बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.3
ब्र्हुप्भ्_5,2.3 तथासुरा दयध्वमिति ।
क्रूरा यूयं हिंसादिपरा अतो दयध्वं प्राणिषु दयां कुरुतेति ।
तदेतत्प्रजापतेरनुशासनमद्याप्यनुवर्तत एव ।
यः पूर्वं प्रजापतिर्देवादीननुशशास सो ऽद्याप्यनुशास्त्येव दैव्या स्तनयित्नुलक्षणया वाचा कथमेषा श्रूयते दैवो वाक् ।
कासौ स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमित्येषां वाक्यानामुपलक्षणाय त्रिर्दकार उच्चार्यते ऽनुकृतिर्न तु स्तनयित्नुशब्दस्त्रिरेव संख्यानियमस्य लोको ऽप्रसिद्धत्वात् ।
यस्मादद्यापि प्रजापतिर्दाम्यत दत्त दयध्वमित्यनुशास्त्येव तस्मात्कारणादेतत्त्रयम् ।
किं तत् त्रयमित्युच्यते दमं दानं दयामिति शिक्षेदुपादद्यात्प्रजापतेरनुशासनमस्माभिः कर्तव्यमित्येवं कर्तव्यमित्येवं मतिं कुर्यात् ।
तथा च स्मृतिः - त्रिविधं नरकस्येदं द्वारं नाशतमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् इति ।
अस्य हि विधेः शेषः पूर्वः ।
तथापि देवादीनुद्दिश्य किमर्थं दकारत्रयमुच्चारितवान्प्रजापतिः पृथगनुशासनार्थिभ्यः ।
ते वा कथं विवेकेन प्रतिपन्नाः प्रजापतेर्मनोगतं समानेनैव दकारवर्णमात्रेणेति पराभिप्रायज्ञा विकल्पयन्ति ।
अत्रैक आहुरदान्तत्वादानात्वादयासुत्वैरपराधित्वमात्मनो मन्यमानाः शङ्किता एव प्रजापतावूषुः किं नो वक्ष्यतीति ।
तेषां च दकारश्रवणमात्रादेवाऽत्माशङ्कावशेन तदर्थप्रतिपत्तिरभूत् ।
लोके ऽपि हि प्रसिद्धं पुत्राः शिष्याश्चानुशास्याः सन्तो दोषान्निवर्तयितव्या इति ।
अतो युक्तं प्रजापतेर्दकारमात्रोच्चारणम् ।
दमादित्रये च दकारान्वयादात्मनो दोषानुरूप्येण देवादीनां विवेकेन प्रतिपत्तुं चेति ।
फलं त्वेतदात्मदोषज्ञाने सति दोषान्निवर्तयितुं शक्यते ऽल्पेनाप्युपदेशेन दकारमात्रेणेति ।
नन्वेतत् त्रयाणां देवादीनामनुशासनं देवादिभिरप्येकैकमेवोपादेयमद्यत्वे ऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति ।
अत्रोच्यते - पूर्वैर्दैवादिभिरप्येकैकमेवोपादेयमद्यत्वे ऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति ।
अथवा न देवा असुरा वान्ये केचन विद्यन्ते मनुष्येभ्यः ।
मनुष्याणामेवादान्ता ये ऽन्यैरुत्तमैर्गुणैः संपन्नास्ते देवा लोभप्रधाना मनुष्यास्तथा हिंसापराः क्रूरा असुरास्त एव मनुष्या अदान्तत्वादिदोषक्षत्रयमपेक्ष्य देवादिविशब्दभाजो भवन्तीतरांश्च गुणान्सत्त्वरजस्तमांस्यपेक्ष्य ।
अतो मनुष्यैरेव शिक्षितव्यमेतत् त्रयमिति तदपेक्षयैव प्रजापतिनोपदिष्टत्वात् ।
तथा हि मनुष्यः अदान्ता लुब्धाः क्रूराश्च दृश्यन्ते ।
तथा च स्मृतिः कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् इति ॥3॥
इति बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य द्वितीयं ब्राह्मणम् ॥2॥
स्तर्त् ब्र्हुप् 5,3.1
एष प्रजापतिर् यद् धृदयम् ।
एतद् ब्रह्म ।
एतत् सर्वम् ।
तद् एतत् त्र्यक्षरं हृदयम् इति ।
हृ इत्य् एकम् अक्षरम् ।
अभिहरन्त्य् अस्मै स्वाश् चान्ये च य एवं वेद ।
द इत्य् एकम् अक्षरम् ।
ददत्य् अस्मै स्वाश् चान्ये च य एवं वेद ।
यम् इत्य् एकम् अक्षरम् ।
एति स्वर्गं लोकं य एवं वेद
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0