6.4.19

ब्र्हुप्भ्_6,4.18 विविधं गीतो विगीतः प्रख्यात इत्यर्थः ।
समितिङ्गमः सभां गच्छतीति प्रगल्भ इत्यर्थः ।
पाण्डित्यस्य पृथग्ग्रहणात् ।
शुश्रूषितां श्रोतुमिष्टां रमणीयां वाचं भाषिता संस्कृताया अर्थवत्या वाचो भाषितेत्यर्थः ।
मांसमिश्रमोदनं मांसौदनम् ।
तन्मांसनियमार्थमाह-औक्षें वा मांसेन ।
उक्षा सेचनसमर्थः पुङ्गवस्तदीयं मांसम् ।
ऋषभस्ततो ऽप्यधिकवयास्तदीयमार्षभं मांसम् ॥17॥
स्तर्त् ब्र्हुप् 6,4.19
अथाभिप्रातर् एव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्य् अग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति ।
हुत्वोद्धृत्य प्राश्नाति ।
प्राश्येतरस्याः प्रयच्छति ।
प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिर् अभ्युक्षति --
उत्तिष्ठातो विश्वावसो ऽन्याम् इच्छ प्रपूर्व्याम् ।
सं जायां पत्या सहेति

6.4.20

ब्र्हुप्भ्_6,4.19 अथामिप्रातरेव काले ऽवघातनिर्वृत्तांस्तण्डुलानादाय स्थालीपाकावृता स्थालीपाकविधिनाऽज्यं चेष्टित्वाऽज्यसंस्कारं कृत्वा चरुं श्रपयित्वा स्थालीपाकस्याऽहुतीर्जुहोत्युपघातमुपहत्योपहत्याग्नये स्वाहेत्याद्याः ।
गार्ह्यः सर्वो विधिर्द्रष्टव्यो ऽत्र हुत्वोद्धृत्य चरुशेषं प्राश्नाति स्वयं प्राश्येतरस्याः पत्न्यै प्रयच्छत्युच्छिष्टम् ।
प्रक्षाल्य पाणी आचम्योदपात्रं पूरयित्वा तेनोदकेनैनां त्रिरभ्युक्षत्येन मन्त्रेणोत्तिष्ठात इति सकृन्मन्त्रोच्चारणम् ॥19॥
स्तर्त् ब्र्हुप् 6,4.20
अथैनाम् अभिपद्यते -- अमो ऽहम् अस्मि सा त्वम् ।
सा त्वम् अस्य् अमो ऽहम् ।
सामाहम् अस्मि ऋक् त्वम् ।
द्यौर् अहम् पृथिवी त्वम् ।
ताव् एहि संरभावहै सह रेतो दधावहै ।
पुंसे पुत्राय वित्तय इति

6.4.21

ब्र्हुप्भ्_6,4.20 अथैनामभिमन्त्र्य क्षीरौदनादि यथापत्यकामं भुक्त्वेति क्रमो द्रष्टव्यः ।
संवेशनकाले ऽमो ऽहमस्मीत्यादिमन्त्रेणाभिपद्यते ॥20॥
स्तर्त् ब्र्हुप् 6,4.21
अथास्या ऊरू विहापयति -- विजिहीथां द्यावापृथिवी इति ।
तस्याम् अर्थं निष्ठाय मुखेन मुखं संधाय त्रिर् एनाम् अनुलोमाम् अनुमार्ष्टि --
विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते ।
गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके ।
गर्भं ते अश्विनौ देवाव् आधत्तां पुष्करस्रजौ

6.4.22

ब्र्हुप्भ्_6,4.21 अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इत्यनेन ।
तस्यामर्थमित्यादि पूर्ववत् ।
त्रिरेनां शिरः प्रभृत्यनुलोमामनुमार्ष्टि विष्णुर्योनिमित्यादि प्रतिमन्त्रम् ॥21॥
स्तर्त् ब्र्हुप् 6,4.22
हिरण्मयी अरणी याभ्यां निर्मन्थताम् अश्विनौ ।
तं ते गर्भं हवामहे दशमे मासि सूतये ।
यथाग्निगर्भा पृथिवी यथा द्यौर् ऐन्द्रेण गर्भिणी ।
वायुर् दिशां यथा गर्भ एवं गर्भं दधामि ते ऽसाव् इति

6.4.23

ब्र्हुप्भ्_6,4.22 अन्ते नाम गृह्णात्यसाविति तस्याः ॥22॥
स्तर्त् ब्र्हुप् 6,4.23
सोष्यन्तीम् अद्भिर् अभ्युक्षति --
यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः ।
एवा ते गर्भ एजतु सहावैतु जरायुणा ।
इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः ।
तम् इन्द्र निर्जहि गर्भेण सावरां सहेति

6.4.24

ब्र्हुप्भ्_6,4.23 सोष्यन्तीमद्भिरभ्युक्षति प्रसवकाले सुखप्रसवनार्थमनेन मन्त्रेण ।
यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः ।
एवा ते गर्भ एजत्विति ॥23॥
स्तर्त् ब्र्हुप् 6,4.24
जाते ऽग्निम् उपसमाधायाङ्क आधाय कंसे पृषदाज्यं संनीय पृषदाज्यस्योपघातं जुहोति --
अस्मिन्सहस्रं पुष्यासम् एधमानः स्वे गृहे ।
अस्योपसन्द्यां मा छैत्सीत् प्रजया च पशुभिश् च स्वाहा ।
मयि प्राणांस् त्वयि मनसा जुहोमि स्वाहा ।
यत् कर्मणात्यरीरिचम् यद् वा न्यूनम् इहाकरम् ।
अग्निष्टत् स्विष्टकृद् विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति

6.4.25

ब्र्हुप्भ्_6,4.24अथ जातकर्म ।
जाते ऽग्निमुपसमाधायाङ्क आधाय पुत्रं कंसे पृषदाज्यं संमीय संयोज्य दधि घृते पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रमित्याद्यावापस्थाने ॥24॥
स्तर्त् ब्र्हुप् 6,4.25
अथास्य दक्षिणं कर्णम् अभिनिधाय वाग् वाग् इति त्रिः ।
अथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति ।
भूस् ते दधामि भुवस् ते दधामि स्वस् ते दधामि भूर् भुवः स्वः सर्वं त्वयि दधामीति

6.4.26

ब्र्हुप्भ्_6,4.25 अथास्य दक्षिणं कर्णमभिनिधाय स्वं मुखं वाग्वागिति त्रिर्जपेत् ।
अथ दधि मधु घृतं संनीयानन्तर्हितेनाव्यवहितेन जातरूपेण हिरण्येन प्राशयत्येतैर्मन्त्रैः प्रत्येकम् ॥25॥
स्तर्त् ब्र्हुप् 6,4.26
अथास्य नाम करोति वेदो ऽसीति ।
तद् अस्यैतद् गुह्यम् एव नाम भवति

6.4.27

ब्र्हुप्भ्_6,4.26 अथास्य नामधेयं करोति वेदो ऽसीति ।
तदस्य तद्गुह्यं नाम भवति वेद इति ॥26॥
स्तर्त् ब्र्हुप् 6,4.27
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति -- यस् ते स्तनः शशयो यो मयोभूर् यो रत्नधा वसुविद् यः सुदत्रः ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे कर् इति

6.4.28

ब्र्हुप्भ्_6,4.27 अथैनं मात्रे प्रदाय स्वाङ्कस्थं स्तनं प्रयच्छति यस्ते स्तन इत्यादिमन्त्रेण ॥27॥
स्तर्त् ब्र्हुप् 6,4.28
अथास्य मातरम् अभिमन्त्रयते -- इलासि मैत्रावरुणी वीरे वीरम् अजीजनत् ।
सा त्वं वीरवती भव यास्मान् वीरवतो ऽकरद् इति ।
तं वा एतम् आहुः -- अतिपिता बताभूः ।
अतिपितामहो बताभूः ।
परमां बत काष्ठां प्राप श्रिया यशसा ब्रह्मवर्चसेन ।
य एवंविदो ब्राह्मणस्य पुत्रो जायत इति

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc