भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.15

5.15.1

ब्र्हुप्भ्_5,14.8 गायत्र्या मुखविधानायार्थवाद उच्यते-एतद्ध किल वै स्मर्यते ।
तत्तत्र गायत्रीविज्ञानविषये जनको वैदेहो बुडिलो नामतो ऽश्वतराश्वस्यापत्यमाश्वतराश्विस्तं किलोक्तवान् ।
यन्नु इति वितर्के हो अहो इत्येतत्तद्यत्त्वं गायत्रीविद्ब्रूथा गायत्रीविदस्मीति यदब्रूथाः किमिदं तस्य वचसो ऽननुरूपम् ।
अथ कथं यदि गायत्रीवित्प्रतिग्रहदोषेण हस्तोभूतो वहसीति ।
स प्रत्याह राज्ञा स्मारितो मुखं गायत्र्या हि यस्मादस्या हे सम्राण्न विदाञ्चकार न विज्ञातवानस्मीति होवाच ।
एकाह्गविकलत्वाद्गायत्रीविज्ञानं ममाफलं जातम् ।
शृणु तर्हि तस्या गायत्र्या अग्निरेव मुखम् ।
यदि ह वा अपि बह्विवेन्धनमग्नावभ्यादधति लौकिकाः सर्वमेव तत्संदहत्येवेन्धनमग्निरेवं हैवैवंविद्गायत्र्या अग्निर्मुखमित्येवं वेत्तीत्येवंवित्स्यात्स्वयं गायत्र्यात्माग्निमुखः सन् ।
यद्यपि बह्विव पापं कुरुते प्रतिग्रहादिदोषं तत्सर्वं पापजातं संप्साय भक्षयित्वा शुद्धो ऽग्निवत्पूतश्च तस्मात्प्रतिग्रहदोषाद्गायत्र्यात्माजरो ऽमृतश्च संभवति ॥8॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम् ॥14॥
स्तर्त् ब्र्हुप् 5,15.1
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत् त्वम् पूषन्न् अपावृणु सत्यधर्माय दृष्टये ।
पूषन्न् एकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः ।
यत् ते रूपं कल्याणतमम् तत् ते पश्यामि यो ऽसाव् असौ पुरुषः सो ऽहम् अस्मि ।
वायुर् अनिलम् अमृतम् अथेदं भस्मान्तं शरीरम् ।
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ।
अग्ने नय सुपथा राये ऽस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमौक्तिं विधेम

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc