भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 3.7

3.7.1

ब्र्हुप्भ्_3,6.1 अथ हैनं गार्गी नामतः, वाचक्नवीवचक्रोर्दुहिता, पप्रच्छ;याज्ञवल्क्येति होवाच;यदिदं सर्वं पार्थिवं धातुजातम् अप्सूदके ओतं च प्रोतं च, ओतं दीर्घपटतन्तुवत् प्रोतं तिर्यक्तन्तुवद् विपरीतं वा-अद्भिः सर्वतो ऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः, अन्यथा सक्तुमुष्टिवद् विशीर्येत ।
इदं तावदनुमानमुपन्यस्तम्-यत् कार्यं परिच्छिन्नं स्थूलम्, कारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमितिद् दष्टम्-यथा पृथिवी अद्भिः, तथापूर्वं पूर्वमुत्तरेणोत्तरेण व्यापिना भवितव्यम्, इत्येष आ सर्वान्तरादात्मनः प्रश्नार्थः ।
तत्र भूतानि पञ्च संहतान्येवोत्तरमुत्तरं सूक्षमभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते, न च परमात्मनोर्ऽवाक् तद्वयतिरेकेणवस्त्वन्तरमस्ति"सत्यस्य सत्यम्"इति श्रुतेः ।
सत्यं च भूतपञ्चकम् सत्यस्य सत्यं च पर आत्मा ।
कस्मिन्नु खल्वाप ओताश्चप्रोताश्चेति-तासामपि कार्यत्वात् स्थूलत्वात् परिच्छिन्नत्वाच्च कचिद्वि ओतप्रोतभावेन भवितव्यम्;क्व तासामेतयोतभाव इति ।
एवमुतरोत्तरप्रक्षणसङ्गोयोजयितव्यः ।
वायौ गार्गीति ।
नन्वग्नाविति वक्तव्यम्!नैप दोषः, अग्नेः पार्थिवं वा आप्यं वा धातुमनाश्रित्य इतरभूतवत् स्वातन्त्र्येण आत्मलाभो नास्तीति तस्मिन्नोतप्रोतभावो नोपदिश्यते ।
कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति तान्येव भूतानि संहतान्यन्तरिक्षलोकाः, तान्यपि गन्धर्वलोकेषु, गन्धर्वलोका आदित्यलोकेषु, आदित्यलोकाश्चन्द्रलोकेषु, चन्द्रलोका नक्षत्रलोकेषु, नक्षत्रलोका देवलोकेषु, देवलोका इन्द्रलोकेषु, इन्द्रलोका विराट्शरीरारंमकेषु भूतेषु प्रजापतिलोकेषु, प्रजापतिलोका ब्रह्मलोकेषु ।
ब्रह्मलोका नाम अण्डारंमकाणि भूतानि;सर्वत्र हि सूक्ष्मतारतम्यक्रमेण प्राप्युभोगाश्रयाकारपरिणतानि भूतानि संहतानि तान्येव पञ्चेति बहुवचनमाञ्जि ।
कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति-स होवाच याज्ञवल्क्यो हे गार्गी मातिप्राक्षीः स्वं प्रश्नम्, न्यायप्रकारमतीत्य आगमेन प्रष्टब्यां देवतामनुमानेन मा प्राक्षीरित्यर्थः, पृच्छन्त्याश्च मा ते तव मूर्धा शिरो व्यपतद् विस्पष्टं पतेत्;देवतायाः स्वप्रश्न आगमविषयः;तं प्रश्नविषयमतिक्रान्तो गार्ग्याः प्रश्नः;आनुमानिकत्वात् स यस्या देवतायाः प्रश्नः सातिप्रश्न्या, नातिप्रश्न्यानतिप्रश्न्या, स्वप्रश्रविषयैव, केवलागमगम्येत्यर्थः, तामनतिप्रश्न्यां वै देवतामतिपृच्छसि ।
अतो गार्गि मातिप्राक्षीः, मर्तुं चेन्नेच्छसि ।
ततो ह गार्गी वाचक्नवी उपरराम ॥1॥
इति तृतीयाध्याये षष्ठं गार्गीब्राह्मणम् ॥6॥
इदानीं ब्रह्मलोकानामन्तरतमं सूत्रं व क्तव्यमिति तदर्थ आरम्भः, तच्च आगमेनैव प्रष्टव्यमितीतिहासेन आगमोपन्यासः क्रियते--
स्तर्त् ब्र्हुप् 3,7.1
अथैनम् उद्दालक आरुणिः पप्रच्छ -- याज्ञवल्क्येति होवाच ।
मद्रेष्व् अवसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञम् अधीयानाः ।
तस्यासीद् भार्या गन्धर्वगृहीता ।
तम् अपृच्छाम -- को ऽसीति ।
सो ऽब्रवीत् कबन्ध आथर्वण इति ।
सो ऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश् च -- वेत्थ नु त्वं काप्य तत् सूत्रं यस्मिन्न् अयं च लोकः परश् च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति ।
सो ऽब्रवीत् पतञ्चलः काप्यो नाहं तद् भगवन् वेदेति ।
सो ऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश् च ।
वेत्थ नु त्वं काप्य तम् अन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्य् अन्तरो यमयति ।
सो ऽब्रवीत् पतञ्चलः काप्यो नाहं तं भगवन् वेदेति ।
सो ऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश् च ।
यो वै तत् काप्य सूत्रं विद्यात् तं चान्तर्यामिणम् इति स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स आत्मवित् स सर्ववित् ।
इति तेभ्यो ऽब्रवीत् ।
तद् अहं वेद ।
तच् चेत् त्वं याज्ञवल्क्य सूत्रम् अविद्वांस् तं चान्तर्यामिणं ब्रह्मगवीर् उदजसे मूर्धा ते विपतिष्यति ।
वेद वा अहं गौतम तत् सूत्रं तं चान्तर्यामिणम् इति ।
यो वा इदं कश्च ब्रूयाद् वेद वेदेति यथा वेत्थ तथा ब्रूहीति

3.7.2

ब्र्हुप्भ्_3,7.1 अथ हैनमुद्दालको नामतः, अरुणस्यापत्यमारुणिः पप्रच्छ;याज्ञवल्क्येति होवाच;मद्रेषु देशेष्ववसामोषितवन्तः, पतञ्चलस्य-पतञ्चलो नामतस्तस्यैव कपिगोत्रस्य काप्यस्य गृहेषु यज्ञमधीयाना यशशास्त्राध्ययनं कुर्वाणाः ।
तस्यासीद् भार्या गन्धर्वगृहीता;तमपृच्छाम-को ऽसीति;सो ऽब्रवीत् कबन्धो नामतः, अथर्वणो ऽपत्यमाथर्वण इति ।
सो ऽब्रवीद् गान्धर्वः पतञ्चलं काप्यं याज्ञिकांश्च तच्छिप्यान्-वेत्थ नु त्वं हे काप्य जानीषे तत् सूत्रम्? किं तत्? येन सूत्रेणायं च लेक इदं च जन्म, परश्च लोकः परं च प्रतिपत्तव्यं जन्म, सर्वाणि च भूतानि ब्रह्मादिस्तम्बपर्यन्तानि, सन्दृब्धानि सङ्ग्रथितानि स्रगिव सूत्रेण विष्टब्धानि भवन्ति येन-तत् किं सूत्रं वेत्थ? सो ऽब्रवीदेवं पृष्टः काप्यः-नाहं तद् भगवन् वेदेति, तत् सूत्रं नाहं जाने हे भगवन्निति सम्पूजयन्नाह ।
सो ऽब्रवीत् पुनर्गन्धर्व उपाध्यायमस्मांश्च-वेत्थ न त्वं काप्य तमन्तर्यामिणम्? अन्तर्यामीति विशेष्यते-य इमं च लोकं परं च लोकं सर्वाणि च भूतानि यो ऽन्तराभ्यन्तरः सन् यमयति नियमयति, दारुयन्त्रमिव ब्रामयति, स्वं स्वमुचितव्यापारं कारयतीति ।
सो ऽब्रवीदेवमुक्तः पतञ्चलः काप्यः-नाहं तं जाने भगवन्निति सम्पूजयन्नाह ।
सो ऽब्रवीत् पुनर्गन्धर्वः;सूत्रतदन्तर्गतान्तर्यामिणोर्विज्ञानं स्तूयते-यः कश्चिद् वै तत् सूत्रं हे काप्य बविद्याद् विजानीयात् तं चान्तर्यामिणं सूत्रान्तर्गतं तस्यैव सूत्रस्य नियन्तारं विद्यात् यः-इत्येवमुक्तेन प्रकारेण, स हि ब्रह्मवित परमात्मवित् स लोकांश्च भूरादीनन्तर्यामिणा नियम्यमानांल्लोकान् वेत्ति, स देवांश्चाग्न्यादींल्लोकिनो जानाति, वेदांश्च सर्वप्रमाणभूतान् वेत्ति, भूतानि च ब्रह्मादीनि सूत्रेण धियमाणानि तदन्तर्गतेनान्तर्यामिणा नियम्यमानानि वेत्ति, स आत्मानं च कर्तृत्वभोक्तृत्वविशिष्टं तेनैवान्तर्यामिणा नियम्यमानं वेत्ति, सर्वं च जगत तथाभूतं वेत्तीति ।
एवं स्तुते सूत्रान्तर्यामिविज्ञाने प्रलुब्धः काप्यो ऽभिमुखीभूतः, वयं च;तेभ्यश्चास्मभ्यमभिमुखीभूतेभ्योब्रवीद् गन्धर्वः सूत्रमन्तर्यामिणं च;तदहं सूत्रानितर्यामिविज्ञानं वेद गन्धर्वाल्लब्धागमः सन् ।
तच्चेद् याज्ञवल्क्य सूत्रं तं चान्तर्यामिणमविद्वांश्चेब्रह्मवित् सन् यदि ब्रह्मगवीरुदजतसे ब्रह्मविदां स्वभूता गा उदजसे उन्नयसि त्वम् अन्यायेन, ततो मच्छापदग्धस्य मूर्धा शिरस्ते तव विस्पष्टं षतिष्यति ।
एवमुक्तो याज्ञवल्क्य आहवेद जानाम्यहं हे गौतमेति गोत्रतः, तत् सूत्रं यद् गन्धर्वस्तुभ्यमुक्तवान् यं चान्तर्यामिणं गन्धर्वाद् विदितवन्तो यूयम्, तं चान्तर्यामिणं वेदाहमिति ।
एवमुक्तो प्रत्याह गौतमः-यः कश्चित् प्राकृत इदं यत्तवयोक्तं ब्रूयात्-कथम्? वेद वेदेति-आत्मानं श्लाघयन्, किं तेन गर्जितेन कार्येण दर्शय;यथा वेत्य तथा ब्रूहीति ॥1॥
स्तर्त् ब्र्हुप् 3,7.2
स होवच -- वायुर् वै गौतम तत् सूत्रम् ।
वायुना वै गौतम सूत्रेणायं च लोकः परश् च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति ।
तस्माद् वै गौतम पुरुषं प्रेतम् आहुर् व्यस्रंसिषतास्याङ्गानीति ।
वायुना हि गौतम सूत्रेण सम्दृब्धानि भवन्तीति ।
एवम् एवैतद् याज्ञवल्क्य ।
अन्तर्यामिणं ब्रूहीति

3.7.3

ब्र्हुप्भ्_3,7.2 स होवाच याज्ञवल्क्यः ।
ब्रह्मलोका यस्मिन्नोताश्च प्रोताश्च वर्तमानेकाले, यथा पृथिव्यप्सु, तत् सूत्रम् आगमगम्यं वत्तव्यमिति तदर्थं प्रश्नान्तरमुत्थापितम्;अतस्तन्निर्णयायाह-वायुर्वै गौतम तत् सूत्रम्, नान्यत्;वायुरिति सूक्ष्ममाकाशवद्विष्टम्भकं पृथिव्यादीनाम्, यदात्मकं सप्तदशविधं लिङ्गं कर्मवासनासमवायि प्राणिनाम्, यत्तत् समष्टिव्यष्ट्यात्मकम्, यस्य बाह्या मेदाः सप्तसप्त मरुद्रणाः समुद्रस्येवोर्मयः, तदेतद् वायव्यं तत्त्वं सूत्रामित्यभिधीयते ।
वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति सङ्प्रथितानि भवन्तीति प्रसिद्धमेतत् ।
अस्ति च लोके प्रसिद्धिः, कथम्? यस्माद् वायुः सूत्रम्, वायुना विधृतं सर्वम्, तस्माद् वै गौतम पुरुषं प्रेतमाहुः कथयन्ति - व्यस्रंसिपत विस्रस्तान्यस्यपुरुषस्याङ्गानीति;सूत्रापगमे हि मण्यादीनां प्रोतानि यद् यस्याङ्गानि स्युस्ततो युक्तमेतद् वाय्वपगमे ऽवस्रंसनमङ्गानाम् अतो वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीति निगमयति ।
एवमेवैतद् याज्ञवल्क्य सम्यगुक्तं सूत्रम्;तदन्तर्गतं त्विदानीं तस्यैव सूत्रस्य नियन्तारमन्तर्यामिणं ब्रूहीत्युक्त आह ॥2॥
स्तर्त् ब्र्हुप् 3,7.3
यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.4

ब्र्हुप्भ्_3,7.3 यः पृथिव्यां तिष्ठन् भवति, सो ऽन्तर्यामी, सर्वः पृथिव्यां तिष्ठतीति सर्वत्र प्रसङ्गो मा भूदिति विशिनष्टि - पृथिव्या अन्तरो ऽभ्यन्तरः ।
तत्रैतत् स्यात् पृथिवीदेवतैव अन्तर्यामीत्यत आह - यमन्तर्यामिणं पृथिवी देवतापि न वेद मय्यन्यः कश्चिद्वर्तत इति ।
यस्य पृथिवी शरीरम्-यस्य च पृथिव्येव शरीरम्, नान्यत्-पृथिवीदेवताया यच्छरीरम्, तदेव शरीरं यस्य, शरीरग्रहणं चोपलक्षणार्थम्, करणं च पृथिव्याः, तस्य स्वकर्मप्रयुक्तं हि कार्यं च पृथिवीदेवतायाः, तदस्य स्वकर्माभावादन्तर्यामिणो नित्यमुक्तत्वात् ।
परार्थकर्तव्यतास्वभावत्वात् परस्य यत् कार्यं करणं च तदेवास्य, न स्वतः, तदाह-यस्य पृथिवी शरीरमिति ।
देवताकार्यकरणस्येश्वरसाक्षिमात्रसान्निध्येन हि नियमेनप्रवृत्तिनिवृत्ती स्याताम्;य ईदृगीश्वरो नारायणाख्यः, पृथिर्वी पृथिवीदेवताम्, यमयति नियमयति स्वव्यापारे, अन्तरो ऽभ्यन्तरस्तिष्ठन्, एष त आत्मा, ते तव, मम च सर्वभूतानां चेत्युपलक्षणार्थमेतत्;अन्तर्यामी यस्त्वयापृष्टः, अमृतः सर्वसंसारधर्मवर्जित इत्येतत् ॥3॥
स्तर्त् ब्र्हुप् 3,7.4-14
यो ऽप्सु तिष्ठन्न् अद्भ्यो ऽन्तरो यम् आपो न विदुर् यस्यापः शरीरं यो ऽपो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.5

यो ऽग्नौ तिष्ठन्न् अग्नेर् अन्तरो यम् अग्निर् न वेद यस्याग्निः शरीरं यो ऽग्निम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.6

यो ऽन्तरिक्षे तिष्ठन्न् अन्तरिक्षाद् अन्तरो यम् अन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं यो ऽन्तरिक्षम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.7

यो वायौ तिष्ठन् वायोर् अन्तरो यं वायुर् न वेद यस्य वायुः शरीरं यो वायुम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.8

यो दिवि तिष्ठन् दिवो ऽन्तरो यं द्यौर् न वेद यस्य द्यौः शरीरं यो दिवम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.9

य आदित्ये तिष्ठन्न् आदित्याद् अन्तरो यम् आदित्यो न वेद यस्यादित्यः शरीरं य आदित्यम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.10

यो दिक्षु तिष्ठन् दिग्भ्यो ऽन्तरो यं दिशो न विदुर् यस्य दिशः शरीरं यो दिशो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.11

यश् चन्द्रतारके तिष्ठञ् चन्द्रतारकाद् अन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश् चन्द्रतारकम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.12

य आकाशे तिष्ठन्न् आकाशाद् अन्तरो यम् आकाशो न वेद यस्याकाशः शरीरं य आकाशम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.13

यस् तमसि तिष्ठंस् तमसो ऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस् तमो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.14

यस् तेजसि तिष्ठंस् तेजसो ऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस् तेजो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.15

ब्र्हुप्भ्_3,7.4-14 समानमन्यत् ।
यो ऽप्सु तिष्ठन्-अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि तद्विपरीते प्रकाशसामान्ये इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु ।
अथाधिभूतं भूतेषु ब्रह्मदिस्तम्बपर्यन्तेषु अन्तर्यामिदशनमधिभूतम् ॥ 4 -14 ॥
स्तर्त् ब्र्हुप् 3,7.15-23
अथाधिभूतम् ।
यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो ऽन्तरो यं सर्वाणि भूतानि न विदुर् यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्य् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ।
इत्य् अधिभूतम्

3.7.16

अथाध्यात्मम् । यः प्राणे तिष्ठन् प्राणाद् अन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणम् अन्तरो यमयति एष त आत्मान्तर्याम्य् अमृतः

3.7.17

यो वाचि तिष्ठन् वाचो ऽन्तरो यं वाङ् न वेद यस्य वाक् शरीरं यो वाचम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.18

यश् चक्षुषि तिष्ठञ् चक्षुषो ऽन्तरो यं चक्षुर् न वेद यस्य चक्षुः शरीरं यश् चक्षुर् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.19

यः श्रोत्रे तिष्ठञ् छ्रोत्राद् अन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.20

यो मनसि तिष्ठन् मनसो ऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.21

यस् त्वचि तिष्ठंस् त्वचो ऽन्तरो यं त्वङ् न वेद यस्य त्वक् शरीरं यस् त्वचम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.22

यो विज्ञाने तिष्ठन् विज्ञानाद् अन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः

3.7.23

यो रेतसि तिष्ठं रेतसो ऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ।
अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञतो विज्ञाता ।
नान्यो ऽतो ऽस्ति द्रष्टा नान्यो ऽतो ऽस्ति श्रोता नान्यो ऽतो ऽस्ति मन्ता नान्यो ऽतो ऽस्ति विज्ञाता ।
एष त आत्मान्तर्याम्य् अमृतः ।
अतो ऽन्यद् आर्तम् ।
ततो होद्दालक आरुणिर् उपरराम

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc