भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.13

5.13.1

ब्र्हुप्भ्_5,12.1 अन्नं ब्रह्मेति ।
तथैतदुपासनान्तरं विधित्सन्नाह-अन्नं ब्रह्मान्नमद्यते यत्तद्ब्रह्मेत्येक आचार्या आहुस्तन्न तथा ग्रहीतव्यमन्नं ब्रह्मेति ।
अन्ये चाऽहुः प्राणो ब्रह्मेति तच्च तथा न ग्रहीतव्यम् ।
किमर्थं पुनरन्नं ब्रह्मेति न ग्राह्यम् ।
यस्मात्पूयति क्लिद्यते पूतिभावमापद्यत ऋते प्राणात्तत्कथं ब्रह्म भवितुमर्हति ।
ब्रह्म हि नाम तद्यदविनाशि ।
अस्तु तर्हि प्राणो ब्रह्म ।
नैव ।
यस्माच्छुष्यति वै प्राण ऋते ऽन्नात् ।
अत्ता हि प्राणः ।
अतो ऽन्नेनाऽद्येन विना न शक्नोत्यात्मानं धारयितुम् ।
तस्माच्छ्रुष्यति वै प्राण ऋते ऽन्नात् ।
अत एकैकस्य ब्रह्मता नोपपद्यते यस्मात्तस्मादेते ह त्वेवान्नप्राणदेवते एकधाभूयमेकधाबावं भूत्वा गत्वा परमतां परमत्वं गच्छतो ब्रह्मत्वं प्राप्नुतः ।
तदेतदेवमध्यवस्य ह स्माऽह स्म प्रातृदो नाम पितरात्मनः किंस्विदितिस्विदिति वितर्के ।
यथा मया ब्रह्म परिकल्पितमेवं विदुषे किंस्वित्साधु कुर्यां साधु शोभनं पूजां कां त्वस्मै कुर्यामित्यभिप्रायः ।
किनेवास्मै विदुषे ऽसाधु कुर्यां कृतकृत्यो ऽसावित्यभिप्रायः ।
अन्नप्राणौ सहभूतो ब्रह्मेति विद्वान्नासावसाधुकरमेन खण्डितो भवति ।
नापि साधुकरणेन महीकृतः ।
तदेवंवादिनं स पिता ह स्माऽह पाणिना हस्तेन निवारयन्मा प्रातृद मैवं वोचः ।
कस्त्वेनयोरन्नप्राणयोरेकधाभूयं भूत्वा परमतां कस्तु गच्छति न कश्चिदपि विद्वाननेन ब्रह्मदर्शनेन परमतां गच्छति ।
तस्मान्नैवं वक्तुमर्हसि कृतकृत्यो ऽसाविति ।
यद्येवं ब्रवीतु भवान्कथं परमतां गच्छतीति ।
तस्मा उ हैतद्वक्ष्यमाणं वच उवाच ।
किं तत् ।
वीति ।
किं तद्वीति ।
उच्यते-अन्नं वै वि ।
अन्ने हि यस्मादिमानि सर्वाणि भूतानि विष्टान्याश्रितान्यतो ऽन्नं वीत्युच्यते ।
किञ्च रमिति ।
रमिति चोक्तवान्पिता ।
किं पुनस्तद्रम् ।
प्राणो वै रम् ।
कुत इत्याह ।
प्राणे हि कश्चिदनायतनो निराश्रयो रमते ।
नापि सत्यप्यायतने ऽप्राणो दुर्बलो रमते ।
यदा त्वायतनवान्प्राणी बलवांश्च तदा कृतार्थमात्मानं मन्यमानो रमते लोकः ।
"युवा स्यात्साधुयुवाध्यायकः"इत्यादिश्रुतेः ।
इदानीमेवंविदः फलमाह - सर्वाणि ह वा अस्मिन्भूतानि विशन्त्यन्नगुणज्ञानात्सर्वाणि भूतानि रमन्ते प्राणगुणज्ञानाद्य एवं वेद ॥1॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य द्वादशं ब्राह्मणम् ॥12॥
स्तर्त् ब्र्हुप् 5,13.1
उक्थम् ।
प्राणो वा उक्थम् ।
प्राणो हीदं सर्वम् उत्थापयति ।
उद् धस्माद् उक्थविद् वीरस् तिष्ठति ।
उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद

5.13.2

ब्र्हुप्भ्_5,13.1 उक्थम् ।
तथोपासनान्तरमुक्थं शस्रम् ।
तद्धि प्रधानं महाव्रते क्रतौ ।
किं पुनस्तदुक्थम् ।
प्राणो वा उक्थम् ।
प्राणश्च प्रधान इन्द्रियाणामुक्थं च शस्राणामत उक्थमित्युपासीत ।
कथं प्राण उक्थमित्याह-प्राणो हि यस्मादिदं सर्वमुत्थापयति ।
उत्थापनादुक्थ प्राणः ।
न ह्यप्राणः कश्चिदुत्तिष्ठति ।
तदुपासनफलमाह-उद्धास्मादेवंविद उक्थवित्प्राणविद्वीरः पुत्र उत्तिष्ठति ह दृष्टमेतत्फलम् ।
अदृष्टं तूक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥1॥
स्तर्त् ब्र्हुप् 5,13.2
यजुः ।
प्राणो वै यजुः ।
प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते ।
युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय ।
यजुषः सायुज्यं सलोकतां जयति य एवं वेद

5.13.3

ब्र्हुप्भ्_5,13.2 यजुरिति चोपासीत प्राणम् ।
प्राणौ वै यजुः ।
कथं युजः प्राणः ।
प्राणे हि यस्मात्सर्वाणि भूतानि युज्यन्ते ।
न ह्यसति प्राणे केनचित्कस्यचिद्योगसामर्थ्यम् ।
अतो युनक्तीति प्राणो यजुः ।
एवंविदः फलमाह-युज्यन्त उद्यच्छन्त इत्यर्थः ।
हास्मा एवंविदे सर्वाणि भूतानि श्रैष्ठ्यं श्रेष्ठभावस्तस्मै श्रैष्ठ्याय श्रेष्ठभावाय नः श्रेष्ठो भवेदिति ।
यजुषः प्राणस्य सायुज्यमित्यादि सर्व समानम् ॥2 ॥ ॥
स्तर्त् ब्र्हुप् 5,13.3
साम ।
प्राणो वै साम ।
प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि ।
सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते ।
साम्नः सायुज्यं सलोकतां जयति य एवं वेद

5.13.4

ब्र्हुप्भ्_5,13.3 सामेति चोपासीत प्राणम् ।
प्राणो वै साम ।
कथं प्राणः साम ।
प्राणे हि यस्मात्सर्वाणि भूतानि सम्यञ्चि संगच्छन्ते संगमनात्साम्यापत्तिहेतुत्वात्साम प्राणः ।
सम्यञ्चि संगच्छन्ते हास्मै सर्वाणि भूतानि ।
न केवलं संगच्छन्त एव श्रेष्ठभावाय चास्मै कल्पन्ते समर्थ्यन्ते ।
साम्नः सायुज्यमित्यादि पुर्ववत् ॥3॥
स्तर्त् ब्र्हुप् 5,13.4
क्षत्रम् ।
प्राणो वै क्षत्रम् ।
प्राणो हि वै क्षत्रम् ।
त्रायते हैनं प्राणः क्षणितोः ।
प्र क्षत्रम् अत्रम् आप्नोति ।
क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc