बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 3.9
ब्र्हुप्भ्_3,8.12 सा होवाच - हे ब्राह्मणा भगवन्तः शृणुत मदीयं वचः;तदेव बहु मन्येध्वम्;किं तत्? यदस्माद् याज्ञवल्क्यान्नमस्कारेण मुच्येध्वम् - अस्मै नमस्कारं कृत्वा तदेव बहु मन्यध्वमित्यर्थः;जयस्त्वस्य मनसापि न आशंसनीयः, किमुत कार्यतः;कस्मात्? न वै युष्माकं मध्ये जातु कदाचिदपीमं याज्ञवल्क्यं ब्रह्मोद्यं प्रति जेता ।
प्रश्नौ चेनमह्यं वक्ष्यति, न जेता भवितेति पूर्वमेव मया प्रतिज्ञातम्;अद्यापि ममायमेव निश्चयः - ब्रह्मोद्यं प्रत्येतत्तुल्यो न कश्चिद् विद्यत इति ।
ततो ह वाचक्नव्युपरराम ।
अत्र अन्तर्यामिब्राह्मणे एतद् उक्तम् - यं पृथिवी न वेद, यं सर्वाणि भूतानि न विदिरिति च ।
यमन्तर्यामिणं न विदुर्ये च न विदुर्यच्च तदक्षरं दर्शनादक्रियाकर्तृत्वेन सर्वेषां चेतनादिधातुरित्युक्तम्-कस्त्वेषां विशेषः किं वा सामान्यमिति ।
तत्र केचिदाचक्षते-परस्य महासमुद्रस्थानायस्य ब्रह्मणो ऽक्षरस्य अप्रचलितत्वरूपस्येषत्प्रचलितावस्थान्तर्यामी;अत्यन्तप्रचलितावस्था क्षेत्रज्ञः, यस्तं न वेदान्तर्यामिणम्;तथान्याः पञ्चावस्थाः परिकल्पयन्ति, तथा अष्टावस्था ब्रह्मणो भवन्तीति वदन्ति ।
अन्ये ऽक्षरस्य शक्तय एता इति वदन्ति, अनन्तशक्तिमदक्षरमिति च ।
अन्ये त्वक्षरस्य विकारा इति वदन्ति ।
अवस्थाशक्ती तावन्नोपपद्येतो अक्षरस्य, अशनायादिसंसारधर्मातीतत्वश्रुतेः ।
न ह्यशनायाद्यतीतत्वमशनायादिधर्मवदवस्थावत्त्वं चैकस्य युगपदुपपद्यते;तथा शक्तिमत्त्वं च ।
विकारावयवत्वे च दोषाः प्रदर्शिताश्चतुर्थे ।
तस्मादेता असत्याः सर्वाः कल्पनाः ।
कस्तर्हि मेद एषाम्? उपाधिकृत इति ब्रूमः;न स्वत एषां मेदो ऽमेदो वा, सैन्धवघनवत् प्रज्ञानधनैकरसस्वामाव्यात्,"अपूर्वमनपरमनन्तरमबाह्यम्""अयमात्मा ब्रह्म"इति च श्रुतेः ।
"सवाह्याभ्यान्तरो ह्यजः"इति चाथर्वणे ।
तस्मान्निरूपाधिकस्यात्मनो निरूपाख्यात्वान्निर्विशेषत्वादेकत्वाच्च"नेति नेति"इति व्यपदेशो भवति ।
अविद्याकामकर्मविशिष्टकार्यकरणोपाधिरात्मा संसारी जिव उच्यते ।
नित्यनिरतिशयज्ञान शक्त्युपाधिरात्मान्तर्यामीश्वर उच्यते, स एव निरूपाधिः केवलः शुद्वः स्वेन स्वभावेनाक्षरं पर उच्यते, तथा हिरण्यगर्माव्याकृतदेवताजातिपिण्डमनुष्यतिर्यक्प्रेतादिकार्यकरणोपाध् इभिर्विशिष्टस्तदाख्यस्तदरूपो भवति ।
तथा"तदेजति तन्नैजति"इति व्याख्यातम् ।
तथा"एष त आत्मा" "एष सर्वभूतान्तरात्मा" "एष सर्वेषु भूतेषु गूढः" "तत्तवमसि" "अहमेवेदं सर्वम्" "आत्मैवेदं सर्वम्" "नान्यो ऽतो ऽस्ति द्रष्टा"इत्यादिश्रुतयो न विरुध्यन्ते ।
कल्पनान्तरेष्वेताः श्रुतयो न गच्छन्ति ।
तस्मादुपाधिमेदेनैल एषां मेदो नान्यथा ।
ऽएकमेवाद्वितीयम्ऽइत्यवधारणात् सर्वेषनिषत्सु ॥12॥
इति तृतीयाध्यायेष्टममक्षरब्राह्मणम् ॥8॥
अथ हैनं विदग्धः शाकल्यः पप्रच्छ ।
पृथिव्यादीनां सूक्ष्मतारतम्यक्रमेण पूर्वस्य पूर्वस्य उत्तरस्मिन्नुत्तरस्मिन्नोतप्रोतभावं कथयन् सर्वान्तरं ब्रह्म प्रकाशितवान् तस्य च ब्रह्मणो व्याकृतविषये सूत्रमेदेषु नियन्तृत्वमुक्तम्-व्याकृतविषये व्यक्तरं लिङ्गमिति ।
तस्यैव ब्रह्मणः साक्षादपरोक्षत्वे नियन्तव्यदेवतामेदसंकोचविका सद्वारेणाधिगन्तव्ये इति तदर्य शाकल्यब्राह्मणमारम्यते--
स्तर्त् ब्र्हुप् 3,9.1
अथ हैनं विदग्धः शाकल्यः पप्रच्छ -- कति देवा याज्ञवल्क्येति ।
स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्य् उच्यन्ते ।
त्रयश् च त्री च शता त्रयश् च त्री च सहस्रेति ।
ओम् इति होवाच ।
कत्य् एव देवा याज्ञवल्क्येति ।
त्रयस्त्रिंशद् इति ।
ओम् इति होवाच ।
कत्य् एव देवा याज्ञवल्क्येति ।
षड् इति ।
ओम् इति होवाच ।
कत्य् एव देवा याज्ञवल्क्येति ।
त्रय इति ।
ओम् इति होवाच ।
कत्य् एव देवा याज्ञवल्क्येति ।
द्वाव् इति ।
ओम् इति होवाच ।
कत्य् एव देवा याज्ञवल्क्येति ।
अध्यर्ध इति ।
ओम् इति होवाच ।
कत्य् एव देवा याज्ञवल्क्येति ।
एक इति ।
ओम् इति होवाच ।
कतमे ते त्रयश् च त्री च शता त्रयश् च त्री च सहस्रेति
ब्र्हुप्भ्_3,9.1 अथ हैनं विदग्ध इति नामतः शकलस्यापत्यं शाकल्यः पप्रच्छ--कतिसंख्याका देवा हे याज्ञवल्क्येति ।
स याज्ञवल्क्यः, ह किल, एतयैव वक्ष्यमाणया निविदा प्रतिपेदे संख्याम्, यां संख्यां पृष्टवाञ्शाकल्यः ।
यावन्तो यावत्संख्याका देवा वैश्वदेवस्य शस्त्रस्य निविदि-निविन्नाम देवतासंख्यावाचकानि मन्त्रपदानि, कानिचिद् वैश्वदेवे शस्त्रे शस्यन्ते तानि निवित्संज्ञकानि;तस्यां निविदि यावन्तो देवाः श्रूयन्ते तावन्तो देवा इति ।
का पुनः सा निविदिति तानि निवित्पदानि प्रदर्श्यन्ते-त्रयश्च त्री च शता-त्रयश्च देवाः, देवानां त्री च त्रीणि च शतानि;पुनरप्येवं त्रयश्च, त्री च सहस्रा सहस्राण्-एतावन्तो देवा इति शाकल्यो ऽप्योमिति होवाच ।
एवमेषां मध्यमा संख्या सम्यक्तया ज्ञाता, पुनस्तेपामेव देवानां संकोचविषयां संख्यां पृच्छति-कत्येव देवा याज्ञवल्क्येति;त्रयस्त्रिशत;पद, त्रयः, द्वौ, अध्यर्धः, एक इति ।
देवतासंकोचविकासविषयां संख्यां पृष्ट्वा पुनः संख्येयस्वरूपं पृच्छति-कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥1॥
स्तर्त् ब्र्हुप् 3,9.2
स होवाच -- महिमान एवैषाम् एते ।
त्रयस्त्रिंशत् त्व् एव देवा इति ।
कतमे ते त्रयस्त्रिंशद् इति ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्याः त एकत्रिंशद् ऐन्द्रश् चैव प्रजापतिश् च त्रयस्त्रिंशाव् इति
ब्र्हुप्भ्_3,9.2 स होवाचेतरः - महिमानो विभूतयः, एषां त्रयस्त्रिंशतः देवानाम् एते त्रयश्च त्री च शतेत्यादयः;परमार्थतस्तु त्रयस्त्रिंशत्त्वेव देवा इति ।
कतमे ते त्रयस्त्रिंशदित्युच्यते - अष्टौ वसवः एकादश रुद्राः, द्वादश आदित्यास्ते एकत्रिंशत्, इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति त्रयस्त्रिंशतः पूरणौ ॥2॥
स्तर्त् ब्र्हुप् 3,9.3
कतमे वसव इति ।
अग्निश् च पृथिवी च वायुश् चान्तरिक्षं चादित्यश् च द्यौः च चन्द्रमाश् च नक्षत्राणि चैते वसवः ।
एतेषु हीदं सर्वं वसु हितं इति तस्माद् वसव इति
ब्र्हुप्भ्_3,9.3 कतमे वसव इति तेषां स्वरूपं प्रत्येकं पृछ्च्यते;अग्निश्च पृथिवी चेति - अग्न्याद्या नक्षत्रान्तरा एते वसवः - प्राणिनां कर्मफलाश्रयत्वेन कार्यकरणसंघातरूपेण तन्निवासत्वेन च विपरिणमन्तो जगदिदं सर्वं वासयन्ति वसन्ति च;ते यस्माद् वासन्ति तस्मादे वसव इति ॥3॥
स्तर्त् ब्र्हुप् 3,9.4
कतमे रुद्रा इति ।
दशेमे पुरुषे प्राणा आत्मैकादशः ।
ते यदास्माच् छरीरान् मर्त्याद् उत्क्रामन्त्य् अथ रोदयन्ति ।
तद् यद् रोदयन्ति तस्माद् रुद्रा इति
ब्र्हुप्भ्_3,9.4 कतमे रुद्रा इति ।
दशेमे पुरुषे कर्मबुद्धीन्द्रियाणि प्राणाः, आत्मा मन एकादशः - एकादशानां पूरणः ते एते प्राणा यदा अस्माच्छरीरान्मर्त्यात् प्राणिनां कर्मफलपभोगक्षये उत्क्रामन्ति - अथ तदा रोदयन्ति तत्सम्बन्धिनः ।
तत्तत्र यस्माद्रोदयन्ति ते सम्बन्धिनः, तस्माद् रुद्रा इति ॥4॥
स्तर्त् ब्र्हुप् 3,9.5
कतम आदित्या इति ।
द्वादश वै मासाः संवत्सरस्यैत आदित्याः ।
एते हीदं सर्वम् आददाना यन्ति ।
ते यद् इदं सर्वम् आददाना यन्ति तस्माद् आदित्या इति
ब्र्हुप्भ्_3,9.5 कतम आदित्या इति ।
द्वादश वै मासाः संवत्सरस्य कालस्यावयवाः प्रसिद्धाः, एते आदित्याः;कथम्? एते हि यस्मात् पुनः पुनः परिवर्तमानाः प्राणिनामायूंषि कर्मफलं च आददाना गृह्यन्त उपाददतो यन्ति गच्छन्ति ते यद् यस्मादेवमिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥5॥
स्तर्त् ब्र्हुप् 3,9.6
कतम इन्द्रः कतमः प्रजापतिर् इति ।
स्तनयित्नुर् एवेन्द्रो यज्ञः प्रजापतिर् इति ।
कतमः स्तनयित्नुर् इति ।
अशनिर् इति ।
कतमो यज्ञ इति ।
पशव इति
ब्र्हुप्भ्_3,9.6 कतम इन्द्रः कतमः प्रजापतिरिति, स्तनयित्युरेवेन्द्रो यज्ञः प्रजापतिरिति, कतमः स्तनयित्नुरित्यशनिरिति ।
अशनिर्वज्रं वीर्यं बलम्, यत् प्राणिनः प्रमापयति, स इन्द्रः;इन्द्रस्य हि तत् कर्म ।
कतमो यज्ञ इति पशव इति - यज्ञस्य हि साधनानि पशवः;यज्ञस्यारूपत्वात् पशुसाधनाश्रयत्वाच्च पशवो यज्ञ इत्युच्यते ॥6॥
स्तर्त् ब्र्हुप् 3,9.7
कतमे षड् इति ।
अग्निश् च पृथिवी च वायुश् चान्तरिक्षश् चादित्यश् च द्यौश् चैते षट् ।
एते हीदं सर्वं षड् इति
ब्र्हुप्भ्_3,9.7 कतमे षडिति;त एवाग्न्यादयो वसुत्वेन पठिताश्चन्द्रमसं नक्षत्राणि च वर्जयित्वा षड् भवन्ति - षटसंख्याविशिष्टाः, त्रयस्त्रिंशदादि यदुक्तमिदं सर्वम्, एत एव षड् भवन्ति सर्वो हि वस्वादिविस्तर एतेष्वेव षटस्वन्तर्भवतीत्यर्थः ॥7॥
स्तर्त् ब्र्हुप् 3,9.8
कतमे ते त्रयो देवा इति ।
इम एव त्रयो लोकाः ।
एषु हीमे सर्वे देवा इति ।
कतमौ तौ द्वौ देवा इति ।
अन्नं चैव प्राणश् चेति ।
कतमो ऽध्यर्ध इति ।
यो ऽयं पवत इति
ब्र्हुप्भ्_3,9.8 कतमे ते त्रयो देवा इति;इम एव त्रयो लोका इति - पृथिवीमग्निं चैकोकृत्यैको देवः, अन्तरिक्षं वायुं चैकीकृत्य तृतीयः - ते एव त्रयो देवा इति ।
एषु. हि यस्मात्, त्रिषु देवेषु सर्वे देवा अन्तर्भवन्ति तेन त एव देवास्त्रयः - इत्येष नैरुक्तानां केषाञ्चित् पक्षः ।
कतमौ तौ द्वौ देवाविति - अन्नं चैव प्राणश्चैतौ द्वौ देवौ, अनयोः सर्वेषामुक्तानामन्तर्भावः ।
कतमो ऽध्यर्घ इति - यो ऽयं पवते वायुः ॥8॥
स्तर्त् ब्र्हुप् 3,9.9
तद् आहुर् यद् अयम् एक इवैव पवते ।
अथ कथम् अध्यर्ध इति ।
यद् अस्मिन्न् इदं सर्वम् अध्यार्ध्नोत् तेनाध्यर्ध इति ।
कतम एको देव इति ।
प्राण इति ।
स ब्रह्म त्यद् इत्य् आचक्षते
ब्र्हुप्भ्_3,9.9 तत्तत्राहुश्चोदयन्ति - यदयं वायुरेक इवैव एक एव पवते ;अथ कथमध्यर्ध इति? यदस्मिन्निदं सर्वमध्यार्ध्नोत्-अस्मिन् वायौ सतीदं सर्वमध्यार्ध्नोदधि ऋद्धिं प्राप्नोति, तेनाध्यर्ध इति ।
कतम एको देव इति? प्राण इति स प्राणो ब्रह्म-सर्वदेवात्मकत्वान्महद् ब्रह्म, तेन स ब्रह्म त्यदित्याचक्षते-त्यदिति तद् ब्रह्माचक्षते परोक्षामिधायकेन शब्देन ।
देवानामेतदेकत्वं नानात्वं च ।
अनन्तानां देवानां निवित्संख्याविशष्टेष्वन्तर्भावः, तेषामपि त्रयास्त्रिशदादिपूत्तरोत्तरेषु यावदेकस्मिन् प्राणे ।
प्राणस्यैव चैकस्य सर्वो ऽनन्तसङ्ख्यातो विस्तरः ।
एवमेकश्चानन्तश्च अवान्तरसंख्याविशिष्टश्च प्राण एव ।
तत्र च देवस्यैकस्य नामरूपकर्नगुणशक्तिमेदः, अधिकारमेदात् ॥9॥
इदानीं तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा मेद उपदिश्यते-
स्तर्त् ब्र्हुप् 3,9.10
पृथिव्य् एव यस्यायतनम् अग्निर् लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ ।
य एवायं शारीरः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
अमृतम् इति होवाच
ब्र्हुप्भ्_3,9.10 पृथिव्येव यस्य देवस्यायतनमाश्रयः, अग्निर्लोको यस्य - लोकयत्यनेनेति लोकः, पश्यतीति - अग्निना पश्यतीत्यर्थः ।
मनोज्योतिः मनसा ज्योतिषा संकल्पविकल्पादिकार्यं करोति यः, सो ऽयं मनोज्योतिः ।
पृथिवीशरीरो ऽग्निदर्शनो मनसा संकल्पयिता पृथिव्यभिमानी कार्यकरणसंघातवान् देव इत्यर्थः ।
य एवं विशिष्टं वै तं पुरुषं विद्याद् विजानीयात् सर्वस्यात्मन आध्यात्मिकस्य कार्यकरणसंघातस्य आत्मनः परमयनं पर आश्रयस्तं परायणम् ।
मातृजेन त्वङ्मांसरुधिररूपेण क्षेत्रस्थानीयेन बीजस्थानीयस्य पितृजस्य अस्थिमज्जाशुक्ररूपस्य परमयनम्, करणात्मनश्च, स वै वेदिता स्यात् ।
य एतदेवं वेत्ति स वै वेदिता पण्डितः स्यादित्याभिप्रायः ।
याज्ञवल्क्य त्वं तमजानन्नेव पण्डिताभिमानीत्यमिप्रायः ।
यदि तद्विज्ञाने पाण्डित्यं लभ्यते, वेद वै अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ यं कथयसि तमहं वेद ।
तत्र शाकल्यस्य वचनं द्रष्ट्यम्-यदि त्वं वेत्थ तं पुरुषम्, ब्रूहिकिंविशेषणो ऽसौ? सः-य एवायं शारीरः- पार्धिवांशे शरीरे भवः शारीरो मातृजकोशत्रयरूप इत्यर्थः, स ए, देवः, यस्त्वया पृष्टः, हे शाकल्य ।
किन्त्वस्ति तत्र वक्तव्यं विशेषणान्तरम्, तद् वदैव पृच्छैवेत्यर्थः, हे शाकल्य ।
स एवं प्रक्षोभितो ऽमर्पवशग आह-तोत्त्रादिन्त इव गजः- तस्य देवस्य शरीरस्य का देवता? यस्मान्निष्पद्यते यः सा तस्य देवतेत्यस्मिन् प्रकरणे विवक्षितः;अमृतमिति होवाच ।
अमृतमिति यो भुक्तस्यान्नस्य रसो मातृजस्य लोहितस्य निष्पत्तिहेतुः ।
तस्माद्वयन्नरसाल्लोहितं निष्पद्यते स्त्रियां श्रितम्, ततश्च लोहितमयं शरीरं बीजाश्रयम् ।
समानमन्यत् ॥10॥
स्तर्त् ब्र्हुप् 3,9.11
काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ ।
य एवायं काममयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
स्त्रिय इति होवाच
ब्र्हुप्भ्_3,9.11 काम एव यस्यायतनम् ।
स्त्रीव्यतिकाराभिलाषः कामः कामशरीर इत्यर्थः ।
ह्रदयं लोकोह्रदयेन बुद्वया पश्यति ।
य एवायं काममयः पुरुषो ऽध्यात्ममपि काममय एव ।
तस्य का देवतेति स्त्रिय इति होवाच;स्त्रीतो हि कामस्य दीप्तिर्जीयते ॥11॥
स्तर्त् ब्र्हुप् 3,9.12
रूपाण्य् एव यस्यायतनं चक्षुर् लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ ।
य एवासाव् आदित्ये पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
सत्यम् इति होवाच
ब्र्हुप्भ्_3,9.12 रूपाण्येव यस्यायतनम् ।
रूपाणि शुक्लकृष्णादीनि ।
य एवासावादित्ये पुरुषः- सर्वेषां हि रूपाणां विशिष्टं कार्यमादित्ये पुरुषः तस्य का देवतेति? सत्यामिति होवाच ।
सत्यामिति चक्षुरुच्यते, चक्षुषो ह्यव्यात्मतः आदित्यस्याधिदैवतस्य निष्पत्ति ॥12॥
स्तर्त् ब्र्हुप् 3,9.13
आकश एव यस्यायतनं श्रोत्रं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ ।
य एवायम् श्रौतः प्रातिश्रुत्कः पुरुषः स एष ।
वदैव शाकल्य तस्य का देवतेति ।
दिश इति होवच
ब्र्हुप्भ्_3,9.13 आकाश एव यस्यायतनम् य एवायं श्रोत्रो भवः श्रोत्रः, तत्रापि प्रतिश्रवणवेलायां विशेषतो भवतीति प्रातिश्रुत्कः, तस्य कादेवतेति? दिश इति होवाच ।
दिग्भ्यो ह्यसावाध्यात्मिको निष्पद्यते ॥13॥
स्तर्त् ब्र्हुप् 3,9.14
तम एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ ।
य एवायं छायामयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
मृत्युर् इति होवाच
ब्र्हुप्भ्_3,9.14 तम एव यस्यायतनम् ।
तम इति शार्वद्यन्धकारः परिगृह्यते ।
अध्यात्मं छायामयो ऽज्ञानमयः पुरुषः ।
तस्य का देवतेति? मृत्युरिति होवाच ।
मृत्युरपिदैवतं तस्य निष्पत्तिकारणम् ॥14॥
स्तर्त् ब्र्हुप् 3,9.15
रूपाण्य् एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ ।
य एवायम् आदर्शे पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
सत्यम् इति होवाच
ब्र्हुप्भ्_3,9.15 रूपाण्येव यस्यायतनम् ।
पूर्व साधारानि रूपाण्युक्तानि, इह तु प्रकाशकानि विशिष्टानि रूपाणि गृह्यन्ते ।
रूपायतनस्य देवस्य विशेषायतनं प्रतिबिम्बाधारमादर्शादि तस्य का देवतेति? असुरिति होवाच ।
तस्य प्रतिबिम्बाख्यस्य पुरुषस्य निष्पत्तिरसोः प्राणात् ॥15॥
स्तर्त् ब्र्हुप् 3,9.16
आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ ।
य एवायं अप्सु पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
वरुण इति होवाच
ब्र्हुप्भ्_3,9.16 आप एव यस्य आयतनम् ।
साधारणाः सर्वा आप आयतनं वापीकूपतडागाद्याश्रयास्वप्सु विशेषावस्थानम् ।
तस्य का देवतेति? वरुण इति;वरुणात् सङ्घातकर्ञ्योध्यात्ममाप एव वाप्याद्यपं निष्पत्तिकारणम् ॥16॥
स्तर्त् ब्र्हुप् 3,9.17
रेत एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ ।
य एवायं पुत्रमयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
प्रजापतिर् इति होवाच
ब्र्हुप्भ्_3,9.17 रेत एव यस्यायतनम् ।
य एवायं पुत्रमयो विशेणायतनं रेत आयतनस्य, पुत्रस्य इति च अस्थिमञ्जाशुकाणि पितुर्जातानि ।
तस्य का देवतेति? प्रजापतिरिति होवाच ।
प्रज्ञापतिः पितोच्यते, पितृतो हि पुत्रस्योत्पत्तिः ॥17॥
अष्टका देवलोकपुरुषभेदेन त्रिधा त्रिधा आत्मानं प्रविभज्यावस्थित एकैको देवः प्राणभेद एवोपासनार्थ व्यपदिष्टः ।
अधुना दिग्विभागेन पञ्चधा प्रविभक्तस्य आत्मानयुपसंहारार्थमाह ।
तूष्णीम्भूतं शाकल्यं याज्ञवल्क्यो ग्रहेणेवावेशयन्नाह -
स्तर्त् ब्र्हुप् 3,9.18
शाकल्येति होवाच याज्ञवल्क्यः ।
त्वां स्विद् इमे ब्राह्मणा अङ्गारावक्षयणम् अक्रता3 इति
ब्र्हुप्भ्_3,9.18 शाकल्येति होवाच याज्ञवल्क्यः ।
त्वां स्विदिति वितर्के, इमे नूनं ब्राह्मणाः, अङ्गारावक्षणम् - अङ्गारा अवक्षीयन्ते यस्मिन् सन्दंशादौ तदङ्गारावक्षणम् - तदा नूनं त्वामक्रत कृतवन्तो ब्राह्मणाः, त्वं तु तन्न बुध्यसे आत्मानं मया दह्यमानम् इत्यभिप्रायः ॥18॥
स्तर्त् ब्र्हुप् 3,9.19
याज्ञवल्क्येति होवाच शाकल्यः ।
यद् इदं कुरुपञ्चालानां ब्राह्मनान् अत्यवादीः किं ब्रह्म विद्वान् इति ।
दिशो वेद सदेवाः सप्रतिष्ठा इति ।
यद् दिशो वेत्थ सदेवाः सप्रतिष्ठाः
ब्र्हुप्भ्_3,9.19 याज्ञवल्क्येति होवाच शाकल्यः - यदिदं कुरुषञ्चलानां ब्राह्मणानत्यवादीः - अत्युक्तवानसि - स्वयं भीतास्त्वामङ्गारावक्षयणं कृतवन्त इति - किं ब्रह्म विद्वान् सन्नेवमधिक्षिपसि ब्राह्मणान्? याज्ञवल्क्य आह - ब्रह्म विज्ञानं तावदिदं मम, किं तत्? दिशो वेद दिग्विषयं विज्ञानं जाने ।
तच्च न क्वलं दिश, एव, सदेवा देवैः सह दिगधिष्ठातृभिः, किञ्च सप्रतिष्ठिताः प्रतिष्ठाभिश्च सह ।
इतर आह - यद् यदि दिशो वेत्थ सदेवाः, सप्रतिष्ठा इति, सफलं यदि विज्ञानं त्वया प्रतिज्ञातम् ॥19॥
स्तर्त् ब्र्हुप् 3,9.20
किंदेवतो ऽस्यां प्राच्यां दिश्य् असीति ।
आदित्यदेवत इति ।
स आदित्यः कस्मिन् प्रतिष्ठित इति ।
चक्षुषीति ।
कस्मिन् नु चक्षुः प्रतिष्ठितम् इति ।
रूपेष्व् इति ।
चक्षुषा हि रूपाणि पश्यति ।
कस्मिन् नु रूपाणि प्रतिष्ठितानीति ।
हृदय इति होवाच ।
हृदयेन हि रूपाणि जानाति ।
हृदये ह्य् एव रूपाणि प्रतिष्ठितानि भवन्तीति ।
एवम् एवैतद् याज्ञवल्क्य
ब्र्हुप्भ्_3,9.20 किन्देवतः का देवतास्य तव दिग्भृतस्य ।
असौ हि याज्ञवल्क्यो हृदयमात्मानं दिक्षु पञ्चधा विभक्तं दिगात्मभूतम्, तद्द्वारेण सर्वं जगदात्मत्वेनोपगम्य, अहमस्मि दिगात्मेति व्यवस्थितः पूर्वाभिमुखः - सप्रतिष्ठावचनाद्, यथा याज्ञवल्क्यस्य प्रतिज्ञा तथैव पृच्छति - किन्देवतस्त्वमस्यां दिश्यसीति ।
सर्वत्र हि वेदे यां यां देवताद्वपास्ते, इहैव तद्भूतस्तां तां प्रतिपद्यत इति;तथा च वक्ष्यति -ऽदेवो भूत्वा देवानप्येतिऽ(बृ.उ.4 । 1 । 2) इति ।
अस्यां प्राच्यां का देवता दिगात्मनस्तवाधिष्ठात्री, कया देवतया त्वं प्रापीदिग्रूपेण सम्पन्न इत्यर्थः ।
इतर आह - आदित्यदेवत इति ।
प्राच्यां दिशि मम आदित्यो देवता, सो ऽहमादित्यदेवतः ।
सदेवा इत्येतदुक्तम्, सप्रतिष्ठा इति तु वक्तव्यमित्याह - स आदित्यः कस्मिन् प्रतिष्ठित इति? चक्षुषीति ।
अध्यात्मतश्चक्षुष आदित्यो निष्पन्न इति हि मन्त्रब्राह्मणवादाः -"चक्षोः सूर्यो अजायत" (यजु.31 । 12) "चक्षुष आदित्यः"(ऐ.उ.1 । 4) इत्यादयः ।
कार्यं हि कारणे प्रतिष्ठितं भवति ।
कस्मिन्नु चक्षुः प्रतिष्ठितमिति? रूपेष्विति;रूपग्रहणाय हि रूपात्मकं चक्षु रूपेण प्रयुक्तम्;यैर्हि रूपैः प्रयुक्तं तैरात्मग्रहणायारब्धं चक्षुः सह प्राच्या दिशा सह तत्स्थैः सर्वै रूपेषु प्रतिष्ठितम् ।
चक्षुषा सह प्राची दिक् सर्वे रूपभूता, तानि च कस्मिन्नु रूपाणि प्रतिष्ठितानीति? हृदय इति होवाच ।
हृदयारब्धानि रूपाणि ।
रूपाकारेण हि हृदयं परिणतम् ।
यस्माद् हृदयेन हि रूपाणि सर्वो लोको जानाति ।
हृदयमिति बुद्धिमनसो एकीकृत्य निर्देशः, तस्माद् हृदये ह्येव रूपाणि प्रतिष्ठितानि ।
हृदयेन हि स्मरणं भवति रूपाणां वासनात्मनाम्;तस्माद् हृदये रूपाणि प्रतिष्ठितानि इत्यर्थः ।
एवमेवैतद् याज्ञवल्क्य ॥20॥
स्तर्त् ब्र्हुप् 3,9.21
किंदेवतो ऽस्यां दक्षिणायां दिश्य् असीति ।
यमदेवत इति ।
स यमः कस्मिन् प्रतिष्ठित इति ।
यज्ञ इति ।
कस्मिन् नु यज्ञः प्रतिष्ठित इति ।
दक्षिणायाम् इति ।
कस्मिन् नु दक्षिणा प्रतिष्ठितेति ।
श्रद्धायाम् इति ।
यदा ह्य् एव श्रद्धत्ते ऽथ दक्षिणां ददाति ।
श्रद्धायां ह्य् एव दक्षिणा प्रतिष्ठितेति ।
कस्मिन् नु श्रद्धा प्रतिष्ठितेति ।
हृदय इति होवाच ।
हृदयेन हि श्रद्धाम् ।
हृदये ह्य् एव श्रद्धा प्रतिष्ठिता भवतीति ।
एवम् एवैतद् याज्ञवल्क्य
ब्र्हुप्भ्_3,9.21 किन्देवतो ऽस्यां दक्षिणायां दिश्यसीति पूर्ववत् ।
दक्षिणायां दिशि का देवता तत्र? यमदेवत इति, यमो देवता मम दक्षिणादिग्भूतस्य ।
स यमः कस्मिन् प्रतिष्ठित इति? यज्ञ इति - यज्ञे कारणे प्रतिष्ठितो यमः सह दिशा ।
कथं पुनर्यज्ञस्य कार्यं यमः? इत्युच्यते - ऋत्विग्भिर्निष्पादितो यज्ञो दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेनाभिजयति ।
तेन यज्ञे यमः कार्यत्वात् प्रतिष्ठितः सह दक्षिणया दिशा ।
कस्मिन्नु यज्ञः प्रतिष्ठित इति? दक्षिणायामिति - दक्षिणया स न ष्क्रीयते, तेन दक्षिणाकार्यं यज्ञः ।
कस्मिन्नु दक्षिणा प्रतिष्ठितेति? श्रद्धायामिति - श्रद्धा नाम दित्सुत्वम् आस्तिक्यबुद्धिभक्तिसहिता ।
कथं तस्यां प्रतिष्ठिता दक्षिणा? यस्माद् यदा ह्येव श्रद्धत्ते ऽथ दक्षिणां ददाति;नाश्रद्दधद् दक्षिणां ददाति;तस्माच्छ्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति ।
कस्मिन्नु श्रद्धा प्रतिष्ठितेति? हृदय इति होवाच - हृदयस्य हि वृत्तिः श्रद्धा यस्मात्, हृदयेन हि श्रद्धां जानाति, वृत्तिश्च वृत्तिमति प्रतिष्ठिता भवति ।
तस्माद् हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति ।
एवमेवैतद् याज्ञवल्क्य ॥21 ॥ ॥
स्तर्त् ब्र्हुप् 3,9.22
किंदेवतो ऽस्यां प्रतीच्यां दिश्य् असीति ।
वरुणदेवत इति ।
स वरुणः कस्मिन् प्रतिष्ठित इति ।
अप्स्व् इति ।
कस्मिन् न्व् आपः प्रतिष्ठिता इति ।
रेतसीति ।
कस्मिन् नु रेतः प्रतिष्ठितम् इति ।
हृदय इति ।
तस्माद् अपि प्रतिरूपं जातम् आहुर् हृदयाद् इव सृप्तो हृदयाद् इव निर्मित इति ।
हृदये ह्य् एव रेतः प्रतिष्ठितं भवतीति ।
एवम् एवैतद् याज्ञवल्क्य
ब्र्हुप्भ्_3,9.22 किन्गदेवतो ऽस्यां प्रतीच्यां दिश्यसीति? तस्यां वरुणो ऽधिदेवता मम ।
स वरुणः कस्मिन् प्रतिष्ठित इति? अप्स्विति - अपां हि वरुणः कार्यम्,"श्रद्धा वा आपः" "श्रद्धातो वरुणमसृजत"इति श्रुतेः ।
कस्मिन्न्वापः प्रतिष्ठिता इति? रेतसीति -"रेतसो ह्यापः सृष्टाः"इति श्रुतेः ।
कस्मिन्नि रेतः प्रतिष्ठितमिति? हृदय इति - यस्माद् हृदयस्य कार्यं रेतः ।
कामो हृदयस्य वृत्तिः कामिनो हि हृदयाद्रेतो ऽधिस्कन्दति ।
तस्मादपि प्रतिरूपमनुरूपं पुत्रं जातमाहुर्लोकिकाः - अस्य पितुर्हृदयादिवायं पुत्रः सुप्तो विनिःसृतः, हृदयादिव निर्मितो यथा सुवर्णेन निर्मितः कुण्डलः ।
तस्मात् हृदये ह्येव रेतः प्रतिष्ठितं भवतीति ।
एवमेवैतत् याज्ञवल्क्य ॥22..॥
स्तर्त् ब्र्हुप् 3,9.23
किंदेवतो ऽस्याम् उदीच्यां दिश्य् असीति ।
सोमदेवत इति ।
स सोमः कस्मिन् प्रतिष्ठित इति ।
दीक्षायाम् इति ।
कस्मिन् नु दिक्षा प्रतिष्ठितेति ।
सत्य इति ।
तस्माद् अपि दीक्षितम् आहुः सत्यं वदेति ।
सत्ये ह्य् एव दीक्षा प्रतिष्ठितेति ।
कस्मिन् नु सत्यं प्रतिष्ठितम् इति ।
हृदय इति होवाच ।
हृदयेन हि सत्यं जानाति ।
हृदये ह्य् एव सत्यं प्रतिष्ठितं भवतीति ।
एवम् एवैतद् याज्ञवल्क्य
ब्र्हुप्भ्_3,9.23 किन्देवतो ऽस्यामुदीच्यां दिश्यसीति? सोमदेवत इति - सोम इति लतां सोमं देवतां चैकीकृत्य निर्देशः ।
स सोमः कस्मिन् प्रतिष्ठित इति? दीक्षायामिति - दीक्षितो हि यजमानः सोमं क्रीणाति, क्रीतेन सोमेनेष्ट्वा ज्ञानवानुत्तरां दिशं प्रतिपद्यते सोमदेवताधिष्ठितां सौम्याम् ।
कस्मिन्नु दीक्षा प्रतिष्ठितेति!सत्य इति;कथम्? यस्मात् सत्ये दीक्षा प्रतिष्ठिता, तस्मादपि दीक्षितमाहुः - सत्यं वदेति;कारणभ्रेषो कार्यभ्रेषो मा भूदिति;सत्ये ह्येव दीक्षा प्रतिष्ठितमिति? हृदय इति होवाच;हृदयेन हि सत्यं जानाति;तस्माद् हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति ।
एवमेवैतद् याज्ञवल्क्य ॥23॥
स्तर्त् ब्र्हुप् 3,9.24
किंदेवतो ऽस्यां ध्रुवायां दिश्य् असीति ।
अग्निदेवत इति ।
सो ऽग्निः कस्मिन् प्रतिष्ठित इति ।
वाचीति ।
कस्मिन् नु वाक् प्रतिष्ठितेति ।
हृदय इति ।
कस्मिन् नु हृदयं प्रतिष्ठितम् इति
ब्र्हुप्भ्_3,9.24 किन्देवतो ऽस्यां दिश्यसीति ।
मेरोः समन्ततो वसतामव्यभिचारादूर्ध्वा दिग् ध्रुवेत्युच्यते ।
अग्निदेवत इति - ऊर्ध्वायां हि प्रकाशभूयस्त्वम्, प्रकाशश्चाग्निः ।
सो ऽग्निः कस्मिन् प्रतिष्ठित इति? वाचीति ।
कस्मिन्नि वाक् प्रतिष्ठितेति? हृदय इति ।
तत्र याज्ञवल्क्यः सर्वासु दिक्षु विपसृतेन हृदयेन सर्वां दिश आत्मत्वेनाभिसम्पन्नः;सदेवाः सप्रतिष्ठिता दिश आत्मभूतास्तस्य नामरूपकर्मात्मभूतस्य याज्ञवल्क्यस्य ।
यद् रूपं तत् प्राच्या दिशा सह हृदयभूतं याज्ञवल्क्यस्य ।
यत् केवलं कर्म पुत्रोत्पादनलक्षणं च यानसहितं च सहफेनाधिष्ठात्रीभिश्च देवताभिर्दक्षिणाप्रतीच्युदीच्यः कर्मफलात्मिका हृदयमेव आपन्नास्तस्य, ध्रुवया दिशा सह नाम सर्वं वाग्द्वारेण हृदयमेव आपन्नम् ।
एतावद्धीदं सर्वम्, यदुत रूपं वा कर्म वा नाम वेति तत् सर्वं हृदयमेव, तत् सर्वात्मकं हृदयं पृच्छ्यते - कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥24॥
स्तर्त् ब्र्हुप् 3,9.25
अहल्लिकेति होवाच याज्ञवल्क्यः ।
यत्रैतद् अन्यत्रास्मन् मन्यासै ।
यद् ध्य् एतद् अन्यत्रास्मत् स्याच् छ्वानो वैनद् अद्युर् वयांसि वैनद् विमथ्नीरन्न् इति
ब्र्हुप्भ्_3,9.25 अहल्लिकेति होवाच याज्ञवल्क्यः, नामान्तरेण सम्बोधनं कृतवान् ।
यत्र यस्मिन्काले, एतद् हृदयमात्मास्य अस्मदस्मत्तो वर्तत इति मन्यासै मन्यसे - यद्धि यदि ह्येतद् हृदयमन्यत्रास्मत् स्याद् भवेत्, श्वानौ वैनच्छरीरं तदा अद्युः, वयांसि वा पक्षिणो वैनद् विमथ्नीरन् विलोडयेयुः विकर्पेरन्निति ।
तस्मान्मयि शरीरे हृदयं प्रतिष्ठितमित्यर्थः ।
शरीरस्यापि नामरूपकर्मात्मकत्वात् हृदये प्रतिष्ठितत्वम् ॥25॥
हृदयशरीरस्योरेवमन्येन्यप्रतिष्ठोक्ता कार्यकरणयोः अतस्त्वां पृच्छामि -
स्तर्त् ब्र्हुप् 3,9.26
कस्मिन् नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति ।
प्राण इति ।
कस्मिन् नु प्राणः प्रतिष्ठित इति ।
अपान इति ।
कस्मिन् न्व् अपानः प्रतिष्ठित इति ।
व्यान इति ।
कस्मिन् नु व्यानः प्रतिष्ठित इति ।
उदान इति ।
कस्मिन् नूदानः प्रतिष्ठित इति ।
समान इति ।
स एष नेति नेत्य् आत्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न सज्यते ।
असितो न व्यथते ।
न रिष्यति ।
एतान्य् अष्टाव् आयतनान्य् अष्टौ लोका अद्द्. अष्टौ देवा अष्टौ पुरुषाः ।
स यस् तान् पुरुषान् निरुह्य प्रत्युह्यात्यक्रामत् तं त्वौपनिषदं पुरुषं पृच्छामि ।
तं चेन् मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति ।
तं ह न मेने शाकल्यस् ।
तस्य ह मूर्धा विपपात ।
अपि हास्य परिमोषिणो ऽस्थीन्य् अपजह्रुर् अन्यन् मन्यमानाः
ब्र्हुप्भ्_3,9.26 कस्मिन्नु त्वं च शरीरमात्मा च तव हृदयं प्रतिष्ठितौ स्थ इति? प्राण इति;देहात्मानौ प्राणे प्रतिष्ठितौ स्यातां प्राणवृत्तौ ।
कस्मिन्नु प्राणाः प्रतिष्ठित इति अपान इति - सापि प्राणवृत्तिः प्रागेव प्रेयात् अपानवृत्त्या चेन्न निगृह्येत ।
कस्मिन्न्वपानः प्रतिष्ठित इति? व्यान इति - साप्यपानवृत्तिरध एव यायात् प्राणवृत्तिश्च प्रागेव, मध्यस्थया चेद्व्यानवृत्त्या न निगृह्येत ।
कस्मिन्नु व्यानः प्रतिष्ठित इति? उदान इति - सर्वास्तिस्रो ऽपि वृत्तय उदाने कीलस्थानीये चेन्न निरुद्धा, विष्वगेवेयुः ।
कस्मिन्नूदानः प्रतिष्ठित इति? समान इति - समानप्रतिष्ठा ह्येताः सर्वा वृत्तयः ।
एतदुक्तं भवति - शरीरहृदयवायवो ऽन्योन्यप्रतिष्ठाः, सङ्घातेन निषता वर्तन्ते विज्ञानमयार्थप्रयुक्ता इति ।
सर्वमेतद् येन नियतं यस्मिन् प्रतिष्ठितमाकाशान्तमोतं च प्रोतं च, तस्य निरुपाधिकस्य साक्षादपरोक्षाद् ब्रह्मणो निर्देशः कतव्य इत्ययमारम्भः ।
स एषः - सयो नेतिनेतीति निर्दिष्टो मधुकाण्डे, एष सः ।
सो ऽयमात्मागृह्यो न गृह्यः ।
कथम्? यस्मात् सर्वकार्यधर्मातीतः, तस्मादगृह्यः ।
कुतः? यस्मान्न हि गृह्यते ।
यद्धि करणगोचरं व्याकृतं वस्तु, तद् ग्रहणगोचरम्. इदं तु तद्विपरीतमात्मतत्त्वम् ।
तथाशीर्यः;यद्धि मूर्तं संहतं शरीरादि तच्छीर्यते;अयं तु तद्विपरीतो ऽतो न हि शीर्यते ।
तथासङ्गो मूर्तो मूर्तान्तरेण सम्बध्यमानः सज्यते ऽयं च तद्विपरीतो ऽतो न हि सज्यते ।
तथासितो ऽबद्धः, यद्धि मूर्त तद् वध्यते;अयं तु तद्विपरीतत्वादबद्धत्वान्न व्यथते, अतो न रिष्यति - ग्रहणविशरणसम्बन्धकार्यधर्मरहितत्वान्न रिष्यति न हिंसामापद्यते न विनश्यतीत्यर्थः ।
क्रममतिक्रम्य औपनिषदस्य पुरुषस्य आख्यायिकातो ऽपसृत्य श्रुत्या स्वेन रूपेण त्वरया निर्देशः कृतः, ततः पुनराख्यायिकामेवाश्रित्याह - एतानि यान्युक्तान्यष्टावायतनानिऽपृथिव्येव यस्यायतनम्ऽइत्येवमादीनि, अष्टौ लोका अग्निलोकादयः, अष्टौ देवाः अमृतमिति होवाच इत्येवमादयः, अष्टौ पुरुषाः शरीरः पुरुषः, इत्यादयः, स यः कश्चित् तान् पुरुषाञ्शारीरप्रभृतीन् निरुह्य निश्चयेनोह्य गर्मयित्वाष्टचतुष्कभेदेन लोकस्थितिमुपपाद्यः, पुनः प्राचीदिगादिद्वारेण प्रत्युह्य उपसंहृत्य स्वात्मनि हृदये ऽत्यक्रामदतिक्रान्तवानुपाधिधर्म हृदयाद्यात्मत्वम्;स्वेनैवात्मना व्यवस्थितो य औपनिषदः पुरुषो ऽशनायादिवर्जितः उपनिषत्स्वेव विज्ञेयो नान्यप्रमाणगम्यः, तं त्वा त्वां विद्याभिमानिनं पुरुषं पृच्छामि ।
तं चेद् यदि मे न विवक्ष्यसि विस्पष्टं न कथयिष्यसि, मूर्धा ते विपतिष्यतीत्याह याज्ञवल्क्यः ।
तं त्वौपनिषदं पुरुषं शाकल्यो न मेने ह न विज्ञातवान् किल तस्य ह मूर्धा विपपात विपतितः ।
समाप्ताख्यायका ।
श्रुतेवचनं तं ह न मेन इत्यादि ।
किं चापि हास्य परिमोषिणस्तस्करा अस्थीन्यपि संस्कारार्थ शिष्येनीयमानानि गृहान् प्रत्यपजहः-अपह्रतवन्तः किन्निमित्तम्? अन्यद् धनं नीयमानं मन्यमानाः ।
पूर्ववृत्ता ह्याख्यायिकेह सूचिता ।
अष्टाध्याय किल शाकल्येन याज्ञवल्क्यस्य समानान्त एव किल संवादो निवृत्तः;तत्र याज्ञवल्क्येन शापो दत्तः-पुरे ऽतिथ्ये मरिष्यसि न ते ऽस्थीनि च न गृहान् प्राप्स्यन्तीति ।
स ह तथैव ममार ।
तस्य हाप्यन्वः मन्यमानाः परिमोषिणो ऽथीन्यपजहः;तस्मान्नोपवादी स्यादुत ह्येवंवित् परो भवतीति ।
सैपा आख्यायिका आचारार्थ सूचिता विद्यास्तुतये चेह ॥26॥
यस्य नेति, नेतीत्यन्यप्रतिषेधद्वारेण ब्रह्मणो निर्देशः कृतः, तस्य विधिमुखेन कथं निर्देशः कर्तव्यः, इति पुनराख्यायिकामेव आश्रित्याह मूलं च जगतो वक्तव्यमिति ।
आख्यायिकासम्बन्धस्त्वव्रह्यविदो ब्राह्मणाञ्जित्वा गोधनं इर्तव्यमिति ।
न्यायं मत्वाह--
स्तर्त् ब्र्हुप् 3,9.27
अथ होवाच -- ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु ।
सर्वे वा मा पृच्छत ।
यो वः कामयते तं वः पृच्छामि सर्वान् वा वः पृच्छामीति ।
ते ह ब्राह्मणा न दधृषुः
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0