भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.1

5.1.1

ब्र्हुप्भ्_4,6.1-3 अथानन्तरं याज्ञवल्कीयस्य काण्डस्य वंश आरभ्यते यथा मधुकाण्डस्य वंशः ।
व्याख्यानं तु पूर्ववत् ।
ब्रह्म स्वयंभु ब्रह्मणे नम ओंमिति ॥4,6.1-3 ॥
इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य षष्ठं ब्राह्मणम् ॥6 ॥
इति बृहदारण्यकोपनिषदि चतुर्थो ऽध्यायः ॥4 ॥
बृहदारण्यकक्रमेण षष्ठो ऽध्यायः ॥6॥
=======================================================================
अध्यय 5
ओं अथ पञ्चमो ऽध्यायः
अथ पञ्चमाध्यायस्य प्रथमं ब्राह्मणम्
स्तर्त् ब्र्हुप् 5,1.1
पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते ।
पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ।
खं ब्रह्म ।
खं पुराणम् ।
वायुरं खम् ।
इति ह स्माह कौरव्यायणीपुत्रः ।
वेदो ऽयं ब्राह्मणा विदुः ।
वेदैनेन यद् वेदितव्यम्

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc