बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 4.2
ब्र्हुप्भ्_4,1.7 विदग्धः शाकल्यो हृदयं वै ब्रह्मेति ।
हृदयं वै सम्राट्सर्वेषां भूतानामायतनम् ।
नामरूपकर्मात्मकानि हि भूतानि हृदयाश्रयाणीत्यवोचाम शाकल्यबाह्मणे हृदयप्रतिष्ठानु चेति ।
तस्माद्वधृतये ह्येव सम्राट्स्रवाणि भूतानि प्रतिष्ठितानि भवन्ति ।
तस्माद्धृदयं स्थितिरित्युपासीत हृदये च प्रजापतिर्देवता ॥4,1.7॥
इति बृहदारण्यकोपनिषद्भाष्ये चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥1॥
अथ चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम्
स्तर्त् ब्र्हुप् 4,2.1
जनको ह वैदेहः कूर्चाद् उपावसर्पन्न् उवाच -- नमस् ते ऽस्तु याज्ञवल्क्य ।
अनु मा शाधीति ।
स होवाच यथा वै सम्राण् महान्तम् अध्वानम् एष्यन् रथं वा नावं वा समाददीतैवम् एवैताभिर् उपनिषद्भिः समाहितात्मासि ।
एवं वृन्दारक आढ्यः सन्न् अधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति ।
नाहं तद् भगवन् वेद यत्र गमिष्यामीति ।
अथ वै ते ऽहं तद् वक्ष्यामि यत्र गमिष्यसीति ।
ब्रवीतु भगवान् इति
ब्र्हुप्भ्_4,2.1 जनको ह वैदेहः ।
यस्मात्सविशेषणानि सर्वाणि ब्रह्माणि जानाति याज्ञवल्क्यस्तस्मादाचार्यकत्वं हित्वा जनकः कूर्चादासनविशेषादुत्थायोप समीपमवसर्पन्यादयोर्निपतन्नित्यर्थः ।
उवाचोक्तवान्नमस्ते तुभ्यमस्तु हे याज्ञवल्क्यानु मा शाध्यनुशाधि मामित्यर्थः ।
इतिशब्दो वाक्यपरिसमाप्त्यर्थः ।
स होवाच याज्ञवल्क्यो यथा वै लोके हे सम्राड्महान्तं दीर्घमध्वानमेष्यन्गमिष्यन्रथं वा सोथलेन गमिष्यन्नावं वा जलेन गमिष्यन्समाददीत ।
एवमेवैतानि ब्रह्माण्येताभिरुपनिषद्भिर्युक्तान्युपासीनः समाहितत्मास्यत्यन्तमेताभिरुपनिषद्भिः संयुक्तात्मासि न केवलमुपनिषत्समाहित एवं वृन्दारकः पूज्यश्चाऽढ्यश्चेश्वरो न दरिद्र इत्यर्थः ।
अधीतवेदो ऽधीतो वेदो येन स त्वमधीतवेद उक्ताश्चोपनिषद आचार्यैस्तुभ्यं स त्वमुक्तोपनिषत्क एवं सर्वविभूततिसंपन्नो ऽपि सन्भययमध्यश्छ एव परमात्ज्ञानेन विनाकृतार्थ एवतावदित्यर्थः ।
यावत्परं ब्रह्म न वेत्सि ।
इतो ऽस्माद्देहादिमुच्यमान एताभिर्तोरथस्थानीयाभिः समाहितः क्व कस्मिन्गमिष्यसि किं वस्तु प्राप्स्यसीति ।
नाहं तद्वस्तु भगवन्पूजावन्वेद जाने यत्र गमिष्यामीति ।
अथ यद्येवं न जानीषे यत्र गतः कृतार्थः स्या अहं वै तुभ्यं तद्वक्ष्यामि यत्र गमिष्यसीति ।
ब्रवीतु भगवानिति, यदि प्रसन्नो मां प्रति ।
शृणु ॥4,2.1॥
स्तर्त् ब्र्हुप् 4,2.2
इन्धो ह वै नामैष यो ऽयं दक्षिणे ऽक्षन् पुरुषः ।
तं वा एतम् इन्धं सन्तम् इन्द्र इत्य् आचक्षते परोक्षेणैव ।
परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः
ब्र्हुप्भ्_4,2.2 इन्धो ह वै नाम ।
इन्ध इत्येवंनामा ।
यश्चक्षुर्वै ब्रह्मेति पुरोक्त आदित्यान्तरग्त पुरुषः स एष यो ऽयं दक्षिणे ऽक्षन्नक्षणि विशेषेण व्यवस्थितः ।
स च सत्यनामा ।
तं वा एतं पुरुषं दीप्तिगुणत्वात्प्रत्यक्षं नामास्येन्ध इति तमिन्धं सन्तमिन्द्र इत्याचक्षतेपरोक्षेण ।
यस्मात्परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति ।
एष त्वं वैश्वानरमात्मानं संपन्नो ऽसि ॥4,2.2॥
स्तर्त् ब्र्हुप् 4,2.3
अथैतद् वामे ऽक्षणि पुरुषरूपम् एषास्य पत्नी विराट् ।
तयोर् एष संस्तावो य एषो ऽन्तर् हृदय आकाशः ।
अथैनयोर् एतद् अन्नं य एषो ऽन्तर् हृदये लोहितपिण्डः ।
अथैनयोर् एतत् प्रावरणं यद् एतद् अन्तर् हृदये जालकम् इव ।
अथैनयोर् एषा सृतिः संचरणी यैषा हृदयाद् ऊर्ध्वा नाड्य् उच्चरति ।
यथा केशः सहस्रधा भिन्न एवम् अस्यैता हिता नाम नाड्यो ऽन्तर् हृदये प्रतिष्ठिता भवन्ति ।
एताभिर् वा एतद् आस्रवद् आस्रवति ।
तस्माद् एष प्रविविक्ताहारतर इव भवत्य् अस्माच् छारीराद् आत्मनः
ब्र्हुप्भ्_4,2.3 अथैतद्वामे ऽक्षणि पुरुषरूपमेषास्य पत्नी यं त्वं वैश्वानरमात्मानं संपन्नो ऽसि तस्यास्येन्द्रस्य भोक्तुर्भोग्यैषा पत्नी विराडन्नं भोग्यत्वादेव तदेतदन्नं चात्ता चैकं मिथुनं स्वप्ने ।
को ऽसौ ।
य एषो ऽन्तरहृदय आकाशो ऽन्तर्हृदये हृदयस्य मांसपिण्डस्य मध्ये ।
अथैनयोरेतद्वक्ष्यमाणमन्नं भोज्यं स्थितिहेतुः ।
किं तत् ।
य एषे ऽन्तर्हृदये लोहितपिण्डो लोहित एव पिण्डाकारापन्ना लोहितपिण्डः ।
अन्नं जग्धं द्वेधा परिणमते यत्स्थूलं तदधो गच्छति ।
यदन्यत्तत्पुनराग्निना पच्यमानं द्वेधा परिणमते ।
यो मध्यमो रसः स लोहितादक्रमेण पाञ्चभौतिकं पिण्डं शरीरमुपचिनोति ।
यो ऽणिष्ठो रसः स एष लोहितपिण्ड इन्द्रस्य लिङ्गात्मनो हृदये मिथुनीभूतस्य ।
यं तैजसमाचक्षते स तयोरिन्द्रेन्द्राण्योर्हृदये मिथुनीभूतयोः सूक्ष्मासु नाडीष्वनुप्रविष्टः स्थितिहेतुर्भवति ।
तदेतदुच्यते ऽथैनयोरेतदन्नमित्यादि ।
किञ्चान्यत् ।
अथैनयोरेतत्प्रवारणम् ।
भुक्तवतोः स्वपतोश्च प्रावरणं भवति लोके तत्सामान्यं हि कल्पयति श्रुतिः ।
कि तदिह प्रावरणम् ।
यदेतदन्तर्हृदये जालकमिवानेकनाडीछिद्रबहुलत्वाज्जालकमिव ।
अथैनयोरेषा सृतिर्मार्गः संचनरतो ऽनयेति संचरणी स्वप्नज्जागरितदेशागमनमार्गः ।
का सा सृतिः ।
यैषा हृदयादहृदयदेशादूर्ध्वाभिमुखी सत्युच्चरति नाडी ।
तस्याः परिमाणमिदमुच्यते ।
यथा लोके केशः सहस्रधा भिन्नो ऽत्यन्तसूक्ष्मो भवत्येवं सूक्ष्मा अस्य देहस्य संबन्धिन्यो हिता नाम हिता इत्येवं ख्याता नाड्यास्ताश्चान्तर्हृदये मासंपिण्डे प्रितिष्ठिता भवन्ति हृदयाद्विप्ररूढास्ताः सर्वत्र कदम्बकेसपवदेताभिर्नाडोभिरत्यन्तसूक्ष्माभिरेतदन्नमास्रवद्गच्छदास्रवति गच्छति ।
तदेतद्देवताशरीरमनेनान्नेन दामभूतेनोपचीयमानं तिष्ठति ।
तस्माद्यस्मात्स्थूलेनान्नेनोपचितः पिण्ड इदं तु देवताशरीरं लिङ्गं सूक्ष्मेणान्नेनोपचितं तिष्ठति ।
पिण्डोपचयकरमप्यन्नं प्रविविक्तमेव मूत्रपुरीषादिस्थूलमपेक्ष्य लिङ्गस्थितिकरं त्वन्नं ततो ऽपिसाक्ष्मतरम् ।
अतः प्रविविक्ताहारः पिण्डः ।
तस्मात्प्रविविक्ताहारादपि प्रविविक्ताहारतर एष लिङ्गात्मेवैव भवत्यस्माच्छरीराच्छारीरमेव शारीरं तस्माच्छारीरात् ।
आत्मनो वैश्वानरात्तैजसः सूक्ष्मान्नोपचितो भवति ॥4,2.3॥
स्तर्त् ब्र्हुप् 4,2.4
तस्य प्राची दिक् प्राञ्चः प्राणाः ।
दक्षिणा दिग् दक्षिणे प्राणाः ।
प्रतीची दिक् प्रत्यञ्चः प्राणाः ।
उदीची दिग् उदञ्चः प्राणाः ।
ऊर्ध्वा दिग् ऊर्ध्वाः प्राणाः ।
अवाची दिग् अवाञ्चः प्राणाः ।
सर्वा दिशः सर्वे प्राणाः ।
स एष नेति नेत्य् आत्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न हि सज्यते ।
असितो न व्यथते ।
न रिष्यति ।
अभयं वै जनक प्राप्तो ऽसीति होवाच याज्ञवल्क्यः ।
स होवाच जनको वैदेहो ऽभयं त्वा गच्छताद् याज्ञवल्क्य यो नो भगवन्न् अभयं वेदयसे ।
नमस् ते ऽस्तु ।
इमे विदेहा अयम् अहम् अस्मीति
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0