बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.5
ब्र्हुप्भ्_5,4.1 तस्यैव हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनं विधित्सन्नाह-तत्तदिति हृदयं ब्रह्म परामृष्टम् ।
वा इति स्मरणार्थम् ।
तद्यद्धृदयं ब्रह्म स्मर्यत इत्येकस्तच्छब्दः ।
तदेतदुच्यते प्रकारान्तरेमेति द्वितीयस्तच्छब्दः ।
किं पुनस्तत्प्रकारान्तरम् ।
एतदेव तदित्येतच्छब्देन संबध्यते तृतीयस्तच्छब्दः ।
एतदिति वक्ष्यमाणं बुद्धौ संनिधीकृत्याऽह ।
आस बभूव ।
किं पुनरेतदेवाऽस यदुक्तं हृदयं ब्रह्मेति तदिति तृतीयस्तच्छब्दो विनियुक्तः ।
किं तदिति विशेषतो निर्दिशति सत्यमेव सच्च त्यच्च मूर्तं चामूर्तं च सत्यं ब्रह्म पञ्चभूतात्मकमित्येतत् ।
स यः कश्चित्सत्यात्मानमेतं महन्महत्त्वाद्यक्षं पूज्यं प्रथमजं प्रथमजातं सर्वस्मात्संसारिण एतदेवाग्रे जातं ब्रह्मातः प्रथमजं वेद विजानाति सत्यं ब्रह्मेति ।
तस्येदं फलमुच्यते-यथा सत्येन ब्रह्मणेमे लोका आत्मसात्कृता जिता एवं सत्यात्मानं ब्रह्म महद्यक्षं प्रथमजं वेद स जयतीमाल्लोकान् ।
किञ्च जितो वशीकृत इन्न्वित्थं यथा ब्रह्मणासौ शत्रुरिति वाक्यशेषः ।
असच्चासद्भवेदसौ शत्रुर्जितो भवेदित्यर्थः ।
कस्यैतत्फलमिति पुनर्निगमयति-य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति ।
अतो विद्यानुरूपं फलं युक्तम् ।
सत्यं ह्येव यस्माद्ब्रह्म ॥1॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम् ॥4॥
स्तर्त् ब्र्हुप् 5,5.1
आप एवेदम् अग्र आसुः ।
ता आपः सत्यम् असृजन्त ।
सत्यं ब्रह्म ।
ब्रह्म प्रजापतिम् ।
प्रजापतिर् देवान् ।
ते देवाः सत्यम् एवोपासते ।
तद् एतत् त्र्यक्षरं स-ति-यम् इति स इत्य् एकम् अक्षरम् ।
तीत्य् एकम् अक्षरम् ।
यम् इत्य् एकम् अक्षरम् ।
प्रथमोत्तमे अक्षरे सत्यम् मध्यतो ऽनृतम् ।
तद् एतद् अनृतम् उभयतः सत्येन परिगृहीतम् ।
सत्यभूयम् एव भवति ।
नैवंविद्वांसम् अनृतं हिनस्ति
ब्र्हुप्भ्_5,5.1 सत्यस्य ब्रह्मणः स्तुत्यर्थमिदमाह ।
महद्यक्षं प्रथमजमित्युक्तं तत्कथं प्रथमजत्वमिति ।
उच्यते-आप एवेदमग्र आसुः ।
आप इति कर्मसमवायिन्यो ऽग्निहोत्राद्याहुतयः ।
अग्निहोत्राद्याहितेर्द्रवात्मकत्वादप्त्वम् ।
ताश्चाऽपो ऽग्नि होत्रादिकर्मापवर्गोत्तरकालं केनचिद्दृष्टेन सूक्ष्मेणाऽत्मना कर्मसमवायित्वमपरित्यजन्त्य इतरभूतसहिता एव न केवलाः ।
कर्मसमवायित्वात्तु प्राधान्यमपामिति ।
सर्वाण्येव भूतानि प्रागुत्पत्तेरव्याकृतावस्थानि कर्तृसहितानि निर्दिश्यन्त आप इति ।
ता आपो बीजभूता जगतो ऽव्याकृतात्मनावस्थितास्ता एवेदं सर्वं नामरूपविकृतं जगदग्र आसुर्नान्यत्किञ्चिद्विकारजातमासीत् ।
ताः पुनरापः सत्यमसृजन्त ।
तस्मात्सत्यं ब्रह्म प्रथमजम् ।
तदेतद्धिरण्यगर्भस्य सूत्रात्मनो जन्म यदव्याकृतस्य जगतो व्याकरणम् ।
तत्सत्यं ब्रह्म कुतः ।
महत्त्वात् ।
कथं महत्त्वमित्याह ।
यस्मात्सर्वस्य स्रष्ट्ट ।
कथम् ।
यत्सत्यं ब्रह्म तत् प्रजापतिं प्रजानां पतिं विराजं सूर्यादिकरणमसृजतेत्यनुषङ्गः ।
प्रजापतिर्देवान्स विराट्प्रजापतिर्देव नसृजत ।
यस्मात्सर्वमेवं क्रमेण सत्याद्ब्रह्मणो जातं तस्मान्महत्सत्यं ब्रह्म ।
कथं पुनर्यक्षमिति ।
उच्यते-त एवं सृष्टा देवाः पितरमपि विराजमतीत्य तदेव सत्यं ब्रह्मोपामते ।
अत एतत्प्रथमजं महद्यक्षम् ।
तस्मात्सर्वात्मनोपास्यं तत्तस्यापि सत्यस्य ब्रह्मणो नाम सत्यमिति तदेतत्त्र्यक्षरम् ।
कानि तान्यक्षराणीत्याह-स इत्येकमक्षरम् ।
तीत्येकमक्षरम् ।
तीतीकारानुबन्धो निर्देशार्थः ।
यमित्येकमक्षरम् ।
तत्र तेषां प्रथमोत्तमे अक्षरे सकारयकारौ सत्यम् ।
मृत्युरूपाभावात् ।
मध्यतो मध्ये ऽनृतम् ।
अनृतं हि मृत्युः ।
मृत्य्वनृतयोस्तकारसामान्यात् ।
तदेतदनृतं तकाराक्षरं मृत्युरूपमुभयतः सत्येन सकारयकारलक्षणेन परिगृहोतंव्याप्तमन्तर्भावितं सत्यरूपाभ्यामतो ऽकिञ्चित्करं तत्सत्यभूयमेव सत्यबाहुल्यमेव भवति ।
एवं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्याकिञ्चित्करत्वं च यो विद्वांस्तमेवं विद्वांसमनृतं कदाचित्प्रमादोक्तं न हिनस्ति ॥1॥
स्तर्त् ब्र्हुप् 5,5.2
तद् यत् तत् सत्यम् असौ स आदित्यः ।
य एष एतस्मिन् मण्डले पुरुषो यश् चायं दक्षिणे ऽक्षन् पुरुषस् ताव् एताव् अन्यो ऽन्यस्मिन् प्रतिष्ठितौ ।
रश्मिभिर् एषो ऽस्मिन् प्रतिष्ठितः प्राणैर् अयम् अमुष्मिन् ।
स यदोत्क्रमिष्यन् भवति शुद्धम् एवैतन् मण्डलं पश्यति ।
नैनम् एते रश्मयः प्रत्यायन्ति
ब्र्हुप्भ्_5,5.2 अस्याधुना सत्यस्य ब्रह्मणः संस्थानविशेष उपासनमुच्यते-तद्यत् ।
किं तत्सत्यं ब्रह्म प्रथमजं किमसौ सः ।
को ऽसावादित्यः कः पुनरसावादित्यो य एष क एष य एतस्मिन्नादित्यमण्डले पुरुषो ऽभिमानी सो ऽसौ सत्यं ब्रह्म ।
यश्चायमध्यात्मं यो ऽयं दक्षिणे ऽक्षन्नक्षणि पुरुषः ।
चशब्दात्स च सत्यं ब्रह्मेति संबन्धः ।
तावेतावादित्याक्षिस्थौ पुरुषावेकस्य सत्यस्य ब्रह्मणः संस्थानविशेषौ यस्मात्तस्मादन्योन्यस्मिन्नितरेतरस्मिन्नादित्यश्चाक्षुषे चाक्षुषश्चाऽदित्ये प्रतिष्ठितौ ।
अध्यात्माधिदैवतयोरन्योन्योपकार्योपकारकत्वात् ।
कथं प्रतिष्ठितावित्युच्यते रश्मिभिः प्रकाशेनानुग्रहं कुर्वन्नेष आदित्यो ऽस्मिंश्चाक्षुषे ऽध्यात्मे प्रतिष्ठितः ।
अयं च चाक्षुषः प्राणैरादित्यमनुगृह्णन्नमुष्मिन्नादित्ये ऽधिदैवे प्रतिष्ठितः ।
सो ऽस्मिञ्छरीरे विज्ञानमयो भोक्ता यदा यस्मिन्काल उत्क्रमिष्यन्भवति तदासौ चाक्षुष आदित्यपुरुषो रश्मीनुपसंहृत्य केवलेनौदासीन्येन रूपेण व्यवतिष्ठते ।
तदायं विज्ञानमयः पश्यति शुद्धमेव केवलं विरश्म्येतन्मण्डलं चन्द्रमण्डलमिव ।
तदेतदरिष्टदर्शनं प्रासह्गिकं प्रदर्शयते ।
कथं नाम पुरुषः करणीये यत्नवान्स्यादिति ।
नैनं चाक्षुषं पुरुषमुररीकृत्य तं प्रत्यनुग्रहायैते रश्मयः स्वामिकर्तव्यवशात्पूर्वमागच्छन्तो ऽपि पुनस्तत्कर्मक्षयमनुरुध्यमाना इव नोपयन्ति न प्रत्यागच्छन्त्येनम् ।
अतो ऽवगम्यते परस्परोपकार्योपकारकभावात्सत्यस्यैवैकस्याऽत्मनोंऽशा वेताविति ॥2॥
स्तर्त् ब्र्हुप् 5,5.3
य एष एतस्मिन् मण्डले पुरुषस् तस्य भूर् इति शिरः ।
एकं शिर एकम् एतद् अक्षरम् ।
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वर् इति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषद् अहर् इति ।
हन्ति पाप्मानं जहाति च य एवं वेद
ब्र्हुप्भ्_5,5.3 तत्र यो ऽसौ को य एष एतस्मिन्मण्डले पुरुषः सत्यनामा तस्य व्याहृतयो ऽवयवाः ।
कथम् ।
भूरिति येयं व्याहृतिः सा तस्य शिरः ।
प्राथम्यात् ।
तत्र सामान्यं स्वयमेवाह श्रुति-एकमेकसंख्यायिक्तं शिरस्तथैतदक्षरमेकं भूरिति ।
भुव इति बाहू द्वित्वसामान्याद्द्वौ बाहू द्वे एते अक्षरे ।
तथा स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे ।
प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति ।
तस्यास्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मण उपनिषद्रहस्यमभिधानम् ।
येनाभिधानेनाभिधीयमानं तद्ब्रह्माभिमुखो भवति लोकवत् ।
कासावित्याह - अहरिति अहरिति चैतद्रूपं हन्तेर्जहातेश्चेति यो वेद स हन्ति जहाति च पाप्मानं य एवं वेद ॥3॥
स्तर्त् ब्र्हुप् 5,5.4
यो ऽयं दक्षिणे ऽक्षन् पुरुषस् तस्य भूर् इति शिरः ।
एकं शिर एकम् एतद् अक्षरम् ।
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वर् इति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषद् अहम् इति ।
हन्ति पाप्मानं जहाति च य एवं वेद
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0