भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 6.1

6.1.1

ब्र्हुप्भ्_5,15.1 यो ज्ञानकर्मसमुच्चयकारी सो ऽन्तकाल आदित्यं प्रार्थयति ।
अस्ति च प्रसङ्गो गायत्र्यास्तुरीयः पादो हि सः ।
तदुपस्थानं प्रकृतमतः स एव प्रार्थ्यते ।
हिरण्यमयेन ज्योतिर्मयेन पात्रेण यथा पात्रेणेष्टं वस्त्वपिधीयत एवमिदं सत्याख्यं ब्रह्म ज्योतिर्मयेन मण्डलेनापिहितमिवासमाहितचेतसामदृश्यत्वात्तदुच्यते ।
सत्यस्यापिहितं मुखं मुख्यं स्वरूपं तदपिधानं पात्रमपिधानमिव दर्शनप्रतिबन्धकारणं तत्त्वं हे पूषञ्जगतः पोषणत्पूषा सवितापावृण्वपावृतं कुरु दर्शनप्रतिबन्धकारणमपनयेत्यर्थः ।
सत्यधर्माय सत्यं धर्मो ऽस्य मम सो ऽहं सत्यधर्मा तस्मै त्वदात्मभूतायेत्यर्थः ।
दृष्टये दर्शनाय ।
पूषन्नित्यादीनि नामान्यामन्त्रणार्थनि सवितुः ।
एकर्ष एकश्चासावृषिश्चैकर्षिर्दर्शनादृषिः ।
स हि सर्वस्य जगत आत्मा चक्षुश्च सन्सर्वं पश्यत्येको वा गच्छतीत्येकर्षिः"सूर्य एकाकी चरति"इति मन्त्रवर्णात् ।
यम सर्वं हि जगतः संयमनं त्वत्कृतम् ।
सूर्य सुष्ठु वीरयते रसान्रश्मीन्प्राणान्धियो वा जगत इति ।
प्राजापत्य प्रजापतेरीश्वरस्यापत्यं हिरण्यगर्भस्य वा हे प्राजापत्य व्यूह विगमय रश्मीन् ।
समूह संक्षिपाऽत्मनस्तेजो येनाहं शक्नुयां त्वत्स्वरूपमञ्जसा द्रष्टम् ।
विद्योतन इव रूपाणामत उपसंहर तेजः ।
यत्ते तव रूपं सर्वकल्याणानामतिशयेन कल्याणं कल्याणतमं तत्ते पश्यामि ।
पश्यामो वयं वचनव्यत्ययेन ।
यो ऽसौ भूर्भुवःस्वर्व्याहृत्यवयवः पुरुषः पुरुषाकृतित्वात्पुरुषः सो ऽहमस्मि भवामि ।
अहरमिति चोपनिषद उक्तत्वादादित्यचाक्षुषयोस्तदेवेदं परामृश्यते सो ऽहमस्म्यमृतमिति संबन्धः ।
ममामृतस्य सत्यस्य शरीरपाते शरीरस्थो यः प्राणो वायुः सो ऽनिलं बाह्यं वायुमेव प्रतिगच्छतु ।
तथान्या देवताः स्वां स्वां प्रकृतिं गच्छन्तु ।
अथेदमपि भस्मान्तं सत्पृथिवीं यातु शरीरम् ।
अथेदानीमात्मनः संकल्पभूतां मनसि व्यवस्थितामग्निदेवतां प्रार्थयते-ओं क्रतो ।
ओंमिति क्रतो इति च संबोधनार्थवेव ।
ओङ्कारप्रतीकत्वादोम् ।
मनोमयत्वाच्च क्रतुः ।
हे ओं हे क्रतो स्मर स्मर्तव्यमन्तकाले हि त्वत्स्मरणवशादिष्टा गतिः प्राप्यते ऽतः प्रार्थ्यते यन्मया कृतं तत्स्मर पुनरुक्तिरादरार्था ।
किञ्च हे ऽग्ने नय प्रापय सुपथा शोभनेन मार्गेण राये धनाय कर्मफलप्राप्तय इत्यर्थः ।
न दक्षिणेन कृष्णेन पुनरावृत्तियुक्तेन किं तर्हि शुक्लेनैव सुपथास्मान्विश्वानि सर्वाणि हे देव वयुनानि प्रज्ञानानि सर्वप्राणिनां विद्वान् ।
किञ्च युयोध्यपनय वियोजयास्मदस्मत्तो जुहुराणं कुटिलमेनः पापं पापजातं सर्वम् ।
तेन पापेन वियुक्ता वयमेष्याम उत्तरेण पथा त्वत्प्रसादात् ।
किन्तु वयं तुभ्यं परिचर्यां कर्तुं न शक्नुमो भूयिष्ठां बहुतमां ते तुभ्यं नमौक्तिं नमस्कारवचनं विधेम नमस्कारोक्त्या परिचरेमेत्यर्थः ।
अन्यत्कर्तुमशक्ताः सन्त इति ॥1 ॥ ॥
इति श्रीमद्बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम् ॥15 ॥
इति बृहदारण्यकोपनिषदि पञ्चमोध्यायः ॥5॥
=======================================================================
अध्यय 6
अथ षष्ठो ऽध्यायः
अथ षष्ठाध्यायस्य प्रशमं ब्राह्मणम्
स्तर्त् ब्र्हुप् 6,1.1
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश् च श्रेष्ठश् च स्वानां भवति ।
प्राणो वै ज्येष्ठश् च श्रेष्ठश् च ।
ज्येष्ठश् च श्रेष्ठश् च स्वानां भवति ।
अपि च येषां बुभूषति ।
य एवं वेद

6.1.2

ब्र्हुप्भ्_6,1.1 ओं प्राणो गायत्रीत्युक्तम् ।
कस्मात्पुनः कारणात्प्राणभावो गायत्र्या न पुनर्वागादिभाव इति यस्माज्ज्येष्ठश्च श्रेष्ठश्च प्राणो न वागादयो ज्यैष्ठ्यश्रैष्ठ्यभाजः ।
कथं ज्येष्ठत्वं श्रेष्ठत्वं च प्राणस्योति तन्निर्दिधारयिषयेदमारभ्यते ।
अथवोक्थयजुः सामक्षत्त्रादिभावैः प्राणस्यैवोपासनमभिहितं सत्स्वप्यन्येषु चक्षुरादिषु ।
तत्र हेतुमात्रमिहाऽनन्तर्येण संबध्यते ।
न पुनः पूर्वशेषता ।
विवक्षितं तु खिलत्वादस्य काण्डस्य पूर्वत्र यदनुक्तं विशिष्टफलं प्राणविषयमुपासनं तद्वक्तव्यमिति ।
यः कश्चिद्ध वा इत्यावधारणर्छै ।
यो ज्येष्ठश्रेष्ठगुणं वक्ष्यमाणं यो वेदासौ भवत्येव ज्येष्ठश्च श्रेष्ठश्च ।
एवं फलेन प्रलोभितः सन्प्रश्नायामुखीभूतस्तस्मै चाऽह-प्राणो वै ज्येष्ठश्च श्रेष्ठश्चेति ।
कथं पुनरवगम्यते प्राणो ज्येष्ठश्च श्रेष्ठश्चेति ।
यस्मान्निषेककाल एव शुक्रशोणितसंम्बन्धः प्राणादिकलापस्याविशिष्टः ।
तथापि नाप्राणं शुक्रं विरोहतीति प्रथमो वृत्तिलाभः प्राणस्य चक्षुरादिभ्यः ।
अतः ज्येष्ठो वयसा प्राणः ।
निषेककालदारभ्य गर्भं पुष्यति प्राणः ।
प्राणे हि लब्धवृत्तौ पश्चाच्चक्षुरादीनां वृत्तिलाभः ।
अतोयुक्तं प्राणस्य ज्येष्ठत्वं चक्षुरादिषु ।
भवति तु कश्चित्कुले ज्येष्ठो गुणहीनत्वात्तु न श्रेष्ठः ।
मध्यमः कनिष्ठो वा गुणाढ्यत्वाद्भवेच्छ्रेष्ठो न ज्येष्ठः ।
न तु तथेहेत्याह-प्राण एव तु ज्येष्ठश्च श्रेष्ठश्च ।
कथं पुनः श्रैष्ठ्यमवगम्यते प्राणस्य तदिह संवादेनदर्शयिष्यामः ।
सर्वथापि तु प्राणं ज्येष्ठश्रेष्ठगुणं यो वेदोपास्ते स स्वानां ज्ञातीनां ज्येष्ठश्च श्रेष्ठश्च भवति ।
ज्येष्ठश्रेष्ठगुणोपासनसामर्थ्यात्स्वव्यतिरेकेणापि च येषां मध्ये ज्येष्ठश्च श्रेष्ठश्च भविष्यामीति बुभूषति भवितुमिच्छति तेषामपि ज्येष्ठश्रेष्ठप्राणदर्शी ज्येष्ठश्च श्रेष्ठश्च भवति ।
ननु वयेनिमित्तं ज्येष्ठत्वं तदिच्छातः कथं भवतीत्युच्यते ।
नैष दोषः ।
प्राणवद्वृत्तिलाभस्यैव ज्येष्ठत्वस्य विवक्षितत्वात् ॥1॥
स्तर्त् ब्र्हुप् 6,1.2
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति ।
वाग् वै वसिष्ठा ।
वसिष्ठः स्वानां भवति ।
अपि च येषां बुभूषति ।
य एवं वेद

6.1.3

ब्र्हुप्भ्_6,1.2 यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति ।
तद्दर्शनानुरूपेण फलम् ।
येषां च ज्ञातिव्यतिरेकेण वसिष्ठो भवितुमिच्छति तेषां च वसिष्ठो भवति ।
उच्यतां तर्हि कासौ वसिष्ठेति ।
वाग्वै वसिष्ठा ।
वासयत्यतिशयेन वस्ते वेति वसिष्ठा ।
वाग्ग्मिनो हि धनवन्तो वसन्त्यतिशयेन ।
आच्छादनार्थस्य वा वसेर्वसिष्ठा ।
अभिभवन्ति हि वाचा वाग्ग्मिनो ऽन्यान् ।
तेन वसिष्ठगुणवत्परिज्ञानाद्वसिष्ठगुणो भवतीति दर्शनानुरूपं फलम् ॥2॥
स्तर्त् ब्र्हुप् 6,1.3
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे ।
प्रतितिष्ठति दुर्गे ।
चक्षुर् वै प्रतिष्ठा ।
चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।
प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे ।
य एवं वेद

6.1.4

ब्र्हुप्भ्_6,1.3 यो ह वै प्रतिष्ठां वेद प्रतितिष्ठत्यनयेति प्रतिष्ठा तां प्रतिष्ठां प्रतिष्ठागुणवतीं यो वेद तस्यैतत्फलं प्रतितिष्ठति समे देशे काले च ।
तथा दुर्गे विषमे च दुर्गमने च देशे दुर्भिक्षादौ वा काले विषमे ।
यद्येवमुच्यतां कासौ प्रतिष्ठा ।
चक्षुर्वै प्रतिष्ठा ।
कथं चक्षुषः प्रतिष्ठात्वमित्याह-चक्षुषा हि समे च दुर्गे दृष्टवा प्रतितिष्ठति ।
अतो ऽनुरूपं फलं प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेदेति ॥3॥
स्तर्त् ब्र्हुप् 6,1.4
यो ह वै संपदं वेद सं हास्मै पद्यते यं कामं कामयते ।
श्रोत्रं वै संपत् ।
श्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः ।
सं हास्मै पद्यते यं कामं कामयते ।
य एवं वेद

6.1.5

ब्र्हुप्भ्_6,1.4 यो ह वै सम्पदं वेद सम्पद्गुणयुक्तं यो वेद तस्यैतत्फलमस्मै विदुषे संपद्यते ह ।
किम् ।
यं कामं कामयते स कामः ।
किं पुनः संपद्गुणकम् ।
श्रोत्रं वै संपत् ।
कथं पुनः श्रोत्रस्य संपद्गुणत्वमिति ।
उच्यते-श्रोत्रे सति हि यस्मात्सर्वे वेदा अभिसम्पन्नाः श्रोत्रेन्द्रियवतो ऽध्येयत्वात् ।
वेदविहितकर्मायत्ताश्च कामास्तस्माच्छ्रोत्रं संपत् ।
अतो विज्ञानानुरूपं फलम् ।
सं हास्मै पद्यते यं कामं कामयते य एवं वेद ॥4॥
स्तर्त् ब्र्हुप् 6,1.5
यो ह वा आयतनं वेदायतनं स्वानां भवत्य् आयतनं जनानाम् ।
मनो वा आयतनम् ।
आयतनं स्वानां भवत्य् आयतनं जनानाम् ।
य एवं वेद

6.1.6

ब्र्हुप्भ्_6,1.5 यो ह वा आयतनं वेद ।
आयतनमाश्रयस्तद्यो वेदाऽयतनं स्वानां भवत्यायतनं जनानामन्येषामपि ।
किं पुनस्तदायतनमिति ।
उच्यते-मनो वा आयतनमाश्रय इन्द्रियाणां विषयाणां च ।
मनआश्रिता हि विषया आत्मनो भोग्यत्वं प्रतिपद्यन्ते ।
मनःसंकल्पवशानि चेन्द्रियाणि प्रवर्तन्ते निवर्तन्ते च ।
अतो मन आयतनमिन्द्रियाणाम् ।
अतो दर्शनानुरूपेण फलमायतनं स्वानां भवत्यायतनं जनानां य एवं वेद ॥5॥
स्तर्त् ब्र्हुप् 6,1.6
यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिः ।
रेतो वै प्रजातिः ।
प्रजायते ह प्रजया पशुभिः ।
य एवं वेद

6.1.7

ब्र्हुप्भ्_6,1.6 यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिश्च सम्पन्नो भवति ।
रेतो वै प्रजातिः ।
रेतसा प्रजननेन्द्रियमुपलक्ष्यते ।
तद्विज्ञानानुरूपं फलं प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥6॥
स्तर्त् ब्र्हुप् 6,1.7
ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः ।
तद् धोचुः -- को नो वसिष्ठ इति ।
तद् धोवाच -- यस्मिन् व उत्क्रान्त इदं शरीरं पापियो मन्यते स वो वसिष्ठ इति

6.1.8

ब्र्हुप्भ्_6,1.7 ते हेमे प्राणा वागादयो ऽहंश्रेयसे ऽहं श्रेयानित्येतस्मै प्रयोजनाय विवदमाना बिरुद्धं वदमाना ब्रह्म जग्मुर्ब्रह्म गतवन्तो ब्रह्मशब्दवाच्यं प्रजापति गत्वा च तद्ब्रह्म होचुरुक्तवन्तः ।
को नो ऽस्माकं मध्ये वसिष्ठः को ऽस्माकं मध्ये वसति च वासयति च ।
तद्ब्रह्म तैः पृष्टं सद्धोवाचोक्तवद्यस्मिन्वो युष्माकं मध्य उत्क्रान्ते निर्गते शरीरादिदं शरीरं पूर्वस्मादतिशयेन पापीयः पापतरं मन्यते लोकः ।
शरीरं हि नामानेकाशुचिसंधातत्वाज्जीवतो ऽपि पापमेव ततो ऽपि कष्टतरं यस्मिन्नुत्क्रान्ते भवति ।
वैराग्यार्थमिदमुच्यते-पापीय इति ।
स वो युष्माकं मध्ये वसिष्ठो भविष्यति जानन्नपि वसिष्ठं प्रजापतिर्तोवाचायं वसिष्ठ इतीतरेषामप्रियपरिहाराय ॥7॥
स्तर्त् ब्र्हुप् 6,1.8
वाग् घोच्चक्राम ।
सा संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति ।
ते होचुः -- यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवम् अजीविष्मेति ।
प्रविवेश ह वाक्

6.1.9

ब्र्हुप्भ्_6,1.8 त एवमुक्ता ब्रह्मणा प्राणा आत्मनो वीर्यपरीक्षणाय क्रमेणोच्चक्रमुः ।
तत्र वागेव प्रथमं हास्माच्छरीरादुच्चक्रामोत्क्रान्तवती ।
सा चोत्क्रम्य संवत्सरं प्रोष्य प्रोषिता भूत्वा पुनरागत्योवाच-कथमशकत शक्तवन्तो यूयं मदृते मां विना जीवितुमिति ।
त एवमुक्ता ऊचुर्यथा लोके ऽकला मूका अवदन्तो वाचा प्राणन्तः प्राणनव्यापारं कुर्वन्तः प्राणेन पश्यन्तो दर्शनव्यापारं चक्षुषा कुर्वन्तस्तथा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा कार्याकार्यादिविषयं प्रजायमाना रेतसा पुत्रानुत्पादयन्त एवमजीविष्म वयमित्येवं प्राणैर्दत्तोत्तरा वागात्मनो ऽस्मिन्नवसिष्ठत्वं बुद्ध्वा प्रविवेश ह वाक् ॥8॥
स्तर्त् ब्र्हुप् 6,1.9-12
चक्षुर् होच्चक्राम ।
तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति ।
ते होचुः -- यथान्धा अपश्यन्तश् चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवम् अजीविष्मेति ।
प्रविवेश ह चक्षुः

6.1.10

श्रोत्रं होच्चक्राम ।
तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति ।
ते होचुः -- यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवम् अजीविष्मेति ।
प्रविवेश ह श्रोत्रम्

6.1.11

मनो होच्चक्राम ।
तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति ।
ते होचुः -- यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवम् अजीविष्मेति ।
प्रविवेश ह मनः

6.1.12

रेतो होच्चक्राम ।
तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति ।
ते होचुः -- यथा क्लीबा अप्रजायमाना रेतासा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवम् अजीविष्मेति ।
प्रविवेश ह रेतः

6.1.13

ब्र्हुप्भ्_6,1.9-12 तथा चक्षुर्हेच्चक्रामेत्यादि पूर्ववत् ।
श्रोत्रं मनः प्रजातिरित ॥9-12 ॥
स्तर्त् ब्र्हुप् 6,1.13
अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त् संवृहेद् एवं हैवेमान् प्राणान्त् संववर्ह ।
ते होचुः -- मा भगव उत्क्रमीः ।
न वै शक्ष्यामस् त्वद् ऋते जीवितुम् इति ।
तस्यो मे बलिं कुरुतेति ।
तथेति

6.1.14

ब्र्हुप्भ्_6,1.13 अथ ह प्राण उत्क्रमिष्यन्नुत्क्रममं करिष्यंस्तदानीमेव स्वस्थानात्प्रचलिता वागादयः ।
किमिवेत्याह-यथा लोके महांश्चासौ सुहयश्च महासुहयः शोभनो हयो लक्षणोपेतो महान्परिमाणतः सिन्धुदेशे भवः सैन्धवो ऽभिजनतः पड्वीशशङ्कून्पादबन्धनशङ्कून्पड्वीशाश्च ते शङ्कवश्च तान् संवृहेदुद्यच्छेद्युगपदुत्खनेदश्वारोह आरूढे परीक्षणाय ।
एवं हैवेमान्वागादीन्प्राणान्संववर्हेद्यतवान्स्वस्थानाद्भ्रंशितवान् ।
ते वागादयो होचुर्हे भगवो भगवन्मोत्क्रमीर्यस्मान्नवै शक्ष्यामस्त्वदृते त्वां विना जीवितुमिति ।
यद्येवं मम श्रेष्ठता विज्ञाता भवद्भिरहमत्र श्रेष्ठस्तस्य उ मे मम बलिं करं कुरुत करं प्रयच्छतेति ।
अयं च प्राणसम्वादः कल्पितो विदुषः श्रेष्ठपरीक्षणप्रकारोपदेशः ।
अनेन हि प्रकारेण विद्वान्को नु खल्वत्र श्रेष्ठ इति परीक्षणं करोति ।
स एष परीक्षणप्रकारः सम्वादभूतः कथ्यते ।
न ह्यन्यथा संहत्यकारिणां सतामेषामञ्जसैव संवत्सरमात्रमेवैकैकस्य निर्गमनाद्युपपद्यते ।
तस्माद्विद्वानेवानेन प्रकारेण विचारयति वागादीनां प्रधानबुभुत्सुरुपासनाय ।
बलिं प्रार्थिताः सन्तः प्राणास्तथेति प्रतिज्ञातवन्तः ॥13॥
स्तर्त् ब्र्हुप् 6,1.14
सा ह वाग् उवाच -- यद् वा अहं वसिष्ठास्मि त्वं तद् वसिष्ठो ऽसीति ।
यद् वा अहं प्रतिष्ठास्मि त्वं तत् प्रतिष्ठो ऽसीति चक्षुः ।
यद् वा अहं संपद् अस्मि त्वं तत् संपद् असीति श्रोत्रम् ।
यद् वा अहम् आयतनम् अस्मि त्वं तद् आयतनम् असीति मनः ।
यद् वा अहं प्रजातिर् अस्मि त्वं तत् प्रजातिर् असीति रेतः ।
तस्यो मे किम् अन्नं किं वास इति ।
यद् इदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस् तत् ते ऽन्नम् ।
आपो वास इति ।
न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवम् एतद् अनस्यान्नं वेद ।
तद् विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्य् अशित्वाचामन्ति ।
एतम् एव तद् अन्नम् अनग्नं कुर्वन्तो मन्यन्ते

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc