बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 4.3
ब्र्हुप्भ्_4,2.4 स एष हृदयभूतस्तैजसः सूक्ष्मभूतेन प्राणेन विध्रियमाणः प्राण एव भवति ।
तस्यास्य विदुषः क्रमेण वैश्वानरात्तैजसं प्राप्तस्य हृदयात्मानमापन्नस्य हृदयात्मनश्च प्राणात्मानमापन्नस्य प्राची दिक्प्राञ्चः प्राग्गताः प्राणाः.तथा दक्षिणा दिग्दक्षिणे प्राणाः ।
सर्वा दिशः सर्वे प्राणाः ।
एवं विद्वान्क्रेण सर्वात्मकं प्राणमात्मत्वेनोपगतो भवति ।
तं सर्वात्मानं प्रत्यगात्मन्युपसंहृत्य द्रष्टुर्हि द्रष्टुभावं नेति नेतीत्यात्मानं तुरीयं प्रतिपद्यते ।
यमेष विद्वाननेन क्रमेण प्रतिपद्यते स एष नेति नेत्यात्मेत्यादि न रिष्यतीत्यन्तं व्याख्यातमेतत् ।
अभयं वै जन्ममरणादिनिमित्तभयशून्यं हे जनक प्राप्तो ऽसीति हैवं किलोवाचोक्तवान्याज्ञवल्क्यः ।
तदेतदुक्तमथ वै ते ऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ।
स होवाच जनको वैदेहो ऽभयमेव त्वा त्वामपि गच्छताद्गच्छतु यस्त्वं नो ऽस्मान्हे याज्ञवल्क्य भगवान्पूजावन्नभयं ब्रह्म वेदयसे ज्ञापयसि प्रापितवानुपाधिकृताज्ञानव्यवधानापनयनेनेत्यर्थः ।
किमन्यदहं विद्यानिष्क्रियार्थं प्रयच्छामि साक्षादात्मानमेव दत्तवते ।
अतो नमस्ते ऽस्त्विमे विदेहास्तव यथेष्टं भुज्यन्तामयं चाहमस्मि दासभावे स्थितो यथेष्टं मां राज्यं च प्रचतिपद्यस्वेत्यर्थः ॥4,2.4॥
इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम् ॥2॥
अथ चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥
स्तर्त् ब्र्हुप् 4,3.1
जनकं ह वैदेहं याज्ञवल्क्यो जगाम ।
सम् एनेन वदिष्य इति ।
अथ ह यज् जनकश् च वैदेहो याज्ञवल्क्यश् चाग्निहोत्रे समूदाते ।
तस्मै ह याज्ञवल्क्यो वरं ददौ ।
स ह कामप्रश्नम् एव वव्रे ।
तं हास्मै ददौ ।
तं ह सम्राड् एव पूर्वः पप्रच्छ
ब्र्हुप्भ्_4,3.1 जनकं ह वैदेहं याज्ञवल्क्यो जगामेत्यस्याभिसंबन्धः ।
विज्ञानमय आत्मा साक्षादपरोक्षाद्ब्रह्म सर्वान्तरः पर एव ।
"नान्यो ऽतो ऽस्ति द्रष्टा नान्यदतो ऽस्ति द्रष्टि"त्यादिश्रुतिभ्यः ।
स एष इह प्रविष्टो वदनादिलिङ्गो ऽस्ति व्यतिरिक्त इति मधुकाण्डे ऽजातशत्रुसंवादे प्राणादिकर्तृत्वभोक्तृत्वप्रत्याख्यानेनाधिगतो ऽपि सत्पुनः प्राणनादिलिङ्गमुपन्यस्यौषस्तप्रश्ने प्राणनादिलिङ्गो यः सामान्येनाधिगतः प्राणेन प्राणितीत्यादिना दृष्टेर्द्रष्टेत्यादिनालुप्तशक्तिस्वभावो ऽधिगतः ।
तस्य च परोपाधिनिमित्तः संसारो यथा रज्जूषरशुक्तिकागगनादिषु सर्पेदकरजमलिनत्वादि पराध्यारोपणनिमित्तमेव न स्वतस्तथा निरुपाधिको निरुपाख्यो नेति नेतीति व्यपदेश्यः साक्षादपरोक्षात्सर्वान्तर आत्मा ब्रह्माक्षरमन्तर्यामी प्रशस्तौपनिषदः पुरुषो विज्ञानमानन्दं ब्रह्मेत्यधिगतम् ।
तदेव पुनरिन्धसज्ञः प्रविविक्ताहारस्ततो ऽन्तर्हृदये लिङ्गात्मा प्रविविक्ताहारतरस्ततः परेण जगदात्मा प्राणोपाधिस्ततो ऽपि प्रविलाप्य जगदात्मानमुपाधिभूतं रज्ज्वादाविव सर्पादिकं विद्यया स एष नेति नेतीति साक्षात्सर्वान्तरं ब्रह्माधिगतम् ।
एवमभयं परिप्रापितो जनको याज्ञवल्क्येनाऽगमतः संक्षेपतः ।
अत्र च जाग्रत्स्वप्न सुषुप्ततुरीयाण्युपन्यन्यप्रसङ्गेनेन्धः प्रविविक्ताहारतरः सर्वे प्राणाः सर्वे प्राणाः स एष नेति नेतीति ।
इदानीं जाग्रत्स्वप्नाद्वारेणाव महता तर्केण विस्तरतो ऽधिगमः कर्तव्यः ।
अभयं प्रापयितव्यं ।
सद्भावाश्चाऽत्मनो विप्रतिपत्त्याशङ्कानिराकरणद्वारेण ।
व्यतिरिक्तत्वं शुद्धत्वं स्वयञ्ज्योतिष्ट्वमलुप्तशक्तिस्वरूपत्वं निरतिशयानन्दस्वाभाव्यमद्वैतत्वं चाधिगन्तव्यमितीदमारभ्यते ।
आख्याययिका तु विद्यासंप्रदानग्रहणविधिप्रकाशनार्था ।
विद्यास्तुतये च विशेषतः ।
वरदानादिसूचनात् ।
जनकं ह वैदेहं याज्ञवल्क्यो जगाम ।
स च गच्छन्नेवं मेने चिन्तितवान्न वदिष्ये किञ्चिदपु राज्ञे ।
गमनप्रयोजनं तु योगक्षेमार्थम् ।
न वदिष्य इत्येवंसंकल्पो ऽपि याज्ञवल्क्यो यद्यज्जनकः पृष्टवांस्तत्तत्प्रतिपेदे तत्र को हेतुः संकल्पितस्यान्यथाकरण इत्यत्राऽख्यायिकामाचष्टे ।
पूर्वत्र किल जनकयाज्ञवल्क्योः संवाद आसीदग्निहोत्रे निमित्ते ।
तत्र जनकस्याग्निहोत्रविषयं विज्ञानमुपलभ्य परितुष्टो याज्ञवल्क्यस्तस्मै जनकाय ह किल वरन्ददौ ।
स च जनको ह कामप्रश्नमेव वरं वव्रे वृतवांस्तं च वरं हास्मै ददौ याज्ञवल्क्यः ।
तेन वरप्रदानसामर्थ्येनाव्याचिख्यासुमपिदाविति ।
याज्ञवल्क्यं तूष्णैं स्थितमपि सम्राडेव जनकः पूर्वं पप्रच्छ ।
तत्रैवानुक्तिर्ब्रह्मविद्यायाः कर्मणा विरुद्धत्वात् ।
विद्यायाश्च स्वातन्त्र्यात् ।
स्वतन्त्रा हि ब्रह्मविद्या सहकारिसाधनान्तरनिरपेक्षा पुरुषार्थसाधनेति च ॥4,3.1॥
स्तर्त् ब्र्हुप् 4,3.2
याज्ञवल्क्य किंज्योतिर् अयं पुरुष इति ।
आदित्यज्योतिः सम्राड् इति होवाच ।
आदित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवम् एवैतद् याज्ञवल्क्य
ब्र्हुप्भ्_4,3.2 हे याज्ञवल्क्येत्येवं संबोध्याभिमुखीकरणाय किञ्ज्योतिरयं पुरुष इति किमस्य पुरुषस्य ज्योतिर्येन ज्योतिषा व्यवहरति सो ऽयं किञ्ज्योतिरयं प्राकृतः कार्यकरणसंघातरूपः शिरःपाण्यादिमान्पुरुषः पृच्छ्यते ।
किमयं स्वावयवासंघातबाह्येन ज्योतिरन्तरेण व्यवहरत्याहोस्वित्स्वावयवसंघातमध्यपातिना ज्योतिषा ज्योतिष्कार्यमयं पुरुषो निर्वर्तयतीत्येतदभिप्रेत्य पृच्छति ।
किञ्चातो यदि व्यतिरिक्तेन यदि वाव्यतिरिक्तेन-ज्योतिषा ज्योतिष्कार्यं निर्वर्तयति ।
शृणु तत्र कारणम् यदि व्यतिरिक्तेनैवज्योतिषा ज्योतिष्कार्यनिर्वर्तकत्वमस्य स्वभावो निर्धारितो भवति ततो ऽदृष्टज्योतिष्कार्यविषये ऽप्यनुमास्यामहे व्यतिरिक्तज्योतिर्निमित्तमेवेदं कार्यमिति ।
अथाव्यतिरिक्तेनैव स्वात्मना ज्योतिषा व्यवहरति ततो ऽप्रत्यक्षे ऽपि ज्योतिषि ज्योतिष्कार्यदर्शने ऽब्यतिरिक्तमेव ज्योतिरनुमेयम् ।
अथानियम एव व्यतिरिक्तमव्यतिरिक्तं वा ज्योतिः पुरुषस्य व्यवहारहेतुस्ततो ऽनध्यवसाय एव ज्योतिर्विषय इत्येवं मन्वानः पृच्छति जनको याज्ञवल्क्यं किञ्ज्योतिरयं पुरुष इति ।
नन्वेवमनुमानकौशले जनकस्य किं प्रश्नेन स्वयमेव कस्मान्न प्रतिपद्यत इति ।
सत्यमेतत् ।
तथापि लिङ्गलिङ्गिसंबन्धविशेषाणामत्यन्तसौक्ष्म्याद्दुरवबोध्यतां मन्यते बहूनामपु पण्डितानां किमुतैकस्य ।
अत एव हि धर्मसूक्ष्मनिर्णये परिषद्व्यापार इष्यते ।
पुरुषविशेषश्चापेक्ष्यते ।
दशावरा परिषत्त्रयो वैको वेति ।
तस्माद्यद्यप्यनुमानकौशलं राज्ञस्तथापि तु युक्तो याज्ञवल्क्यः प्रष्टुम् ।
विज्ञानकौशलतारतम्योपपत्तेः पुरुषाणाम् ।
अथवा श्रुतिः स्वयमेवाऽख्यायिकाव्याजेनानुमानमार्गमुपन्यस्यास्मान्बोधयति पुरुषमतिमनुसर्ती ।
याज्ञवल्क्यो ऽपि जनकाभिप्रायभिज्ञतया व्यतिरिक्तमात्मज्योतिर्बोधयिष्यञ्जनकं व्यतिरिक्तप्रतिपादकमेव लिङ्गं प्रतिपेदे यथा प्रसिद्धमादित्यज्योतिः सम्राडिति होवाच ।
कथम् ।
आदित्येनैव स्वावयवसघातव्यतिरिक्तेन चक्षुषो ऽनुग्राहकेण ज्योतिषायं प्राकृतः पुरुष आस्त उपविशति पल्ययते प्रयेति क्षेत्रमरण्यं वा तत्र गत्वा कर्म बाह्यनेकज्योतिःप्रदर्शनं च लिङ्गस्याव्यभिचारित्वदर्शनार्थम् ।
एवमेवैतद्याज्ञवल्क्य ॥4,3.2॥
स्तर्त् ब्र्हुप् 4,3.3
अस्तमित आदित्ये याज्ञवल्क्य किंज्योतिर् एवायं पुरुष इति ।
चन्द्रमा एवास्य ज्योतिर् भवतीति ।
चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवम् एवैतद् याज्ञवल्क्य
ब्र्हुप्भ्_4,3.3 तथास्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति चन्द्रमा एवास्य ज्योतिः ॥4,3.3॥
स्तर्त् ब्र्हुप् 4,3.4
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्य् अस्तमिते किंज्योतिर् एवायं पुरुष इति ।
अग्निर् एवास्य ज्योतिर् भवतीति ।
अग्निनैव ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवम् एवैतद् याज्ञवल्क्य
ब्र्हुप्भ्_4,3.4 अस्तमिति आदित्ये चन्द्रमस्यस्तमिते ऽग्निर्ज्योतिः ॥4,3.4॥
स्तर्त् ब्र्हुप् 4,3.5
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्य् अस्तमिते शान्ते ऽग्नौ किंज्योतिर् एवायं पुरुष इति ।
वाग् एवास्य ज्योतिर् भवतीति ।
वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति ।
तस्माद् वै सम्राड् अपि यत्र स्वः पाणिर् न विनिर्ज्ञायते ऽथ यत्र वाग् उच्चरत्य् उपैव तत्र न्येतीति ।
एवम् एवैतद् याज्ञवल्क्य
ब्र्हुप्भ्_4,3.5 शान्ते ऽग्नौ वाग्ज्योतिः वागिति शब्दः परिगृह्यते ।
शब्देन विषयेण श्रोत्रमिन्द्रियं दीप्यते ।
श्रोत्रेन्द्रिये संप्रदीप्ते मनसि विवेक उपजायते ।
तेन मनसा बाह्यां चेष्टां प्रतिपद्यते ।
"मनसा ह्योव पश्यति मनसा शृणोती"ति ब्राह्मणम् ।
कथं पुर्वाग्ज्योतिरिति वाचोज्योतिष्ट्वमप्रसिद्धमित्यत आह-तस्माद्वै सम्राड्यस्माद्वाचा ज्योतिषानुगृहीतो ऽयटं पुरुषो व्यवहरति तस्मात्प्रसिद्धमेतद्वाचो ज्योतिष्ट्वम् ।
कथमपि यत्र यस्मिन्काले प्रावृषि प्रायेण मेधान्धकारे सर्वज्योतिःप्रत्यस्तमये स्वो ऽपि प्राणिर्हस्तो न विस्पष्टं निर्ज्ञायते ।
अथ तस्मिन्काले सर्वचेष्टानिरोधे प्राप्ते बाह्यज्योतिषो ऽभावाद्यत्र वागुच्चरति श्वा वा भषति गर्दभो वा रौत्युपैव तत्र न्येति तेन शब्देन ज्योतिषा श्रोत्रमनसोर्नैरन्तयं भवति तेन ज्योतिष्कार्यत्वं वाक्प्रतिपद्येत तेन वाचा ज्योतिषोपन्येत्येवोपगच्छत्येव तत्र सन्निहितो भवतीत्यर्थः ।
तत्र च कर्म कुरुते विपल्येति ।
तत्र वाग्योतिषो ग्रहणं गन्धादीनानुपलक्षणार्थम् ।
गन्धादिभिरपि हि घ्राणादिष्वनुगृहीतेषु प्रवृत्तिनिवृत्यादयो भवन्ति ।
तेन तैरप्यनुग्रहो भवति कार्यकरणसंघातस्य ।
एवमेवैतद्याज्ञवल्क्य ॥4,3.5॥
स्तर्त् ब्र्हुप् 4,3.6
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्य् अस्तमिते शान्ते ऽग्नौ शान्तायां वाचि किंज्योतिर् एवायं पुरुष इति ।
आत्मैवास्य ज्योतिर् भवतीति ।
आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति
ब्र्हुप्भ्_4,3.6 शान्ताया पुनर्वाचि गन्धादिष्वपि च शान्तेषु ।
बाह्येष्वनुग्राहकेषु सर्वप्रवृत्तिनिरोधः प्राप्तो ऽस्य पुरुषस्य ।
एतदुक्तं भवति ।
जाग्रद्विषये बहिर्मुखानु करणानि चक्षुरादीन्यादित्यादिज्योतिर्भिरनुगृह्यामाणानि यदा तदा स्फुटतरः संव्यवहारो ऽस्य पुरुषस्यदृष्टा ।
तस्मात्ते वयं मन्यामहे सर्वबाह्यज्योतिःप्रत्यस्तमये ऽपि स्वप्नसुषुप्तकाले जागरिते च तादृगवस्थायां स्वावयवसंघातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिद्धिरस्येति ।
दृश्यते च स्वप्ने ज्योतिष्कार्यसिद्धिर्बन्धुसंगमनवियोगदर्शनं देशान्त्रगमनादि च ।
सुषुप्तच्चोत्थानं सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति ।
तस्मादस्ति व्यतिरिक्तं किमपि ज्योतिः ।
किं पुनस्तच्छान्तायां वाचि ज्योतिर्भवतीति ।
उच्यते - आत्मैवास्य ज्योतिर्भवतीति ।
आत्मेति कार्यकरणस्वावयवसंघातव्यतिरिक्तं कार्यकरणावभासकमादित्यादिबाह्यज्योतिर्वत्स्वयमन्येनानवभास्यमानमभिधीयते ज्योतिरन्तःस्थं च तत्पारिशेष्यात् ।
कार्यकरणव्यतिरिक्तं तदिति तावत्सिद्धम् ।
यच्च कार्यकरणव्यतिरिक्तं कार्यकरणसंघातानुग्राहकं च ज्योतिस्तद्बाह्यैश्चक्षुरादिकरणैरुपलभ्यमानं दृष्टं न तु तथा तच्चक्षुरादिभिरुपलभ्यत आदित्यादिज्योतिःषूपरतेषु ।
कार्यं तु ज्योतिषो दृश्योते यस्मात्तस्मादात्मनैवायं ज्योतिषाऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ।
तस्मान्नूनमन्तरःस्थं ज्योतिरित्यवगम्यते ।
किञ्चाऽदित्यादिज्योतिर्विलक्षणं तदभौतिकं च स एव हेतुर्यच्चक्षुराद्यग्राह्यमादित्यादिवत् ।
न ।
समानजातीयेनैवा ।
आदित्यादिज्योतिषा कार्यकरणसंघातस्य भौतिकस्य भौतिकेनैवोपकारः क्रियमाणो दृश्यते ।
यथादुष्टं चेदमनुमेयम् ।
यदि नाम कार्यकरणादर्थान्तरं तदुपकारकमादित्यादिवज्ज्योतिस्थापि कार्यकरणसंघातसमानजातीयमेवानुमेयं कार्यकरणसघातोपकारकत्वादादित्यादिज्योतिर्वत् ।
यत्पुनरन्तःस्थत्वादप्रत्यक्षत्वाच्च वैलक्षण्यमुच्यते तच्चक्षुरादिज्योतिर्भिरनैकान्तिकम् ।
यतो ऽप्रत्यक्षाण्यन्तःस्थानि च चक्षुरादिज्योतींषि भौतिकान्येव ।
तस्मात्तव मनोरथमात्रं विलक्षणमात्मज्योतिः सिद्धमिति ।
कार्यकरणसंघातभावभावित्वाच्च संघातधर्मत्वमनुमीयते ज्योतिषः सामान्यतो दृष्टस्य चानुमानस्य व्यभिचारित्वादप्रामाण्यम् ।
सामान्यतो दृष्टबलेन हि भवानादित्यादिवद्व्यतिरिक्तं ज्योतिः साधयति कार्यकरणेभ्यः ।
न च प्रत्यक्षमनुमानेन बाधितुं शक्यते ।
अयमेव तु कार्यकरणसंघातः प्रत्यक्षं पश्यति शृणोति मनुते विजानाति च ।
यदि नाम ज्योतिरन्तरमस्योपकारकं स्यादादित्यादिवन्न तदाऽत्मा स्यज्योतिरन्तरमादित्यादिवदेव ।
य एव तु प्रत्यक्षं दर्शनक्रियां करोति स एवाऽत्मा स्यात्कार्यकरणसंघातो नान्यः ।
प्रत्यक्षविरोधे ऽनुमानस्याप्रामाण्यात् ।
नन्वयमेव चेद्दर्शनादिक्रायकर्ताऽत्मा संघातः कथमविकलस्यैवास्य दर्शनादिक्रियाकर्तृत्वं कदाचिद्भवति कदाचिन्नेति ।
नैष दोषो दृष्टत्वात् ।
नहि दृष्टे ऽनुपपन्नं नाम ।
नहि खद्योते प्रकाशाप्रकाशत्वेन दृश्यमाने कारणान्तरमनुमेयम् ।
अनुमेयत्वे च केनचित्सामान्यात्सर्वं सर्वत्रानुमेयं स्यात् ।
तच्चानिष्टम् ।
न च पदार्थस्वभावो नास्ति न ह्यग्नेरुष्णस्वाभाव्यमन्यनिमित्तमुदकस्य वा शैत्यम् ।
प्राणिधर्माधर्माद्यपेक्षमिति चेत् ।
धर्माधर्मादेर्निमित्तान्तरापेक्षस्वभावप्रसङ्गः ।
अस्त्विति चेन्न तदनवस्थाप्रसङ्गः ।
स चानिष्टः ।
न ।
स्वप्नस्मृत्योर्दृष्टस्यैव दर्शनात् ।
यदुक्तं स्वभाववादिना देहस्यैव दर्शनादिक्रिया न व्यतिरिक्तस्येति ।
तन्न ।
यदि हि देहस्यैव दर्शनादिक्रिया स्वप्ने दृष्टस्यैव दर्शनं न स्यात् ।
अन्धः स्वप्नं पश्यन्दृष्टपूर्वमेव पश्यति न शाकद्वीपादिगतमदृष्टरूपम् ।
ततश्चेतत्सिद्धं भवति यः स्वप्ने पश्यति दृष्टपूर्वं वस्तु स एव पूर्वं विद्यमाने चक्षुष्यद्राक्षीन्न देह इति ।
देहश्चेद्द्रष्टास येनाद्राक्षीत्तस्मिन्नुद्धृते चक्षुषि स्वप्ने तदेव दृष्टपूर्वं न पश्येत् ।
अस्ति च लोके प्रसिद्धिः पूर्वं दृष्टं मया हिमवतः शृङ्गमद्याहं स्वप्ने ऽद्राक्षमित्युद्धृतचक्षुषामन्धानामपु ।
तस्मादनुद्धृते ऽपि चक्षुषिः यः स्वप्नदृक्स एव द्रष्टा न देह इत्यवगम्यते ।
तथा स्मृतौ दृष्टृस्मर्त्रोरेकत्वे सति य एव द्रष्टास एव स्मर्ता यदा चैवं तदा निमीलिताक्षो ऽपि स्मन्दृष्टपूर्वं यद्रूपं तद्दृष्टवदेव पश्यतीति ।
तस्माद्यन्निमीलितं तन्न द्रष्टृयन्निमीलिते चक्षुषि स्मरद्रूपं पश्यति तदेवानिमीलिते ऽपि चक्षुषि द्रष्ट्रासीदित्यवगम्यते ।
मृते च देहे ऽविकलस्यैव च रूपादिदर्शनाभावात् ।
देवस्यैव द्रष्ट्रुत्वे मृते ऽपि दर्शनादि क्रिया स्यात् ।
तस्माद्यपाये देहे दर्शनं न भवति .द्भावे च भवति तद्दर्शनादिक्रियाकर्तृ न देव इत्यवगम्यते ।
चक्षुरादीन्येव दर्शनादिक्रियाकर्तॄणीति चेत् ।
न ।
यदहमद्राक्षं तत्स्पृशामीति भिन्नकर्तृकत्वे प्रतिसंघानानुपपत्तेः ।
मनस्तर्हीति चेत् ।
न ।
मनसो ऽपि विषयत्वाद्रूपादिवद्दृष्टृत्वाद्यनुपपत्ति ।
तस्मादन्तःस्थं व्यतिरिक्तमादित्यादिवदिति सिद्धम् ।
यदुक्तं कार्यकरणसंघातसमानजातीयमेव ज्योतिरन्तरमनुमेयम् ।
आदित्यादिभिस्तत्समानजातीयैरेवोपक्रियमाणत्वादिति ।
तदसत् ।
उपकार्योपकारकभावस्यानियमदर्शनात् ।
कथं पार्थिवैरिन्धनैः पार्थवत्वसमानजातीयैस्तृणोलपादिभिरग्नेः प्रज्वलनोपकारः क्रियमाणो दृश्यते ।
न च तावता तत्समानजातीयैरेवाग्नेः प्रज्वनोपकारः सर्वत्रानुमेयः स्यात् ।
येनोदकेनापि प्रज्वलनोपकारो भिन्नजातीयोन वैद्युतस्याग्नेर्जाठरस्य च क्रियमाणो दृश्यते ।
तस्मादुपकार्योपकारकभावे समानजातीयासमानजातीयनियमो नास्ति ।
कदाचित्समानजातीया मनुष्या मनुष्यैरेवोपक्रियन्ते कदाचित्स्थावरपश्वादिभिश्च भिन्नजातीयैः ।
तस्मादहेतुः कार्यकरणसंघातमानजातीयैरेवाऽदित्यादिज्योतिर्भिरुपक्रियमाणत्वादित् इ ।
यत्पुनरात्थ चक्षुरादिभिरादित्यादिज्योतिर्वददृश्यत्वादित्ययं हेतुर्ज्योतिरन्तरस्यान्तःस्थत्वं वैलक्षण्यं च न साधयति चक्षुरादिभिरनैकान्तिकत्वादिति ।
तदसत् ।
चक्षुरादिकरणेभ्यो ऽन्यत्वे सतीति हेतोर्विशेषणत्वोपपत्तेः ।
कार्यकरणसंघातधर्मत्वं ज्योतिष इति यदुक्तं तन्न ।
अनुमानविरोधात् ।
आदित्यादिज्योतिर्वत्कार्यकरणसंघातादर्थान्तरं ज्योतिरिति ह्यनुमानमुक्तं तेन विरुध्यत इयं प्रतिज्ञा कारयकरणसंघातधर्मत्वं ज्योतिष इति ।
तद्भावभावित्वं त्वसिद्धं मृते देहे ज्योतिषो ऽदर्शनात् ।
सामान्यतो दृष्टस्यानुमानस्याप्रामाण्ये सति पानभोजनादिसर्वव्यवहारलोपप्रसङ्गः ।
स चानिष्टः ।
पानभोजनादिषु हि क्षुत्पिपासादिनिवृत्तिमुपलब्धवसस्तत्सामान्यात्पानभोजनाद्युपादानं दृश्यमानं लोके न प्राप्नोति ।
दृश्यन्ते ह्युपलब्धपानभोजनाः सामान्यतः पुनः पानभोजनान्तरैः क्षुत्पिपासादिनिवृत्तिमनुमिन्वन्तस्तादर्थेयन प्रवर्तमानाः ।
यदुक्तमयमेव तु देहो दर्शनादिक्रियाकर्तेति तत्प्रथममेव परिहृतं स्वप्नस्मृत्योर्देहादर्थान्तरभूतो द्रष्टेति ।
अनेनैव ज्योतिरन्तरस्यात्मत्वमपि प्रत्युक्तम् ।
यत्पुनः खद्योतादेः कादाचित्कं प्रकाशाप्रकाशत्वं सदसत् ।
पक्षाद्यवयवसंकोचविकासनिमितित्तत्वात्प्रकाशाप्रकाशत्वस्य ।
यत्पुनरुक्तं धर्माधर्मयोरवश्यं फलदातृत्वं स्वभावो ऽभ्युपगन्तव्य इति ।
तदभ्युबगमे भवतः सिद्धान्तहानात् ।
एतेनानवस्थादोषः प्रत्युक्तः ।
तस्मादस्ति व्यतिरिक्तं चान्तःस्थं ज्योतिरात्मेति ॥4,3.6॥
स्तर्त् ब्र्हुप् 4,3.7
कतम आत्मेति -- यो ऽयं विज्ञानमयः प्राणेषु हृद्य् अन्तर्ज्योतिः पुरुषः ।
स समानः सन्न् उभौ लोकाव् अनुसंचरति ध्यायतीव लेलायतीव ।
स हि स्वप्नो भूत्वेमं लोकम् अतिक्रामति अद्द्. मृत्यो रूपाणि
ब्र्हुप्भ्_4,3.7 यद्यपि व्यतिरिक्तत्वादि सिद्धं तथापि समानजातीयानुग्राहकत्वदर्शननिमित्तभ्रान्त्या करणानामेवान्यतमो व्यतिरिक्तो वेत्यविवेकतः पृच्छति-कतम इति ।
न्यायसूक्ष्मताया दुर्विज्ञेयत्वादुपपद्यते भ्रान्तिः ।
अथवा शरीरव्यतिरिक्ते सिद्धे ऽपि करणानु सर्वाणि विज्ञानवन्तीव विवेकत आत्मनो ऽनुपलब्धत्वात् ।
अतो ऽहं पृच्छामि कतम आत्मेति ।
कतमो ऽसौ देहेन्द्रियप्राणमनःसु यस्त्वयोक्त आत्मा ।
येन ज्योतिषाऽस्त इत्युक्तम् ।
अथवा यो ऽयमात्मा त्वयाभिप्रेतो विज्ञानमयः ।
सर्व इमे प्राणा विज्ञानमया इवैषु प्राणेषु कतमः ।
यथा समुदितेषु ब्राह्मणेषु सर्व इमे तेजस्विनः कतम एषु षडङ्गविदिति ।
पूर्वस्मिन्व्याख्याने कतम आत्मेत्येतावदेव प्रश्नवाक्यं विज्ञानमयो हृद्यन्तर्ज्योतिः पुरुषःकतम इत्येदतन्तम् ।
यो ऽयं विज्ञानमय इत्येतस्यशब्दस्य सर्वमेव प्रश्नवाक्यं विज्ञानमयो हृद्यन्तर्ज्योतिः पुरुषः कतम इत्येदतन्तम् ।
यो ऽयं विज्ञानमय इत्येतस्य शब्दस्य निर्धारितार्थविशेषविषयत्वं कतम आत्मेतीतिशब्दस्य प्रश्नवाक्यपरिसमाप्त्यर्थत्वं व्यवहितसंबन्धमन्तरेण युक्तमिति कृत्वा कतम आत्मेत्येवमन्तमेव प्रश्नवाक्यं यो ऽयमित्यादि परं सर्वमेव प्रतिवचनमिति निश्चीयते ।
यो ऽयमित्यात्मनः प्रत्यक्षत्वान्निर्देशः ।
विज्ञानमयो विज्ञानप्रायो बुद्धिविज्ञानोपाधिसंप्रकाविवेकाद्विज्ञानमय इत्युच्यते ।
बुद्धिविज्ञान संपृक्त एव हि यस्मादुपलभ्यते राहुरिव चन्द्रादित्यसंपृक्तः ।
बुद्धिर्हि सर्वार्थकरणं तमसीव प्रदीपः पुरोवस्थितः ।
"मनसा ह्येव पश्यति मनसा शृणोती"ति ह्युक्तम् ।
बुद्धिविज्ञानालोकविशिष्टमेव हि सर्वं विषयजातमुपलभ्यते पुरोवस्थितप्रदीपालोकविशिष्टमिव तमसि ।
द्वारमात्राणि त्वन्यानि करणानु बुद्धेः ।
तस्मात्तेनैव विशेष्यते विज्ञानमय इति ।
येषां परमात्मविज्ञप्तिविकार इति व्याख्यानं तेषां विज्ञानमयो मनोमय इत्यादौ विज्ञानमयशब्दस्यान्यार्थदर्शनादश्रौतार्थतावसीयते ।
संदिग्धश्च पदारथो ऽन्यत्र निश्चितप्रयोगदर्शनान्निर्धारयितुं शक्यो वाश्यशेषात् ।
निश्चतन्यायबलाद्वा ।
सधीरिति चोत्तरत्र पाठात् ।
हृद्यन्तरिति वचनाद्युक्तं विज्ञानप्रायत्वमेव ।
प्राणेष्विति व्यतिरेकप्रदर्शार्था सप्तमी यथा वृक्षेषु पाषाण इति सामीप्यलक्षणा ।
प्राणेषु हि व्यातिरेकाव्यतिरेकता संदिह्यत आत्मनः ।
प्राणेषु प्राणेभ्यो व्यतिरिक्त इत्यर्थः ।
यो हि येषु भवति स तद्व्यतिरिक्तो भवत्येव ।
यथा पाषाणेषु वृक्षः ।
हृदि तत्रातत्स्यात्प्राणेषु प्राणजातीयैव बुद्धिः स्यादित्यत आह-हृद्यन्तरिति ।
हृदच्छब्देन पुण्डरीकाकारो मांसपुण्डस्तात्थ्याद्बुद्धिर्हृत्तस्या हृदि बुद्धौ ।
अन्तरिति बुद्धिवृत्तिव्यतिरेकप्रदर्शनार्थम् ।
ज्योतिरवभासात्मकत्वादात्मोच्यते ।
तेन ह्यवभासकेनाऽत्मना ज्योतिषाऽस्ते पल्ययते कर्म कुरुते चेनावानिव ह्ययं कार्यकरणपिण्डो यथाऽदित्यप्रकाशस्थो घटो यथा मरकतादिर्मणिः क्षीरादिद्रव्ये प्रक्षिप्तः परीक्षणायात्मच्छायमेव तत्क्षीरादिर्द्व्यं करोति तादृगेदात्मज्येतिपबुद्धेरपि हृदयात्सूक्ष्मत्वाद्धृद्यन्तःस्थमपि हृदयादिकं कार्यकरणसंघातं चैकीकृत्याऽत्मज्योतिश्छायं करोति ।
पारम्पर्येण सूक्ष्मस्थीलतारतम्यात्सर्वान्तरतमत्वा ।
बुद्धस्तावत्स्वच्छत्वादानन्तर्याच्चाऽत्मचैतन्यज्योतिः प्रतिच्छाया भवति ।
तेन हि विवेकिनामपु तत्राऽत्माभिमानबुद्धिः प्रथमा ।
ततो ऽप्यानन्तर्यान्मनसि चैतन्यावभासता बुद्धिसंपर्कात् ।
तत इन्द्रियेषु ।
मनः संयोगात् ।
ततो ऽनन्तरं शरीरे ।
इन्द्रियसंपर्कात् ।
पारम्पर्येण कृत्स्नं कार्यकरणसंघातमात्मा चैतन्यस्वरूपज्योतिषावभासयति ।
तेन हि सर्वस्य लोकस्य कार्यकरणसंघाते तद्वृत्तिषु चानियताऽत्माभिमानबुद्धिर्यथाविवेकं जायते ।
तथा च भगवतोक्तं गीतासु-"यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारति" ॥
"यदादित्यगतं तेजः"इत्यादि च ।
"नित्यो ऽनित्यानां चेनश्चेतनानां"इति च काठके"तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति"इति च ।
"येन सूर्यस्तपति तेजसोद्धः"इति च मन्तर्वर्णः ।
तेनायं हृद्यन्तर्ज्योतिः ।
पुरुष आकाशवत्सर्वगत्वात्पूर्ण इति पुरुषः निरतिशयं चास्य स्वयञ्ज्योतिष्ट्वं सर्वावभासकत्वात्स्वयमन्यानवभास्यत्वाच्च ।
स एष पुरुषः स्वयमेव ज्योतिःस्वभावो यं त्वं पृच्छसि कतम आत्मेति ।
बाह्यानां ज्योतिषां सर्वकरणानुग्राहकाणां प्रत्यस्तमये ऽन्तःकरणद्वारेण हृद्यन्तर्ज्योतिः पुरुष आत्मानुग्राहकः करणानामित्युक्तम् ।
यदापि बाह्यकरणानुग्राहकाणामादित्यादिज्योतिषां भावस्तदाप्यादित्यादिज्योतिषां परार्थत्वात्कार्यकरणसंघातस्याचैतन्ये स्वार्थानुपपत्तेः स्वार्थज्योतिष आत्मनो ऽनुग्रहाभावे ऽयं कार्यकरणसंघातो न व्यवहाराय कल्पते ।
आत्मज्योतिरनुग्रहेणैव हि सर्वदा सर्वः संव्यवहारः ।
"यदेतद्धृदयं मनश्चैत्तसंज्ञानम्"इत्यादिश्रुत्यन्तरात् ।
साभिमानो हि सर्वप्राणिसंव्यवहापः ।
अभिमानहेतुं च मरकतमणिदृष्टान्तेनावोचाम ।
यद्यप्येवमेतत्तत्थापि जाग्रद्विषये सर्वकरणागोचरत्वादात्मज्योतिषो बुद्ध्यादिबाह्याभ्यन्तरकार्यकरणव्वहारसन्निपातव्याकुलत्वान्न शक्यते तज्ज्योतिरात्माख्यं मुञ्जेषीकावन्निष्कृष्य दर्शयितुमित्यतः स्वप्ने दिदर्शयिषुः प्रक्रमते-स समानः सन्नुभौ लोकावनुसंचरति ।
यः पुरुषः स्वयमेव ज्योतिरात्मा स समानः सदृशः सन् ।
केन ।
प्रकृतत्वात्सन्निहितत्वाच्च हृदयेन ।
हृदीति च हृच्छब्दवाच्या बुद्धः प्रकृता सन्निहिता च ।
तस्मात्तयैवा सामान्यम् ।
किं पुनः सामान्यमश्वमहिषवद्विवेकतो ऽनुपलब्धिः अवभास्या बुद्धिरभासकं तदात्मज्योतिरालोकवत् ।
अवभास्यावभासकयोर्विवेकतो ऽनुपलब्धिः प्रसिद्धा ।
विशुद्धत्वाद्ध्यालोको ऽवभास्येन सदृशो भवति ।
यथा रक्तमवभासयन्रक्तसदृशो रक्ताकारो भवति ।
यथा हरितं नीलं लोहितं चावभासयन्ना4लोकस्तत्समानो भवति ।
तथा बुद्धिमवभासयन्बुद्धद्वारेण कृत्समं क्षेत्रमवभासयतीत्युक्तं मरकतमणिनिदर्शनेन ।
तेन सर्वेण समानो बुद्धिसामान्यद्वारेण ।
सर्वमय इति चात एव वक्ष्यति ।
तेनासौ कुतश्चित्प्रवभज्य मुञ्जेषीकावत्स्वेन ज्योतीरूपेण दर्शयितुं न शक्यत इति सर्वव्यापारं तत्राध्यारोप्य नामरूपगतं ज्योतिर्धर्मं च नामरूपयोर्नामरूपे चाऽत्मज्योतिषि सर्वो लोको मोमुग्यते ऽयमात्मा नायमाम्तैवन्धर्मा नैवधर्मा कर्ताकर्ता शुद्धो ऽशुद्धो बद्धो मुक्तः स्थितो गत आगतो ऽस्ति नास्तीत्यादिविकल्पैः ।
अतः समानः मन्नुभौ लोकौ प्रतिपन्नप्रतिपत्तव्याविहलोकपरलोकावुपात्तदेहेन्द्रियादि- सङ्घातत्यागान्योपादानास्तानप्रबन्धशतसन्निपातैरनुक्रमेण सञ्चरति ।
धीसादृश्यमेवोभयलोकसंचरणहेतुर्न स्वत इति ।
तत्र नामरूपोपाधिसादृश्यं भ्रान्तिनिमित्तं यत्तदेव हेतुर्न स्वत इत्येतदुच्यते ।
यस्मात्स समानः सन्नुभौ लोकावनुक्रमेण सञ्चरति तदेतत्प्रत्यक्षमित्येतद्दर्शयति-यतो ध्यायतीव ध्यानव्यापारं करोतीव चिन्तयतीव ध्यानव्यापवतीं बुद्धिं स तत्स्थेन चित्स्वभावज्योतरूपेणावभासयंस्तत्सदृशस्तत्समानः सन्ध्यातीवालोकवदेव ।
अतो भवति चिन्तयतीति भ्रान्तिर्लोकस्य ।
न तु परमार्थतो ध्यायति ।
तथा लेलायतीवात्यर्थं चलतीव ।
तेष्वेव करमेषु बुद्ध्यादिषु वायुषु च चलत्सु तदवभासकत्वात्तत्सदृशं तदिति लेलायतीव ।
न तु परमार्थतश्चलनधर्मकं तदात्मज्योतिः ।
कथं पुनरेतदवगम्यते तत्समानत्वभ्रान्तिरेवोभयलोकसंचरणादिर्हेतुत्वं स्वत इत्यस्यार्थस्य प्रदर्शनाय हेतरुपदिश्यते- स आत्मा हि यस्मात्स्वप्नो भूत्वा ।
स यया धिया समानः सा धीर्यद्यद्भवति तत्तदसावपु भवतीव तस्माद्यदासौ स्वप्नो भवति स्वापवृत्तिं प्रतिपद्यते धीस्तदा सो ऽपि स्वप्नवृत्तिं प्रतिपद्यते ।
दा धीर्जजागरिषति तदासावप्यत आह-स्वप्नो भूत्वा स्वप्नवृत्तिमवभासयन्धियः स्वापवृत्याकारो भूत्वेम लोकं जागरितव्यवहारलक्षणं कार्यकरणसङ्घातात्मकं लौकिकशास्त्रीयव्यवहारास्पदमतिक्रामत्यतीत्य क्रामति विविक्तेन स्वेनाऽत्मज्योतिषा स्वप्नात्मिका धीवृत्तमवभायन्नवतिष्ठते यस्मात्तस्मात्स्वयञ्ज्योतःस्वभाव एवासौ विशुद्धः स कर्तृक्रियाकारकफलशून्यः ।
परमार्थतो धीसादृश्यमेव तूभयलोकसंचारादिसंव्यवहारभ्रान्तिहेतुः ।
मृत्योरूपा णि मृत्युः कर्माविद्यादिर्न तस्यान्यद्रूपं स्वतः कार्यकरणान्येवास्य रूपाणि ।
अतस्तानु मृत्यो रूपाण्यतिक्रामति क्रियाफलाश्रयाणि ।
ननु नास्त्येव धिया समानमन्यद्धियो ऽवभासकमात्मज्योतिः प्रत्यक्षेण वानुमानेन पलम्भात् ।
यथान्या तत्काल एव द्वितीया धीः ।
यत्त्वावभास्यावभासकयोरन्यत्वे ऽपि विवेकानुपलम्भात्सादृश्यमिति (तिः) घटाद्यालोकयोः ।
तत्र भवत्वन्यत्वेनाऽलोकस्योपम्भाद्घटादेः संश्लिष्टयोः सादृश्यं भिन्नयोरेव न च तथेह घटादेरिव धियोषऽवभासकं ज्योतिरिन्तरं प्रत्यक्षेण वानुमानेन वोपलभामहे ।
धीरेव हि चित्स्वरूपावभासकत्वेनस्वाकारा विषयाकारा च ।
तस्मान्नानुमानतो नापि प्रत्यक्षतो धियो ऽवभासकं ज्योतिः शक्यते प्रतिपादयितुं व्यतिरिक्तम् ।
यदपि दृष्टान्तरूपमभिहितमवभास्यावशासकयोर्भिन्नयोरेव घटाद्यालोकयोः संयुक्तायोः सादृश्यमिति ।
तत्राभ्युपगममात्रमस्माभिरुक्तं न तत्र घटाद्यवभास्यावभासकौ भिन्नौ ।
परमार्थस्तु घटादिरेवावभासात्मकः सालोकः ।
अन्यो ऽन्यो हि घटादिरुत्पद्यते ।
विज्ञानमात्रमेव सालोकघटादिविषयाकारमवभासते ।
यदेवं तदा न बाह्यो दृष्टान्तो ऽस्ति विज्ञानलक्षणमात्रत्वात्सर्वस्य ।
एं तस्यव विज्ञानस् ग्राह्याग्राहकाकारतामलं पकरिकल्प्य तस्यैव पुनर्विशुद्धं परिकल्पयन्ति ।
तद्ग्राहकविनिर्मुक्तं विज्ञानं स्वच्छीभूतं क्षणिकं व्यवतिष्ठत इति केचित् ।
तस्यापु शान्तिं केचिदिच्छन्ति ।
तदपि विज्ञानं संवृतं ग्राह्यग्राहकांशविनिरुमुक्तं शून्यमेव घटादिबाह्यवस्तुवदित्यपरे माध्यमिका आचक्षते ।
सर्वा एताः कल्पना बुद्धविज्ञानावभासकस्य व्यतिरिक्तस्याऽत्मज्योतिषो ऽपह्नवादस्य श्रेयोमार्गस्य प्रतिपक्षभूता वैदिकस्य ।
तत्र येषां बाह्योर्ऽथो ऽस्ति तान्प्रत्युच्यते तावत् ।
न स्वात्मावभासकत्वं घटादेः ।
तमस्यवस्थितो घटादिस्तावन्न कदाचिदपु स्वात्मनावभास्यते ।
प्रदीपाद्यालोकसंयोगेन तु नियमेनैवावभास्यमानो दृष्टः सालोको घट इति ।
संश्लिष्टयोरपु घटालोकयोरन्यत्वमेव पुनः पुनः संश्लेषे विश्लेषे च विशेषदर्शनाद्रज्जुघटयोरिव ।
अन्यत्वे च व्यतिरिक्तावभासकत्वं न स्वात्मनैव स्वमात्मानमवभासयति ।
ननु प्रदीपः स्वात्मानमेवावभासयन्तदृष्ट इति ।
न हि घटादिवत्प्रदीपदर्शनाय प्काशान्तरमुपाददते लौकिकाः ।
तस्मात्प्रदीपः स्वात्मानं प्रकाशयति ।
न ।
अवभास्यत्वाविशेषात् ।
यद्यपि प्रदीपो ऽन्यस्यावभासकः स्वयमवभासात्कत्वात्तथापु व्यतिरिक्तचैतन्यावभास्यत्वं न व्यभिचरति घटादिवदेव ।
यदा चैवं तदा व्यतिरिक्तावभास्यत्वं तावदवश्यंभावि ।
ननु यथा घटश्चैतन्यावभास्यत्वे ऽपि सन्नात्मानं घटं चावभासयति ।
न ।
स्वतः परतो वा विशेषाभावात् ।
यथा चैतन्यावभास्यत्वं घटस्य तथा प्रदीपस्यापि चैतन्यावभास्यत्वमविशिष्टम् ।
यत्तूच्यते प्रदीप आत्मानं घटं चावभासयतीति तदसत् ।
कस्मात् ।
यदाऽत्मानं नावभासयति तदा कीदृशः स्यात् ।
न हि तदा प्रदीपस्य स्वतो वा परतो वा विशेषः कश्चिदुपलभ्यते ।
स ह्यवभास्यो भवति यस्यावभासकसंनिधावसंनिधौ च विशेष आत्मानं प्रदीपः प्रकाशयतीति मृषैवाच्योत् ।
चैतन्यग्राह्यत्वं तु घटादिभिरविशिष्टं प्रदीपस्य ।
तस्माद्विज्ञनस्याऽत्मग्राहकत्वे न प्रदीपो दृष्टान्तः ।
चैतन्यग्राह्यत्वं च विज्ञानस्य बाह्यविषयैरविशिष्टम् ।
चैतन्यग्राह्यत्वे च विज्ञानस्य किं ग्राह्यविज्ञानग्राह्यतैव किंवा ग्राहकविज्ञानग्राह्यतेति तत्रसंदिह्यमाने वस्तुनि यो ऽन्यत्र दृष्टो न्यायः स कल्पयितुं युक्तो न तु दृष्टविपरीतः ।
तथा च सति यथा व्यितिरिक्तेनैव ग्राहकेण बाह्यानां प्रदीपानां ग्राह्यत्वं दृष्टं तथा विज्ञानस्यापि चैतन्यग्राह्यत्वात्प्काशकत्वे सत्यापि प्रदीपवद्व्यतिरिक्तचैतन्यग्राह्यत्वं युक्तं कल्पयितुं न त्वनन्यग्राह्यत्वम् ।
यश्वान्यो विज्ञानस्य ग्रहीता स आत्मा ज्योतिरन्तरं विज्ञानात् ।
तदानवस्थेति चेत् ।
नः ग्राह्यत्वमात्र हि तद्ग्राहकस्य वस्त्वन्तरत्वे लिङ्गमुक्तं न्यायतः ।
न त्वेकान्ततो ग्राहकत्वे तद्ग्राहकान्तरास्तित्वे वा कदाचिदपि लिङ्गं संभवति ।
तस्मान्न तदनवस्थाप्रसङ्गः ।
विज्ञानस्य व्यक्तिरिक्तग्राह्यत्वे करणान्तरापेक्षायामनवस्थेति चेत् ।
न ।
नियमाभावात् ।
न हि सर्वत्रायं नियमो भवति ।
यत्र वस्त्वन्तरेण गृह्यते वस्त्वन्तरं तत्रग्राह्यग्राहकव्यतिरिक्तं करणान्तरं स्यादिति नैकान्तेन नियन्तुं शक्यते ।
वैचित्र्यदर्शनात् ।
कथम् ।
घटस्तावत्स्वात्मव्यतिरिक्तेनाऽत्मना गृह्यते तत्प प्रदीपादिरालोको ग्राह्यग्राहकव्यतिरिक्तं करणम् ।
न हि प्रदीपाद्यालोको घटांशश्चक्षुरंशो वा ।
घटवच्चक्षुर्ग्राह्यत्वे ऽपि प्रदीपस्य चक्षुः प्रदीपव्यतिरेकेण न बाह्यमालोकस्थानीयं किञ्चित्करणान्तरमपेक्षते ।
तस्मान्नैव नियन्तुं शक्यते यत्र यत्र व्यतिरिक्तग्राहकग्राह्यत्वं तत्र तत्र करणान्तरं स्यादेवेति ।
तस्माद्विज्ञानस्य व्यक्तिरिक्तग्राहकग्राह्यत्वे न करणद्वारानवस्था नापि ग्राहकत्वद्वारा कदाचिदप्युपपादयितुं शक्यते ।
तस्मात्सिद्धं विज्ञानव्यतिरिक्तमात्मज्योतिरन्तरमिति ।
ननु नास्त्येव बाह्योर्ऽथो घटादिः प्रदीपो वा विज्ञानव्यतिरिक्तः ।
यद्धि यद्व्यतिरेकेण नोपलम्यते तत्तावन्मात्रं वस्तु दृष्टम् ।
यथास्वप्नविज्ञानग्राह्यं घटपटादिवस्तु स्वप्नविज्ञानव्यतिरेकेणानुपलम्भात्स्वप्नघटप्रदीपादेः स्वप्नविज्ञानमात्रतावगम्यते, तथा जागरिते ऽपि घटप्रदीपादेर्जागरिते ऽपि घटप्रदीपादेर्जाग्रद्विज्ञानमात्रमेव तु सर्वम् ।
तत्र यदुक्तं विज्ञानस्य व्यतिरिक्तावभास्यत्वाद्विज्ञानव्यतिरिक्तमस्ति ज्योतिरन्तरं गटादेरिवेति तन्मिथ्या ।
सर्वस्य विज्ञानमात्रत्वे दृष्टान्ताभावात् ।
न ।
यावत्तावदभ्युपगमात् ।
न तु बाह्योर्ऽथो भवतैकान्तेनैव नाभ्युपगम्यते ।
ननु मया नाभ्युपगम्यत एव ।
न ।
विज्ञानं घटः प्रदीप इति च शब्दार्थपृथक्त्वाद्यावत्तावजदपि बाह्यमर्थान्तरमवश्यमभ्युपगन्तव्यम् ।
विज्ञानादर्थान्तरं वस्तु न चेदभ्युपगम्यते विज्ञानं घटः पट इत्येवमादीनां भब्दानामेकार्थत्वे पर्यायशब्दत्वं प्राप्नोति ।
तथा साधनानां फलस्य चैकत्वे साध्यसाधनभेदोपद्शशास्त्रानर्थप्रसङ्गः ।
तत्कर्तुरज्ञानप्रसङ्गो वा ।
किञ्चान्यत् ।
विज्ञानव्यतिरेकेण वादिप्रतिवादवाददोषभ्युपगमात् ।
न ह्यात्मविज्ञानमात्रमेव वादिप्रतिवादिवादस्तद्दोषो वाभ्युगम्यते निराकर्तव्यत्वात्प्रतिवाद्यादीनाम् ।
न ह्यात्मीयं विज्ञान निराकर्तव्यमभ्युपगम्यते स्वयं वाऽत्मा कस्यचित् ।
तथा च सति सर्वसंव्यवहारलोपप्रसङ्गः ।
न च प्रवाद्यादयः स्वात्मनैव गृह्यन्त इत्यभ्युपगमः ।
व्यतिरिक्तग्राह्या हि ते ऽभ्युपगम्यन्ते ।
तस्मात्तद्वत्सर्वमेव व्यतिरिक्तग्राह्यं वस्तु जाग्रद्विषयत्वाज्जाग्रद्वस्तुप्रतिपाद्यादिवदिति सलाभौ दृष्टान्तः ।
संतत्यन्तरवद्विज्ञानान्तरवच्चेति ।
तस्माद्विज्ञानवादिनापि न शक्यं विज्ञानव्यतिरिक्तं ज्योतिरन्तरं निराकर्तुम् ।
स्वप्ने विज्ञानव्यतिरेकाभावादयुक्तमिति चेत् ।
न ।
अभावादपि भावस्य वस्त्वन्तरत्वोपपत्तेः ।
भवतैव विषयो घटादिर्यद्यभावो यदि वा भावः स्यादुभयथापि घटादिविज्ञानस्य भावभूतत्वमभ्युपगतमेव ।
न तु तन्निवर्तयितुं शक्यते तन्निवर्तकन्यायाभावात ।
एतेन सर्वस्य शून्यताप्रत्युक्ता ।
प्रत्यगात्माग्राह्यता चाऽत्मनो ऽहमिति मीमांसकपक्षः प्रत्युक्तः ।
यत्तूक्तं सालोको ऽन्यश्चान्यश्च घटो जायत इति तदसत् ।
क्षणान्तरे ऽपि स एवायं घट इति प्रत्यभिज्ञानात् ।
सादृश्यात्प्रत्ययभिज्ञानं कृत्तोत्थितकेशनखादिष्वेवेति चेत् ।
न ।
तत्रापि क्षणिकत्वस्यासिद्धत्वात् ।
जात्येकत्वाच्च ।
कृत्तेषु पुनरुत्थितेषु ।
च केशनखादिषु केशनखत्वाजातेरेकेशनखत्वप्रत्ययस्तन्निमित्तो ऽभ्रान्त ए ।
न हि दृश्यमानलूनोत्थितकेशनखादिषु व्यक्तिनिमित्तः स एवेति प्रत्ययो भवति ।
कस्यचिद्दीर्खकालव्यवहितदृष्टेषु स एवेति प्रत्ययः ।
तस्मान्न समो दृष्टान्तः ।
प्रत्यक्षेण हि प्रत्यभिज्ञायमाने वस्तुनि तदेवेति न चान्यत्वमनुमातुं युक्तं प्रत्यक्षविरोधे लिङ्गस्याऽभासत्वोपपत्तेः ।
सादृश्यप्रत्ययानुपपत्तेश्च ।
ज्ञानस्य क्षणिकत्वात् ।
एकस्य हि वस्तुदर्शिनो वस्त्वन्तरदर्शने सादृश्यप्रत्ययः स्यात् ।
न तु वस्तुदर्श्येको वस्त्वन्तरदर्शनाय क्षणान्तरमवतिष्ठते ।
विज्ञानस्य क्षणिकत्वात्सकृद्वस्तुदर्शनेनैव क्षयोपपत्तेः ।
तेनेदं सदृशमिति हि सादृश्यप्रत्ययो भवति ।
तेनेति दृष्टस्मरणम् इमिति वर्तमानप्रत्ययः ।
तेनेति दृष्टं स्मृत्वा यावदिदिमिति वर्तमानक्षणकालमवतिष्ठेत ततः क्षणिकवादहानिः ।
अथ तेनेत्यवोपक्षीणः स्मार्तः प्रत्यय इदमिति चान्य एव वार्तमानिकः प्रत्ययः क्षीयते ततः सादृश्यप्रत्यतानुपपत्तिस्तेनेदं सदृशमिति ।
अनेकदर्शिन एकस्याभावात् ।
व्यपदेशानुपपत्तिश्च द्रष्टव्यदर्शनेनैवोपक्षयाद्विज्ञानस्येदं पश्याम्यदो ऽद्राक्षमितिव्यपदेशानुपपच्चर्दृष्टवतो व्यपदेशक्षणानवस्थानात् ।
अथावतिष्टेत क्षणिकवादहानिः ।
अथादृष्टवतो व्यपदेषः सादृश्यप्रत्ययश्च तदानूं जात्यन्धस्येव रूपविशेषव्यपदेशस्तत्सादृश्यप्रत्ययश्च सर्वमन्धपरम्परेति प्रसज्येत सर्वज्ञशास्त्रप्रणयनादि ।
न चैतदिष्यते ।
अकृताभ्यागमकृतविप्रणाशदोषौ तु प्रसिद्धतरौ क्षणवादे ।
दृष्टव्यपदेशहेतुः पूर्वेत्तरसहित एक एव हि शृङ्गलावत्प्रत्ययो जायत इति चेत् ।
तेनेदं सदृशमिति च ।
न ।
वर्मानातीतयोर्भिन्नकालत्वात् ।
तत्र वर्तमानप्रत्यय एकः शृङ्गलावयवस्थानीयो ऽतीतश्चापरस्तौ प्रत्ययौ भिन्नकालौ तदुभयप्रत्ययविषयस्पृक्चेच्छृङ्खलाप्रत्ययस्ततः क्षणद्वयाव्यापित्वादेकस्य विज्ञानस्य पुनः क्षणवादहानिः ।
ममतवतादिविशेषानुपपत्तेश्च सर्वसंव्यवहारलोप्रसङ्गः ।
सर्वस्य च स्वसंवेद्यविज्ञानमात्रत्वे विज्ञानस्य च स्वच्छावबोधाभासमात्रस्वाभाव्याभ्युपगमात्तद्दर्शिनश्चान्यस्याभावे ऽनित्यदुःख- शून्यानात्मत्वाद्यनेककल्पनानुपत्तिः ।
न च दाडिमादेरिव विरुद्धानेकांशवत्वं विज्ञानस्य ।
स्वच्छावभासस्वाभाव्याद्द्विज्ञानस्य ।
अनित्यदुःखादीनां विज्ञानांशत्वे च सत्यनुभीयमानत्वाद्व्यतिरिक्तविषयत्वप्रसङ्गः ।
अथानित्यदुःखाद्यात्मैकत्वमेव विज्ञानस्य तदा तद्वियोगाद्विशुद्धिकल्पनानुपपत्तिः ।
संयोगिमलविगाद्धि विशुद्धर्भवति ।
यथाऽदर्शप्रभृतीनाम् ।
न तुस्वाभाविकेन रक्तत्वादीनां द्रव्यान्तरयोगेन वियोजनं दृश्यते तत्रापि संयोगपूर्वत्वमनुमीयते ।
बीजभावनया पुष्पफलादीनां गुणान्तरोत्पत्तिदर्शनात् ।
अतो विज्ञानस्य विशुद्धिकल्पनानुपपत्तिः ।
अतो विज्ञानस्य विशुद्धिकल्नानुपत्तिः ।
विषयविषय्याभासत्वं च यन्मलं परिकल्प्यते विज्ञानस्य तदप्यन्यसंसर्गाभावादानुपपन्नम् ।
न ह्यविद्यमानेन विद्यमानस्य संसर्गः स्यात् ।
असति चान्यसंसर्गेयो धर्मो यस्य दृष्टः स तत्स्वभात्वान्न तेन वियोगमर्हति ।
यथाग्नेरौष्ण्यं सवितुर्वा प्रभा ।
तस्मादनित्यसंसर्गेण मलिनत्वं तद्विशुद्धिश्च विज्ञानस्येतीयं कल्पनान्धपरम्परैव प्रमाणशून्येत्यवगम्यते ।
यदपि तस्य विज्ञानस्य निर्वाणं पुरुषार्थं कल्पयन्ति तत्रापि फलाश्रयानुपपत्तिः ।
कण्टकविद्धस्य हि कण्टकवेधजनितदुःखनिवृत्तिः फलं न तु कण्टकविद्धमरणे तद्दुःखनिवृत्तफलस्याऽश्रय उपपद्यते ।
तद्वत्सर्वनिर्वाणे ऽसति च फलाश्रये पुरुषार्थकल्पना व्यर्थैव ।
यस्य हि पुरुषशब्दवाच्यस्य सत्वस्यात्मनो विज्ञानस्य चार्थः परिकल्प्यते तस्य पुनः पुरुषस्य निर्वाणे कस्यार्थः पुरुषार्थ इति स्यात् ।
यस्य पुनरस्त्यनेकार्थदशीं विज्ञानव्यतिरिक्त आत्मा तस्य दृष्टस्मरणदुखसंयोगवियोगादि सर्वमेवोपपन्नमन्यसंयोगनिमित्तं कालुष्यं तद्वियोगनिमित्ता च विशुद्धिरिति ।
शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नाऽदरः क्रियते ॥4,3.7॥
स्तर्त् ब्र्हुप् 4,3.8
स वा अयं पुरुषो जायमानः शरीरम् अभिसम्पद्यमानः पाप्मभिः संसृज्यते ।
स उत्क्रामन् म्रियमाणः पाप्मनो विजहाति
ब्र्हुप्भ्_4,3.8 यथैवेहैकस्मिन्देहे स्वप्नो भूत्वा मृत्यो रूपाणि कार्यकरणान्यतिक्रम्य स्वप्ने स्व आत्मज्येतिष्यास्त एवं स वै प्रकृतः पुरुषो ऽजायमानः ।
कथं जायमान इत्युच्यते-शरीरं देहेन्द्रियसंघातमभिसंपद्यमानः शरीर आत्मभावमापद्यमान इत्यर्थः ।
पाप्मभिः पाप्मसमवायिभिर्धर्माधर्माश्रयैः कार्यकरणैरित्यर्थः, संसृज्यते संयुज्यते ।
स एवोत्क्रामञ्छरीरान्तरमूर्धंव क्रामन्गच्छन्म्रियमाण इत्येतस्य व्याख्यानमुत्क्रामन्निति ।
तानेव संश्लिष्यान्पाप्मरूपकार्यकरणोपादानपरित्यागाभ्यामनवरचं संचरति धिया समानः सन्, तथा सो ऽयं पुरुष उभाविहलोकपरोकौ जन्ममरणाभ्यां कार्यकरणोपादानपरित्यागावनवरतं प्रतिपद्यमान आ संसारमोक्षात्संचरति ।
तस्मात्सिद्धमस्याऽत्मयज्योतिषो ऽन्यत्वं कार्यकरणरूपेभ्यः पाप्मभ्यः संयोगवियोगाभ्याम् ।
न हि तद्धर्मत्वे सति तैरेव संयोगो वियोगो वा युक्तः ॥4,3.8॥
स्तर्त् ब्र्हुप् 4,3.9
तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः ।
इदं च परलोकस्थानं च ।
सन्ध्यं तृतीयं स्वप्नस्थानम् ।
तस्मिन्सन्ध्ये स्थाने तिष्ठन् उभे स्थाने पश्यतीदं च परलोकस्थानं च ।
अथ यथाक्रमो ऽयं परलोकस्थाने भवति ।
तम् आक्रमम् आक्रम्योभयान् पाप्मन आनन्दांश् च पश्यति ।
स यत्र प्रस्वपित्य् अस्य लोकस्य सर्वावतो मात्राम् अपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति ।
अत्रायं पुरुषः स्वयंज्योतिर् भवति
ब्र्हुप्भ्_4,3.9 ननु न स्यो ऽस्योभौ लोकौ यौ जन्ममरणाभ्यामनुक्रमेण संचरति स्वप्नजागरिते इव ।
स्वप्नजागरिते तु प्रत्यक्षमवगम्येते न त्विहलोकपरलोकौ केनचित्प्रमणेन ।
तस्मादेते एव स्वप्नजागगरिते इहलोकपरलोकाविति ।
उच्यते-तस्यैतस्य पुरुषस्य वै द्वे ए स्थाने भवतो न तृतचीयं चतुर्थं वा ।
के ते ।
इदं च .त्प्रतिपन्नं वर्तमानं जन्म शरीरेन्जद्रियविषयवेदनाविशिष्टं स्थानं प्रत्यक्षतो ऽनुभूयमानम् ।
परलोक एव स्थानं परलोकस्थानम् ।
तच्च शरीरादिविवियोगोत्तरकालानुभाव्यम् ।
ननु स्वप्नो ऽपि परलोकस्था च सति द्वे एवेत्यवधारणमयुक्तम् ।
न ।
कथं तर्हि ।
संध्यं तत् ।
इहलोकपरलोकयोर्यः संधिस्तस्मिन्भवं संध्यं यत्तृतीयं तत्स्वप्नस्थानम् ।
तेन स्थानद्वित्वावधारणम् ।
न हि ग्रामयोः संधस्तावेव ग्रामावपेक्ष्य तृतीयत्वपरिगणनमर्हति ।
कथं पुनस्तस्य परलोकस्थास्यास्तित्वमवगम्यते यदपेक्ष्य स्वप्नस्थानं संध्यं भवेत् ।
यतस्तस्मिन्संध्ये स्वप्नस्थाने तिष्टन्भवन्वर्तमान एते उभे स्थाने पश्यति ।
के ते उभे ।
इदञ्च परलोकस्थानं च ।
तस्मात्स्तः स्वप्नजागरितव्यतिरेकेणोभौ लोकौ यो धिया समानः सन्ननुसंचरति जन्ममरणसंतानप्रबन्धेन ।
कथं पुनः स्वप्ने स्थितः लोकौ पश्यति ।
किमाश्रयः केन विधिनेति ।
उच्येते-अथ कथं पश्यतीति शृणु ।
यथाक्रम अक्रामत्यनेनेत्याक्रम आश्रयो ऽवष्टम्भ इत्यर्थः ।
यादृश आक्मयो ऽस्य सो ऽयं यथाक्रमः ।
अयं पुरुषः परलोकस्थाने प्रतिपत्तव्ये निमित्ते यथाक्रमो भवति यादृशेनपरलोकप्रतिपत्तिसाधनेन विद्याकर्मपूर्वप्रज्ञानलक्षणेन युक्तो भवतीत्यर्थः ।
तमाक्रमं परलोकस्थानायोन्मुखीभूतं प्राप्ताङ्कुरीभावमिव बीजं तमाक्रम्यावष्टभ्याऽश्रित्योभयान्पश्यति बहुवचनं धर्माधर्मफलोनेकत्वादुभयप्रकारानित्यर्थः ।
कांस्तान्पाप्मनः पापफलानि ।
न तु पुनः साक्षादेव पाप्मनां दर्शनं संभवति तस्मात्पापफलानि दुःखानीत्यर्थः ।
आनन्दांश्च धर्मफलानि सुखानीत्येतत् ।
तानुभयान्पाप्मन आनन्दांश्च पश्यति जन्मान्तरदृष्टवासनामयात् ।
यानि च प्रतिपत्तव्यजन्मविषयाणि क्षुद्रधर्माधर्मफलानि धर्माधर्मप्रयुक्तो देवतानुग्रहाद्वापश्यति ।
तत्कथमवगम्यते परलोकस्थानसंबन्धिपाप्मानान्ददर्शनं स्वप्न इति ।
उच्यते-यस्मादिह जन्मन्यननुभाव्यमपि पश्यति बहु ।
न च स्वप्नो नामापूर्वं दर्शनम् ।
पूर्वदृष्टस्मृतिर्हि स्वप्नः प्रायेण ।
तेन स्वप्न्जागरितस्थानव्यतिरेकेण स्त उभौ लोकौ ।
यदादित्यादिबाह्यज्योतिषामभावे ऽयं कार्यकारणसंगातः पुरुषो येन व्यतिरिक्तेनाऽत्मना ज्योतिषा व्यवहरतीत्युक्तम् तदेव नास्ति ।
यदाऽदित्यादिज्योतिषामभावगमनं यत्रेदं विविक्तं स्वयञ्ज्योतिरुपलभ्योत ।
येन सर्वदैवायङ्कार्यकरणसंघातः संसृष्ट एवोपलभ्येत ।
तस्मादसत्समो ऽसन्नेव वा स्वेन विविक्तस्वभावेन ज्योतीरूपेणाऽत्मेति ।
अथ क्वचिद्विविक्तः स्वेन ज्योतीरूपेणोपलभ्येत बाह्याध्यात्मिकभूतभौतिकसंसर्गशून्यस्ततो यथोक्तं सर्वं भविष्यतीत्येदर्थमाह-स यः प्रकृत आत्मा यत्र यस्मिन्काले प्रस्वपिति प्रकर्षेण स्वापमनुभवति तदा किमुपादानः केन विधिना स्वपिति संध्यं स्थानं प्रतिपद्यत इत्यच्यते ।
अस्य दृष्टस्य लोकस्यजागरितलक्षणस्य सर्वावतः सर्वमवतीति सर्वावानयं लोकः कार्यकरणसंघातो विषयवेदनासंयुक्तः ।
सर्वावत्वमस्य व्याख्यातमन्नत्रयप्रकरणे ऽथो अयं वा आत्मेत्यादिना ।
सर्वा वा भूतभौतिकमात्रा अस्य संसर्गकाणभूता विद्यन्त इति सर्ववान्सर्वानेव सर्वावांस्तस्य सर्वावतो मात्रामेकदेशमवयवमपादायापच्छिद्याऽदाय गृहीत्वा दृष्टजन्मवासनावासितः सन्नित्यर्थः ।
स्वयमात्मनैव विहत्य देहं पातयित्वा निःसंबोधमापाद्य ।
जागरिते ह्योदित्यादीनां चक्षुरादिष्वनुग्रहो देहव्यववहारार्थः ।
देहव्यवहारश्चाऽत्मनो धर्माधर्मफलोपभोगप्रयुक्तस्तद्धर्माधर्मफलोपभोगोपरमणमस्मिन्देह आत्मकर्मोपरमकृतमित्यात्मास्य विहन्तेत्युच्यते ।
स्वयं निर्माय निर्माणं कृत्वा वासनामयं स्वप्नदेहं मायामयमिव ।
निर्माणमपि तत्कर्मापेक्षत्वात्स्वयङ्कर्तृकमुच्यते ।
स्वेनाऽत्मीयेन भासा मात्रोपादानलक्षणेन भासा दीप्त्या प्रकाशेन सर्ववासनात्मकेनान्तःकरणवृक्किप्रकाशेनेत्यर्थः ।
सा हि तत्र विषयभूता सर्ववासनामयी प्रकाशते ।
सा तत्र स्वयं भा उच्यते ।
तेन स्वेन भासा विषयभूतेन स्वेन च ज्योतिषा तद्विषयिणा विविक्तरूपेणालुप्तदृक्स्वभावेन तद्भावरूपं वासनात्मकं विषयीकुर्वन्प्रस्वपिति ।
यदेवं वर्तनं तत्प्रस्वपितीत्युच्यते ।
अत्रैतस्यामवस्थायामेतस्मिन्काले ऽयं पुरुष आत्मा स्वयमेव विवक्तज्योतिर्भवति ।
बाह्याध्यात्मिकभूतभौतिकसंसर्गरहितं ज्योतिर्भवति ।
नन्वस्य लोकस्यमात्रोपादानं कृतं कथं तस्मिन्सत्यत्रायं पुरषः स्वयञ्ज्योतिर्भवतीत्युच्यते ।
नैष दोषः ।
विषयभूतमेव हि तत् ।
तेनैव चात्रायं पुरुषः स्वयं ज्योतिर्दर्शयितुं शक्यः ।
न त्वन्यथासति विषये कस्मिंश्चित्सुषुप्तकाल इव ।
यदा पुनः सा भा वासनात्मिका विषयभूतोपलभ्यमाना भवति तदासिः कोशादिव निष्कृष्टः सर्वसंसर्गरहितं चक्षुरादिकार्यकरणव्यावृत्तस्वरूपमलुप्तदृगात्मज्योतिः स्वेन रूपेणावभासयद्गृह्यते ।
तेनात्रायं पुरुशः स्वयञ्ज्योतिर्भवतीति सिद्धम् ॥4,3.9॥
स्तर्त् ब्र्हुप् 4,3.10
न तत्र रथा न रथयोगा न पन्थानो भवन्ति ।
अथ रथान् रथयोगान् पथः सृजते ।
न तत्रानन्दा मुदः प्रमुदो भवन्ति ।
अथानन्दान् मुदः प्रमुदः सृजते ।
न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति ।
अथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते ।
स हि कर्ता
ब्र्हुप्भ्_4,3.10 नन्वत्र कथं पुरुषः स्वयञ्ज्योतिर्येन जागरत इव ग्राह्यग्राहकादिलक्षणः सर्वे व्यवहारो दृश्यते ।
चक्षुराद्यनुग्राहकाश्चाऽदित्याद्या लोकास्तथैव दृश्यन्ते यथा जागरिते ।
तत्र कथं विशेषावधारणं क्रियते ऽत्रायं पुरुषः स्वयं ज्योतिर्भवतीति ।
उच्यते-वैलक्षण्यात्स्वप्नदर्शनस्य ।
जागरितं हीन्द्रियबुद्धमन आलोकादिव्यापारसंकीर्णमात्मज्योतिः ।
इह तु स्वप्न् इन्द्रियाभावात्तदनुग्राहकादित्याद्यालोकाभावाच्च विविक्तं केवलं भवति ।
तस्माद्विलक्षणम् ।
ननु तथैव विषया उपलभ्यन्ते स्वप्ने ऽपि यथा जागरिते तत्र कथमिन्द्रायाभावाद्वैलक्षम्यमुच्यते इति ।
शृणु- न तत्र लिषयाः स्वप्ने रथादिलक्षणाः ।
तथा न रथयोगा रथेषु युज्यन्त इति रथयोगा अश्वादयस्तत्र न विद्यन्ते ।
न च पन्थानो रथमार्गा भवन्ति ।
अथ रथान्रथयोगान्पथश्च सृजते स्वयम् ।
कथं पुनः सृजते रथादिसाधनानां वृक्षादीनांमभावे ।
उच्येते-ननूक्तमस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्मायेत्यन्तःकरणवृत्तिरस्य लोकस्य व्यवतिष्ठते तदुच्यते स्वयं निर्मायेति ।
तदेवाऽह-रथादीन्सृजत इति ।
नतु तत्र करणं वा करणानुग्रागकाणिवाऽदित्यादिज्योतींषि तदवभास्या वा रथादयो विषया विद्यन्ते ।
तद्वासनामात्रं तु केवलं तदुपलब्धिकर्मनिमित्तचोदितोद्भूतान्तःकरणवृत्याश्रयं दृश्यते ।
तद्यस्य ज्योतिषो दृश्यते ऽलुप्तदृशस्तदात्मज्योतिरत्र केवलमसिरिव कोशाद्विविवक्तम् ।
तथा न तत्राऽनन्दाः सुखविशेषा मुदो हर्षा पुत्रादिलाभनिमित्ताः प्रमुदस्त एव प्रकोर्षोपेताः ।
अथ चाऽनन्दादीन्सृजते ।
तथा न तत्र वेशान्ताः पल्वलाःपुष्करिण्यस्तडागाः स्रवन्त्यो नद्यो भवन्ति ।
अथ वेशान्तादीन्सृजते वासनामात्ररूपान् ।
यस्मात्स हि कर्ता ।
त्दवासनाश्रचित्तवृत्युद्भवनिमित्तकर्महेतुत्वेनेत्यवोचाम ।
तस्य कर्तृत्वं न तु साक्षादेव तत्र क्रिया संभवति साधनाभावात् ।
न हि कारकमन्तरेण क्रिया संभवति ।
न च तत्र हस्तपादादीनि क्रियाकारकाणि संभवन्ति ।
यत्क तु तानि विद्यन्ते जागरिते तत्राऽत्मज्योतिरवभासितैःकार्यकरणै रथादिवासनाश्रयान्तःकरणवृत्युद्भवनिमित्तं कर्म निवर्त्यते तेनोच्यते स हि कर्तेति ।
तदुक्तमात्मनैवायं ज्योतिषाऽस्ते पल्ययते कर्म कुरुत इति ।
तत्रापि न परमार्थतः स्वतः कर्तृत्वं चैतन्यज्योतिषो ऽवभासकत्वव्यतिरेकेण ।
यच्चैतन्यात्मज्योतिषान्तःकरणद्वारेणावभासयति कार्यकरणानि सदवभासितानि कर्मसु व्याप्रियन्ते कार्यकरणानि तत्र कर्तृत्वमुपचर्यत आत्मनः ।
यदुक्तं ध्यायतीव लेलायतीवेति तदेवानूद्यते ।
स हि कर्तेतीह हेत्वर्थम् ॥4,3.10॥
स्तर्त् ब्र्हुप् 4,3.11
तद् एते श्लोका भवन्ति --
स्वप्नेन शारीरम् अभिप्रहत्यासुप्तः सुप्तान् अभिचाकशीति ।
शुक्रम् आदाय पुनर् ऐति स्थानं हिरण्मयःपुरुष एकहंसः
ब्र्हुप्भ्_4,3.11 तदेव एतस्मिन्नुक्तेर्ऽथ एते श्लोका मन्त्रा भवन्ति ।
स्वप्नेन स्वप्नभावेन शारीरं शरीरमभिहत्य निश्चेष्टमापाद्यासुप्तः स्वयमलुप्तदृगादिशक्तिस्वाभाव्यात्सुप्तान्वसनाकारोद्भूतानन्तःकरणवृत्याश्रया- न्बाह्याध्यात्मिकान्सर्वानेल भावान्स्वेन रूपेण प्रत्यस्तमितान्सुप्तानभिचाकशीत्यलुप्याऽत्मदृष्ट्या पश्यत्यवभासतीत्यर्थः ।
शुक्रं शुद्धं ज्योतिष्मदिन्द्रियमात्र रूपमादाय गृहीत्वा पुनोः कर्मणे जागरितस्थानमैति आगच्छति हिरण्मयो हिरण्मय इव चैतन्यज्योतिःस्वभावः पुरुष एकहंस एक इव हन्तीत्येकहंसः ।
एको जाग्रत्स्वप्नेहलोकपरलोकादीन् गच्छतीत्येकहंसः ॥4,3.11॥
स्तर्त् ब्र्हुप् 4,3.12
प्राणेन रक्षन्न् अवरं कुलायं बहिष्कुलायाद् अमृतश् चरित्वा ।
स ईयते ऽमृतो यत्रकामं हिरण्मयः पुरुष एकहंसः
ब्र्हुप्भ्_4,3.12 तथा प्राणेन पञ्चवृत्तिना रक्षन्परिपालयन्नन्यथा मृतभ्रान्तिः स्यादवरं निकृष्टमनेकाशुचिसंघातत्वादत्यन्तबीभत्सं कुलायं नीडं शरीरं स्वयं तु बहिस्तस्मात्कुलायाच्चरित्वा ।
यद्यपि शरीरस्थ एव स्वप्नं पश्यति तथापि तत्संबन्धाभावात्तत्स्थ इवाकाशो बहिश्चरित्वेत्युच्य ।
अमृतः स्वयममरणधर्मेयते गच्छति यत्र कामं यत्र यत्र कामी विषयेषूद्भूतवृत्तिर्भवति तं तं कामं वासनारूपेणोद्भूते गच्छति ॥4,3.12॥
स्तर्त् ब्र्हुप् 4,3.13
स्वप्नान्त उच्चावचम् ईयमानो रूपाणि देवः कुरुते बहूनि ।
उतेव स्त्रीभिः सह मोदमानो जक्षद् उतेवापि भयानि पश्यन्
ब्र्हुप्भ्_4,3.13 किञ्च स्वप्नान्ते स्वप्नस्थान उच्चावचमुच्चं देवादिभावमवचं तिर्यगादिभावं निकृष्टं तदुच्चावचमीयमानो गम्यमानः प्राप्नुवन्रूपाणि देवो द्योतनावान्कुरुते निर्वर्तयति वासनारूपाणि बहून्यसंख्येयानि उतापि स्त्रीभिः सह मोदमान इव जक्षदिव हसन्निव वयस्यैः ।
उतेवापि भयानि बिभेत्येभ्य इति भयानि संहव्य्घ्रादीनि पश्यन्निव ॥4,3.13॥
स्तर्त् ब्र्हुप् 4,3.14
आरामम् अस्य पश्यन्ति न तं पश्यति कश् चनेति ।
तं नायतं बोधयेद् इत्य् आहुः ।
दुर्भिषज्यं हास्मै भवति यम् एष न प्रतिपद्यते ।
अथो खल्व् आहुर् जागरितदेश एवास्यैस इति ।
यानि ह्य् एव जाग्रत् पश्यति तानि सुप्त इति ।
अत्रायं पुरुषः स्वयंज्योतिर् भवति ।
सो ऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षाय ब्रूहीति
ब्र्हुप्भ्_4,3.14 आराममारमणमाक्रीडामनेन निर्मितां वासनारूपामस्याऽत्मनः पश्यन्ति सर्वे जनाः ।
ग्रामं नगरं स्त्रियमन्नाद्यमित्यादिवासनानिर्मितमाक्रीडनरूपम् ।
न ते पश्यति तं न पश्यति कश्चन ।
कष्टं भो वर्तते ऽत्यन्तविविक्तं दृष्टिगोचरापन्नमप्यहो भाग्यहीनता लोकस्य यच्छक्यदर्शनमप्यात्मानं न पश्यतीति लोकं प्रत्यनुक्रोशं दर्शयति श्रुतिः ।
अत्यन्तविविक्तः स्वयञ्ज्योतिरात्मा स्वप्ने भवतीत्यभिप्रायः ।
तं नाऽयतं बोधयेदित्याहुः ।
प्रसिद्धिरपि लोके विद्यते स्वप्न आत्मज्योतिषो व्यतिरिक्तत्वे ।
कासौ ।
तमात्मानं सुप्तमायतं सहसा भृशं न बोधयेदित्याहुरेवं कथयन्ति चिकत्सकादयो जना लोके ।
नूनं ते पश्यन्ति जाग्रद्देहादिन्द्रियद्वारतो ऽपसृत्य केवलो बहिर्वर्तत इति यत आहुस्तं नाऽयतं बोधयेदिति ।
तत्र च दोषं पश्यन्तिभृशं ह्यसौ बोध्यमानस्तानीन्द्रियद्वाराणि सहसा प्रतिबोध्यमानो न प्रतिपद्यत इति ।
तदेतदाह-दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते यमिन्द्रियद्वारदेशं यस्माद्देशाच्छुक्रमादायपसृतस्तमिन्द्रियदेशमेष आत्मा पुनर्न प्रतिपद्यते ।
कदाचिद्व्यत्यासेनेन्द्रियमात्राः प्रवेशयति ।
तत आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भषज्यो दुःखभिषक्वर्मता हास्मै देहाय भति दुःखेन चिकित्सनीयो ऽसौ देहो भवतीत्यर्थः ।
तस्मात्प्रसिद्ध्ध्यापि स्वप्ने स्वयं ज्योतिष्ट्वामस्य गम्यते ।
स्वप्नो भूत्वातिक्रान्तो मृत्यो रूपाणीति तस्मात्स्वप्ने स्वयोज्योतिरात्मा ।
अथो अपि खल्वन्य आहुर्जागरितदेश एवास्यैष यः स्वरः ।
न संध्यं स्थानान्तरमिहलोकपरलोकाभ्यां व्यतिरिक्तं किं तर्हीहलोक एव जागरितदेशः ।
यद्येवं, किञ्चातः ।
शृण्वतो यद्भवति, यदा जागरितदेश एवायं स्वप्नस्तदायमात्मा कार्यकरणेभ्यो न व्यावृत्तस्तैर्मिश्रीभूतः ।
अतो न स्वयञ्ज्योतिरात्मेत्यतः स्वयञ्ज्योतिष्ट्वबाधनायान्य आहुर्जागरितदेश एवास्यैष इति ।
तत्र च हेतुमाचक्षते जागरितदेशत्वे यानि हि यस्माद्धस्त्यादीनि पदार्थजातानि जाग्रज्जागरितदेशे पश्यति लौकिकस्तान्येव सुप्तो ऽपि पश्यतीति ।
तदसत् ।
इन्द्रियोपरमात् ।
उपरतेषु हीन्द्रियेषु स्वप्नान्पश्यति ।
तस्मान्नान्यस्य ज्योतिषस्तत्र संभवो ऽस्ति ।
तदुक्तं न तत्र रथा न रथयोगा इत्यादि ।
तस्मादत्रायं पुरषः स्वयञ्ज्योतिर्भवत्येव ।
स्वयञ्ज्योतिरात्मास्तीति स्वप्ननिदर्शेनप्रदर्शितम् ।
अतिक्रामति मृत्यो रूपाणीति च ।
क्रमेणसंचरन्निगलोकपरलोकादीनिहलोकपरलोकादिव्यतिरिक्तः ।
तथा जाग्रत्स्वप्नकुलायाभ्यां व्यतिरिक्तः ।
तत्र च कामसंचारान्नित्यश्चेत्येतत्प्रतिपदादितं याज्ञवल्क्येन ।
अतो विद्यानिष्क्रियार्थं सहस्रं ददामीत्याह जनकः सो ऽहमेवं बोधितस्त्वयाभगवते तुभ्यं सहस्रं ददामि ।
विमोक्षश्च कामप्रश्नो मयाभिप्रेतः ।
तदुपयोग्ययं तदार्थ्यात्तदेकदेश एव ।
इतस्त्वां नियोक्ष्यामि समस्तकामप्रश्ननिर्णयश्रवणेन विमोक्षायात ऊर्ध्वं ब्रूहीति ।
येन संसाराद्विप्रमुच्येयम्, त्वत्प्रसादात् ।
विमोक्षपदार्थैकदेशनिर्णयहेतोः सहस्रदानम् ॥4,3.14॥
स्तर्त् ब्र्हुप् 4,3.15
स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति स्वप्नायैव ।
स यत् तत्र किञ्चित् पश्यत्य् अनन्वागतस् तेन भवति ।
असङ्गो ह्य् अयं पुरुष इति ।
एवम् एवैतत् याज्ञवल्क्य ।
सो ऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति
ब्र्हुप्भ्_4,3.15 यत्प्रस्तुतमात्मनैवायं ज्योतिषाऽस्त इति ।
तत्प्रत्यक्षतः प्रतिपादितमत्रायं पुरुषः स्वयञ्ज्योतिर्भवतीति स्वप्ने ।
यत्तूक्तं स्व्पनो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणीति ।
तत्रैतदाशङ्कय्ते मृत्यो रूपाण्येवातिक्रामति न मृत्युम् ।
प्रत्यक्षं ह्येतत्स्वप्ने कार्यरकरणव्यावृत्तस्यापु मोदत्रासादिदर्शनम् ।
तस्मान्नूनं नैवायं मृत्युमतिक्रामति ।
कर्मणो हि मृत्योः कार्यं मोदत्रासादि दृश्यते ।
यदि च मृत्युना बद्ध एवायं स्वभावतस्ततो विमोक्षो नोपपद्यते ।
न हि स्वभावस्ततो विमोक्षो नोपपद्यते ।
न हि स्वभावात्कश्चिद्विमुच्यते ।
अथ स्वभावो न भवति मृत्युस्ततस्तस्मान्मोक्ष उपपत्स्यते ।
यथासौ मृत्युरात्मायो धर्मो न भवति तथा प्रदर्शनायात ऊर्ध्वं विमोक्षाय ब्रूहीत्येवं जनकेन पर्यनुयुक्तो याज्ञवल्क्यस्तद्दिदर्शयिषया प्रववृते - स वै प्रकृतः स्वयञ्ज्योतिः पुरुषः ।
एष यः स्वप्ने प्रदर्शित एतस्मिन्संप्रसादे सम्यक्प्रसीदत्यस्मिन्निति संप्रसादः ।
जागरिते देहेन्द्रियव्यापारशतसंनिपातजं हित्वा कालुष्यं तेभ्यो विप्रमुक्त ईषत्प्रसीदति स्वप्ने ।
इह तु सुषुप्ते सम्यक्प्रसीदतीत्यतः सुषुप्तं संप्रसाद उच्यते ।
"तीर्णो हि तदा सर्वान् शोकान्""सलिल एको द्रष्टे"ति वक्ष्यति सुषुप्तस्थमात्मानम् ।
स वा एष एतस्मिन्संप्रसादे क्रमेण संप्रन्नः सन्सुषुप्ते स्थित्वा ।
कथं संप्रसन्नः ।
स्वप्नात्सुषुप्तं प्रविविक्षुः स्वप्नावस्थ एव रत्वा रतिमनुभूय मित्रबन्धुजनदर्शनादिता तरित्वा विहृत्यानेकधा चरणफलं श्रममुपलभ्येत्यर्थः ।
दृष्ट्वैव न कृत्वेत्यर्थः पुण्यं च पुण्यफलं पापं च पापफलम् ।
न तु पुण्यपापयोः साक्षाद्ददर्शनमस्तीत्यवोचाम ।
तस्मान्न पुण्यपापाभ्यामनु बद्धः ।
यो हि करोति पुण्यपापे स ताभ्यामनुबध्यते ।
न हि दर्शनमात्रेण तदनुबद्धः स्यात् ।
तस्मात्स्वप्नो भूत्वा मृत्युमतिक्रामत्येव न मृत्युमतिक्रामत्येव न मृत्युरूपाण्येव केवलम् ।
अतो न मृत्योरात्मस्वभावत्वाशङ्का ।
मृत्युश्चेत्स्वभावो ऽस्थ स्वप्ने ऽपि कुर्यात् ।
न तु करोति ।
स्वभावश्चेत्क्रिया स्यादनिर्मोक्षतैव स्याव ।
न तु स्वभावः स्वप्ने ऽभावात् ।
अतो विमोक्षो ऽस्योपपद्यते मृत्योः पुण्यपापाभ्याम् ।
ननु जागरिते ऽस्य स्वभाव एव ।
न ।
बुद्ध्याद्युपाधिकृतं हि तत् ।
तच्च प्रतिपादितं सादृश्याद्ध्यायतीव लेलायतीवेति ।
तस्मादेकान्तेनैव स्वप्ने मृत्युरूपातिक्रमणान्न स्वाभाविकत्वशङ्कानिर्मोक्षता वा ।
तत्र चरित्वेति चरणफलं श्रममुपलभ्येत्यर्थः ।
ततः संप्रसादानुवभोत्तरकालं पुनः प्रतिन्यायं यथान्यायं यथागतं निश्चित आयो न्यायः ।
अयनमायो निर्गमनं पुनः पूर्वगमनपरीत्येन यदागमनं स प्रतिन्यायः ।
यथागतं पुनरागच्छतीत्यर्थः ।
प्रतियोनि यथास्थानम् ।
स्वप्नस्थानाद्धि सुषुप्तं प्रतिपन्नः सन्यथास्थानमेव पुनरागच्छति ।
प्रतियोन्याद्रवति स्वप्नायैव स्वप्नस्थानायैव ।
ननु स्वप्ने न करोति पुण्यपापे तयोः फलमेव कथमवगम्यते तथा जागरिते यथा करोत्येव स्वप्ने ऽपि तुल्यत्वाद्दर्शनस्येति, अत आह स आत्मा यत्किञ्चित्तत्र स्वप्ने पश्यति पुण्यपापफलमन्वागतो ऽननुबद्धस्तेन इष्टेन भवति नैवानुबद्धो भवति ।
यदि हि स्वप्ने कृतमेव तेन स्यात्तेनानुबध्येत ।
स्वप्नादुत्थितो ऽपि समन्वागतः स्यात् ।
न च तल्लोके स्वप्नकृतकर्मणान्वागतप्रसिद्धिः ।
न हि स्वप्नकृतेनाऽगसाऽगस्कारिणमात्मानं मन्यते कश्चित् ।
न च स्वप्नदृशः आगः श्रुत्वा लोकस्तं गर्हति परिहरति वा ।
अतो ऽनन्वागत एव तेन भवति ।
आख्यातारश्चस्वप्नल् सहेवशब्देनाऽचक्षते हस्तिनो ऽद्य घटीकृता धावन्तीव मया दृष्टा इति ।
अतो न तस्य कर्तृत्वमिति ।
कथं पुनरस्यार्तृत्वमिति ।
कार्यकरणैर्मूर्तैः संश्लेषो मूर्तस्य स तु क्रियाहेतुर्दृष्टः ।
नह्यमूर्तः कश्चित्क्रियावान्दृश्यते ऽमूर्तश्चाऽत्मातो ऽसङ्गः ।
यस्माच्चासङ्गो ऽयं पुरुशस्तस्मादनन्वागतस्तेन स्वप्नदृष्टेन ।
अत एव न क्रियाकर्तृत्वमस्य कथञ्चिदुपपद्यते ।
कार्यकरणसंश्लेषेण हि कर्तृत्वं स्यात्स च सश्लेषः सङ्गो ऽस्य नास्ति यतो ऽसङ्गो ह्ययं पुरुषः ।
तस्मादमृतः ।
एवमेवैतद्याज्ञवल्क्य ।
सो ऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहि ।
मोक्षपदार्थकदेशस्य कर्मप्रविवेकस्य सम्यग्दर्शुतत्वात् ।
अत ऊर्ध्वंविमोक्षायैव ब्रूहीति ॥4,3.15॥
स्तर्त् ब्र्हुप् 4,3.16
स वा एष एतस्मिन् स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति बुद्धान्तायैव ।
स यत् तत्र किञ्चित् पश्यत्य् अनन्वागतस् तेन भवति ।
असङ्गो ह्य् अयं पुरुष इति ।
एवम् एवैतत् याज्ञवल्क्य ।
सो ऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति
ब्र्हुप्भ्_4,3.16 तत्रासङ्गो ह्ययं पुरुष इत्यसङ्गताकर्तृत्वे हेतुरुक्तः ।
उक्तं च पूर्वं कर्मवशात्स ईयते यत्र काममिति ।
कामश्च सङ्गऽतो ऽसिद्धो हेतुरुक्तो ऽसङ्गो ह्ययं पुरुष इति ।
न त्वेतदस्ति ।
कथं तर्हि ।
असङ्ग एवेत्येतदुच्यते- स वा एष एतस्मिन्स्वप्ने व वा एष पुरुषः ।
संप्रदात्प्रत्यागतः स्वप्ने रत्वा चरित्वा यथाकामं दृष्टैव पुण्यं च पापं चेति सर्वं पूर्ववत् ।
बुद्धान्तायैव जागरितस्थानाय ।
तस्मादसङ्ग एवायं पुरुषः ।
यदि स्वप्ने सङ्गवान्स्यात्कामी ततस्तत्सङ्गजैर्देषैर्बुद्धान्ताय प्रत्यागतो लिप्येत ॥4,3.16॥
स्तर्त् ब्र्हुप् 4,3.17
स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति स्वप्नान्तायैव
ब्र्हुप्भ्_4,3.17 यथासौ स्वप्ने ऽसङ्गत्वात्स्वप्नसङ्गजैर्देषैर्जागरिते प्रत्यागतो न लिप्यत एवं जागरितसङ्गजैरपु दोषान्र लिप्यत एव बुद्धान्तेन तदेतदुच्यते- स वा एष एतस्मिन्बुद्धान्ते जागरिते रत्वा चरित्वेत्यादि पूर्ववत् ।
स यत्तत्र बुद्धान्ते किञ्चित्पश्यत्यनत्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इति ।
ननु दृष्ट्वैवेति कथमवधार्यते करोति च तत्र पुण्यपापे तत्फलं च पश्यति ।
कारकावभासकत्वे कर्तृत्वोपपत्तेः ।
आत्मनैवायं ज्योतिषाऽस्त इत्यादिनाऽत्मज्योतिषावभासितः कार्यकरणसङ्घातो व्यवहरति तेनास्य कर्तृत्वमुपचर्यते न स्वतःकर्तृत्वम् ।
तथा चोक्तं ध्यायतीव लेलायतीवेति ।
बुद्ध्याद्युपाधिकृतमेव न स्वतः ।
इह तु परमार्थापेक्षयोपाधिनिरपेक्ष उच्यते दृष्ट्वैव पुण्यं च पापञ्च न कृत्वेति तेन न पूर्वापरव्याघाताशङ्का ।
यस्मान्निरुपाधिकः परमार्थतो न करोति न लिप्यते क्रियाफलेन ।
तथा च भगवतोक्तम्-"अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते" ॥
इति ॥
तथा सहस्रदानं तु कामप्रविवेकस्य दर्शितत्वात् ।
तथा स वा एष एतस्मिन्स्वप्ने स वा एष एतस्मिन्बुद्धान्त इत्येताभ्यां कण्डिकाभ्यामसङ्गतैव प्रतिपादिता ।
यस्माद्बुद्धान्ते कृतेन स्वप्नान्ते गतः संप्रसन्नो ऽसंबद्धो भवति स्तैन्यादिकार्यादर्शनात्तस्मात्त्रिष्वपि स्थानेषु स्वतो ऽसङ्ग एवायम् ।
अतो ऽमृतः ।
स्थानत्रयधर्मविलक्षणः प्रतियोन्याद्रवति स्वप्नान्तायैव संप्रसादायेत्यर्थः ।
दर्शनवृत्तेः स्वप्नस्यस्वप्नशब्देनाभिधानदर्शनादन्तशब्देन च विशेषणोपपत्तेः ।
एतस्मा अन्ताय धावतीति च सुषुप्तं दर्शयिष्यति ।
यदि पुनरेवमुच्यते"स्वप्नान्ते रत्वा चरित्वैतावुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं चे"ति दर्शनात्स्वप्नान्तायैवेत्यत्रापु दर्शवृत्तिरेव स्वप्न उच्यत इति तथापि न किञ्चिद्दुष्यत्यसङ्गता हि सिषाधयिषिता सिध्यत्येव ।
यस्माज्जागरिते दृष्ट्वैव पुण्यं च पापं च रत्वा चरित्वा च स्वप्नान्तमागतो न जागरितदोषाणानुगतो भवति ॥4,3.17॥
स्तर्त् ब्र्हुप् 4,3.18
तद् यथा महामत्स्य उभे कूले अनुसंचरति पूर्वं चापरं च ।
एवम् एवायं पुरुष एताव् उभाव् अन्ताव् अनुसंचरति स्वप्नान्तं च बुद्धान्तं च
ब्र्हुप्भ्_4,3.18 एवमयं पुरुष आत्मा स्वयञ्ज्योतिः कार्यकरणविलक्षणस्तत्प्रयोजकाभ्या कामकर्मभ्यां विलक्ष णो यस्मादसङ्गो ह्ययं पुरुषो ऽसङ्त्वादित्ययमर्थः"स वा एष एतस्मिन्संप्रसाद"इत्याद्याभिस्तसृभिः कण्डकाभिः प्रतिपादितः ।
तत्रासङ्गतैवाऽत्मनः कुतो यस्माज्जागरितात्स्वप्नं स्वप्नाच्च संप्रसादं संप्रसादाच्च पुनः स्वप्न् क्रमेण बुद्धान्तं जागरितं बुद्धन्ताच्च पुनः स्वप्नान्तमित्येवमनुक्मसंचारेण स्थात्रयस्य व्यतिरेकः साधितः ।
पूर्वमप्युपन्यस्तो ऽयमर्थः स्वप्ने भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणीति तं विस्तरेण प्रतिपाद्य केवलं दृष्टान्तमात्रमवशिष्टं तद्वक्ष्यामीत्यारभ्यते- तत्तत्रैतस्मिन्यथाप्रदर्शितेर्ऽथे दृष्टान्ते ऽमुपादीयते-यथा लोके महामत्स्यो महांश्चासौ मत्स्यश्च नादेयेन स्रोतसाहार्य इत्यर्थः ।
स्रोतश्च विष्टम्भयति स्वच्छन्दचार्युभे कूले नद्याः पूर्वं चापरं चानुक्रमेण संचरति ।
संचरन्नपिकूलद्वयं तन्मध्यवर्तोनदकस्रोतोवेगेन न परवशी क्रियते ।
एवमेवायं पुरुष अतावुभा अन्ता अनुसंचरति ।
कौ तौ ।
स्वप्नान्तं च बुद्धान्तं च ।
दृष्टान्तप्रदर्शनफलं तु मृत्युरूपः कार्यकरणसंघातः सह तत्प्रयोजकाभ्यां कामकर्मभ्यामनात्मधर्मोयं चाऽत्मैतस्माद्विलक्षण इति विस्तरतो व्याख्यातम् ॥4,3.18 ॥
स्तर्त् ब्र्हुप् 4,3.19
तद् यथास्मिन्न् आकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियते ।
एवम् एवायं पुरुष एतस्मा अन्ताय धवति ।
यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नं पश्यति
ब्र्हुप्भ्_4,3.19 अत्र च स्थानत्रयानुसंतारेण स्वयञ्ज्योतिष आत्मनः कार्यकरणसंघातव्यतिरिक्तस्य कामकर्मभ्यां विवक्ततोक्ता स्वतो नायं संसारधर्मवानुपाधिनिमित्तमेव त्वस्य संसारित्वमविद्याध्यारोपितमित्येष समुदायार्थ उक्तः ।
तत्र च जाग्रत्स्वप्नसुषुप्तस्थानानां त्रयाणां विप्रकीर्णरूप उक्तो न पुञ्जीकृत्यैकत्र दर्शितः ।
यस्माज्जागरिते ससङ्गः समृत्युः सकार्यकरणसंघात उपलक्ष्यते ऽविद्यया ।
स्वप्ने तु कामसंयुक्तो मृत्युरूपविनिर्मुक्त उपलभ्यते ।
सुषुप्ते पुनर्बुद्धान्तमागतो बुद्धान्ताच्च सुषुप्ते संप्रसन्नो ऽसङ्गो भवतीत्यसंगतापि दृश्यते ।
एकवाक्यतया तूपसंह्रयमाणं फलं नित्यमुक्तबुद्धशुद्धस्वभावतास्य नैकत्र पुञ्जीकृत्य प्रदर्शितेति तत्प्रदर्शनाय कण्डिकाऽरभ्यते ।
सुषुप्ते ह्येवंरूपतास्य वक्ष्यमाणा"तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपामि"ति ।
यस्मादेवंरूपं विलक्षणं सुषुप्तं प्रविविक्षति ।
तत्कथमित्याह-दृष्टान्तेनास्यार्थस्य प्रकटीभावो भवतीति तत्र दृष्टान्त उपादीयते ।
तद्यथास्मिन्नाकाशे भौतिके श्येनो वा सुपर्णो वा ।
सुप्रणशब्देन क्षिप्रः श्येन उच्यते ।
यथाऽकाशे ऽस्मिन्विहृत्य विपरिपत्य श्रान्तो नानापरिपतनलक्षणेन कर्मणा परिखिन्नः संहृत्य पक्षौ संगमय्य पक्षौ सम्यग्लीयते ऽस्मिन्निति संलयो नीडो नीडायैव ध्रियते स्वात्मनैव ध्रायते स्वयमेव ।
यथायं दृष्टान्त एवमेवायं पुरुष एतस्या एतस्मै अन्ताय धावति ।
अन्तशब्दवाच्यस्य विशेषणं यत्र यस्मिन्नन्ते सुप्तो न कञ्चन न कञ्चिदपि कामं कामयते ।
तथा च न कञ्चन स्वप्नं पश्यति ।
न कञ्चन कामिति स्वप्न्बुद्धान्तयोरविशेषेण सर्वः कामः प्रतिषिध्यते ।
कञ्चनेत्यवशेषिताभिधानात् ।
तथा न कञ्चन स्वप्नमिति ।
जागरिते ऽपि यद्दर्शनं तदपि स्वप्नं मन्यते श्रुतिरत आह-न कञ्चन स्वप्नं पश्यतीति ।
तथा च श्रुत्यन्तरम्"तस्य त्रय आवसथास्त्रयः स्वप्नाः"इति ।
यथा दृष्टान्ते पक्षिणः परिपतनजश्रमापनुपत्तये स्वनीडौपसर्पणमेवं जाग्रत्स्वप्नयोः कार्यकरणसंयोगजक्रियाफलैः संयुज्यमानस्य पक्षिणः परिपतनज इव श्रमो भवचि तच्छ्मापनुत्तये स्वात्मनो नीडामायतनं सर्वसंसारधर्मविलक्षणं सर्वक्रियाकारकफलायासशून्यं स्वमात्मानं प्रविशति ॥4,3.19॥
स्तर्त् ब्र्हुप् 4,3.20
ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस् तावताणिम्ना तिष्ठन्ति ।
शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः ।
अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तम् इव पतति ।
यद् एव जाग्रद् भयं पश्यति तद् अत्राविद्यया मन्यते ।
अथ यत्र देव इव राजेवाहम् एवेदं सर्वो ऽस्मीति मन्यते ।
सो ऽस्य परमो लोकः
ब्र्हुप्भ्_4,3.20 यद्यस्यायं स्वभावः सर्वसंसारधर्मशून्यता परोपाधिनिमित्तं चास्य संसारधर्मित्वम् ।
यन्निमित्तं चास्य परोपाधिकृतं संसारधर्मित्वं सा चाविद्या ।
तस्या अविद्याया किं स्वाभाविकत्वमाहोस्वित्कामकर्मादिवदागन्तुकत्वम् ।
यदि चाऽगन्तुकत्वं ततो विमोक्ष उपपद्यते ।
तस्याश्चाऽगन्तुकत्वे कोपपत्तिः कथं वा नाऽत्मधर्मो ऽविद्येति, सर्वानर्थबीजभूताया अविद्यायाः सतत्वावधारणार्थं परा कण्डिकाऽरभ्यते- ता वा अस्य शिरःपाण्यादिलक्षणस्य पुरुषस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावता तावत्परिमाणेनाणिम्नाणुत्वेन तिष्ठन्ति ।
ताश्ट शुक्लस्य रसस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा एतैः शुक्लत्वादिभी रसविशेषैः पूर्णा इत्यर्थः ।
एथे च रसानां वर्णविशेषा वातपित्तश्लेष्मणामितरेतरसंयोगवैषम्यविशेषाद्विचित्रा बहवश्च भवन्ति ।
तास्वेवविधासु नाडीषु सूक्ष्मासु बालाग्रसहस्रभेदपरिमाणासु शुक्लादिरसपूर्णासु सरलदेहव्यापिनीषु सप्तदशकं लिङ्गं वर्तते ।
तदाश्रिताः सर्वा वासना उच्चावचसंसारधर्मानुभवजनिताः ।
तल्लिङ्गं वासनाश्रयं सूक्ष्मत्वात्स्वच्छं स्फटिकमणिकल्पं नाडीगतरसोपाधिसंसर्गवशाद्धर्माधर्मप्रेरितोद्भूतवृत्तिविशेषं स्त्रीरथहस्त्याद्याकारविशेषैर्वासनाभिः प्रत्यवभासते ।
अथैवं सति यत्र यस्मिन्काले केचन शत्रवो ऽन्ये वा तस्करा मामागत्य घ्नन्तीति मृषैव वासनानिमित्तः प्रत्ययो ऽविद्याख्यो जायते तदेतदुच्यत एनं स्वप्नदृशङ्घ्नन्तीवेति ।
तथा हस्तीवैनं विच्छाययति विच्छादयति विद्रावयति धावयतीवेत्यर्थः ।
गर्तमिव पतति गर्तं जीर्णकूपादिकमिव पतन्तमात्मानमुपलक्षयति ।
तादृशी ह्यस्य मृषा वासनोद्भवत्यत्यन्तनिकृष्टाधर्मोद्भासितान्तःकरणवृत्याश्रया दुःखस्वरूपवृत्याश्रया दुःखस्वरूपत्वात् ।
किंबहुना यदेव जाग्रद्भयं हस्त्यादिलक्षणं तदेव भयरूपमत्रास्मिन्स्वप्ने विनैव हस्त्यादिरूपं भयमविद्यावासनया मृषैवोद्भूतया मन्यते ।
अथ पुनर्यत्राविद्यापकृष्यमाणा विद्या चोत्कृष्यमाणा किंविषया किंलक्षणा चेत्युच्यते-अथ पुनर्यत्र यस्मिन्काले देव इव स्वयं भवति ।
देवताविषया विद्या यदोद्भूता जागरितकाले तदोद्भूतया वासनया देवमिवाऽत्मानं मन्यते ।
स्वप्ने ऽपि तदुच्यते देव इव राजेव राज्यस्थो ऽभिषिक्तः स्वप्ने ऽपि राजाहमिति मन्यते राजवासनावासितः ।
एवमत्यन्तप्रक्षीयमाणाविद्योद्भूता च विद्या सर्वात्मविषया यदा यदा स्वप्ने ऽपि तद्भावितो ऽहमेवेदं सर्वो ऽस्मीति मन्यते ।
स यः सर्वात्मभावः सो ऽस्याऽत्मनः परमो लोकः परम आत्मभावः स्वाभावकः ।
यत्तु सर्वात्मभावादर्वाग्बालाग्रमात्रमप्यन्यत्वेन दृश्यते नाहमस्मीति ।
तदवस्थाविद्यी तयाविद्यया ये प्रत्युपस्थापिता अनात्मभावा लोकास्ते ऽपरमाः स्थावरान्तास्तान्संव्यवहारविषयांल्लोकानपेक्ष्मायं सर्वात्मभावः समस्तो ऽनन्तरो ऽबाह्यः सो ऽस्य परमो लोकः ।
तस्मादपकृष्यमाणायामविद्यायां विद्यायां च काष्टां गतायां सर्वात्मभावो मोक्षः ।
यथा स्वयञ्ज्योतिष्ट्वं स्वप्ने प्रत्यक्षत एवोपलभ्यते ऽथ यत्रैनं घ्नन्तीव जिनन्तीवेति ।
ते एते विद्याविद्याकार्ये सर्वात्मभावः परिच्छिन्नात्मभावश्च ।
विद्यया शुद्धया सर्वात्मा भवति ।
अविद्यया चासर्वो भवति ।
अन्यतः कुतश्चत्प्रविभक्तो भवति ।
यतः प्रवभक्तो भवति तेन विरुध्यते ।
विरुद्धत्वाद्धन्यते जीयते विच्छाद्यते च ।
असर्वविषयत्वे च भिन्नत्वादेतद्भवति ।
समस्तस्तु सन्कुतो भिद्यते येन विरुध्येतविरोदाभावे केन हन्यते जीयते विच्छाद्यते च ।
अत इदमविद्यायाः सत्त्वमुक्तं भवति ।
सर्वात्मानं सन्तमसर्वात्मत्वेन ग्राहयति ।
आत्मनो ऽन्यद्धस्त्वरमविद्यमानं प्रत्युपस्थापयति ।
आत्मानमसर्वमापादयति ।
ततस्तद्विषयः कामो भवति ।
यतो भिद्यते कामतः क्रियामुपादत्ते ।
ततः फलम् ।
तदेतदुक्तम् ।
वक्ष्यमाणं च यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यादि ।
इदमविद्यायाः सतत्वं सहकार्येण प्रदर्शितम् ।
विद्यायाश्च कार्यं सर्वमात्मभावः प्रदर्शितो ऽविद्याया विपर्येण ।
सा चाविद्या नाऽत्मनः स्वाभाविको धर्मो यस्माद्विद्यायामुत्कृष्यमाणायां स्वयमपचीयमाना सती काष्ठां गतायां विद्यायांपरिनिष्ठिते सर्वात्मभावे सर्वात्मना निवर्तते रज्ज्वामिव सर्पज्ञानं रज्जुनिश्चये ।
तच्चोक्तं यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादि ।
तस्मान्नाऽत्मधर्मो ऽविद्या ।
न हि स्वाभाविकस्योच्छित्तिः कदाचिदप्युपद्यते सवितुरिवोष्ण्यप्रकाशयोः ।
तस्मात्तस्या मोक्षौपपद्यते ॥4,3.20॥
स्तर्त् ब्र्हुप् 4,3.21
तद् वा अस्यैतद् अतिच्छन्दो ऽपहतपाप्माभयं रूपम् ।
तद् यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् ।
एवम् एवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् ।
तद् वा अस्यैतद् आप्तकामम् आत्मकामम् अकामं रूपम् शोकान्तरम्
ब्र्हुप्भ्_4,3.21 इदानीं यो ऽसौ सर्वात्मभावो मोक्षो विद्याफलं क्रियाकारकफलशून्यं स प्रत्यक्षतो निर्दिश्यते यत्राविद्याकामकर्माणि न सन्ति ।
तदेतद्प्रस्तुतं यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यातीति ।
तदेतद्वा अस्य रूपं यः सर्वात्मभावः ऽसो ऽस्य परमो लोकःऽइत्युक्तः-तदतिच्छन्दा अतिच्छन्दमित्यर्थः, रूपपरत्वात् ।
छन्दः कामः, अतिगतश्चन्दो यस्माद् रूपात् तदतिच्छन्दं रूपम्; अन्यो ऽसौ सान्तश्छन्दःशब्दो गायत्र्यादिछन्दोवाची; अयं तु कामवचनः, अतः स्वरान्त एव; तथाप्यतिच्छन्दा इति पाठः स्वाध्यायधर्मो द्रष्टव्यः ।
अस्ति च लोके कामवचनप्रयुत्त्कश्छन्दशब्दः ऽस्वच्छन्दःऽ ऽपरच्छन्दःऽ इत्यादौ; अतः ऽअतिच्छन्दम्ऽ इत्येवमुपनेयम्, कामवर्जितमेतद् रूपमित्यस्मिन्नर्थे ।
तथापहतपाप्म-पाप्मषब्देन धर्माधर्मावुच्येते,"पाप्मभिः संसृज्यते" "पाप्मनो विजहाति"इत्युत्त्कत्वात्; अपहतपाप्म धर्माधर्मवर्जितमित्येतत् ।
किञ्च, अभयम्-भयं हि नामाविद्याकार्यम्, ऽअविद्यया भयं मन्यतेऽ इति ह्युत्त्कम् ।
तत्कार्यद्वारेण कारणप्रतिषेधो ऽयम्; अभयं रूपमित्याविद्यावर्जितमित्येतत् ।
तदेतद् विद्याफलं सर्वत्मभावः, तदेतदितच्छन्दापहतपाप्माभयं रूपम्--सर्वसंसारधर्मवर्जितम्, अते ऽभयं रूपमेतत् ।
इदं च पूर्वमेवोपन्यस्यमतीतानन्तरब्रह्मणसमाप्तौ "अभयं वै जनक प्राप्तो ऽसि"इत्यागमतः ।
इह तु तर्कतः प्रपञ्चितं दर्शितागमार्थप्रत्ययदार्ढ्याय ।
अयमात्मा स्वयं चैतन्यज्योतिः-स्वभावः सर्वं स्वेन चैतन्यज्योतिषावभासयति ।
स यत्तत्र किञ्चित् पश्यति, रमते,चरति,जानाति चेत्युत्त्कम् ।
स्थितं चैतन्न्यायतो नित्यं स्वरूपं चैतन्यज्योतिष्ट्वमात्मनः ।
स यद्यात्मात्राविनष्टः स्वेनैव रूपेण वर्तते, कस्मादयम्-अहमस्मीत्यात्मानं वा, बहिर्वा-इमानि भूतानीति, जाग्रत्स्वप्नयोरिव न जानाति? -इत्यत्रोच्यते; शृण्वात्राज्ञानहेतुम्-एकत्वमेवाज्ञानहेतुः; तत् कथम्? इत्युच्यते ।
दृष्टान्तेन हि प्रत्यक्षीभवति विवक्षितोर्ऽथ इत्याह-तत्तत्र यथा लोके प्रिययेष्टाया स्त्रिया सम्परिष्वत्तकः सम्यक् परिष्वत्त्कः कामयन्त्या कामुकः सन् न बाह्यमात्मनः किञ्चन किञ्चिदपि वेद-मत्तो ऽन्यद् वस्त्विति, न चान्तरम्-अयमहमास्मि सुखी दुःखी वेति; अपरिष्वत्त्कस्तु तथा प्रविभत्त्को जानाति सर्वभेव ब्राह्यम् आभ्यन्तरं च; परिष्वङ्गोत्तरकालन्त्वेकत्वापत्तेर्न जानाति ।
एवमेव, यथा दृष्टान्तो ऽयं पुरुषः क्षेत्रज्ञो भूतमात्रासंसर्गतः सैन्धवखिल्यवत् प्रविभत्त्कः, जलादौ चन्द्रादिप्रतिबिम्बवत् कार्यकरण इह प्रविष्टः, सो ऽयं पुरुषः, प्रज्ञेन परमार्थेन स्वाभाविकेन स्वेनात्मना परेण ज्योतिषा, सम्परिष्वत्त्कः सम्यक्परिष्वक्त एकीभूतो निरन्तरः सर्वात्मा, न बाह्यं किञ्चन वस्त्वन्तरम्, नाप्यान्तरमात्मनि-अयमहमस्मि सुखी दुःखी वेति वेद ।
तत्र चैतन्यज्योतिः स्वभावत्वे कस्मादिह न जानातीति यदप्राक्षीः, तत्रायं हेतुर्मयोत्त्क एकत्वम्, यथा स्त्रीपुंसयोः सम्परिष्वत्त्कयोः ।
तत्रार्थान्नानात्वं विशेषविज्ञानहेतुरित्युत्त्कं भवति; नानात्वे च कारण्-आत्मनो वस्तवन्तरस्य प्रत्युपस्थापिकाविद्येत्युक्तम् ।
तत्र चाविद्याया यदा प्रविविक्तो भवति तदा सर्वेणैकत्वमेवास्य भवति ।
ततश्च ज्ञानज्ञेयादिकारकविभागे ऽसति कुतो विशेषविज्ञानप्रादुर्भावः कामो वा सम्भवति स्वाभाविके स्वरूप्स्थ आत्मज्योतिषि ।
यस्मादेवं सर्वैकत्वमेवास्य रूपमतस्तद्वा अस्याऽत्मनः स्वयञ्ज्योतिः स्वभवस्यैतद्रूपमाप्तकामं यस्मात्मस्तमेतत्तस्मादाप्ताः कामा अस्मिन्रूपे तदिदमाप्तकामम् ।
स्य ह्यन्यत्वेन प्रविभक्तः कामस्तदनाप्तकामं भवति ।
यथा जागरितावस्थायां देवदत्तादिरूपं न त्विदं तथा कुतश्चित्प्रविभज्यते ऽतस्तदाप्तकामं भवति ।
किमन्यस्माद्वस्त्वन्तरान्न प्रविभज्यत आहोस्विदात्मैव तद्वस्त्वन्तरमत आह नान्यदस्त्यात्मनः ।
कथम् ।
यत आत्मकाममात्मैव कामा यस्मिन् रूपे ऽन्यत्र प्रविभक्ता इवान्यत्वेन काम्यमाना यथा यथा जाग्रत्स्वप्नयोस्तस्याऽत्मैवान्यत्वप्रत्युपस्थापकहेतोरविद्याया अभावादात्मकाममत एवाकाममेतद्रूपं काम्यविषयाभावाच्छोकान्तरं शाकच्छिद्रं शोकशून्यमित्येतच्छोकमध्यमिति वा सर्वथाप्यशोकमेतद्रूपं शोकवर्जितमित्यर्थः ॥4,3.21॥
स्तर्त् ब्र्हुप् 4,3.22
अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः ।
अत्र स्तेनो ऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्ड्यालो ऽचण्ड्यालः पौल्कसो ऽपौल्कसः श्रमणो ऽश्रमणस् तापसो ऽतापसः ।
अनन्वागतं पुण्येनानन्वागतं पापेन ।
तीर्णो हि तदा सर्वाञ् शोकान् हृदयस्य भवति
ब्र्हुप्भ्_4,3.22 प्रकृतः स्वयञ्ज्योतिरात्माविद्याकामकर्मविनिर्मुक्त इत्युक्तम् ।
असङ्गत्वादात्मन आगन्तुकत्वाच्च तेषाम् ।
तत्रैवमाशङ्का जायते चैतन्यस्वभावत्वे सत्यप्येकीभावान्न जानाति स्त्रीपुंसयोरिव संपरिष्वक्तयोरित्युक्तम् ।
तत्र प्रासङ्गिकमेतदुक्तं कामक्रमादिवत्स्वयञ्ज्योतिष्ट्वमप्यस्याऽत्मनो न स्वभावः ।
यस्मात्संप्रसादे नोपलभ्यत इत्याशङ्कायां प्राप्तायां तन्निराकरणाय स्त्रीपुंसयोर्दृष्टान्तोपादानेन विद्यमानस्यैव स्वयञ्ज्योतिष्ट्वस्य सुषुप्ते ऽग्रहणमेकीभावाद्धेतोर्न तु कामकर्मादिवदागन्तुकम् ।
इत्येतत्प्रासङ्गिकमभिधाय यत्प्रकृतं तदेवानुप्रवर्तयति ।
अत्र चैतत्प्रकृतमविद्याकामकर्मविनिर्मुक्तमेव तद्रूपं यत्सुषुप्त आत्मनो गृह्यते प्रत्यक्षत इति ।
तदेतद्यथाभूतमेवाभिहितं सर्वसंबन्धातीतमेतद्रूपमिति यस्मादत्रैतस्मिन्सुषुप्तस्थाने ऽतिछ्छन्दापहतपाप्माभयमेतद्रूपं तस्मादत्र पिता जनकः ।
तस्य च जनयितृत्वाद्यत्पितृत्वं पुत्रं प्रति तत्कर्मनिमित्तं तेन च कर्मणायमसंबद्धो ऽस्मिन्काले तस्मात्पितापुत्रसंबन्धनिमित्तात् कर्मणो विनिर्मुक्तत्वात्पिताप्यपिता भवति ।
तथा पुत्रो ऽपि पितुरपुत्रोभवतीति सामर्थ्याद्गम्यते ।
उभयोर्हि संबन्धनिमित्तं कर्म तमयतिक्रान्तो वर्तते ।
अपहतपाप्मेति ह्युक्तम् ।
तथामातामातालोकाः कर्मणा जेतव्या जिताश्च तत्कर्मसंबन्धाभावाल्लोका अलोकाः ।
तथा देवाः कर्माङ्गभूतास्तत्कर्मसंबन्धात्ययाद्देवा अदेवाः ।
तथा वेदाः साध्यसाधनसंबन्धाभिधायका मन्त्रलक्षणाश्चाभिधाकत्वेन कर्माङ्गभूता अधीता अध्येतव्याश्च कर्मनिमित्तमेव संबध्यन्ते पुरुषेण तत्कर्मातिक्रमणादेतस्मिन्काले वेदा अप्यवेदाः संपद्यन्ते ।
न केवलं शुभकर्मसंबन्धातीतः किं तर्ह्यशुभैरप्यत्यन्तघोरैः कर्मभिरसंबद्ध एवायं वर्तत इत्यतमर्थामाह-अत्र स्तेनो ब्राह्मणसुवर्णहर्ता भ्रूणघ्ना सह पाठादवगम्यते ।
स तेन घोरोण कर्मणैतस्मिन्काले विनिर्मुक्तो भवति ।
येनायं कर्मणा महापातकी स्तेन उच्यते ।
तथा भ्रूणहाभ्रूणहा तथा चाण्डालो न केवलं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः ।
किं तर्हि सहजेनाप्यत्यन्तनिकृष्टजातिप्रापकेणापि विनिर्मुक्त एवायम् ।
चाण्डालो नाम शूद्रेण ब्राह्मण्यामुत्पन्नश्चण्डाल एव चाण्डालः ।
स जातिनिमित्तेन कर्मणासंबद्धत्वादचाण्डालो भवति ।
पौल्कसः पुल्कस एव पौल्कसः शूद्रेणैव क्षत्रियायामुत्पन्नः ।
सो ऽप्यपुल्कसो भवति ।
तथाऽश्रमलक्षणैश्च कर्मभिरसंबगद्धो भवतीत्युच्यते ।
श्रमणः परिव्राड्यत्कर्मनिमित्तो भवति स तेन विनिर्मुक्तत्वादश्रमणः ।
तथा पापसो वानप्रस्थो ऽतापसः सर्वेषां वर्णाश्रमादीनामुपलक्षणार्थमुभयोर्ग्रहणम् ।
किं बहुनान्वागतं नान्वागतमनन्वागतमसंबन्धमित्येतत्पुण्येन शास्त्रविहितेन कर्मणा तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन ।
रूपपरत्वान्नपुंसकलिङ्गम् ।
अभयं रूपिति ह्यनुवर्तते ।
किं पुनरसंबद्धत्वे कारणमिति तद्धेतुरुच्यते-तीर्णो ऽतिक्रान्तो हि यस्मादेवंरूपस्तदा तस्मिन्काले सर्वाञ्छोकाञ्शोकाः कामाः ।
इष्टविषयप्रार्थना हि तद्विषयवियोगे शोकत्वमापद्यते ।
इष्टं हि विषयंमप्राप्तं वियुक्तं चोद्दिश्य चिन्तयानस्तद्गुणान्संतप्यते पुरुषो ऽतः शोको रतिः काम इति पर्यायाः ।
यस्मात्सरवकामातीतो ह्यत्रायं भवति ।
न कञ्चन कामं कामयते ऽतिच्छन्दा इति ह्युक्तं तत्प्रक्रियापततो ऽयं शोकशह्दः कामवचन एव भवितुमर्हति ।
कामश्च कर्महेतुः ।
वक्ष्यति हि-"स यथाकामो भवति तत्क्रयुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते"इति ।
अतः सर्वकामातितीर्णत्वाद्युक्तमानन्वागतं पुण्येनेत्यादि ।
हृदयस्य हृदयमिति पुण्डरीकाकारो मांसपिण्डस्तत्स्थमन्तःकरणं बुद्धर्हृदयमित्युच्यते ।
तात्स्थान्मञ्चक्रोशनवत् ।
हृदयस्य बुद्धेर्ये शोकाः बुद्धिसंश्रया हि ते ।
ऽकामः संकल्पो विचिकित्सेत्यादि सर्वं मन एवऽत्युक्तत्वात् ।
वक्ष्यति च -"कामा ये ऽस्य हृदि श्रिताः"इति ।
आत्मसंश्रयभ्रान्त्यपनोदाय हीदं वचनं-हृदि श्रिता हृदयस्य शोका इति च ।
हृदयकरणसंबन्धातीतश्चायमस्मिन्काले ऽतिक्रामति मृत्यो रूपाणीति ह्युक्तम् ।
हृदयकरणसहन्धातीतत्वात्तत्संश्रयकामसंबन्धातीतो भवतीति युक्ततरं वचनम् ।
ये तु वादिनो हृदि श्रिताः कामा वासनाश्च हृदयसंबन्धिनमात्मनमुपसृप्योपश्लिष्यन्ति हृदयवियोगे ऽपि चाऽत्मन्यवतिष्ठन्ते पुटतैलस्य इव पुष्पादिगन्ध इत्याचक्षते ।
तेषां कामः संकल्पो हृदये हर्योव रूपाणि हृदयस्य शोका इत्यादीनां वचनानामानर्थक्यमेव ।
हृदयकरणोत्पाद्यत्वादिति चेत् ।
न ।
हृदि श्रिता इति विशेषणात् ।
न हि हृदयस्य करणमात्रत्वे हृदि श्रिता इति वचनं समञ्जसं हृदये ह्येव रूपाणि प्रतिष्ठितानीति च ।
आत्मविशद्देश्च विवक्षितत्वाद्धृच्छ्रयणवचनं यथार्थमेव युक्तम् ।
ध्यायतीव लेलायतीवेति च श्रुरेरन्यार्थासंभवात् ।
कामा ये ऽस्य हृदि श्रिता इति विशेषणादात्माश्रया अपि सन्तीति चेत् ।
न ।
अनाश्रितापेक्षत्वात् नात्राऽश्रयान्तरमपेक्ष्य ये हृदीति विशेषणं किं तर्हि ये हृद्यनाश्रिताः कामास्तानपेक्ष्य विशेषणम् ।
ये त्वप्ररूञा भविष्या भूताश्च प्रतिपक्षतो निवृत्तास्ते नैव हृदि श्रिताः संभाव्यन्ते च ते ।
अतो युक्तं तानपेक्ष्य विशेषणम् ।
ये प्ररूढा वर्तमाना विषये ते सर्वे प्रमुच्यन्त इति ।
तथापि विशेषणानर्थक्यमिति चेत् ।
न ।
तेषु यतन्माधिक्याद्धेयार्थत्वात् ।
इतरथाश्रुतमनिष्टं चकल्पितं स्यादात्माश्रयत्वं कामानाम् ।
न कञ्चन कामं कामयत इति प्राप्तप्रतिषेधादात्माश्रयत्वं कामानां श्रुतमेवेति चेत् ।
न ।
सधीः स्वप्नो भूत्वेति परनिमित्तत्वात्कामाश्रयत्वप्राप्तेरसङ्गवचनाच्च ।
न हि कामाश्रयत्वे ऽसङ्गवचनमुपपद्यते ।
सङ्गश्च काम इत्यवोचाम ।
आत्मकाम इति श्रुतेरात्मविषयो ऽस्य कामो भवतीति चेत् ।
न व्यतिरिक्तकामाभावार्थत्वात्तस्याः ।
वैशेषिकादितन्त्रन्यायोपपन्नमात्मनः कामाद्याश्रयत्वमिति चेत् ।
न हृदि श्रिता इत्यादिविशेषश्रुतिविरोधानपेक्ष्यास्ता वेशेषिकादितन्त्रोपपत्तयः ।
श्रुतिविरोधे न्यायभासत्वोपगमात् ।
स्वयञ्ज्योतिष्ट्वबाधनाच्च ।
कामादीनां च स्वप्ने केवलदृशिमात्रविषयत्वात्स्वयञ्ज्योतिष्ट्वं सिद्धं स्थितं च बाध्येत ।
आत्मसमवायित्वे दृश्यत्वानुपपत्तेश्चक्षुर्गतविशेषवत् ।
द्रष्टुर्हि दृश्यमर्थान्तरभूतमिति द्रष्टुः स्वयञ्ज्योतिष्ट्वं सिद्धम् ।
तद्बाधितं स्याद्यदि कामाद्याश्रयत्वं परिकल्प्येत् ।
सर्वशास्त्रार्थ विप्रतिषेधाच्च ।
परस्यैकदेशकल्पनायां कामाद्याश्रयत्वे च सर्वशास्त्रार्थजातं कुप्येत ।
एतच्च विस्तरेण चतुर्थे ऽवोचाम ।
महता हि प्रयत्नेन कामाद्याश्रयत्वकलप्नाझ प्रतिषेद्धव्या आत्मानः परेणैकत्वशास्त्रार्थसिद्धयेः तत्कल्पनायां पुनः क्रियमाणायां शास्त्रार्थं एव बाधितः स्यात् ।
यथेच्चाधीनामात्मधर्मत्वं कल्पयन्तो वैशेषिका नैयायिकाश्चोपनिषच्छास्त्रार्थबाधनान्नाऽदरणीया ॥4,3.22॥
स्तर्त् ब्र्हुप् 4,3.23
यद् वै तन् न पश्यति पश्यन् वै तन् न पश्यति ।
न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते ऽविनाशित्वान् ।
न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यत् पश्येत्
ब्र्हुप्भ्_4,3.23 स्त्रीपुंसयोरिवैकत्वान्न पश्यतीत्युक्तं स्वयञ्ज्योतिरिति च ।
स्वयञ्ज्योतिरिति च ।
स्वञ्ज्योतिष्ट्वं नाम चैतन्यात्मस्वभावता ।
यदि ह्यग्न्युष्णत्वादिवच्चैतन्यात्मस्वभाव आत्मा स कथमेकत्वे ऽपि हि स्वभावं जह्यान्न जानीयात् ।
अथ न जहाति कथमिह सुषुप्ते न पश्यति ।
विप्रतिषिद्धमेतच्चैतन्यमात्मस्वभावो न जानाति चेति ।
न विप्रतिषिद्धमुभयमप्येतदुपपद्यत एव ।
कथम्-यद्वै सुषुप्ते तन्न पश्यति पश्यन्वै तत्तत्र पश्यन्नेव न पश्यति ।
यत्तत्र सुषुप्ते न पश्यतीति जानीषे तन्न तथा गृह्णीयाः ।
कस्मात् ।
पश्यन्वै भवति तत्र ।
नन्वानं न पश्यतीति सुषुप्ते जानीमे यतो न चक्षुर्वा मनो वा दर्शने करणं व्यापृतमस्ति ।
व्यापृतेषु हि दर्शनश्रवणादिषु पश्यतीति व्यवहारो भवति शृणोतीति वा ।
न च व्यापृतानि करणानि पश्यामः ।
तस्मान्न पश्यत्येवायम् ।
न हि ।
किं तर्हि पश्यन्नेव भवति ।
कथम् ।
न हि यस्माद्द्रष्टुर्दृष्टकर्तुर्या दृष्टिस्तस्या दृष्टेर्विपरिलोपो विनाशः ।
स न विद्यते ।
यथाग्नेरौष्ण्यं हि सा ।
ननु विप्रतिषिद्धमिदमभिधीयते द्रष्टुः सा दृष्टिर्न विपरिलुप्यत इत चाशक्यं वक्तुम् ।
ननु न विपरिलुप्यत इति वचनादविनाशिनी स्यात् ।
न ।
वनचस्य ज्ञापकत्वात् ।
नहि न्यायप्राप्तो विनाशः कृतकस्य वचनशतेनापि वारयितुं शक्यते ।
वचनस्य ज्ञापकत्वात् ।
नहि न्यायप्राप्तो विनाशः ।
कृतकस्य वचनशतेनापु वारयितुं शक्यते ।
वचनस्य यथाप्राप्तार्थज्ञापकत्वात् ।
नैष दोषः ।
आदित्यादिप्रकाशकत्ववद्दर्शनोपपत्तेः ।
यथाऽदित्यादयो नित्यप्रकाशस्वभावा एव सन्तः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयन्ति ।
न ह्यप्रकाशात्मानः सन्तः प्रकाशं कुर्वन्तः प्रकाशयन्तीत्युच्यन्ते ।
किं तर्हि स्वभावेनैव नित्येन प्रकाशेन ।
तथायमप्यात्माविपरिलुप्तस्वभावया दृष्ट्या नित्यया द्रष्टेत्युच्यन्ते ।
गौणं तर्हि द्रष्टुत्वम् ।
नैवमेव मुख्यत्वोपपत्तेः यदि ह्यन्यथाप्यात्मनो द्रष्टुत्वं दृष्टं तदास्य द्रष्टुत्वस्य गौणत्वं न त्वात्मनो ऽन्यो दर्शनप्रकारो ऽस्ति तदेवमेव मुख्यं द्रष्टुत्वमुपपद्यते नान्यथा ।
यथाऽदित्यादीनां प्रकाशयितृत्वं नित्येनैव स्वभाविकेनाक्रियमाणेन प्रकाशकेन तदेव च प्रकाशयितृत्वं मुख्यं प्रकाशयितृत्वान्तरानुपपत्तेः ।
तस्मान्न द्रष्टुर्दृष्टिर्विपरिलुप्यत इत न विप्रतिषेधगन्धो ऽप्यस्ति ।
नन्वनित्यक्रियाकर्तृविषय एव तृच्प्रत्ययान्तस्य शब्दस्य प्रयोगो दृष्टो यथा छेत्ता भेत्ता गन्तेति तथा द्रष्टेत्यत्रापीति चेत् ।
न ।
प्रकाशयितेति दृष्टत्वात् ।
भवतु प्रकाशकेष्वन्यथासंभवान्न त्वात्मनीति चेत् ।
न, दृष्ट्यविपरिलोपश्रुतेः ।
पश्यामि न पश्यामीत्यनुभवदर्शनान्नेति चेत् ।
न ।
करणव्यापारविशेषापेक्षत्वात् ।
उद्धृतचक्षुषां च स्वप्न् आत्मदृष्टेरविपरुलोपदर्शनात् ।
तस्मादविपुलुप्तस्वभावैवाऽत्मनो दृष्टः ।
अतस्याविपरिलुप्तया दृष्ट्या स्वयञ्ज्योतिःस्वभावया पश्यन्नेव भवति सुषुप्ते ।
कथं तर्हि न पश्यतीति ।
उच्यते ।
न तु तदस्ति किं तत् ।
द्वितीयं विषयभूतम् ।
किंवशिष्टम् ।
ततो द्रष्चिरन्यदन्यत्वेन विभक्तं यत्पश्येद्यदुपलभेत यद्धि तद्विशेषदर्शनकारणमन्तःकरणं चक्षू रूपं च तदविद्ययान्यत्वेन प्रत्युपस्थापितमासीत् ।
तदेतस्मिन्काल एकीभुतम् ।
आत्मनः परेण परिष्वङ्गात् ।
द्रष्टुर्हि परिच्छिन्नस्यविशेषदर्शनाय करणमन्यत्वेन व्यतिष्ठते ।
अयं तु स्वेन सर्वात्मना संपिष्वक्तः स्वेन परेण प्राज्ञेनाऽत्मना प्रिययेव पुरुषः ।
तेन न पृथक्त्वेन व्यवस्थितानि करणानि विषयाश्च ।
तदभावाद्विशेषदर्शनं नास्ति ।
करणादिकृतं हि तन्नाऽत्मकृतम् ।
आत्मकृतमिव प्रत्यवभासते ।
तस्मात्तकृतेयं भ्रान्तिरात्मनो दृष्टिः परिलुप्यतच इति ॥4,3.23॥
स्तर्त् ब्र्हुप् 4,3.24-30
यद् वै तन् न जिघ्रति जिघ्रन् वै तन् न जिघ्रति ।
न हि घ्रातुर् घ्रातेर् विपरिलोपो विद्यते ऽविनाशित्वात् ।
न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यज् जिघ्रेत्
यद् वै तन् न रसयति रसयन् वै तन् न रसयति ।
न हि रसयितू रसयतेर् विपरिलोपो विद्यते ऽविनाशित्वात् ।
न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यद् रसयेत्
यद् वै तन् न वदति वदन् वै तन् न वदति ।
न हि वक्तुर् वक्तेर् विपरिलोपो विद्यते ऽविनाशित्वात् ।
न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यद् वदेत्
यद् वै तन् न शृणोति शृण्वन् वै तन् न शृणोति ।
न हि श्रोतुः श्रुतेर् विपरिलोपो विद्यते ऽविनाशित्वात् ।
न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यच् छृणुयात्
यद् वै तन् न मनुते मन्वानो वै तन् न मनुते ।
न हि मन्तुर् मतेर् विपरिलोपो विद्यते ऽविनाशित्वात् ।
न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यन् मन्वीत
यद् वै तन् न स्पृशति स्पृशन् वै तन् न स्पृशति ।
न हि स्प्रष्टुः स्पृष्टेर् विपरिलोपो विद्यते ऽविनाशित्वात् ।
न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यत् स्पृशेत्
यद् वै तन् न विजानाति विजानन् वै तन् न विजानाति ।
न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते ऽविनाशित्वात् ।
न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यद् विजानीयात्
ब्र्हुप्भ्_4,3.24-30 समानमन्यत् ।
यद्वै तन्न जिघ्रति ।
यद्वै तन्न रसयते ।
यद्वै तन्न वदति ।
यद्वै तन्न शृणोति ।
यद्वै तत्र मनुते ।
यद्वै तन्न स्पृशति ।
यद्वै तन्न स्पृशति ।
यद्वै तन्न विजानातीति मननविज्ञानयोर्दृष्ट्यादिसहकारित्वे ऽपि सति चक्षुरादिनिरपेक्षे भूतभविष्यद्वर्तमानविषयव्यापारो विद्यत इति पृथग्ग्रहणम् ।
किं पुनर्दृष्ट्यादीनामग्नेरौष्ण्यप्रकाशनज्वलनादिवद्धर्मभेद आहोस्विदभिन्नस्यैव धर्मस्य परोपाधिनिमित्तं धर्मान्यत्वमिति ।
अत्र केचिद्व्याचक्षते ।
आत्मवस्तुनः स्वत एवैकत्वं नानात्वं च यथा गोर्गोद्रव्यतयैकत्वं नानात्वं चानुमेयम् ।
सर्वत्राव्यभिचारदर्शनादात्मनो ऽपि तद्वदेव दृष्ट्यादीनां परस्परं नानात्वमात्मना चैकत्वमिति ।
नान्यपरत्वात् ।
न हि दृष्ट्यादिधर्मभेदप्रदर्शपरमिदं वाक्यं यद्वै तदित्यादि ।
किं तर्हि ।
यदि चैतन्यात्मज्योतिः कथं न जानाति सुषुप्ते नूनमतो न चैतन्यात्मज्योतिरित्येवमाशङ्काप्राप्तौ तन्निराकरणयैतदारब्धं यद्वै तदित्यादि ।
यदस्य जाग्रत्स्वप्नयोश्चक्षुराद्यनेकोपाधिद्वारं चैतन्यात्मज्योतिः स्वाभाव्यमुपलक्षितं दृष्ट्याद्यभिधेयव्यवहारापन्नं सुषुप्तं उपाधिभेदव्यापारनिवृत्तावनुद्भास्यमानत्वादनुपलक्ष्यमाणस्वभावमप्युपाधिभेदेन भिन्नमिव यथाप्राप्तानुवादेनैव विद्यमान्तवमुच्यते ।
तत्र दृष्ट्यादिधर्मभेदकल्पनाविवक्षितार्थानभिज्ञतया ।
सैन्धवघनवत्प्रज्ञानैकरसघनश्रुतिविरोधाच्च ।
"विज्ञानमनन्दम्" "सत्यं ज्ञानम्" "प्रज्ञानं ब्रह्म"इत्यादिश्रुतिभ्यश्च ।
शब्दप्रवृतेश्च ।
लौकिको च शब्दप्रवृत्तश्चक्षुषा रूपं विजानाति श्रोत्रेण शब्दं विजानाति रसनेनान्नस्य रसं विजानातीति च सर्वत्रैव च दृष्ट्यादिशब्दाभिधेयानां विज्ञानशब्दवाच्यतामेव दर्शयति ।
शब्दप्रवृत्तिश्च प्रमाणम् ।
दृष्टान्तोपपत्तेश्च ।
यथा हि लोके स्वच्छस्वाभाव्ययुक्तः स्फचिकस्तन्निमित्तमेव केवलं हरितनीललोहिताद्युपाधिभेदसोयागात्तदाकारत्वं शक्यन्ते ।
तथा चक्षुराद्युपाधिभेदसंयोगत्प्रज्ञानघनस्वभावस्यैवाऽत्मज्योतिषो दृष्ट्यादिशक्तिभेद उपलक्ष्यते ।
प्रज्ञानघनस्य स्वच्छस्वाभाव्यात्स्फटिकस्वच्छस्वाभाव्यवत्स्वयञ्ज्योतिष्ट्वाच्च ।
यथा शक्तिभेद उपलक्ष्यते ।
यथा चाऽदित्यज्योतिरवभास्यभेदैः संयुज्यमानं हरितनीलपीतलोहितादिभेदैरविभाग्यं तदाकाराभावं भवति ।
तथा च कृत्स्नञ्जगदवभासयच्चक्षुरादीनि च तदाकारं भवति ।
तथा चोक्तमात्मनैवायं ज्योतिषाऽस्त इत्यादि ।
न च निवयवेष्वनेकात्मता शक्यते कल्पयितुम् ।
दृष्टान्ताभावात् ।
यदप्याकाशस्य सर्वगतत्वादिधर्मभेदः परिकल्प्यते परमाण्वादीनां च गन्धरसाद्यनेकगुणत्वं तदपि निरीप्यमाणं परोपाधिनिमित्तमेव भवति ।
आकाशस्यतावत्सर्वगत्वं नाम न स्वतो धर्मो ऽस्ति ।
सर्वोपाधिसंश्रयाद्धि सर्वत्र स्वेन रूपेण सत्त्वमपेक्ष्य सर्वगत्वव्यवहारो न त्वाकाशः क्वचिद्गतो वागतो वा स्वतः ।
गमनं हि नाम देशान्तरस्थस्य देशान्तरेण संयोगकारणम् ।
सा च क्रिया नैवाविशेषे संभवति ।
एव धर्मभेदा नैव सन्त्याकाशे ।
तथा परमाण्वादावपि ।
परमाणुर्नाम पृथिव्या गन्धघनायाः परमसूक्ष्मो ऽवयवो गन्धात्मक एव न तस्य पुर्गन्धवत्त्व नाम शक्यते कल्पयितुम् ।
अथ तस्यैव रसादिमत्वं स्यादिति चेन्न ।
तत्राप्यबादिसंससर्गनिमित्तत्वात् तस्मान्न निरवयवस्यानेकधर्मवत्त्वे दृष्टान्तो ।
स्ति ।
एतेन दृगादिशक्तिभेदानां पृथक्चक्षुरूपादिभेदेन परिणामभेदकल्पना परमात्मनि प्रयुक्ता ॥4,3.24-30 ॥
स्तर्त् ब्र्हुप् 4,3.31
यत्र वा अन्यद् इव स्यात् तत्रान्यो ऽन्यत् पश्येद् अन्यो ऽन्यज् जिघ्रेद् अन्यो ऽन्यद् रसयेद् अन्यो ऽन्यद् वदेद् अन्यो ऽन्यच् छृणुयाद् अन्यो ऽन्यन् मन्वीतान्यो ऽन्यत् स्पृशेद् अन्यो ऽन्यद् विजानीयात्
ब्र्हुप्भ्_4,3.31 जाग्रत्स्वप्नयोरिव यद्विजानीयात्तद्द्वितीयं प्रविभक्तमन्यत्वेन नास्तीत्युक्तमतः सुषुप्ते न विजानाति विशेषम्ष ननु यद्यस्यायमेव स्वभावः किंनिमित्तमस्य विशेषविज्ञानं स्वभावपरित्यागेन ।
अथ विशेषविज्ञानमेवास्य स्वभावः कस्मादेष विशेषं न विजानातीति ।
उच्यते शृणु ।
यत्र यस्मिढ्जागरिते स्वप्ने वा अन्यदिवाऽत्मनो वस्त्वन्तरमिवाविद्यया प्रत्युपस्थापितं भवति तत्र तस्मादविद्याप्रत्युपस्थापितादन्यो ऽन्यमिवाऽत्मानं मन्यमानो ऽसत्यात्मनः प्रविभक्ते वस्त्वन्तरे ऽसति चात्मनि ततः प्रविभक्ते ऽन्यो ऽन्यत्पश्येदुपलभेत ।
तच्च दर्शितं स्वप्ने प्रत्यक्षतो घ्नन्तीव जिनन्तीवेति ।
तथान्यो ऽन्यज्जिघ्रेद्रसयेद्वदेच्छृणुयान्मन्वाति स्पृशेद्विजानीयादिति ॥4,3.31॥
स्तर्त् ब्र्हुप् 4,3.32
सलिल एको द्रष्टाद्वैतो भवति ।
एष ब्रह्मलोकः सम्राट् ।
इति हैनम् अनुशशास याज्ञवल्क्यः ।
एषास्य परमा गतिः ।
एषास्य परमा संपत् ।
एषो ऽस्य परमो लोकः ।
एषो ऽस्य परम आनन्दः ।
एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति
ब्र्हुप्भ्_4,3.32 यत्र पुनः साविद्या सुषुप्ते वस्त्वन्तरप्रत्युपस्थापिका शान्ता तेनान्यत्वेनाविद्याप्रविभक्तस्य वस्तुनो ऽभावात्केन कं पश्येज्जिघ्रेद्विजानीयाद्वा ।
अतः स्वेनैव हि प्राज्ञेनऽऽत्मना स्वयञ्ज्योतिःस्वभावेन संपरिष्वक्तःसमस्तः संप्रसन्न आप्तकाम आत्मकामः सलिलवस्त्वच्छीभूतः सलिल इव एको द्वितीयस्याभावात् ।
अविद्याया हि द्वितीयस्याभावात् ।
एतदमृतमभयमेष भ्मलोको ब्रह्मैव लोको ब्रह्मलोकः पर एवायमस्मिन्काले व्यावृत्तकार्यकरणोपाधिभेदः स्वात्मज्योतिषि शान्तसर्वसंबन्धो वर्तते ।
हे सम्राडिति हैवं हैनं जनकमनुशशासानुष्टवान्याज्ञवल्क्य इति श्रुतिवचनमेतत् ।
कथं वानुशशास ।
एषास्य विज्ञानमयस्य परमा गतिः ।
यास्त्वन्या देहग्रहलक्षणा ब्रह्मादिस्तम्बपर्यन्ता अविद्याकल्पितास्ता गतयो ऽतो ऽपरमा अविद्याविषयत्वात् ।
इयं तु देवत्वादिगतीनां कर्मविद्यासाध्यानां परमोत्तमा यः समस्तात्मभावो यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानातीत्येषैव च परमा संपत्सर्वासां संपदां विभूतीनामियं परमा स्वाभाविकत्वादस्याः कृतका ह्यन्याः संपदः ।
तथैषो ऽस्य परमो लोकः ।
ये ऽन्ये कर्मफलाश्रया लोकास्ते ऽस्मादपरमाः ।
अयं तु न केनचन कर्मणा मीयते स्वाभाविकत्वादेषो.स्य परमो लोकः ।
तथैषो ऽस्यपरम आनन्दः ।
यान्यन्यानि विषयेन्द्रियसंबन्धजनितान्यानन्दजातानि तान्यपेक्ष्यैषो ऽस्य परम आनन्दो नित्यत्वात् ।
"यो वै भूमा तत्सुखम्" इति श्रुत्यन्तरात् ।
यत्रान्यत्पश्यन्यद्विजानाति तान्यपेक्ष्यैषो ऽस्य परम आनन्दोनित्यत्वात् ।
"यो वै भूमा तत्सुखम्"इति श्रुत्यन्तरात् ।
यत्रान्यत्पश्यद्विजानाति तदल्पं मर्त्यममुख्यं क्षुखमिदं तु तद्विपरीतम् ।
एत एषो ऽस्य परम आनन्दः ।
एतस्यैवैऽऽनन्दस्य मात्रां कलामविद्याप्रत्युपस्थापितां विषयेन्द्रियसंबन्धकालविभाव्यामन्यानि भूतान्युपजीवन्ति ।
कानि तानि तत एवाऽनन्दादविद्यथाप्रविभज्यमानस्वरूपाण्यन्यत्वेन तानि ब्रह्मणः परिकल्प्यमानान्यन्यानि सन्त्युपजीवन्ति भूतानि विषयेन्द्रियसंपर्कद्वारेण विभाव्यमानाम् ॥4,3.32॥
स्तर्त् ब्र्हुप् 4,3.33
स यो मनूष्याणां राद्धः समृद्धो भवत्य् अन्येषाम् अधिपतिः सर्वैर् मानुष्यकैर् भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दः ।
अथ ये शतं मनुष्याणाम् आनन्दाः स एकः पितॄणां जितलोकानाम् आनन्दः ।
अथ ये शतं पितॄणां जितलोकानाम् आनन्दाः स एको गन्धर्वलोक आनन्दः ।
अथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानाम् आनन्दो ये कर्मणा देवत्वम् अभिसम्पद्यन्ते ।
अथ ये शतं कर्मदेवानाम् आनन्दाः स एक आजानदेवानाम् आनन्दः ।
यश् च श्रोत्रियो ऽवृजिनो ऽकामहतः ।
अथ ये शतम् आजानदेवानाम् आनन्दाः स एकः प्रजापतिलोक आनन्दः ।
यश् च श्रोत्रियो ऽवृजिनो ऽकामहतः ।
अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः ।
यश् च श्रोत्रियो ऽवृजिनो ऽकामहतः ।
अथैष एव परम आनन्दः ।
एष ब्रह्मलोकः सम्राट् ।
इति होवाच याज्ञवल्क्यः ।
सो ऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ।
अत्र ह याज्ञवल्क्यो बिभयां चकार -- मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीद् इति
ब्र्हुप्भ्_4,3.33 यस्य परमान्दस्य मात्रा अवयवा ब्रह्मादिभिर्मनुष्यपर्यन्तैर्भूतैरुपजीव्यन्ते तदानन्दमात्राद्वारेण मात्रिणं परमानन्दमधिजिगमियिषन्नाह सैन्धवलवणशकलैरिव लवणशैलम् ।
स यः कस्मिन्मनुष्याणां मध्ये राद्धः संसिद्धो ऽविकलः समग्रावयव इत्यर्थः ।
समृद्ध उपभोगोपकरणसंपन्नो भवति ।
किञ्चान्येषां समानजातीयानामधिपतिः स्वतन्त्र पतिर्न माण्डलिकः सर्वैः समस्तैर्मानुष्यकैरिति दिव्यभोगोपकरणनिवृत्यर्थं मनुष्याणामेव यानि भोगोपकरणानि तैः संपन्नानामप्यतिषयेन संपन्नः संपन्नतमः स मनुष्याणां परम आनन्दः ।
तत्राऽनन्दान्दितोरभेदनिर्देशान्नार्थान्तरभूतत्वमित्येतत् ।
परमानन्दरस्यैवेयं विषयाविषय्याकरेण मात्रा प्रसृतेति हयुक्तं यत्र वा अन्यदिव स्यादित्यादिवाक्येन ।
तस्माद्युक्तो ऽयं परम आनन्द इत्यभेदनिर्देशः ।
युधिष्ठिरादितुल्यो राजात्रोदाहरणम् ।
दृष्टं मनुष्यानन्दरमादिं कृत्वा शतगुणोत्तरक्रमेणोन्नीय परमानन्दं यत्र भेदो निवर्तते तमधिगमयति ।
अत्रायमानन्दः शतगुणोत्तरोत्तरक्रमेण वर्धमानो यत्र वृद्धिकाष्टामनुभवति ।
यत्र गणितभेदो निवर्तते ऽन्यदर्शनश्रवणमननाभावात्तं परमानन्दं विवक्षन्नाह ।
अथ ये मनुष्याणामेवंप्रकाराः शतमानन्दभेदाः स एकः पितॄणाम् ।
तेषां विशेषणं जितलोकानामिति ।
श्राद्धादिकर्मभिःपितॄंस्तोषयित्वा तेन कर्मणा जितो लोको येषां ते जितलोकाः पितरस्तेषां पितृणां जितलोकानां मनुष्यानन्दशतगुणीकृतपरिमाण एक आनन्दो भवति ।
सो ऽपि शतगुणीकृतो गन्धर्वलोक एक आनन्दो भवति ।
स च शतगुणीकृतः कर्मदेवानामेक आनन्दः ।
अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति ते कर्मदेवैः ।
तथैवैऽऽजानदेवानामेक आनन्दः ।
आजानत एवोत्पत्तित एव ये देवास्त आजानदेवाः ।
यश्च श्रोत्रियो ऽधीतवेदो ऽवडजिनो वृजिनं पापं तद्रहितो यथोक्तकारित्यर्थः ।
अकामहतो वीततृष्ण आजानदेवो ऽभ्योर्ऽवाग्यावन्तो विषयास्तेषु ।
तस्य चैवंभूतस्याऽजानदेवैः समान आनन्द इत्येतदन्वाकृष्यते च शब्दात्तच्छतगुणीकृतपरिमाणः प्रजापतिलोक एक आनन्दो विराट्शरीरे ।
तथा तद्विज्ञानवाञ्श्रोत्रियो ऽधीतवेदश्चावृजिन इत्यादि पूर्ववत् ।
तच्छतगुणीकृतपरिमाण एक आनन्दो ब्रह्मलोके हिरण्यगर्भात्मनि ।
यश्चेत्यादि पूर्ववदेव ।
अतः परं गणितनिवृत्तः ।
एष परम आनन्द प्रयुक्तः ।
यस्य च परमानन्दजस्य ब्रह्मलोकाद्यानन्दा मात्रा उदधेरिव विप्रुषः ।
एवं शतगुणोत्तरोत्तरवृद्ध्युपेता आनन्दा यत्रैकता यान्ति यश्च श्रोत्रियप्रत्यक्षो ऽथैष एव संप्रसादलक्षणः परम आनन्दस्तत्र हि नान्यत्पश्यति नान्यच्छृणोति ।
अथो भूमा भूमत्वादमृतः ।
इतरे तद्विपरीताः ।
अत्र च श्रोत्रयित्वाद्वृजिनत्वे तुल्ये ।
अकामहतत्वकृतो विशेष आनन्दशतगुणवृद्धिहेतुः ।
अत्रैतानि साधनानि श्रोत्रियत्वावृजिनत्वाकामहतत्वानि तस्य तस्याऽनन्दस्य प्राप्तावर्थादिभिहितानु यथा कर्माण्ग्निहोत्रादीनि देवानां देवत्वप्राप्तौ ।
तत्र च श्रोत्रियत्वावृजिनत्वलक्षणे कर्मणी अधरभूमिष्वपि समाने इति नोत्तरानन्दप्राप्तिसाधने अभ्युपेयेते ।
अकामहतत्वं तु वैराग्यतारतम्योपपत्तेरुत्तरोत्तरभूम्यानन्दप्राप्तिसाधनमित्यवगम्यते ।
स एष परम आनन्दो वितृष्णश्रोत्रियप्रत्यक्षो ऽधिगतः ।
तथा च वेदव्यासः-"यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" ॥
इति ।
एष ब्रह्मलोको हे सम्राडिति होवाच याज्ञवल्क्यः सो ऽहमेवनुशिष्टो भगवते तुभ्यं सहस्रं ददामि गवाम् ।
अत ऊध्वं विमोक्षायैव ब्रूहीति व्याख्यातमेतत् ।
अत्र ह विमोक्षायेत्यस्मिन्वाक्ये याज्ञवल्क्यो बिभयाञ्चकार भीतवान् ।
याज्ञवल्क्यस्य भयकारणमाह श्रुतिः ।
न याज्ञवल्क्यो वक्तृत्वसामर्थ्याभावाद्भीतवानज्ञानाद्वा किं तर्हि मेधावी राजा सर्वेभ्यो मा मामन्तेभ्यः प्रश्ननिर्णयवसानेभ्य उदरौत्सीदावृणोदवरोधं कृतवानित्यर्थः ।
यद्यान्मया निर्णीतं प्रश्नरूपं विमोक्षार्थं तत्तदेकदेशत्वेनैव कामप्रश्नस्य गृहीत्वा पुनः पुनर्मां पर्यनुयुङ्क्त्त एव मेधावित्वादित्येतद्भयकारणं सर्वं मदीयं विज्ञानं कामप्रश्नव्याजेनोपादित्सतीति ॥4,3.33॥
स्तर्त् ब्र्हुप् 4,3.34
स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति बुद्धान्तायैव
ब्र्हुप्भ्_4,3.34 अत्र विज्ञानमयः स्वयञ्ज्योतिरात्मा स्वप्ने प्रदर्शितः ।
स्वप्नान्तबुद्वान्तसंचारेण कार्यकरणव्यतिरित्त्कता ।
कामकर्मप्रविवेकश्चासङ्गतया महामत्स्यदृष्टान्तेन प्रदर्शितः ।
पुनश्चाविद्याकार्यं स्वप्न एव ध्नन्तोवेत्यादिना प्रदर्शितम् ।
अर्थादविद्यायाः सतत्त्वंनिर्धीरितमतद्वर्माध्यारोपणरूपत्वमनात्मधर्मत्वं च ।
तथा विद्यायाश्च कार्यं प्रदर्शितं सर्वत्मभावः स्वप्न एव प्रत्यक्षतः सर्वो ऽस्मीति मन्यते सो ऽस्य परमो लोक इति ।
तत्र च सर्वात्मभावः स्वभावो ऽस्यैवमविद्याकामकर्मादिसर्वसंसारधर्मसंबन्धातीतं रूपमस्य साक्षात्सुषुप्ते गृह्यत इत्येनद्विज्ञापितं स्वयञ्ज्योतिरात्मैष परम आनन्दः ।
एष विद्याया विषयः ।
स एष परमः संप्रसादः सुखस्य च परा काष्ठेत्येतदेवमन्तेन ग्रन्थेन व्याख्यातम् ।
तच्चैत्सर्वं विमोक्षपदार्थसर्वं विमोक्षपदार्थस्य दृष्टान्तभूतं बन्धनस्य च ।
ते चैते मोक्षबन्धने सहेतुके सप्रपञ्चे निर्दिष्टे विद्याविद्याकार्ये तत्सर्वं दृष्टान्तभूतमेवेति तद्दार्ष्टान्तिकस्थानीये मोक्षहन्धने सहेतुके कामप्रश्नार्थभूते त्वया वत्त्कव्ये इति पुनः पर्थनुयुङ्त्त्के जनको ऽत ऊर्ध्वं विमोक्षायैव ब्रूहीति ।
तत्र महामत्स्यवत्स्वबुद्धान्तावसङ्गः संचरत्येक आत्मा स्वयञ्ज्योतिरित्युक्तम् ।
यथा चासौ कार्यकरणानु मृत्युरूपाणि परित्यजन्नुपाददानश्च महामत्स्यवत्स्वप्नबुद्धान्तावनुसंचरति तथा जायमानो म्रियमाणश्च तैरेव मृत्युरूपैः संयुज्यते वियुज्यते च ।
उभौ लोकानुसंचरतीति संचरणं स्वप्नबुद्धन्तानुसंचारस्य दार्ष्टान्तिकत्वेन सूचितम् ।
तदिह विस्तरेण सनिमित्तं संचरणं वर्णयितव्यमिति तदर्थो ऽयमारम्भः तत्र च बुद्धान्तात्स्वप्नान्तमयमात्मानुप्रवेशितः ।
तस्मात्संप्रासादस्थानं मोक्षदृष्टनान्तभूतम् ।
ततः प्रच्याव्य बुद्धान्ते संसारव्यवहारः प्रदरिश्यितव्य इति तेनास्य संबन्धः ।
स वै बुद्धान्तात्स्प्नान्तक्रमेण संप्रसन्न एष एतस्मिन्संप्रसादे स्थित्वा ततः पुनरीषत्प्रच्युतः स्वप्नान्ते रत्वा चरित्वेत्यादि पूर्ववद्बुन्दायैवाऽद्रवति ॥4,3.34॥
स्तर्त् ब्र्हुप् 4,3.35
तद् यथानः सुसमाहितम् उत्सर्जं यायाद् एवम् एवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जं याति ।
यत्रैतद् ऊर्ध्वोच्छ्वासी भवति
ब्र्हुप्भ्_4,3.35 इत आरभ्यास्य संसारो वर्ण्यते ।
यथायमात्मा स्वप्नान्ताद्बुद्धान्तमागत एवमयमस्माद्देहद्देहान्तरं प्रतिपत्स्यत इत्याहात्र दृष्टान्तम् ।
तत्तत्र यथा लोके ऽनः शकटं सुसमाहितं सुष्ठु भृशं वा समाहितं भाण्डोपस्करणेनोलूखलमुसलशूर्पपिठरादिनान्नाद्येन च संपन्नं संभारेणाऽक्रनान्तमित्यर्थः ।
तथा भाराक्रान्तं सदुत्सर्जच्छब्दं कुर्वद्यथा ययाद्गच्छेच्छाकटिकेनाधिष्ठितं सत् ।
एवमेव यथोक्तो दृष्टान्तो ऽयं शरीरः शारीरे भवः ।
को ऽसौ ।
आत्मा लिङ्गोपाधिः ।
यः स्वप्नबुद्धान्ताविवि जन्ममरणाभ्यां पाप्मसंसर्गवियोगलक्षणाभ्यामिहलोकपरलोकावनुसंचरति ।
यस्योत्क्रमणमनु प्राणाद्युत्क्रमणं स प्राज्ञेन परेणाऽत्मना स्वयञ्ज्योतिःस्वभावेनान्वारूठो ऽधिष्ठितो ऽवभास्यमानः ।
तथा चोक्तमात्तमनैवायं ज्योतिषाऽस्ते पल्ययत इति ।
उत्सर्जन्याति ।
तत्र चैतन्यात्मज्योतिषा भास्ये लिङ्गे प्राणप्रधाने गच्छति तदुपाधिरप्यात्मा गच्छतीव ।
तथा श्रुत्यन्तरम्-"कस्मिन्न्वहम्"इत्यादि"ध्यायतीव"इति च ।
अत एवोक्तं प्राज्ञेनाऽत्मनान्वारूठ इति ।
अन्यथा प्राज्ञेनैकीभूतः शकटवत्कथमुत्सर्जन्याति ।
तेन लिङ्गोपाधिरात्मोत्सर्जन्मर्मसु निकृत्यमानेषु दुःखवेदनयार्ऽऽतः शब्दं कुर्वन्याति गच्छति तत्कस्मिन्काल इति ।
उच्यते-यत्रैतद्भवति ।
एतदिति क्रियाविशेषणम् ।
ऊर्ध्वोच्छ्वासी यत्रोर्ध्वोच्छासितत्वमस्य भवतीत्यर्थः ।
दृश्यमानस्याप्यनुवदनं वैराग्यगहेतोः ईदृशः कष्टः खल्वयं संसारः येनोत्क्रान्तिकाले मर्मसूत्कृत्यमानेषु स्मृतिलोपो दुःखवेदनार्तस्य पुरुषार्थसाधनप्रतिपत्तौ चासामर्थ्यं परवशीकृतचित्तस्य ।
तस्माद्यावदियमवस्था नाऽगमिष्यति तावदेव पुरुषार्थसाधनकर्व्यतायामप्रमत्तो भवेदित्याह कारुण्याच्छ्रुतिः ॥4,3.35॥
स्तर्त् ब्र्हुप् 4,3.36
स यत्रायम् अणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति ।
तद् यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात् प्रमुच्यते ।
एवम् एवायं पुरुष एभ्यो ऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति प्राणायैव
ब्र्हुप्भ्_4,3.36 तदस्योर्ध्वोच्छ्वासित्वं कस्मिन्काले किंनिमित्तं कथं किमर्थं वा स्यादित्येतदुच्यते-सो ऽयं प्राकृतः शिरः पाण्यादिमान्पिण्डो यत्र यस्मिन्काले ऽयमणिमानमणोर्भावमणुत्वं कार्श्यमित्यर्थः ।
न्येति निगच्छति ।
किंनिमित्तं जरया वा स्वयमेव कालपक्वफलवज्जीर्णः कार्श्यं गच्छति ।
उपतपतीत्युपतपञ्ज्वरादिरोगस्तेनोपतपता वा ।
उपतप्यमानो हिरोगेण विषमाग्नितयान्नं भुक्तं न जरयति ततो ऽन्नरसेनानुपचीयमानः पिण्डः कार्श्यमापपद्यते तदुच्यत उपतपता वेति ।
अणिमानं निगच्छति ।
यदात्यन्तकार्श्यं प्रतिपन्नो जरादिनिमित्तैस्तदोर्ध्वोच्छवासी भवति ।
यदोर्ध्वोच्छ्वासी तदा भृशाहितसंभारशकटवदुत्सर्जन्याति ।
जरिभाभवो रोगादिपीडनं कार्श्यापत्तिश्च शरीरवतो ऽवश्यंभाविन एते ऽनर्था इति वैराग्यायेदमुच्यते ।
यदासावुत्सर्जन्याति तदा कथं शरीरं विमुञ्चतीति दृष्टान्त उच्यते-तत्तत्र यताम्रं वा फलमुदुम्बरं वा पिप्पलं वाफलम् ।
विषमानेकदृष्टान्तोपादानं मरणस्यानियतनिमित्तत्वख्यापनार्थम् ।
अनियतानि हि मरणस्य निमित्तान्यसंख्यातानि च ।
एतदपि वैराग्यार्थमेव ।
यस्मादयमनेकमरणनिमित्तवांस्तस्मात्सर्वदा मृत्योरास्ये वर्तत इति ।
बन्धनाद्बध्यते येन वृन्तेन सह स बन्धनकारणो रसो यस्मिन्वा बध्यत इति वृन्तमेवोच्यते बन्धन तस्माद्रसाद्वृन्ताद्वा बन्धनात्प्रमुच्यते वाताद्यनेकनिमितमेवमेवायं पुरुषो लिङ्गात्मा लिङ्गोपाधिरेभ्यो ऽङ्गेभ्यश्चक्षुरादिदेहावयवेभ्यः संप्रमुच्य सम्यङ्निर्लेपेन प्रमुच्य ।
न सुषुप्तगमनकाल इव प्राणेन रक्षन् ।
किं तर्हि सह वायुनोपसंहृत्य ।
पुनः प्रतिन्यायं पुनःशबन्दात्पूर्वमप्ययं देदाद्देहान्तरमसकृद्गतवान्यथा स्वप्नबुद्धान्तौ पुनः पुर्गच्छति तथा पुनः प्रतिन्यायं प्रतिगमनं यथागतमित्यर्थः ।
प्रतियोनि योनिं योनि प्रति कर्मश्रुतादिवशादाद्रवति ।
किमर्थम् ।
प्राणायैव प्राणव्यूहायैवेत्यर्थः ।
सप्राण एव हि गच्छति ततः प्राणयैवेति विशेषणमनर्थकम् ।
प्राणव्यूहाय हि गमनं देहाद्देहान्तरं प्रति ।
तेन ह्यस्य कर्मफलोपभोगार्थसिद्धिर्न प्राणसत्तामात्रेण ।
तस्मात्तादर्थायर्थं युक्तं विशेषणं प्राणव्यूहायेति ॥4,3.36॥
स्तर्त् ब्र्हुप् 4,3.37
तद् यथा राजानम् आयन्तम् उग्राः प्रत्येनसः सूतग्रामण्यो ऽन्नैः पानैर् अवसथैः प्रतिकल्पन्ते ऽयम् आयात्य् अयम् आगच्छतीति ।
एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदम् आगच्छतीति
ब्र्हुप्भ्_4,3.37 तत्रास्येदं शरीरं परित्यज्य गच्छतो नान्यस्य देहान्तरस्योपादाने सामर्थ्यमस्ति ।
देहेन्द्रियवियोगात् ।
न चान्ये ऽस्य भृत्यस्थानीया गृहमिव राज्ञे शरीरान्तरं कृत्वा प्रतीक्षमाणा विद्यन्ते ।
अथैवं सति कथमस्य शरीरान्तरोपादानमिति ।
उच्यते-सर्वं ह्यस्य जगत्स्वकर्मफलोपभोगसाधनत्वायोपात्तं स्वकर्मफलोपभोगाय चायं प्रवृत्तो देहाद्देहान्तरं प्रतिपित्सुस्तस्मात्सर्वमेव जगत्स्वकर्मणा प्रयुक्तं तत्कर्मफलोपभोगायोग्यं साधनं कृत्वा प्रतीक्षत एव ।
"कृतं लोकं पुरुषो ऽभिजायते"इति श्रुतेः ।
यथा स्वप्नाज्जागरितं प्रतिपित्सोः ।
तत्कथमिति लोकप्रसिद्धो दृष्टान्त उच्यते-तत्तत्र यथा राजानं राज्याभिषिक्तमायान्तं स्वराष्ट्र उग्रा जातिविशेषाः क्रूरकर्मणो वा प्रत्येनसः प्रति प्रतेनसि पापकर्मणि नियुक्ताः प्रत्येनसस्तस्करादिदण्डनादौ नियुक्ताः सूताश्च ग्रामण्यो ग्रामनेतारस्ते पूर्वमेव राज्ञ आगमनं बुद्ध्वान्नैर्भोज्यभक्ष्यादिप्रकारैः पानैर्मदिरादिभिरावसथैश्च प्रासादादिभिः प्रतिकल्पन्ते निष्पन्नैरेव प्रितीक्षन्ते ऽयं राजाऽयात्ययमागच्छतीत्येवं वदन्तः ।
यथायं दृष्टान्त एवं हैवंविदं कर्मफलस्य वेदितारं संसारिणमित्यर्थः ।
कर्मफलं हि प्रस्तुतं तदेवंशब्देन परामृश्यते ।
सर्वाणि भूतानि शरीरकर्तॄणि करणानुग्रहीतॄणि चाऽदित्यादीनि तत्कर्मप्रयुक्तानि कृतैरेव कर्मफलोबभोगसाधनैः प्रतीक्षन्ते ।
इदं ब्रह्म भोक्तृकर्तृ चास्माकमायाति तथेदमागच्छतीत्येवमेव च कृत्वा प्रतीक्षन्त इत्यर्थः ॥4,3.37॥
स्तर्त् ब्र्हुप् 4,3.38
तद् यथा राजानं प्रयियासन्तम् उग्राः प्रत्येनसः सूतग्रामण्यो ऽभिसमायन्ति ।
एवम् एवेमम् आत्मानम् अन्तकाले सर्वे प्राणा अभिसमायन्ति ।
यत्रैतद् ऊर्ध्वोच्छ्वासी भवति
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0