भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.12

5.12.1

ब्र्हुप्भ्_5,11.1 एतद्वै परमं तपः ।
किं तत् ।
यद्याहितो व्याधितो ज्वरादिपरिगृहीतः सन्यत्तप्यते तदेतत्परमं तप इत्येवं चिन्तयेत् ।
दुःखसामान्यात् ।
तस्यैवं चिन्तयतो विदुषः कर्मक्षयहेतुस्तदेव तपो भवत्यनिन्दतो ऽविषीदतः ।
स एव च तेन विज्ञानतपसा दग्धकिल्बषः परमं हैव लोकं जयति य एवं वेद ।
तथैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति ।
अग्निप्रवेशसामान्यात् ।
परमं हैव लोकं जयति य एवं वेद ॥1॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्यैकादशं ब्राह्मणम् ॥11॥
स्तर्त् ब्र्हुप् 5,12.1
अन्नं ब्रह्मेत्य् एक आहुः ।
तन् न तथा ।
पूयति वा अन्नम् ऋते प्राणात् ।
प्राणो ब्रह्मेत्य् एक आहुः ।
तन् न तथा ।
शुष्यति वै प्रण ऋते ऽन्नात् ।
एते ह त्व् एव देवते एकधाभूयं भूत्वा परमतां गच्छतः ।
तद् ध स्माह प्रातृदः पितरम् ।
किं स्विद् एवैवं विदुषे साधु कुर्यां किम् एवास्मा असाधु कुर्याम् इति ।
स ह स्माह पाणिना मा प्रातृद ।
कस् त्व् एनयोर् एकधाभूयं भूत्वा परमतां गच्छतीति ।
तस्मा उ हैतद् उवाच वीति ।
अन्नं वै वि ।
अन्ने हीमानि सर्वाणि भूतानि विष्टानि ।
रम् इति ।
प्राणो वै रम् ।
प्राणे हीमानि सर्वाणि भूतानि रमन्ते ।
सर्वाणि ह वा अस्मिन् भूतानि विशन्ति ।
सर्वाणि भूतानि रमन्ते य एवं वेद

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc