भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.9

5.9.1

ब्र्हुप्भ्_5,8.1 पुनरुपासनान्तरं तस्यैव ब्रह्मणो वाग्वै ब्रह्मेति वागिति शब्दस्रयी तां वाचं धेनुं धेनुरिव धेनुर्यथा धेनुश्चतुर्भिः स्तनैः स्तन्यं पयः क्षरति वत्सायैवं वाग्धेनुर्वक्ष्यमाणैः स्तनैः पय इवान्नं क्षरति देवादिभ्यः ।
के पुनस्ते स्तना ये वा ते येभ्यः क्षरति ।
तस्या एतस्या वाचो धेन्वा द्वौ स्तनौ देवा उपजीवन्ति वत्सस्थानीयाः ।
कौ तौ ।
स्वाहाकारं च वषट्कारं च ।
आभ्यां हि हविर्दीयते देवेभ्यः ।
हन्तकारं मनुष्याः ।
हन्तेति मनुष्येभ्यो ऽन्नं प्रयच्छन्ति ।
स्वधाकारं च वषट्कारं च ।
आभ्यां हि हविर्दीयते देवेभ्यः ।
हन्तकारं मनुष्याः ।
हन्तेति मनुष्येभ्यो ऽन्नं प्रयच्छन्ति स्वधाकारं च वषट्कारं च ।
आभ्यां हि हविर्दीयते देवेभ्यः ।
हन्तकारं मनुष्याः ।
हन्तेति मनुष्येभ्यो ऽन्नं प्रयच्छन्ति ।
स्वधाकारं पितरः ।
स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्ति ।
तस्या धेन्वा वाचः प्राण ऋषभः ।
प्राणेन हि वाक्प्रसूयते ।
मनो वत्सः ।
मनसा हि प्रस्राव्यते ।
मनसा ह्यालोचिते विषये वाक्प्रवर्तते ।
तस्मान्मनो वत्सस्थानीयम् ।
एवं वाग्धेनूपासकस्ताद्भाव्यमेव प्रतिपद्यते ॥1॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्याष्टमं ब्राह्मणम् ॥8॥
स्तर्त् ब्र्हुप् 5,9.1
अयम् अग्निर् वैश्वानरो यो ऽयम् अन्तः पुरुषे ।
येनेदम् अन्नं पच्यते ।
यद् इदम् अद्यते ।
तस्यैष घोषो भवति ।
यम् एतत् कर्णाव् अपिधाय शृणोति ।
स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc