भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 4.1

4.1.1

ब्र्हुप्भ्_3,9.27 अथ होवाच ।
अथानन्तरं तूष्णीम्भूतेषु ब्राह्मणेषु होवाच, हे ब्राहेमणा भगवन्त इत्येवं सम्बोध्य-यो वो युष्माकं मध्ये कामयते इच्छति-याज्ञवल्क्यं पृच्छामीति, स मा मामागत्य पृच्छत्;सर्वे वा मा पृच्छत- सर्वे वा यूयं मा मां पृच्छत ।
यो वः कामयते याज्ञवल्क्यो मां पृच्छत्विति, तं वः पृच्छमि;सर्वान् वा वो युष्मानहं पृच्छामि ।
ते ह ब्राह्मणा न दधृषुः-ते ब्राह्मणा एवमुक्ता अपि न प्रगल्भाः संवृत्ताः किञ्चिदपि प्रत्युत्तरं वक्तुम् ॥27॥
स्तर्त् ब्र्हुप् 3,9.28:1
तान् हैतैः श्लोकैः पप्रच्छ --
यथा वृक्षो वनस्पतिस् तथैव पुरुषो ऽमृषा ।
तस्य लोमानि पर्णानि त्वग् अस्योत्पाटिका बहिः ॥ ब्र्हुप्_3,9.28:1 ॥
ब्र्हुप्भ्_3,9.28:1 तेषु अप्रगल्भभूतेषु ब्राह्मणेषु तान् हैतैर्वक्ष्यमाणैः श्लोकैः पप्रच्छ पृष्टवान् ।
यथा लोके वृक्षो वनस्पतिः, वृक्षस्य विशेषणं वनस्पतिरिति, तथैव पुरुषो ऽमृपा-अमृपा सत्यमेतत्-तस्य लोमानि;तस्य पुरुषस्य लोमानीतरस्य वनस्पतेः पर्णानि;त्वगस्योत्पाटिका वहिः-त्वगस्य पुरुषस्य इतरस्योत्पाटिका वनस्पतेः ॥1॥
स्तर्त् ब्र्हुप् 3,9.28:2
त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः ।
तस्मात् तद् आतृण्णात् प्रैति रसो वृक्षाद् इवाहतात् ॥ ब्र्हुप्_3,9.28:2 ॥
ब्र्हुप्भ्_3,9.28:2 त्वच एव सकाशादस्य पुरुषस्य रुधिरं प्रस्यन्दि, वनस्पतेरत्वच उत्पटः-त्वच एवोत्स्फुटति यस्मात्;एवं सर्वं समानमेव वनस्पतेः पुरुषस्य च;तस्माद् आतृण्णात् हिसितात् प्रति तद् रुधिरं निर्गच्छति वृक्षादिवाहताच्छिन्नाद् रसः ॥2॥
स्तर्त् ब्र्हुप् 3,9.28:3
मांसान्य् अस्य शकराणि किनाटं स्नाव तत् स्थिरम् ।
अस्थीन्य् अन्तरतो दारुणि मज्जा मज्जोपमा कृता ॥ ब्र्हुप्_3,9.28:3 ॥
ब्र्हुप्भ्_3,9.28:3 एवं मांसान्यस्य पुरुषस्य, वनस्पतेस्यानि शकराणि शकलानीत्यर्थः ।
किनाटं वृक्षस्य, किनाटं नाम शकलेभ्यो ऽभ्यन्तरं वल्कलरूपं काष्ठसंलग्नम्, तत् स्नाव पुरुषस्य;तत् स्थिरम्-तच्च किनाटं स्नाववद् दृढं हि तत्;अस्थीनि पुरुषस्य, स्नाव्नो ऽन्तरतो ऽस्थीनि भवन्ति;तथा किनाटस्याभ्यन्तरतो दारुणि काष्ठानि;मज्जा, मज्जेव वनस्पतेः पुरुषस्य च मज्जोपमा कृता, मज्जाया उपमामज्जोपमा, नान्यो विशेषो ऽस्तीत्यर्थः;यथा वनस्पतेर्मज्जा तथा पुरुषस्य, यथा पुरुषस्य तथा वनस्पतेः ॥3॥
स्तर्त् ब्र्हुप् 3,9.28:4
यद् वृक्षो वृक्णो रोहति मूलान् नवतरः पुनः ।
मर्त्यः स्विन् मृत्युना वृक्णः कस्मान् मूलात् प्ररोहति ॥ ब्र्हुप्_3,9.28:4 ॥
ब्र्हुप्भ्_3,9.28:4 यद् यदि वृक्षो वृक्णश्छिन्नो रोहति पुनः पुनः प्ररोहतिप्रादुर्भवति मूलात् पुनर्नवतरः पूर्वस्मादभिनवतरः;यदेतस्माद् विशेणात् प्राग् वनस्पतेः पुरुषस्य च, सर्वं सामान्यमवगतम्;अयं तु वनस्पतौ विशेषो दृश्यते यच्छिन्नस्यप्ररोहणम्;न तु पुरुषे मृत्युना वृक्णे पुनः प्ररोहणं दृश्यते;भवितव्यं च कुतश्चित्प्ररोहणेन;तस्माद वः पृच्छामि-मर्त्यो मनुष्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति? मृतस्य पुरुषस्य कुतः प्ररोहणमित्यर्थः ॥4॥
स्तर्त् ब्र्हुप् 3,9.28:5
रेतस इति मा वोचत जीवतस् तत् प्रजायते ।
धानारुह इव वै वृक्षो ऽञ्जसा प्रेत्य सम्भवः ॥ ब्र्हुप्_3,9.28:5 ॥
ब्र्हुप्भ्_3,9.28:5 यदि चेदेवं वदथ-रेतमः प्ररोहतीति, मा वोचत मैवं वषतुमर्हथ;कस्मात्? यस्माज्जीवतः पुरुषात्तद् रेतः प्रजायते, न मृतात् ।
अपि च धानारुहः, धाना बीजम्, बीजरुहो ।
पि वृक्षो भवति, न केवलं काण्डरह एव;इवशब्दो ऽनर्थकः, वै वृक्षो ऽज्जसा साक्षात् प्रेत्य मृत्वासम्भवो धानातो ऽपि प्रेत्य सम्भवो भवेदज्जसा पुनर्वनस्पतेः ॥5॥
स्तर्त् ब्र्हुप् 3,9.28:6
यत् समूलम् आवृहेयुर् वृक्षं न पुनर् आभवेत् ।
मर्त्यः स्विन् मृत्युना वृक्णः कस्मान् मूलात् प्ररोहति ॥ ब्र्हुप्_3,9.28:6 ॥
ब्र्हुप्भ्_3,9.28:6 यद् यदि सह मूलेन धान्या वा आवृहेयुरुद्यच्छेपरुयेयुर्वृक्षम्, न पुनराभवेत् पुनरागत्य न भवेत् ।
तस्माद् वः पृच्छामि सर्वस्यैव जगतो मूलम् सर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति ॥6॥
स्तर्त् ब्र्हुप् 3,9.28:7-8
जात एव न जायते को न्व् एनं जनयेत् पुनः ।
विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणम् ॥ ब्र्हुप्_3,9.28:7 ॥
जात एव न जायते को न्व् एनं जनयेत् पुनः ।
विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणम् ॥
तिष्ठमानस्य तद्विद इति ॥ ब्र्हुप्_3,9.28:8 ॥
ब्र्हुप्भ्_3,9.28:7-8. जात एवेति मन्यध्वं यदि किमन्न प्रष्टव्यमिति-अनिष्यमाणस्य हि सम्भवः प्रष्टव्यः, न जातस्य, अयं तु जात एवातोपस्मिन् विषये प्रश्न एव नोपऽद्यत इति चेत्-न, किं तर्हि? मृतः पुनरपि जायत एवान्यथाकृताभ्यागमकृतनाशप्रसङ्गात्;अतो वः पृच्छामि-को न्वेनं मृतं पुनर्जनयेत्? तत्र विजज्ञुर्ब्राह्मणाः-यतो मृतः पुनः प्ररोहति जगतो मूलं न विज्ञातं ब्राह्मणैः;अतो ब्रह्मिष्ठत्वाद् ह्रता गावः;याज्ञवल्क्येन जिताब्राह्मणाः ।
समाप्ता आख्यायिका ।
यज्जगतो मूलम्, येन च शब्देन साक्षाद् व्यपदिश्यते ब्रह्म, यद् याज्ञवल्क्यो ब्राह्मणान् पृष्टवांस्तत् स्वेन रूपेण श्रुतिरस्यभ्यमाह-विज्ञानं विज्ञप्तिर्विज्ञानम्, तच्च आनन्दम्, न विषयविज्ञानवद् दुःखानुविद्वम्, किं तर्हि? प्रसन्नं शिवमतुलमनायासंनित्यतृप्तमे करसमित्यर्थः. किं तद् ब्रह्म उमयविशेणवद् रातिः-रातेः पष्ठयथ प्रथमा, धनस्येत्यर्थः, धनस्य दातुः कर्मकृतो यजमानस्य परायणं परा गतिः कर्मफलस्य प्रदातृ ।
किञ्च व्युत्थायैषणाभ्यस्यस्मिन्नेव ब्रह्माणि तिष्ठत्यकर्मकृत्, तद् ब्रह्म वेत्तीति तद्विच्च;तस्य-तिष्ठमानस्य च तद्विदः, ब्रह्मविद इत्यर्थः, परायणमिति ।
अत्रेदं विचार्यते-आनन्दशब्दो लोके सुखवाची प्रसिद्वः, अत्र च ब्रह्मणो विशेषणत्वेन आनन्दशब्दः श्रूयते-आनन्दं ब्रह्मेति ।
श्रुत्यन्तरे च-"आनन्दो ब्रह्मेति व्यजानात्""आनन्दं ब्रह्मणो विद्वान्" "यदेष आकाश आनन्दो न स्यात" "यो वै भूमा तत् सुखम्"इति च;"एष परम आनन्दः"इत्येवमाद्याः ।
संवेद्ये च सुखे आनन्दशब्दः प्रसिद्वः ब्रह्मानन्दश्च यदि संवेद्यः स्याद् युक्ता एते ब्रह्मण्यानन्दशब्दाः ।
ननु च श्रुतिप्रामाण्यात् संवेद्यानन्दस्वरूपमेव ब्रह्म, किं तत्र विचार्यम्? इति न, विरुद्वश्रुतिवाक्यदर्शनात्--सत्यम्, आनन्दशब्दो ब्रह्मणि श्रूयते, विज्ञानप्रतिषेधश्चैकत्वे--"यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयात्" "यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" "प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद"इत्यादि;विरुद्वश्रुतिवाक्यदर्शनात् तेन कर्तव्यो विचारः;तस्माद् युक्तं वेदवाक्यर्थनिर्णयाय विचारयितुम् ।

मोक्षवादिविप्रतिपत्तेश्च-सांख्या वैशेषिकाश्च मोक्षवादिनो नास्ति मोक्षे सुखं संवेद्यमित्येवं विप्रतिपन्नाः;अन्ये निग्तिशयं सुखं स्वसंवद्यमिति;किं तावद् युक्तम्? आनन्दादिश्रवणात्"जक्षतक्रीडन् रममाणः"ऽसयाद पितृलोककामो भवतऽ "यः सर्वज्ञः सर्ववित्""सर्वान् कामान् समश्नुते"इत्यादिश्रुतिभ्यो मोक्षे सुखं संवेद्यमिति ।
नन्वेकत्वे कारकविमागमावाद् विज्ञानानुपपत्तिः, क्रियायाश्चाने ककारक्रसाध्यात्वाद् विज्ञानस्य च क्रियात्वात् ।
नैष दोषः;शब्दप्रामाण्याद् भवेद् विज्ञानमानन्दविषये;"विज्ञानमानन्दम्"इत्यादीनि आनन्दस्वरूपस्यासंवेद्यत्वे ऽनुपपन्नानि वचनानीत्यवोचाम ।
ननु वचनेनाप्यग्नेः शैत्यमुदकस्य चौष्भ्यं न क्रियते एव, ज्ञापकत्वाद् वचनानाम् ।
न च देशान्तरे ऽग्निः शीत इति शक्यते ज्ञापयितुम्;अगम्ये वा देशान्तरे उष्णमुदकमिति ।
न, प्रत्यगात्मन्यानन्दविज्ञानदर्शनात्;नऽविज्ञानमानन्दम्ऽइत्वेवमादीनां वचनानां शीतो ऽग्निरित्यादिवाक्यवत् प्रत्यक्षादिविरुद्वार्थप्रतिपादकत्वाम् ।
अनुभूयते त्वविरुद्वार्थता;सुख्यहमिति सुखात्मकमात्मानं स्वयमेव वेदयते;तस्मात् सुतरां प्रत्यक्षाविरुद्वार्थता;तस्मादानन्दं ब्रह्म विज्ञानात्मकं सत् स्वयमेव वेदयते ।
तथा आनन्दप्रतिपादिकाः श्रुतयः समञ्जसाः स्युःऽजक्षत् क्रीडन् रममाणःऽ इत्येवमाद्याः पूर्वोक्ताः ।
न, कार्यकरणाभावे ऽनुपपत्तेर्विज्ञानस्य-शरीरवियोगो हि मोक्ष आत्यन्तिकः;शरीरभावे च करणानुपपत्तिः, आश्रयाभावात्;ततश्च विज्ञानानुपत्तिः, आकार्यकरणत्वात्;देहद्यभावे च विज्ञानोत्पत्तौ सर्वेषां कार्यकरणोपादानानर्थक्यप्रसङ्गः ।
एकत्वविरोधाच्च-परं चेद् ब्रह्म आनन्दात्मकमात्मानं नित्यविज्ञानत्वान्नित्यमेव विजानीयात्, तन्न, संसार्यपि संसारविनिर्मुक्तः स्वाभाव्यं प्रतिपद्येत;जलाशय इवोदकाञ्जलिः क्षिप्तो न पृथक्त्वेन व्यवतिष्ठते आनन्दात्मकब्रह्मविज्ञानाय, तदा मुक्त आनन्दात्मकमात्मानं वेदयते इत्येतदनर्थकं वाक्यम् ।
अथ ब्रह्मानन्दमन्याः सन् मुक्तो वेदयते, प्रत्यगात्मानं च, अहमस्म्यानन्दस्वरूप इति, तदैकत्वविरोधः, तथा च सति सर्वश्रुतिविरोधः, तृतीया च कल्पना नोपपद्यते ।
किञ्चान्यत्, ब्रह्मणश्च निरन्तरात्मानन्दविज्ञाने विज्ञानाविज्ञानकल्पनानर्थक्यम्;निरन्तरं चेदात्मानन्दविषयं ब्रह्मणो विज्ञानम्, तदेव तस्य स्वभाव इत्यात्मानन्दं विजानातीति कल्पनानुपपन्ना;अतद्विज्ञानप्रसङ्गे हि कल्पनाया अर्थवत्त्वम्, यथा आत्मानं परं च वेत्तीति, न हीष्वाद्यासक्तमनसो नैरन्तर्येणोषुज्ञानाज्ञानकल्पनाया अर्थवत्त्वम् ।
अथ विच्छिन्नमात्मानन्दं विजानाति-विज्ञानस्य आत्मविज्ञानच्छिद्रे अन्यविषयत्वप्रसङ्गः;आत्मनश्य विक्रियावत्त्वं ततश्चानित्यत्वप्रसङ्गः;तस्माद् विज्ञानमानन्दमिति स्वरूपान्वाख्यानपरैव श्रुतिः, नात्मानन्दसंवेद्यत्वार्थ ।
ऽजक्षत् क्रीडन्ऽइत्यादिश्रुतिविरोधो ऽसंवेद्यत्व इति चेत्! न;सर्वात्मैकत्वे यथाप्राप्तानुवादित्वात्-मुक्तस्य सर्वात्मभावे सति यत्र क्वचिद् योगिषु देवेषु वा जक्षणादि प्राप्तम्, तद् यथाप्राप्तमेवानूद्यते-तत्तस्यैव सर्वात्मभावादिति सर्वात्मभावमोक्षस्तुतये ।
यथाप्राप्तानुवदित्वे दुःखित्वमपीति चेत्-योग्यादिषु यथाप्राप्तजक्षणादिवत् स्थावरादिषु यथाप्राप्तदुःखित्वमपीति चेत्! न, नामरूपकृतकार्यकरणोपाधिसम्पर्कजनितभ्रान्त्यध्यारोपितत्वात् सुखित्वदुःखित्वादिविशेषस्येति परिह्रतमेतत् सर्वम् ।
विरुद्वश्रुतीनां च विषयमवोचाम ।
तस्मात्"एषो ऽस्य परम आनन्दः"इतिवत् सर्वाष्यानन्दवाक्यानि द्रष्टव्यानि ॥28॥
इति तृतीयाध्याये नवमं शाकल्यब्राह्मणम् ॥1 ॥
इति बृहदारण्यकोपनिषद्भाष्ये तृतीयो ऽध्यायः ॥3॥
=======================================================================
अध्यय 4
जनको ह वैदेह आसाञ्चक्रे ।
अस्य सम्बन्धः- शरीराद्यानष्टौ पुरुषान्निरुह्य, प्रत्युह्य पुनर्हृदये, दिग्भेदनेन च पुनः पञ्चधा व्याह्य, हृदये प्रत्यूह्य, हृदयं शरीरं च पुनरन्योन्यप्रतिष्ठं प्राणादिपढ्तवृत्यात्मके समानाख्ये जगदात्मनु सूत्र उपसंहृत्य, जगदात्मनि सूत्र उपसंहृत्य, जगदात्मानंशरीरहृदयसूत्रावस्थमतिक्रान्तवान् य औपनिषदः पुरुषो नेति नेतीति व्यपदिष्टः, स साक्षाञ्चोपादानकारणस्वरूपेण च निर्दिष्टः ऽविज्ञानमानन्दम्ऽ इति ।
तस्यैव वागादिदेवताद्वारेण पुनरधिगमः कर्तव्य इत्यधिगमनोपायान्तरार्थो ऽयमारम्भो ब्राह्मणद्वयस्य ।
आख्यायिका त्वाचारप्रदर्शनार्था-
स्तर्त् ब्र्हुप् 4,1.1
जनको ह वैदेह आसां चक्रे ।
अथ ह याज्ञवल्क्य आवव्राज ।
तं होवाच -- याज्ञवल्क्य किम् अर्थम् अचारीः पशून् इच्छन् अण्वन्तानीति ।
उभयम् एव संराड् इति होवाच

4.1.2

ब्र्हुप्भ्_4,1.1 जनको ह वैदेह आसाञ्चक्रे आसनं कृतवानास्थायिकां दत्तवानित्यर्थः, दर्शनकामेभ्यो राज्ञः ।
अथ ह तस्मिन्नवसरे याज्ञवल्क्यः आवव्राज-आगतवानात्मनो योगक्षेमार्थम्, राज्ञो वा विवदिषां दृष्ट्वानुग्रहार्थम् ।
तमागतं यज्ञवल्क्यं यथावत् पूजां कृत्वोवाच होक्तवाञ्जनकः हे याज्ञवल्क्य किमर्थम् अचारीः-आगतो ऽसि? किं पशूनिच्छन् पुनरपि, आहोस्विदण्वन्तान् सूक्ष्मान्तान् सूक्ष्मवस्तुनिर्णयान्तान् प्रश्नान् मत्तः श्रोतुमिच्छन्निति ।
उभयमेव पशून् प्रश्नांश्च हे सम्राट्-सम्राडिति वाजपेययाजिनो लिङ्गम् ; यश्च आज्ञया राज्यं प्रशास्ति, सम्राट् ; तस्या मन्त्रणं हे सम्राडिति ; समस्तस्य वा भारतस्य वर्षस्य राजा ॥4,1.1॥
स्तर्त् ब्र्हुप् 4,1.2
यत् ते कश्चिद् अब्रवीत् तच् छृणवामेति ।
अब्रवीन् मे जित्वा शैलिनिः -- वाग् वै ब्रह्मेति ।
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच् छैलिनिर् अब्रवीद् वाग् वै ब्रह्मेति ।
अवदतो हि किं स्याद् इति ।
अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् ।
न मे ऽब्रवीद् इति ।
एकपाद् वा एतत् सम्राड् इति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
वाग् एवायतनम् आकाशः प्रतिष्ठा प्रज्ञेत्य् एनद् उपासीत ।
का प्रज्ञता याज्ञवल्क्य ।
वाग् एव सम्राड् इति होवाच ।
वाचा वै सम्राड् बन्धुः प्रज्ञायते ।
ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्यानानीष्टं हुतम् आशितं पायितम् अयं च लोकः परश् च लोकः सर्वाणि च भूतानि वाचैव संराट् प्रज्ञायन्ते ।
वाग् वै सम्राट् परमं ब्रह्म ।
नैनं वाग् जहाति ।
सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति ।
देवो भूत्वा देवान् अप्येति ।
य एवं विद्वान् एतद् उपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति

4.1.3

ब्र्हुप्भ्_4,1.2 किन्तु यत्ते तुभ्यं कश्चिदब्रवीदाचार्यो ऽनेकाचार्यो ऽनेकाचार्यसेवी हि भवांस्तच्छृणवामेति ।
इतर आह - अब्रवदीदुक्तवान्मे ममाऽचार्यो जित्वा नामतः शिलिनस्यापत्यं शैलिनिर्वाग्वै ब्रह्मेति वाग्देवता ब्रह्मेति ।
आहेतपो यथा मातृमान्माता यस्य विद्यते पुत्रस्य सम्यगनुशास्त्र्यनुशासनकर्त्री स मातृमान् ।
अत ऊर्ध्वं पिता यस्यानुशास्ता स पितृमान् ।
उपनयनादूर्ध्वमा समावर्तनादाचार्यो यस्यानुशास्ता स आचार्यवान् ।
एवं शुद्धित्रयहेतुसंयुक्तः स साधादाचार्यः स्वयं न कदाचिदपु प्रामाणाद्व्यभिचरति स यथा ब्रूयाच्छिष्याय तथासौ जित्वा शैलिनिरुक्तवान्वाग्वै ब्रह्मेति ।
अवदतो हि किं स्यादिति ।
न हि मूकस्येहार्थममुत्रार्थं वा किञ्चन स्यात् ।
किन्त्वब्रवीदुक्तवास्ते तुभ्यं तस्य ब्रह्मण आयतनं प्रतिष्ठां च ।
आयतनं नाम शरीरम् ।
प्रतिष्ठा त्रिष्वपि कालेषु य आश्रयः ।
आहेतरो न मे ऽब्रवीदिति ।
इतर आह-यद्येवमेकपाद्वा एतदेकः पादो यस्य ब्रह्मणस्तदिदमेकपाद्ब्रह्म त्रिभिः पादैः शून्यमुपास्यमानमपि न फलाय भवतीत्यर्थः ।
यद्येवं स त्वं विद्वान्सन्नो ऽस्मभ्यं ब्रूहि हे याज्ञवल्क्येति ।
स चाऽह-वागेवाऽयतनं वाग्देवस्य ब्रह्मणो वागेव करणमायतनं शरीरमाकाशो ऽव्याकृताख्यः प्रतिष्ठोत्पत्तिस्थितिलयकालेषु ।
प्रज्ञेत्येनदुपासीत प्रज्ञेतीयमुपनिषद्ब्रह्मणश्चतुर्थः पादः प्रज्ञेति कृत्वैनद्ब्रह्मोपासीत ।
का प्रज्ञता याज्ञवल्क्य कि स्वयमेव प्रज्ञोत प्रज्ञानिमित्तम् ।
यथाऽयतनप्रतिष्ठे ब्रह्मणो व्यतिरिक्ते तद्वत्किम् ।
न, कथ तर्हि, वागेव सम्राडिति होवाच वागेव प्रज्ञेति होवाचोक्तवान्न व्यतिरिक्ता प्रज्ञाति ।
कथं पुनर्वागेव प्रज्ञेति, उच्यते-वाचा वै सम्राड्बन्धुः प्रज्ञायते ऽस्माकं बन्धुरित्युक्ते प्रज्ञायकते बन्धुस्तथर्ग्वैदादि ।
इष्टं यागनिमित्त धर्मजातं हुतं होमनिमित्तं च ।
आशितमन्नदानिमित्तं पायितं पानदाननिमित्तमयं च लोक इदं च जन्म परश्च लोकः प्रतिपत्तव्यं च जन्म सर्वाणि च भूतानि वाचैव सम्राट्प्रज्ञायन्ते ऽतो वाग्वैसम्राट्परमं ब्रह्म नानं यथोक्तब्रह्मविदं वाग्जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति बलिदानादिभिरिह ।
देवो भूत्वा पुनः शरीरपातोत्तरकालं देवानप्येत्यपिगच्छति य एवं विद्वानेतदुपास्ते विद्यानिष्क्रियार्थं हस्तितुल्य ऋषभो हस्त्यृषभो यस्मिन्गोसहस्रेतद्धस्तृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः ।
अननुशिष्य शिष्यं कृतार्थमकृत्वा शिष्याद्धनं न हरेतेति मे मम पितामन्यत ममाप्ययमेवाभिप्रायः ॥4,1.2॥
स्तर्त् ब्र्हुप् 4,1.3
यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति ।
अब्रवीन् म उदङ्कः शौल्बायनः ।
प्राणो वै ब्रह्मेति ।
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच् छौल्बायनो ऽब्रवीत् प्राणो वै ब्रह्मेति ।
अप्राणतो हि किं स्याद् इति ।
अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् ।
न मे ऽब्रवीद् इति ।
एकपाद् वा एतत् सम्राड् इति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
प्राण एवायतनम् आकाशः प्रतिष्ठा ।
प्रियम् इत्य् एनद् उपासीत ।
का प्रियता याज्ञवल्क्य ।
प्राण एव सम्राड् इति होवाच ।
प्राणस्य वै सम्राट् कामायायाज्यं याजयति ।
अप्रतिगृह्यस्य प्रतिगृह्णाति ।
अपि तत्र वधाशङ्का भवति यां दिशम् एति प्राणस्यैव सम्राट् कामाय ।
प्राणो वै सम्राट् परमं ब्रह्म ।
नैनं प्राणो जहाति ।
सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति ।
देवो भूत्वा देवान् अप्येति ।
य एवं विद्वान् एतद् उपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहह् ।
स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति

4.1.4

ब्र्हुप्भ्_4,1.3 यदेव ते कश्चिदब्रवीदुदङ्को नामतः शुल्बस्यापत्यं शौल्बस्यापत्यं शौल्बायनो ऽब्रवीत्प्राणो वै ब्रह्मेति प्राणो वायुर्देवता पूर्ववत् ।
प्राण एवाऽयनमाकाशः प्रतिष्ठोपनिषत्प्रियमित्येनदुपासीत ।
कथं पुनः प्रियत्वं, प्राणस्य वै हे सम्राट्कामाय प्राणस्यार्थायायाज्यं याजयति पतितादिकमप्यप्रतिगृह्यस्याप्युग्रादेः प्रतिगृह्णात्यपि तत्र तस्यां दिशि वधनिमित्तमाशङ्कं वधाशङ्केत्यर्थो यां दिशमेति तस्कराद्याकीर्णां च तस्यां दिशि ब धाशह्का तच्चैतत्सर्वं प्राणस्य प्रियत्वे भवति प्राणस्यैव सम्राट्कामाय ।
तस्मात्प्राणो वै सम्राट्परमं ब्रह्म नैनं प्राणो जहाति ।
समानमन्यत् ॥4,1.3॥
स्तर्त् ब्र्हुप् 4,1.4
यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति ।
अब्रवीन् मे बर्कुर् वार्ष्णः ।
चक्षुर् वै ब्रह्मेति ।
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद् वार्ष्णो ऽब्रवीच् चक्षुर् वै ब्रह्मेति ।
अपश्यतो हि किं स्याद् इति ।
अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् ।
न मे ऽब्रवीद् इति ।
एकपाद् वा एतत् सम्राड् इति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
चक्षुर् एवायतनम् आकाशः प्रतिष्ठा ।
सत्यम् इत्य् एतद् उपासीत ।
का सत्यता याज्ञवल्क्य ।
चक्षुर् एव सम्राड् इति होवाच ।
चक्षुषा वै सम्राट् पश्यन्तम् आहुर् अद्राक्षीर् इति ।
स आहाद्राक्षम् इति तत् सत्यं भवति ।
चक्षुर् वै सम्राट् परमं ब्रह्म ।
नैनम् चक्षुर् जहाति ।
सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति ।
देवो भूत्वा देवान् अप्येति ।
य एवं विद्वान् एतद् उपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति

4.1.5

ब्र्हुप्भ्_4,1.4 यदेव ते कश्चिद्बर्कुरिति नामतो वृष्णस्यापत्यं वार्ष्णश्चक्षुर्वै ब्रह्मेत्यादित्यो देवता चक्षुष्युपनिषत्सत्यम् ।
यस्माच्छ्रोत्रेण श्रुतमनृतमपि स्यान्न तु चक्षुषा दृष्टम् ।
तस्माद्वै सम्राट्पश्यन्तमाहुरद्राक्षीस्त्वं हस्तिनमिति स चेदद्राक्षमित्याहतत्सत्यमेव भवति ।
यस्त्वन्यौ ब्रूयदहमश्रौषमिति ।
तद्व्यभिचरति ।
यत्तु चक्षुषा दृष्टं तदव्यभिचारित्वात्सत्यमेव भवति ॥4,1.4॥
स्तर्त् ब्र्हुप् 4,1.5
यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति ।
अब्रवीन् मे गर्दभीविपीतो भारद्वाजः ।
श्रोत्रं वै ब्रह्मेति ।
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद् भारद्वाजो ऽब्रवीच् छ्रोत्रं वै ब्रह्मेति ।
अशृण्वतो हि किं स्याद् इति ।
अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् ।
न मे ऽब्रवीद् इति ।
एकपाद् वा एतत् सम्राड् इति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
श्रोत्रम् एवायतनम् आकाशः प्रतिष्ठानन्तम् इत्य् एनद् उपासीत ।
कानन्तता याज्ञवल्क्य ।
दिश एव सम्राड् इति होवाच ।
तस्माद् वै सम्राड् अपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छति ।
अनन्ता हि दिशः ।
दिशो वै सम्राट् श्रोत्रम् ।
श्रोत्रं वै सम्राट् परमं ब्रह्म ।
नैनं श्रोत्रं जहाति ।
सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति ।
देवो भूत्वा देवान् अप्येति ।
य एवं विद्वान् एतद् उपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति

4.1.6

ब्र्हुप्भ्_4,1.5 यदेव ते गर्दभीविपीत इति नामतो भारद्वाजो गोत्रतः श्रोत्रं वै ब्रह्मेति ।
श्रोत्रे दिग्देवतानन्त इत्येनदुपासीत ।
कानन्तता श्रोत्रस्य ।
दिश एव श्रोत्रस्याऽनन्त्यं यस्मात्तस्माद्वै सम्राट्प्राचीमुदीचां वा यां काञ्चिदपि दिशं गच्छति नैवास्या अन्तङ्गच्छति कञ्चिदपु ।
अतो ऽनन्ता हि दिशः ।
दिशो वै सम्राट्श्रोत्रम् ।
तस्माद्दिगानन्त्यमेव श्रोत्रस्या ।
षऽनन्त्यम् ॥4,1.5॥
स्तर्त् ब्र्हुप् 4,1.6
यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति ।
अब्रवीन् मे सत्यकामो जाबालः -- मनो वै ब्रह्मेति ।
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तज् जाबालो ऽब्रवीन् मनो वै ब्रह्मेति ।
अमनसो हि किं स्याद् इति ।
अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् ।
न मे ऽब्रवीद् इति ।
एकपाद् वा एतत् सम्राड् इति ।
स वै नो ब्रूहि याज्ञावल्क्य ।
मन एवायतनम् आकाशः प्रतिष्ठानन्द इत्य् एनद् उपासीत ।
कानन्दता याज्ञवल्क्य ।
मन एव सम्राड् इति होवाच मनसा वै सम्राट् स्त्रियम् अभि हार्यति तस्यां प्रतिरूपः पुत्रो जायते ।
स आनन्दः ।
मनो वै सम्राट् परमं ब्रह्म ।
नैनं मनो जहाति ।
सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति ।
देवो भूत्वा देवान् अप्येति ।
य एवं विद्वान् एतद् उपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति

4.1.7

ब्र्हुप्भ्_4,1.6 सत्यकाम इति नामतो जबालाया अपत्यं जाबालः ।
चन्द्रमा मनसि देवता ।
आनन्द इत्युपनिषति ।
यस्मान्मन एवाऽनन्दस्तस्मान्मनसा वै सम्राटस्त्रियमभिकामयमानो ऽभिहार्यते प्रार्थयत इत्यर्थः ।
तस्माद्यां स्त्रियमभिकामयमानो ऽभिहार्यते तस्यां प्रतिरूपो ऽनुरूपः पुत्रो जायते स आनन्दहेतुः स येन मनसा निर्वर्त्यते तन्मन आनन्दः ॥4,1.6॥
स्तर्त् ब्र्हुप् 4,1.7
यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति ।
अब्रवीन् मे विदग्धः शाकल्यः ।
हृदयं वै ब्रह्मेति ।
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच् छाकल्यो ऽब्रवीद् धृदयं वै ब्रह्मेति ।
अहृदयस्य हि किं स्याद् इति ।
अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् ।
न मे ऽब्रवीद् इति ।
एकपाद् वा एतत् सम्राड् इति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
हृदयम् एवायतनम् आकाशः प्रतिष्ठा ।
स्थितिर् इत्य् एनद् उपासीत ।
का स्थितिता याज्ञवल्क्य ।
हृदयम् एव सम्राड् इति होवाच ।
हृदयं वै सम्राट् सर्वेषां भूतानाम् आयतनम् ।
हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा ।
हृदये ह्य् एव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति ।
हृदयं वै सम्राट् परमं ब्रह्म ।
नैनं हृदयं जहाति ।
सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति ।
देवो भूत्वा देवान् अप्येति ।
य एवं विद्वान् एतद् उपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc