बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.14
ब्र्हुप्भ्_5,13.4 तं प्राणं क्षत्त्रमित्युपासीत ।
प्राणौ वै क्षत्त्रं प्रसिद्धमेतत्प्राणो हि वै क्षत्त्रम् ।
कथं प्रसिद्धमेतत्प्राणो हि वै क्षत्त्रम् ।
कथं प्रसिद्धतेत्याह-त्रायते पालयत्येनं पिण्डं देहं प्राणः क्षणितोः शस्रादिहिंसितात्पुनर्मांसेनाऽपूरयति यस्मात्तस्मात्क्षतत्राणात्प्रसिद्धं क्षत्त्रत्वं प्राणस्य ।
विद्वत्फलमाह-प्र क्षत्त्रमत्रं न त्रायते ऽन्येन केनचिदित्यत्रं क्षत्त्रं प्राणं प्राप्नोतीत्यर्थः ।
शाखान्तरे वा पाठात्क्षत्त्रमात्रं प्राणो भवतीत्यर्थः ।
क्षत्त्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥4॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य त्रयोदशं ब्राह्मणम् ॥13॥
स्तर्त् ब्र्हुप् 5,14.1
भूमिर् अन्तरिक्षं द्यौर् इत्य् अष्टाव् अक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतद् उ हैवास्या एतत् ।
स यावद् एषु त्रिषु लोकेषु तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद
ब्र्हुप्भ्_5,14.1 ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्योपासनमुक्तमथेदानीं गायत्र्युपाधिविशिष्टस्योपासनं वक्तव्यमित्यारभ्यते ।
सर्वच्छन्दसां हि गायत्रीच्छन्दः प्रधानभूतम् ।
तत्प्रयोक्तृगयत्राणाद्गायत्रीति वक्ष्यति ।
न चान्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यम् ।
प्राणात्मभूता च सा सर्वच्छन्दसां चाऽत्मा प्राणः ।
प्राणश्च क्षतत्राणात्क्षत्त्रमित्युक्तम् ।
प्राणश्च गायत्री ।
तस्मात्तदुपासनमेव विधित्स्यते ।
द्विजोत्तमजन्महेतुत्वाच्च ।
गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यमति द्विजोत्तमस्य द्वितीयं जन्म गायत्रीनिमित्तम् ।
तस्मात्प्रधाना गायत्री ब्राह्मणा व्युत्थाय ब्राह्मणा अभिवदन्ति स ब्राह्मणो विपापो विरजो ऽविचिकित्सो ब्राह्मणो भवतीत्युत्तमपुरुषार्थसंबन्धं ब्राह्मणस्य दर्शयति ।
तच्च ब्राह्मणत्वं गायत्रीजन्ममूलमतो वक्तव्यं गायत्र्याः सतत्त्वम् ।
गायत्र्या हि यः सृष्टो द्विजोत्तमो निरङ्कुश एवोत्तमपुरुषार्थसाधने ऽधिक्रियते ऽतस्तन्मूलः परमपुरुषार्थसंबन्धः ।
तस्मात्तदुपासनविधानायाऽह-भूमिरन्तरिक्षं द्यौरित्येतान्यष्टावक्षराणि ।
अष्टाक्षरमष्टावक्षराणि यस्य तदिदमष्टाक्षरम् ।
ह वै प्रसिद्धावद्योतकौ ।
एकं प्रथमं गायत्र्यै गायत्र्याः पदम् ।
यकारेणैवाष्टत्वपूरणम् ।
एतदु हैवैतदेवास्या गायत्र्याः पदं पादः प्रथमो भूम्यादिलक्षणस्रैलोक्यात्मा ।
अष्टाक्षरत्वसामान्यात् ।
एवमेतत्त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेदतस्यैतत्फलम्-स विद्वान्यावत्किञ्चिदेषु त्रिषु जेतव्यं तावत्सर्वं ह जयति यो ऽस्या एतदेवं पदं वेद ॥1॥
स्तर्त् ब्र्हुप् 5,14.2
ऋचो यजूषि सामानीत्य् अष्टाव् अक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतद् उ हैवास्या एतत् ।
स यावतीयं त्रयी विद्या तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद
ब्र्हुप्भ्_5,14.2 तदर्चो यजूंसि सामानीति त्रयीविद्यानामाक्षराण्येतान्यप्यष्टावेव तथैवाष्टाक्षरं ह वा एकं गायत्र्यै पदं द्वितीयमेतदु हैवास्या एतदृग्यजुःसामलक्षणमष्टाक्षरत्वसामान्यादेव ।
स यावतीयं त्रयी विद्या त्रय्या विद्यया यावत्फलजातमाप्यते तावद्ध जयति यो ऽस्या एतद्गायत्र्यास्रैविद्यलक्षणं पदं वेद ॥2॥
स्तर्त् ब्र्हुप् 5,14.3
प्राणो ऽपानो व्यान इत्य् अष्टाव् अक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतद् उ हैवास्या एतत् ।
स यावद् इदं प्राणि तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद ।
अथास्या एतद् एव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
यद् वै चतुर्थं तत् तुरीयम् ।
दर्शतं पदम् इति ददृश इव ह्य् एषः ।
परोरजा इति सर्वम् उ ह्य् एवैष रज उपर्य् उपरि तपति ।
एवं हैव श्रिया यशसा तपति यो ऽस्या एतद् एवं पदं वेद
ब्र्हुप्भ्_5,14.3 तथा प्राणो ऽपानो व्यान एतान्यपि प्राणाद्यभिधानाक्षराण्यष्टौ ।
तच्च गायत्र्यास्तृतीयं पदं यावदिदं प्राणिजातं तावद्ध जयति यो ऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद ।
अथानन्तरं गायत्र्यास्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यते ऽभिधेयभूतमस्याः प्रकृताया गायत्र्या एतदेव वक्ष्यमामं तुरीयं दर्शतं पदं परोरजा य एष तपति ।
तुरीयमित्यादिवाक्यपदार्थं स्वमेव व्याचष्टे श्रुतिः-यद्वै चतुर्थं प्रसिद्धं लोके तदिदं तुरीयशब्देनाभिधीयते ।
दर्शतं पदमित्यस्य कोर्ऽथ इत्युच्यते-ददृश इव दृश्यत इव ह्येष मण्डलस्थः पुरुषो रजो रजोजातं समस्तं लोकमित्यर्थः ।
उपर्युपर्याधिपत्यभावेन सर्वं लोकं रजोजातं तपति ।
उपर्युपरीति वीप्सा सर्वलोकाधिपत्यख्यापनार्था ।
ननु सर्वशब्देनैव सिद्धत्वाद्वीप्सानर्थिका ।
नैष दोषः ।
येषामुपरिष्टात्सविता दृश्यते तद्विषय एव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा ।
"ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकानां च"इति श्रुत्यन्रात् ।
तस्मात्सर्वावरोधार्था वीप्सा ।
यथासौ सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्या तपत्येवं हैव श्रिया यशसा च तपति यो ऽस्या एतदेवं तुरीयं दर्शतं पदं वेद ॥3॥
स्तर्त् ब्र्हुप् 5,14.4
सैषा गायत्र्य् एतस्मिंस् तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता ।
तद् वै तत् सत्ये प्रतिष्ठितम् ।
चक्षुर् वै सत्यम् ।
चक्षुर् हि वै सत्यम् ।
तस्माद् यद् इदानीं द्वौ विवदमानाव् एयातम् अहम् अदर्शम् अहम् अश्रौषम् इति ।
य एवं ब्रूयाद् अहम् अदर्शम् इति ।
तस्मा एव श्रद्दध्याम ।
तद् वै तत् सत्यं बले प्रतिष्ठितम् ।
प्राणो वै बलम् ।
तत् प्राणे प्रतिष्ठितम् ।
तस्माद् आहुर् बलं सत्याद् ओगीय इति ।
एवं व् एषा गायत्र्य् अध्यात्मं प्रतिष्ठिता ।
सा हैषा गयांस् तत्रे ।
प्राणा वै गयाः ।
तत् प्राणास् तत्रे ।
तद् यद् गयांस् तत्रे तस्माद् गायत्री नाम ।
स याम् एवामूं सावित्रीम् अन्वाहैषैव सा ।
स यस्मा अन्वाह तस्य प्राणांस् त्रायते
ब्र्हुप्भ्_5,14.4 सैषा त्रिपदोक्ता या त्रैलोक्यत्रैविद्यप्राणलक्षणा गायत्र्येतस्मिंश्चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता ।
मूर्तामूर्तरसत्वादादित्यस्य ।
रसापाये हि वस्तु नीरसमप्रतिष्ठितं भवति ।
यथा काष्ठादि दग्धसारं तद्वत् ।
तथा मूर्तामूर्तरसत्वादादित्यस्य ।
रसापाये हि वस्तु नीरसमप्रतिष्ठितं भवति ।
यथा काष्ठादि दग्धसारं तद्वत् ।
तथा मूर्तामूर्तात्मकं जगत्त्रिपदा गायत्र्यादित्ये प्रतिष्ठिता तद्रसत्वात्सह त्रिभिः पादैः ।
तद्वै तुरीयं पदं सत्ये प्रतिष्ठितम् ।
किं पुनस्तत्सत्यमित्युच्यते-चक्षुर्वै सत्यम् ।
कथं चक्षुः सत्यमित्याह-प्रसिद्धमेतच्चक्षुर्हि वै सत्यम् ।
कथं प्रसिद्धतेत्याह-तस्माद्यदिदानीमेव द्वौ विवदमानौ विरुद्धं वदमानावेयातामागच्छेयातामहमदर्शं दृष्टवाननस्मीत्यन्य आहाहमश्रौषं त्वया दृष्टं न तथा तद्वस्त्विति तयोर्य एवं ब्रूयादहमद्राक्षमिति तस्मा एव श्रद्दध्याम नपुनर्यो ब्रूयादहमश्रौषमिति ।
श्रोतुर्मृषा श्रवणमपि संभवति न तु चक्षुषो मृषा दर्शनम् ।
तस्मान्नाश्रौषमित्युक्तवते श्रद्दध्याम ।
तस्मात्सत्यप्रतिपत्तिहेतुत्वात्सत्यं चक्षुस्तस्मिन्सत्ये चक्षुषि सह त्रिभिरितरैः पादैस्तुरीयं पदं प्रतिष्ठितमित्यर्थः ।
उक्तं च स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति ।
तद्वै तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितम् ।
किं पुनस्तद्बलमित्याह-प्राणो वै बलं तस्मिन्प्राणे बले प्रतिष्ठितं सत्यम् ।
तथा चोक्तं सूत्रे तदोतं च प्रोतं चेति ।
यस्माद्बले सत्यं प्रतिष्ठितं तस्मादाहुर्बलं सत्यादोगीय ओजीय ओजस्तरमित्यर्थः ।
लोके ऽपि यस्मिन्हि यदाश्रितं भवति तस्मादाश्रितादाश्रयस्य बलवत्तरत्वं प्रसिद्धम् ।
न हि दुर्बलं बलवतः क्वचिदाश्रयभूतं दृष्टम् ।
एवमुक्तन्यायेन उ एषा गायत्र्यध्यात्ममध्यात्मे प्राणे प्रतिष्ठिता ।
सैषा गायत्री प्राणः ।
अतो गायत्र्यां जगत्प्रतिष्ठितम् ।
यस्मिन्प्राणे सर्वे देवा एकं भवन्ति ।
सर्वं वेदाः कर्माणि फलं च सैवं गायत्री प्राणरूपा सती जगत आत्मा ।
सा हैषा गयांस्तत्रे त्रातवती ।
के पुनर्गयाः प्राणा वागादयो वै गयाः ।
शब्दकरमात् ।
तांस्तत्रे सैषा गायत्री ।
तत्तत्र यद्यस्माद्गयांस्तत्रे तस्माद्गायत्री नाम ।
गायत्राणाद्गायत्रीति प्रथिता ।
स आचार्य उपनीय माणवकमष्टवर्षं यामेवामूं गायत्रीं सावित्रीं सवितृदेवताकामन्वाह पच्छोर्धर्चशः समस्तां च ।
एषैव सा साक्षात्प्राणो जगत आत्मा माणवकाय समर्पितेहेदानीं व्याख्याता नान्या स आचार्यो यस्मै माणवकायान्वाहानुवक्ति तस्य माणवकस्य गयान्प्राणांस्रायते नरकादिपतनात् ॥4॥
स्तर्त् ब्र्हुप् 5,14.5
तां हैताम् एके सावित्रीम् अनुष्टुभम् अन्वाहुः ।
वाग् अनुष्टुप् ।
एतद् वाचम् अनुब्रूम इति ।
न तथा कुर्यात् ।
गायत्रीम् एव सावित्रीम् आनुब्रूयात् ।
यदि ह वा अप्य् एवंविद् बह्व् इव प्रतिगृह्णाति न हैव तद् गायत्र्या एकं चन पदं प्रति
ब्र्हुप्भ्_5,14.5 तामेतां सावित्रीं हैके शाखिनो ऽनुष्टुप्छन्दस्कामन्वाहुरुपनीताय ।
तदभिप्रायमाह-वागनुष्टुप् ।
वाक्च शरीरे सरस्वती तामेव हि वाचं सरस्वतीं माणवकायानुब्रूम इत्येतद्वदन्तः ।
न तथा कुर्यान्न तथा विद्याद्यत्त आहुर्मृषैव तत् ।
किं तर्हि गायत्रीमेव सावित्रीमनुब्रूयात् ।
कस्मात् ।
यस्मात्प्राणो गायत्रीत्युक्तम् ।
प्राण उक्ते वाक्च सरस्वती चान्ये त प्राणाः सर्वं माणवकाय समर्पितं भवति ।
किञ्चेदं प्रासङ्गिकमुक्त्वा गायत्रीविदं स्तौति-यदि ह वा अप्येवंविद्बह्विव न हि तस्य सर्वात्मनो बहु नामास्ति किचित्सर्वात्मकत्वाद्विदुषः प्रतिगृह्णाति न हैव तत्प्रतिग्रहजातं गायत्र्या एकञ्चनैकमपि पदं प्रति पर्याप्तम् ॥5॥
स्तर्त् ब्र्हुप् 5,14.6
स य इमांस् त्रींल् लोकान् पूर्णान् प्रतिगृह्णीयात् सो ऽस्या एतत् प्रथमं पदम् आप्नुयात् ।
अथ यावतीयं त्रयी विद्या यस् तावत् प्रतिगृह्णीयात् सो ऽस्या एतद् द्वितीयं पदम् आप्नुयात् ।
अथ यावद् इदं प्राणि यस् तावत् प्रतिगृह्णीयात् सो ऽस्या एतत् तृतीयं पदम् आप्नुयात् ।
अथास्या एतद् एव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
नैव केन चनाप्यम् ।
कुत उ एतावत् प्रतिगृह्णीयात्
ब्र्हुप्भ्_5,14.6 स य इमांस्रीन्स यो गायत्रीविदिमान्भूरादींस्रीन्गो ऽश्वादिधनपूर्णांल्लोकान्प्रतिगृह्णीयात्स प्रतिग्रहो ऽस्या गायत्र्या एतत्प्रथमं पदं यद्व्याख्यातमाप्नुयात्प्रथमपदविज्ञानफलं तेन भुक्तं स्यान्न त्वधिकदोषोत्पादकः स प्रतिग्रहः ।
अथ पुनर्यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सो ऽस्या एतत्तृतीयं पदमाप्नुयात् ।
तेन तृतीयपदविज्ञानफलं भुक्तं स्यात् ।
कल्पयित्वेदमिच्यते ।
पादत्रयसममपि यदि कश्चित्प्रतिगृह्णीयात्तत्पादत्रयविज्ञानफलस्यैव क्षयकारणं न त्वन्यस्य दोषस्य कर्तृत्वे क्षमम् ।
न चैवं दाता प्रतिग्रहीता वा ।
गायत्रीविज्ञानस्तुतये कल्प्यते ।
दाता प्रतिग्रहीता च यद्यप्येवं संभाव्यते नासौ प्रतिग्रहो ऽपराधक्षमः ।
कस्माद्यतो ऽभ्यधिकमपि पुरुषार्थविज्ञानमवशिष्टमेव चतुर्थपादविषयं गायत्र्यास्तद्दर्शयति ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
यच्चैतन्नैव केनचन केनचिदपि प्रतिग्रहेणाऽप्यं नैव प्राप्यमित्यर्थः ।
यथा पूर्वोक्तानि त्रीणि पदानि ।
एतान्यपि नैवाऽप्यानि केनचित्कल्पयित्वैवमुक्तं परमार्थतः कुत उ एतावत्प्रतिगृह्णोयात्त्रैलोक्यादिसमम् ।
तस्माद्गायत्र्येवंप्रकारोपास्येत्यर्थः ॥6॥
स्तर्त् ब्र्हुप् 5,14.7
तस्या उपस्थानम् ।
गायत्र्य् अस्य् एकपदी द्विपदी त्रिपदी चतुष्पदि ।
अपद् असि ।
न हि पद्यसे ।
नमस् ते तुरीयाय दर्शताय पदाय परोरजसे ।
असाव् अदो मा प्रापद् इति ।
यं द्विष्याद् असाव् अस्मै कामो मा समर्धीति वा ।
न हैवास्मै स कामः समृध्यते यस्मा एवम् उपतिष्ठते ।
अहम् अदः प्रापम् इति वा
ब्र्हुप्भ्_5,14.7 तस्या उपस्थानं तस्या गायत्र्या उपस्थानमुपेत्य स्थानं नमस्करणमनेन मन्त्रेण ।
कौऽसौ मन्त्र इत्याह-हे गायत्र्यसि भवसि त्रैलोक्यपादेनैकपदी त्रयीविद्यारूपेण द्वितीयेन द्विपदी ।
प्राणादिना तृतीयेन त्रिपद्यसि ।
चतुर्थेन तुरीयेण चतुष्पद्यसि ।
एवं चतुर्भिः पादैरुपासकैः पद्यसे ज्ञायसे ऽतः परं परेण निरुपाधिकेन स्वेनाऽत्मनापदसि ।
अविद्यमानं पदं यस्यास्तव येन पद्यसे सा त्वमपदसि यस्मान्नहि पद्यसे नेति नेत्यात्मत्वात् ।
अतो व्यवहारविषयाय नमभ्ते तुरीयाय दर्शताय पदाय पोरदसे ।
असौ शत्रुः पाप्मा त्वत्प्राप्तिविघ्नकरो ऽदस्तदात्मनः कार्यं यत्त्वत्प्राप्तिविघ्नकर्तृत्वं मा प्रापन्मैव प्राप्नोतु ।
इतिशब्दो मन्त्रपरिसमाप्त्यर्थः ।
यं द्विष्याद्यं प्रति द्वेषं कुर्यात्स्वयं विद्वांस्तं प्रत्यनेनोपस्थानमसौ शत्रुरमुकनामेति नाम गृह्णीयादस्मै यज्ञदत्तायाभिप्रेतः कामो मा समृद्धि समृद्धिं मा प्राप्नोत्विति वोपतिष्ठते ।
न हैवास्मै देवदत्ताय स कामः समृध्यते ।
कस्मै ।
यस्मा एवमुपतिष्ठते ।
अहमदो देवदत्ताभिप्रेतं प्रापमिति वोपतिष्ठते ।
असावदो मा प्रापदित्यादित्रयाणां मन्त्रपदानां यथाकामं विकल्पः ॥7॥
स्तर्त् ब्र्हुप् 5,14.8
एतद् ध वै तज् जनको वैदेहो बुडिलम् आश्वतराश्विम् उवाच -- यन् नु हो तद् गायत्रीविद् अब्रूथाः ।
अथ कथं हस्तीभूतो वहसीति ।
मुखं ह्य् अस्याः सम्राण् न विदां चकरेति होवाच ।
तस्या अग्निर् एव मुखम् ।
यदि ह वा अपि बह्व् इवाग्नाव् अभ्यादधति सर्वम् एव तत् संदहति ।
एवं हैवैवंविद् यद्य् अपि बह्व् इव पापं कुरुते सर्वम् एव तत् संप्साय शुद्धः पूतो ऽजरो ऽमृतः संभवति
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0