बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.10
ब्र्हुप्भ्_5,9.1 अयमग्निर्वैश्वाननरः पूर्ववदुपासनान्तरमयमग्निर्वैश्वानरः ।
को ऽयमग्निरित्याह-यो ऽयमन्तःपुरुषे ।
किं शरीरारम्भको नेत्युच्यते-येनाग्निना वैश्वानराख्येनेदमन्नं पच्यते ।
किं तदन्नम् ।
यदिदमद्यते भुज्यते ऽन्नं प्रजाभिजठिरो ऽग्निरित्यर्थः ।
तस्य साक्षादुपलक्षणार्थमिदमाह-तस्याग्नेरन्नं पचतो जाठरस्यैष घोषो भवति ।
को ऽसौ ।
यं घोषमेतदिति क्रियाविशेषणं कर्णावपिधायाङ्गुलीभ्यामपिधानं कृत्वा शृणोति तं प्रजापतिमुपासीत वैश्वानरमग्निम् ।
अत्रापि ताद्भाव्यं फलम् ।
तत्र प्रासङ्गिकमिदमरिष्टलक्षणमुच्यते-सो ऽत्र शरीरे भोक्ता यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥1॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य नवमं ब्राह्मणम् ॥9॥
स्तर्त् ब्र्हुप् 5,10.1
यदा वै पुरुषो ऽस्माल् लोकात् प्रैति स वायुम् आगच्छति ।
तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स आदित्यम् आगच्छति ।
तस्मै स तत्र विजिहीते ।
यथा लम्बरस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स चन्द्रमसम् आगच्छति ।
तस्मै स तत्र विजिहीते ।
यथा दुन्दुभेः खम् ।
तेन स ऊर्ध्व आक्रमते ।
स लोकम् आगच्छत्य् अशोकम् अहिमम् ।
तस्मिन् वसति शाश्वतीः समाः
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0