भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.8

5.8.1

ब्र्हुप्भ्_5,7.1 तथैवोपासनान्तरं सत्यस्य ब्रह्मणो विशिष्टफलमारभ्यते - विद्युद्ब्रह्मेत्याहुः ।
विद्युतो ब्रह्मणो निर्वचनमुच्यते - विदानादवखण्डनात्तमसो मेधान्धकारं विदार्य ह्यवभासते ऽतो विद्युत् ।
एवं गुणं विद्युद्ब्रह्मेति यो वेदासै विद्यत्यवखण्डयति विनाशयति पाप्मन एनमात्मानं प्रति प्रतिकूलभूताः पाप्मानो ये तान्सर्वान्पाप्मनो ऽखण्डयतीत्यर्थः ।
य एवं वेद विद्युद्ब्रह्मेति तस्यानुरूपं फलम् ।
विद्युद्धि यस्माद्ब्रह्म ॥1॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य सप्तमं ब्राह्मणम् ॥7॥
स्तर्त् ब्र्हुप् 5,8.1
वाचं धेनुम् उपासीत ।
तस्याश् चत्वारः स्तनाः ।
स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः ।
तस्यै द्वौ स्तनौ देवा उपजीवन्ति ।
स्वाहाकारं च वषट्कारं च ।
हन्तकारं मनुष्याः ।
स्वधाकारं पितरः ।
तस्याः प्राण ऋषभो मनो वत्सः

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc