भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.2

5.2.1

ब्र्हुप्भ्_5,1.1 पूर्णमदः पूर्णं न कुतश्चिद् व्यावृत्तं व्यापीत्येतत् ।
निष्ठा च कर्तरि द्रष्टव्या ।
अद इति परोक्षाभिधायि सर्वनाम, तत्परं ब्रह्मेत्यर्थः ।
तत् सम्पूर्णमाकाशवद् व्यापि निरन्तरं निरुपाधिकं च तदेवेदं सोपाधिकं नामरूपस्थंव्यवहारापन्नं पूर्णं स्वेन रूपेण परमात्मना व्याप्येव नोपाधिपरिच्छिन्नेन विशेषात्मना ।
तदिदं विशेषापन्नं कार्यात्मकं ब्रह्म पूर्णात् कारणात्मन उदच्यत उद्रिच्यत उद्गच्छतीत्येतत् ।
यद्यपि कार्यात्मनोद्रिच्यते तथापि यत् स्वरूपं पूर्णत्वं परमात्मभावं तन्न जाहाति पूर्णमेवोद्रिच्यते ।
पूर्णस्य कार्यात्मनो ब्रह्मणः पूर्ण पूर्णत्वमादाय गृहीत्वा आत्मस्वरूपैकरसत्वमापद्य, विद्यया अविद्याकृतं भूतमात्रोपाधिसंसर्गजमन्यत्वावभासं तिरस्कृत्य पूर्णमेवानन्तरमवाह्यं प्रज्ञानघनैकरसस्वभावं केवलं ब्रह्मावशिष्यते ।
यदुक्तं ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत्तस्मात्तत्सर्वमभवदित्येषो ऽस्य मन्त्रस्यार्थः ।
तत्र ब्रह्मेत्यस्यार्थः पूर्णमद इति ।
इदं पूर्णमिति ब्रह्म वा इदमग्र आसीदित्यस्यार्थः ।
तथा च श्रुत्यन्तरम्-"यदेवेह तदमुत्रयदमुत्र तदन्विह"इति ।
अतो ऽदःशब्दवाच्यं पूर्णं ब्रह्म तदेवेदं पूर्णं कार्यस्थं नामरूपोपाधिसंयुक्तमविद्ययोद्रिक्तम् ।
तस्मादेव परमार्थस्वरूपादन्यदिव प्रत्यवभासमानम् ।
तद्यदात्मानमेव परं पूर्णं ब्रह्म विदित्वाहमदः पूर्णं ब्रह्मास्मीत्येवं पूर्णमादाय तिरस्कृत्यापूर्णस्वरूपतामविद्याकृतां नामरूपोपाधिसंपर्कजामेतया ब्रह्मविद्यया पूर्णमेव केवलमवशिष्यते ।
तथा चोक्तम्"तस्मात्तत्सर्वमभवत्"इति ।
यः सर्वोपनिषदर्थो ब्रह्म स एषो ऽनेन मन्त्रेणानूद्यत उत्तरसम्बन्धार्थम् ।
ब्रह्मविद्यासाधनत्वेन हि वक्ष्यमाणानि साधनान्योङ्कारदमदानदयाख्यानि विधित्सितानि खिलप्रकरणसम्बन्धात्सर्वोपासनाङ्गभूतानि च ।
अत्रैके वर्णयन्ति-पूर्णात्कारणात्पूर्णं कार्यमुद्रिच्यते ।
उद्रिक्तं कार्यं वर्तमानकाले ऽपि पूर्णमेव परमार्थवस्तुभूतं द्वैतरूपेण ।
पुनः प्रलयकाले पूर्णस्य कार्यस्य पूर्णतामादायाऽत्मनि धित्वा पूर्णमेवावशिष्यते कारणरूपम् ।
एवमुत्पत्तिस्थितिप्रलयेषु त्रिष्वपि कालेषु कार्यकारणयोः पूर्णतैव ।
सा चैकैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते ।
एवं च द्वैताद्वैतात्मकमेकं ब्रह्म ।
यथा किल समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक एव ।
यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेलबुद्बुदादयः समुद्रात्मभूता एवाऽविर्भावतिरोभावधर्मिणः परमार्थसत्या एव ।
एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादिस्थानीयं समुद्रजलस्थानीयं तु परं ब्रह्म ।
एवं च किल द्वैतस्य सत्यत्वे कर्मकाण्डस्य प्रामाण्यं यदा पुनर्द्वैतं द्वैतमिवाविद्याकृतं मृगतृष्णिकावदनृतमद्वैतमेव परमार्थतस्तदा किल कर्मकाण्डं विषयाभावादप्रमाणं भवति ।
तथा च विरोध एव स्यात् ।
वेदैकदेशभूतोपनिषत्प्रमाणं परमार्थाद्वैतवस्तुप्रतिपादकत्वादप्रमाणं कर्मकाण्डमसद्द्वैतविषयत्वात् ।
तद्विरोधपरिजिहीर्षया श्रुत्यैतदुक्तं कार्यकारणयोः सत्यत्वं समुद्रवत्पूर्णमद इत्यादिनेति ।
तदसत् ।
विशिष्टविषयापवादविकल्पयोरसम्भवात् ।
न हीयं सुविवक्षिता कल्पना ।
कस्मात् ।
यथा क्रियाविषय उत्सर्गप्राप्तस्यैकदेशे ऽपवादः क्रियते ।
यथाहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्य इति हिंसा सर्वभूतविषयोत्सर्गेण निवारिता तीर्थे विशिष्टविषये ज्योतिष्टोमादावनुज्ञायते ।
न च तथा वस्तुविषय इहाद्वैतं ब्रह्मोत्सर्गेण प्रतिपाद्य पुनस्तदेकदेशे ऽपवदितुं शक्यते ।
ब्रह्मणो ऽद्वैतत्वादेवैकदेशानुपपत्तेः ।
तथा विकल्पानुपपत्तेश्च ।
यथातिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीति ग्रहणाग्रहणयोः पुरुषाधीनत्वाद्विकल्पो भवति ।
न त्विह तथा वस्तुविषये द्वैतं वा स्यादद्वैतं वेति विकल्पः सम्भवत्यपुरुषतन्त्रत्वादात्मवस्तुनः ।
विरोधाच्च द्वैताद्वैतत्वयोरेकस्य ।
तस्मान्न सुविवक्षितेयं कल्पना ।
श्रुतिन्यायविरोधाच्च ।
सैन्धवघनवत्प्रज्ञानैकरसघनं निरन्तरं पूर्वापरबाह्याभ्यन्तरभेदविवर्जितं सबाह्याभ्यन्तरमजं नेति नेत्यस्थूलमनण्वजमजरमभयममृतमित्येवमाद्याः श्रुतयो निश्चितार्थाः संशयविपर्यासाशङ्कारहिताः सर्वाः समुद्रे प्रक्षिप्ताः स्युरकिञ्चित्करत्वात् ।
तथा न्यायविरोधो ऽपि सावयवस्यानेकात्मकस्य क्रियावतो नित्यत्वानुपपत्तेः ।
नित्यत्वं चाऽत्मनः स्मृत्यादिदर्शनादनुमीयते ।
तद्विरोधश्च प्राप्नोत्यनित्यत्वे ।
भवत्कल्पनानर्थक्यं च ।
स्फुटमेव चास्मिन्पक्षे कर्मकाण्डानर्थक्यम् ।
अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् ।
ननु ब्रह्मणो द्वैताद्वैतात्मकत्वे समुद्रादिदृष्टान्ता विद्यन्ते कथमुच्यते भवतैकस्य द्वैताद्वैतत्वं विरुद्धमिति ।
न ।
अन्यविषयत्वात् ।
नित्यानिरवयववस्तुविषयं हि विरुद्धत्वमवोचाम द्वैताद्वैतत्वस्य न कार्यविषये सावयवे ।
तस्माच्छ्रुतिस्मतिन्यायविरोधादनुपपन्नेयं कल्पना ।
अस्याः कल्पनाया वरमुपनिषत्परित्याग एव ।
अध्येयत्वाच्च न सास्त्रार्थेयं कल्पना ।
न हि जननमरणाद्यनर्थशतसहस्रभेदसमाकुलं समुद्रवनादिवत्सावयवमनेकरसं ब्रह्म ध्येयत्वेन विज्ञेयत्वेन वा श्रुत्योपदिश्यते ।
प्रज्ञानघनतां चोपदिशति ।
एकधैवानुद्रष्टव्यमिति च ।
अनेकधादर्शनापवादाच्च"मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति"इति ।
यच्च श्रुत्या निन्दितं तन्न कर्तव्यम् ।
यच्च न क्रियते न स शास्रार्थः ।
ब्रह्मणो ऽनेकरसत्वमनेकधात्वं च द्वैतरूपं निन्दितत्वान्न द्रष्टव्यम् ।
अतो न शास्रार्थः ।
यत्त्वेकरसत्वं ब्रह्मणस्तद्द्रष्टव्यत्वात्प्रशस्तं प्रशस्तत्वाच्च शास्त्रार्थो भवितुमर्हति ।
यत्तूक्तं वेदैकदेशस्याप्रामाण्यं कर्मविषये द्वैताभावादद्वैते च प्रामाण्यमिति ।
तन्न ।
यथाप्राप्तोपदेशार्थत्वात् ।
न हि द्वैतमद्वैतं वा वस्तु जातमात्रमेव पुरुषं ज्ञापयित्वा पश्चात्कर्म वा ब्रह्मविद्यां वोपदिशति शास्रम् ।
न चोपदेशार्हं द्वैतं जातमात्रप्राणिबुद्धिगम्यत्वात् ।
न च द्वैतस्यानृतत्वबुद्धिः प्रथममेव कस्याचित्स्यात् ।
येन द्वैतस्य सत्यत्वमुपदिश्य पश्चादात्मनः प्रामाण्यं प्रतिपादयेच्छास्रम् ।
नापि पाषण्डिभिरपि प्रस्थापिताः शास्रस्य प्रामाण्यं न गृह्णीयुः ।
तस्माद्यथाप्राप्तमेव द्वैतमविद्याकृतं स्वाभाविकमुपादाय स्वाभाविक्यैवाविद्यया युक्ताय रागद्वेषादिदोषवते यथाभिमतपुरुषार्थसाधनं कर्मोपदिशत्यग्रे पश्चात्प्रसिद्धक्रियाकारकफलस्वरूपदोषदर्शनवते तद्बिपरीतौदासीन्यस्वरूपावस्थानफलार्थिने तदुपायभूतामात्मैकत्वदर्शनात्मिकां ब्रह्मविद्यामुपदिशति ।
अथैवं सति तदौदासीन्यस्वरूपावस्थाने फले प्राप्ते शास्रस्य प्रामाण्यं प्रत्यर्थित्वं निवर्तते ।
तदभावाच्छास्रस्यापि शास्रत्वं तं प्रति निवर्तत एव ।

तथा प्रतिपुरुषं परिसमाप्तं शास्रमिति न शास्रविरोधगन्धो ऽप्यस्ति ।
अद्वैतज्ञानावसानत्वाच्छास्रशिष्यशासनादिद्वैतभेदस्य ।
अन्यतमावस्थाने हि विरोधः स्यादवस्थितस्येतरेतरापेक्षत्वात्तु शास्रशिष्यशासनानां नान्यतमो ऽप्यवतिष्ठते ।
सर्वसमाप्तौ तु कस्य विरेध आशङ्क्येताद्वैते केवले शिवे सिद्धे ।
नाप्यविरोधतात एव ।
अथाप्यभ्युपगम्य ब्रूमः-द्वैताद्वैतात्मकत्वे ऽपि शास्रविरोधस्य तुल्यत्वात् ।
यदापि समुद्रादिवद्द्वैतात्मकमेकमेव ब्रह्म नान्यदस्तीति विरुध्यते ।
यस्मिन्द्वैतविषये ऽन्योन्योपदेशः सो ऽन्यो द्वैतं चान्यदेवेति समुद्रदृष्टान्तो विरुद्धः ।
न च समुद्रोदकैकत्ववद्विज्ञानैकत्वे ब्रह्मणो ऽन्यत्रोपदेशग्रहणादिकल्पना सम्भवति ।
न हि हस्तादिद्वैताद्वैतात्मके देवदत्ते वाक्कर्णयोर्देवदत्तैकदेशभूतयोर्वागुपदेष्ट्री कर्णः केवल उपदेशस्य ग्रहीता देवदत्तस्तु नोपदेष्टा नाप्युपदेशस्य ग्रहीतेति कल्पयितुं शक्यते ।
समुद्रैकोदकात्मत्ववदेकविज्ञानवत्वाद्देवदत्तस्य ।
तस्माच्छ्रतिन्यायविरोधश्चाभिप्रेतार्थासिद्धिश्चैवङ्कल्पनायां स्यात् ।
तस्माद्यथाव्याख्यात एवास्माभिः पूर्णमद इत्यस्य मन्त्रस्यार्थः ।
ओं खं ब्रह्मेति मन्त्रो ऽयं चान्यत्राविनियुक्त इह ब्राह्मणेन ध्यानकर्मणि विनियुज्यते ।
अत्र च ब्रह्मेति विशेष्याभिधानं खमिति विशेषणम् ।
विशेषणविशेष्ययोश्च सामानाधिकरण्येन निर्देशो नीलोत्पलवत् खं ब्रह्मेति ।
ब्रह्मशब्दो बृहद्वस्तुमात्रास्पदो ऽविशेषितो ऽतो विशेष्यते खं ब्रह्मेति ।
यत्तत्खं ब्रह्म तदोंशब्दवाच्यमोंशब्दस्वरूपमेववोभयथापि सामानाधिकरण्यमविरुद्धम् ।
इह च ब्रह्मोपासनसाधनत्वार्थमोंशब्दः प्रयुक्तः ।
तथा च श्रुत्यन्तरात्"एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्" "ओमित्यात्मानं युञ्जीत" "ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत""ओमित्येवं ध्यायथ आत्मानम्"इत्यादेः ।
अन्यार्थासंभवाच्चोपदेशस्य ।
यथाऽन्यत्रोमिति शंसत्योमित्युद्गायतीत्येवमादौ स्वाध्यायारम्भापवर्गयोश्चोङ्कारप्रयोगो विनियोगादवगम्यते न च तथार्ऽथान्तरमिहावगम्यते ।
तस्माद्ध्यानसाधनत्वेनैवेहोङ्कारशब्दस्योपदेशः ।
यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकास्तथापि श्रुतिप्रामाण्याद्ब्रह्मणो नेदिष्ठमभिधानमोङ्कारः ।
अत एव ब्रह्मप्रतिपत्ताविदं परं साधनम् ।
तच्च द्विप्रकारेण प्रतीकत्वेनाभिधानत्वेन च ।
प्रतीकत्वेन यथा विष्ण्वादिप्रतिमाभेदेन, एवमोङ्कारो ब्रह्मेति प्रतिपत्तव्यः ।
तथा ह्योङ्कारालम्बनस्य ब्रह्म प्रसीदति ।
"एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते"इति श्रुतेः ।
तत्र खमिति भौतिके खे प्रतीतिर्मा भूदित्याह-खं पुराणं चिरतनं खं परमात्माकाशमित्यर्थः ।
यत्तत्परमात्माकाशं पुराणं खं तच्चक्षुराद्यविषयत्वान्निरालम्बनमशक्यं ग्रहीतुमिति श्रद्धाभक्तिभ्यां भावविशेषेण चोङ्कार आवेशयति ।
यथा विष्ण्वङ्गाङ्कितायां शिलादिप्रतिमायां विष्णुं लोक एवम् ।
वायुरं खं वायुरस्मिन्विद्यत इति वायुरं खं खमात्रं खमित्युच्यते न पुराणं खमित्येवमाह स्म ।
को ऽसौ ।
कौरव्यायणीपुत्रः ।
वायुरे हि खे मुख्यः स्वशब्दव्यवहारस्तस्मान्मुखे संप्रत्ययो युक्त इति मन्यते ।
तत्र यदि पुराणं खं ब्रह्म निरूपाधिस्वरूपं यदि वा वायुरं खं सोपाधिकं ब्रह्म सर्वथाप्योङ्कारः प्रतीकत्वेनैव प्रतिमावत्साधनत्वं प्रतिपद्यते ।
एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः इति श्रुत्यन्तरात् ।
केवलं स्वशब्दार्थे विप्रतिपत्तिः ।
वेदो ऽयमोङ्कारो वेद विजानात्यनेन यद्वेदितव्यम् ।
तस्माद्वेद ओङ्कारो वाचको ऽभिधानम् ।
तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमानमभिधीयमानं वेद साधको विजानात्युपलभते ।
तस्माद्वेदो ऽयमिति ब्राह्मणा विदुः ।
तस्माद्ब्राह्यणानामभिधानत्वेन साधनत्वमभिप्रेतमोङ्कारस्य ।
अथवा वेदो ऽयमित्याद्यर्थवादः ।
कथमोङ्कारो ब्रह्मणः प्रतीकत्वेन विहितः ।
ओं खं ब्रह्मेति सामानाधिकरण्यात्तस्य स्तुतिरिदानीं वेदत्वेन ।
सर्वो ह्ययं वेद ओङ्कार एव ।
एतत्प्रभव एतदात्मकः सर्वं ऋग्यजुःसामादिभेदभिन्न एव ओङ्कारः तद्यथा शङ्कुना सर्वाणि पर्णानि इत्यादिश्रुत्यन्तरात् ।
इतश्चायं वेद ओङ्कारो यद्वेदितव्यं तत्सर्वं वेदितव्यमोङ्कारो वेदः ।
इतरस्यापि वेदस्य वेदत्वमत एव ।
तस्माद्विशिष्टो ऽयमोङ्कारः साधनत्वेन प्रतिपत्तव्य इति ।
अथवा वेदः सः ।
को ऽसौ ।
यं ब्राह्मणा विदुरोङ्कारात् ।
ब्राह्मणानां ह्यसौ प्रणवोद्गोथादिविकल्पैर्विज्ञेयः ।
तस्मिन्हि प्रयुज्यमाने साधनत्वेन सर्वो वेदः प्रयुक्तो भवतीति ॥1॥
इति श्रीबृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य प्रथमं ब्राह्मणम् ॥1॥
स्तर्त् ब्र्हुप् 5,2.1
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुः ।
देवा मनुष्या असुराः ।
उषित्वा ब्रह्मचर्यं देवा ऊचुर् ब्रवीतु नो भवान् इति ।
तेभ्यो हैतद् अक्षरम् उवाच द इति ।
व्यज्ञासिष्टा3 इति ।
व्यज्ञासिष्मेति होचुः ।
दाम्यतेति न आत्थेति ।
ओम् इति होवाच व्यज्ञासिष्टेति

5.2.2

ब्र्हुप्भ्_5,2.1 अधुना दमादिसाधनत्रयविधानार्थोंऽयमारम्भः - त्रयास्त्रिसंख्याकाः प्रजापत्याः प्रजापतेरपत्यानि प्राजापत्यास्ते किं प्रजापत्तौ पितरि ब्रह्मचर्यं शिष्यत्ववृत्तेर्ब्रह्मचर्यस्य प्राधान्याच्छिष्याः सन्तो ब्रह्मचर्यमूषुरुषितवन्त इत्यर्थः ।
के ते ।
विशेषतो देवा मनुष्या असुराश्च ।
ते चोषित्वा ब्रह्मचर्यं किमकुर्वन्नित्युच्यते - तेषां देवा ऊचुः पितरं प्रजापतिम् ।
किमिति ।
ब्रवीतु कथयतु नो ऽस्मभ्यं यदनुशासनं भवानिति ।
तेभ्य एवमर्थिभ्यो हैतदक्षरं वर्णमात्रमुवाच द इति ।
उक्त्वा च तान्पप्रच्छ पिता किं व्यज्ञासिष्टा3इति ।
मयोपदेशार्थमभिहितस्याक्षरस्यार्थं विज्ञातवन्त आहोस्विन्नेति ।
देवा ऊचुर्व्यज्ञासिष्मेति विज्ञातवन्तो वयम् ।
यद्येवमुच्यतां किं मयोक्तमिति ।
देवा ऊचुर्दाभ्यतादान्ता यूयं स्वभावतो ऽतो दान्ता भवतेति नो ऽस्मानात्थ कथयति ।
इतर आहोमिति सम्यग्व्यज्ञासिष्टेति ॥1॥
स्तर्त् ब्र्हुप् 5,2.2
अथ हैनं मनुष्या ऊचुर् ब्रवीतु नो भवान् इति ।
तेभ्यो हैतद् एवाक्षरम् उवाच द इति ।
व्यज्ञासिष्टा3 इति ।
व्यज्ञासिष्मेति होचुः ।
दत्तेति न आत्थेति ।
ओम् इति होवाच व्यज्ञासिष्टेति

5.2.3

ब्र्हुप्भ्_5,2.2 समानमन्यत् ।
स्वभावतो लुब्धा यूयमतो यथाशक्ति संविभजत दत्तेति नो ऽस्मानात्थ किमन्यद्ब्रूयान्नो हितमिति मनुष्याः ॥2॥
स्तर्त् ब्र्हुप् 5,2.3
अथ हैनम् असुरा ऊचुर् ब्रवीतु नो भवान् इति ।
तेभ्यो हैतद् एवाक्षरम् उवाच द इति ।
व्यज्ञासिष्टा3 इति ।
व्यज्ञासिष्मेति होचुः ।
दयध्वम् इति न आत्थेति ।
ओम् इति होवाच व्यज्ञासिष्टेति ।
तद् एतद् एवैषा दैवी वाग् अनुवदति स्तनयित्नुर् द द द इति ।
दम्यत दत्त दयध्वम् इति ।
तद् एतत् त्रयं शिक्षेद् दमम् दानम् दयाम् इति

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc