भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.4

5.4.1

ब्र्हुप्भ्_5,3.1 दमादिसाधनत्रयं सर्वोपासनशेषं विहितम् ।
दान्तो ऽलुब्धो दयालुः सन्सर्वोपासनेष्वधिक्रियते ।
तत्र निरुपाधिकस्य ब्रह्मणो दर्शनमतिक्रान्तमथाधुना सोपाधिकस्य तस्यैवाभ्युदयफलानि वक्तव्यानीत्येवमर्थो ऽयमारम्भः एष प्रजापतिर्यद्धृश्यं प्रजापतिरनुशास्तीत्यनन्तरमेवाभिहितम् ।
कः पुनरसावनुशास्ता प्रजापतिरिति ।
उच्यते - एष प्रजापतिः ।
को ऽसौ यथृदयं हृदयमिति हृदयस्था बुद्धिरुच्यते ।
यस्मिञ्शाकल्यब्राह्मणान्ते नामरूपकर्मणामुपसंहार उक्तो दिग्विभागद्वारेण तदेतत्सर्वभूतप्रतिष्ठं सर्वभूतात्मभूतं हृदयं प्रजापतिः प्रजानां स्रष्टा ।
एतद्ब्रह्म बृहत्त्वात्सर्वात्मत्वाच्च ब्रह्म ।
एतत् सर्वम् ।
उक्तम पञ्चमाध्याये हृदयस्य सर्वत्वम् ।
तत्सर्वं यस्मात्तस्मादुपास्यं हृदयं ब्रह्म ।
तत्र हृदयनामाक्षरविषयमेव तावदुपासनमुच्यते ।
तदेतद्धृदयमिति नाम त्र्यक्षरं त्रीण्यक्षराण्यस्येति त्र्यक्षरम् ।
कानि पुनस्तानि त्रीण्यक्षराण्युच्यन्ते ।
हृ इत्येकमक्षरम् ।
अभिहरन्ति हृतेराहृतिकर्मणो हृ इत्येतद्रूपमिति यो वेद यस्माद्धृदयाय ब्रह्मणे स्वाश्चेन्द्रियाण्यन्ये च विषयाः शब्दादयः स्वं स्वं कार्यमभिहरन्तिहृदयं च भोक्त्रर्थमभिहरति ।
अतो हृदयनाम्नो हृ इत्येतदक्षरमिति यो वेदास्मै विदुषे ऽभिहरन्ति स्वाश्च ज्ञातयो ऽन्ये चासंबद्धाः ।
बलिमिति वाक्यशेषः ।
विज्ञानानुरूप्येणैतत्फलम् ।
तथा द इत्येतदप्येकाक्षरमेतदपि दानार्थस्य ददातेर्द इत्येतद्रूपं हृदयनामाक्षरत्वेन निबद्धम् ।
अत्रापि हृदयाय ब्रह्मणो स्वाश्च करणान्यन्ये च विषयाः स्वं स्वं वीर्यं ददति हृदयं च भोक्त्रे ददाति स्वं वीर्यमतो दकार इत्येवं यो वेदास्मै ददति स्वाश्चान्ये च ।
तथा यमित्येतदप्येकमक्षरम् ।
इणो गत्यर्थस्य यमित्येतद्रूपमस्मिन्नाम्नि निबद्धमिति यो वेद स स्वर्गं लोकमेति ।
एवं नामाक्षरादपीदृशं विशिष्टं फलं प्राप्नोति किमु वक्तव्यं हृदयस्वरूपो पासनादिति हृदयस्तुतये नामाक्षरोपन्यासः ॥1॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य तृतीयं ब्राह्मणम् ॥3॥
स्तर्त् ब्र्हुप् 5,4.1
तद् वै तद् एतद् एव तद् आस ।
सत्यम् एव ।
स यो हैतं महद् यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल् लोकान् -- जित इन् न्व् असाव् असत् -- य एवम् एतन् महद् यक्षं प्रथमजं वेद सत्यं ब्रह्मेति ।
सत्यं ह्य् एव ब्रह्म

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc