भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.6

5.6.1

ब्र्हुप्भ्_5,5.4 एवं यो ऽयं दक्षिणे ऽक्षन्पुरुषस्तस्य भूरिति शिर इत्यादि सर्वं समानम् ।
तस्योपनिषदहमिति ।
प्रत्यगात्मभूतत्वात् ।
पूर्ववद्धान्तेर्जहातेश्चेति ॥4॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम् ॥5॥
स्तर्त् ब्र्हुप् 5,6.1
मनोमयो ऽयं पुरुषो भाःसत्यः ।
तस्मिन्न् अन्तर् हृदये यथा व्रीहिर् वा यवो वा ।
स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वम् इदं प्रशास्ति यद् इदं किञ्च

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc