बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 3.6
ब्र्हुप्भ्_3,5.1 वन्धनं सप्रयोजकमुक्तम् ।
यश्च बद्धस्तस्याप्यस्तित्वमधिगतं व्यतिरिक्तत्वं च ।
तस्येदानीं बन्धमोक्षसाधनं ससंन्यासमात्मज्ञानं वक्तव्यमिति कहोलप्रश्न आरभ्यते-अथ हैनं कहोलो नामतः कुषीतकस्यापत्यं कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाचेति पूर्ववत् ।
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
यं विदित्वा बन्धनात्प्रमुच्यते ।
याज्ञवल्क्य आह-एष ते तवाऽत्मा ।
किमुषस्तकहोलाभ्यामेक आत्मा पृष्टः किंवा भिन्नावात्मानौ तुल्यलक्षणाविति ।
भिन्नाविति युक्तं प्रश्नयोरपुनरुक्तत्वोपपत्तेः ।
यदि ह्येक आत्मोषस्तकहोलप्रश्नयोर्विवक्षितस्तत्रैकेनैव प्रश्नेनाधिगतत्वात्तद्विषयो द्वितोयः प्रश्नो ऽनर्थकः स्यात् ।
न चार्थवादरूपत्वं वाक्यस्य ।
तस्माद्भिन्नावेतावात्मानौ क्षेत्रज्ञपरमात्माख्याविति केचिद्व्याचक्षते ।
तन्न ।
त इति प्रतिज्ञानात् ।
एष त आत्मेति हि प्रतिवचने प्रतिज्ञातम् ।
न चैकस्य कार्यकरणसंघातस्य द्वावात्मानावुपपद्येते ।
एको हि कार्यकरणसंघात एकेनाऽत्मनाऽत्मवान् ।
न चोषस्तस्यान्यः कहोलस्यान्यो जातितो भिन्न आत्मा भवति ।
द्वयोरगौणत्वात्मत्वसर्वान्तरत्वानुपपत्तेः ।
यद्येकमगौणं ब्रह्म द्वयोरितरेणवश्यं गौणेन भवितव्यं तथाऽत्मत्वं सर्वान्तरत्वं च ।
विरुद्धत्वात्पदार्थानाम् ।
यद्येकं सर्वान्तरं ब्रह्माऽत्मा मुख्य इतरेणासर्वान्तरेणानात्मनामुख्येनावश्यं भवितव्यम् ।
तस्मादेकस्यैव द्विःश्रवणं विशेषविवक्षया ।
यत्तु पूर्वोक्तेन समानं द्वितीये प्रश्नान्तर उक्तं तावन्मात्रं पूर्वस्यैवानुवादस्तस्यैवानुक्तः कश्चिद्विशेषो वक्तव्य इति ।
कः पुनरसौ विशेष इति ।
उच्यते-पूर्वस्मिन्प्रश्ने ऽस्ति व्यतिरिक्त आत्मा यस्यायं सप्रयोजको बन्ध उक्त इति ।
द्वितीये तु तस्यैवाऽत्मनो ऽशनायादिसंसारधर्मातीतत्वं विशेष उच्यते ।
यद्विशेषपरिज्ञानात्संन्याससहितात्पूर्वोक्ताद्वन्धनाद्विमुच्यते ।
तस्मत्प्रश्नप्रतिवचनयोरेष त आत्मेत्येवमन्तयोस्तुल्यार्थतैव ।
ननु कथमेकस्यैवाऽत्मनो ऽशनायाद्यतीतत्वं तद्वत्वं चेति विरुद्धधर्मसमवायित्वमिति ।
न ।
परिहृतत्वात् ।
नामरूपविकरकार्यकरणलक्षणसंघातोपाधिभेदसंपर्कजनितभ्रान्तिमात्रं हि संसारित्वमित्यसकृदवोचाम ।
विरुद्धश्रतिव्याख्यानप्रसङ्गेन च ।
यथा रज्जुशुक्तिकागगनादयः सर्परजतमलिना भवन्ति पराध्यारोपितधर्मविशिष्टाः स्वतः केवला एव रज्जुशुक्तिकागगनादयः ।
न चैवं विरुद्धधर्मसमवायित्वे पदार्थानां कश्चन विरोधः ।
नामरूपोपाध्यस्तित्वे"एकमेवाद्वितीयम्" "नेह नानास्ति किञ्चन"इति श्रुतयो विरुध्येरन्निति चेत् ।
न ।
सलिलफेनदृष्टान्तेन परिहृतत्वान्मृदादिहष्टान्तैश्च ।
यदा तु परमार्थदृष्ट्या परमात्मतत्त्वाच्छ्रत्यनुसारिभिरन्यत्वेन निरुप्यमाणे नामरूपे मृदादिविकारवद्वस्त्वन्तरे तत्त्वतो न स्तः सलिलफेनघटादिविकारवदेव तदा तदपेक्ष्यऽएकमेवाद्वितीयंऽनेह नानास्ति किञ्चने त्यदिपरमार्थदर्शनगोचरत्वं प्रतिपद्यते ।
यदा तु स्वाभाविक्याविद्यया ब्रह्मस्वरूपं रज्जुशुक्तिकागगनस्वरूपवदेव स्वेन रूपेण वर्तमानं केनचिदस्पृष्टस्वभावमपि सन्नामरूपकृतकार्यकरणोपाधिभ्यो विवेकेन नावधायते नामरूपोपाधिदृष्टिरेव च भवति स्वाभाविकी तदा सर्वो ऽयं वस्त्वन्तरास्तित्वव्यवहारः ।
अस्ति चायं भेदकृतो मिथ्याव्यवहारो येषां ब्रह्मतत्त्वादन्यत्वेन वस्तु विद्यते येषां च नास्ति ।
परमार्थवादिभिस्तु श्रुत्यनुसारेण निरूप्यमाणे वस्तुनि किं तत्त्वतो ऽस्ति वस्तु किंवा नास्तीति ब्रह्मैकमेवाद्वितीयं सर्वसंव्यहारशून्यमिति निर्धार्यते तेन न कश्चिद्विरोधः ।
नहि परमार्थावधारणनिष्ठायां वस्त्वन्तरास्तित्वं प्रतिपद्यामहे ।
"एकमेवाद्वितीयम्" "अनन्तरमबाह्यम्"इति श्रुतेः ।
न च नामरूपव्यवहारकाले त्वविवेकिनां क्रियाकारकफलादिसंव्यवहारो नास्तीति प्रतिषिध्यते ।
तस्माज्ज्ञानाज्ञाने अपेक्ष्य सर्वः संव्यवहारः ज्ञास्त्रीयो लौकिकश्च ।
अतो न काचन विरोधशङ्का ।
सर्ववादिनामप्यपरिहार्यः परमार्थसव्यवहारकृतो व्यवहारः ।
तत्र परमार्थात्मस्वरूपमपेक्ष्य प्रश्नः पुनः कतमो याज्ञवल्क्य सर्वान्तर इति ।
प्रत्याहेतरो यो ऽशनायापिपासो ।
अशितुमिच्छाशनाया पातुमिच्छा पिपासा ।
ते अशनायापिपासे यो ऽत्येतीति वक्ष्यमाणेन सम्बन्धः ।
अविवेकिभिस्तलमलवदिव गगनं गम्यमानमेव तलमले अत्येति परमार्थतस्ताभ्यामसंसृष्टस्वभावत्वात् ।
तथा मूढैरशनायापिपासादिमद्ब्रह्म गम्यमानमपि क्षुधितो ऽहं पिपासितो ऽहमिति ते अत्येत्येव परमार्थतस्ताभ्यामसंसृष्टस्वभावत्वात् ।
"न लिप्यते लोकदुःखेन बाह्यः"इति श्रुतेः ।
अविद्वल्लोकाध्यारोपितदुःखेनेत्यर्थः ।
प्राणैकधर्मत्वात्समासकरणमशनायापिपासयोः ।
शोकं मोहं शोक इति कामः ।
इष्टं वस्तूद्दिश्य चिन्तयतो यदरमणं तत्तृष्णाभिभूतस्य कामबीजं तेन हि कामो दीप्यते ।
मोहस्तु वपरीतप्रत्ययप्रभवो ऽविवेको भ्रमः ।
स चाविद्या सर्वस्यानर्थस्य प्रसवबीजम् ।
भिन्नकार्यत्वात्तयोः शोकमोहयोरसमासकरणम् ।
तौ मनोधिकरणौ ।
तथा शरीराधिकरणौ जरां मृत्युं चात्येति ।
जरेति कार्यकरणसंघातविपरिणामो वलीपलितादिलिङ्गः ।
मृत्युरिति तद्विच्छेदो विपरिणामावसानः ।
तौ जरामृत्यू शरीराधिकरणावत्येति ।
ये ते ऽशनायादयः प्राणमनःशरीराधिकरणाः प्राणिष्वनवरतं वर्तमाना अहोरात्रादिवत्समुद्रोर्मिवच्च प्राणिषु संसार इत्युच्यते ।
यो ऽसौ दृष्टेर्द्रष्टेत्यादिलक्षणः साक्षादव्यवहितो ऽपरोक्षादगौणः सर्वान्तर आत्मा ब्रह्मादिस्तम्बपर्यन्तानां भूतानामशनायापिपासादिभिः संसारधर्मैः सदा न स्पृश्यत आकाश इव घनादिमलैः ।
तमेतं वा आत्मानं स्वं तत्त्वं विदित्वा ज्ञात्वायमहमस्मि परं ब्रह्म सदा सर्वसंसारविनिर्मुक्तं नित्यतृप्तमिति ब्राह्मणाः ।
ब्राह्मणानामेवाधिकारो व्युत्थाने ऽतो ब्राह्मणग्रहणम् ।
व्युत्थाय वैपरीत्येनोत्थानं कृत्वा ।
कुत इत्याह-पुत्रैषणायाः पुत्रार्थैषणा पुत्रैषणा ।
पुत्रेणेमं लोकं जयेयमिति लोकजयसाधनं पुत्रं प्रतीच्छैषणा दारसंग्रहः ।
दारसंग्रहमकृत्वेत्यर्थः ।
वित्तैषणायाश्च कर्मसाधनस्य गवादेरुपादानमनेन कर्म कृत्वा पितृलोकं जेष्यामीति विद्यासंयुक्तेन वा देवलोकं केवलया वा हिरण्यगर्भविद्यया दैवेन वित्तेन देवलोकम् ।
दैवाद्वित्ताद्व्युत्थानमेव नास्तीति केचित् ।
यस्मात्तद्वलेन हि किल व्युत्थानमिति ।
तदसत् ।
एतावान्वै काम इति पठितत्वादेषणामध्ये दैवस्य वित्तस्य ।
हिरण्यगर्भादिदेवाताविषयैव विद्या चित्तमित्युच्यते ।
देवलोकहेतुत्वात् ।
नहि निरुपाधिकप्रज्ञानघनविषया ब्रह्मविद्या देवलोकप्राप्तिहेतुः ।
"तस्मात्तत्सर्वमभवत्" "आत्मा ह्येषां स भवति"इति श्रुतेः ।
तद्बलेन हि व्युत्थानम् ।
"एतं वै तमात्मानं विदित्वा"इति विशेषवचनात् ।
तस्मात्त्रिभ्यो ऽप्यतेभ्यो ऽनात्मलोकप्राप्तिसाधनेभ्य एषणाविषयेभ्यो व्युत्थाय ।
एषणा कामः"एतावान्वै कामः"इति श्रुतेः ।
एतस्मिस्त्रिविधे ऽनात्मलोकप्राप्तिसाधने तृष्णामकृत्वेत्यर्थः ।
सर्वा हि साधनेच्छा फलेच्छैव ।
अतो व्याचष्टे-श्रुतिरेकैवैषणेति ।
कथम्? या ह्येव पुत्रैषणा सा वित्तैषणा ।
दृष्टफलसाधनत्वतुल्यत्वात् ।
या वित्तैषणा सा लोकैषणा फलार्थैव सा ।
सर्वः फलार्थप्रयुक्त एव हि सर्वं साधनमुपादत्ते ।
अत एकैवैषणा या लोकैषणा सा साधनमन्तरेण सम्पादयितुं न शक्यत इति साध्यसाधनभेदेनोभे हि यस्मादेते एषणे एव भवतः ।
तस्माद्ब्रह्मविदो नास्ति कर्म कर्मसाधनं वा ।
अतो ये ऽतिक्रान्ता ब्राह्मणाः सर्व कर्म कर्मसाधनं च सर्व देवपितृमानुषनिमित्तं यज्ञोपवीतादि तेन हि दैवं पित्र्यं मानुषं च कर्म क्रियते"निवीतं मनुष्याणाम्"इत्यादिश्रुतेः ।
तस्मात्पूर्व ब्राह्मणा ब्रह्मविदो व्युत्थाय कर्मभ्यः कर्मसाधनेभ्यश्च यज्ञोपवीतादिभ्यः परमहंसपारिव्राज्यं प्रतिपद्य भिक्षाचर्य चरन्ति भिक्षार्थ चरणं भिक्षाचर्य चरन्ति त्यक्त्वा स्मार्त लिङ्गं केवलमाश्रममात्रशरणानां जीवनसाधनं परिव्राज्यव्यञ्जकम् ।
विद्धांल्लिङ्गवर्जितः ।
"तस्मादलिङ्गो धर्मज्ञो ऽव्यक्तलिङ्गो ऽव्यक्ताचारः"इत्यादिस्मृतिभ्यः ।
"अथ परिव्र डविवर्णवासा मुण्डो ऽपरिग्रहः" इत्यादिश्रुतेः ।
"सशिखान्केशान्निकृत्य विसृज्य यज्ञोपवीतमि"ति च ।
ननु व्युत्थायाथ भिक्षाचर्य चरन्तीति वर्तमानापदेशादर्थवादो ऽयं न विधायकः प्रत्ययः कश्चिच्छ्रूयते लिङ्लोट्तव्यानामन्यतमो ऽपि ।
तस्मादर्थवादमात्रेण श्रुतिस्मृतिविहितानां यज्ञोपवीतादोनां साधनानां न शक्यते परित्यागः कारयितुम् ।
यज्ञोपवीत्येवाधयीत याजयेद्यजेत वा ।
पारिव्राज्ये तावदध्ययनं विहितम्- "वेदसंन्यसनाच्छूद्रस्तस्माद्वेदं न संन्यसेत्"इति ।
"स्वाध्याय एवोत्सृजमानो वाचम्"इति चाऽपस्तम्बः ।
"ब्रह्मोज्झं वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः ।
गर्हितान्नाद्ययोर्जग्धिः सुरापानसम्नि षट्" ॥
इति वेदपरित्यागे दोषश्रवणात् ।
"उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यादि"ति परिव्राजकधर्मेषु च गुरूपासनस्वाध्यायभोजनाचमानादीनां कर्मणां श्रुतिस्मृतिषुकर्तव्यतया चोदितत्वाद्गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात्तत्परित्यागो नैवावगन्तुं शक्यते ।
यद्यप्येषणाभ्यो व्युत्थानं विधीयत एव तथापि पुत्राद्येषणाभ्यस्तिसृभ्य एव व्युत्थानं न तु सर्वस्मात्कर्मणः कर्मसाधनाच्च व्युत्थानम् ।
सर्वपरित्यागे चाश्रुतं कृतं स्याच्छुतं च यज्ञोपवीतादि हापितं स्यात् ।
तथा च महानपराधो विहिताकरणप्रतिषिद्धाचरणनिमित्तः कृतः स्यात् ।
तस्माद्यज्ञोपवीतादिलिङ्गपरित्यागो ऽन्धपरम्परैव ।
न ।
"यज्ञोपवीतं वेदांश्च सर्व तद्वर्जयेद्यतिः"इति श्रुतेः ।
अपि चाऽत्मज्ञानपरत्वात्मर्वस्या उपनिषदः ।
आत्मा द्रष्टव्यः श्रोतव्यो मन्तव्य इति हि प्रस्तुतं स चाऽत्मैव साक्षादपरोक्षात्सर्वान्तरो ऽशनायादिसंसारधर्मवर्जित इत्येवं विज्ञेय इति तावत्प्रसिद्धम् ।
सर्वा हीयमुपनिषदेवंपरेति विध्यन्तरशेषत्व तावन्नास्त्यतो नार्थवादः ।
आत्मज्ञानस्य कर्तव्यत्वात् ।
आत्मा चाशनायादिधर्मवान्न भवतीति साधनफलविलक्षणो ज्ञातव्यः ।
अते ऽव्यतिरेकेणाऽत्मनो ज्ञानमविद्या ।
"अन्यो ऽसावन्यो ऽहमस्मीति न स वेद" "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति""एकधैवानुद्रष्टव्यम्""एकमेवाद्वितीयम्" "तत्त्वमसि"इत्यादिश्रुतिभ्यः ।
क्रियाफलं साधनं चाशनायादिसंसारधर्मातीतादात्मनो ऽन्यदविद्याविषयम् ।
"यत्र हि द्वैतमिव भवति" "अन्यो ऽसावन्यो ऽहमस्मीति न स वेद" "अथ ये ऽन्यथातो विदुः"इत्यादिवाक्यशतेभ्यः ।
न च विद्याविद्ये एकस्य पुरुषस्य यह भवतो विरोधात्तमः प्रकाशाविव ।
तस्मादात्मविदो ऽविद्याविषयो ऽधिकारो न द्रष्टव्यः क्रियाकारकफलभेदरूपः ।
"मृत्योः स मृत्युमाप्नोति"इत्यादि निन्दितत्वात् ।
सर्वक्रियासाधनफलानां चाविद्याविषयाणां तद्विपरीतात्मविद्यया हातव्यत्वेनेष्टत्वात् ।
यज्ञोपवीतादिसाधनानां च तद्विषयत्वात् ।
तस्मादसाधनफलस्वभावादात्मनो ऽन्यविषया विलक्षणैषणा ।
उभे ह्येते साधनफले एषणे एव भवतः ।
यज्ञोपवीतादेस्तत्साध्यकर्मणां च साधनत्वात् ।
उभे ह्येते एषणे एवेति हेतुवचनेनावधारणात् ।
यज्ञोपवीतादिसाधनात्तत्साध्येभ्यश्च कर्मभ्यो ऽविद्याविषयत्वादेषणारूपत्वाच्च जिहासितव्यरूपत्वाच्च व्युत्थानं विधित्सितमेव ।
ननु उपनिषद आत्मज्ञानपरत्वाद् व्युत्थानश्रुतिः तत्स्तुत्यर्था, न विधिः ।
न;विधित्सितविज्ञानेन समानकर्तृकत्वश्रवणात् ।
न हि अकर्तव्येन कर्तव्यस्य समानकर्तृकत्वेन वेदे कदाचिदपि श्रवणं सम्भवति;कर्तव्यानामेव हि अभिपवबहोमभक्षाणां यथा श्रवणम्, अभिपुत्य हुत्वा भक्षयन्तीति, तद्वदात्मज्ञानैषणाव्युत्थानभिक्षाचर्याणां कर्तव्यानामेव समानकर्तृकत्वश्रवणं भवेत् ।
अविद्याविषयत्वादेषणात्वाच्च अर्थप्राप्त आत्मज्ञानविधेरेव यज्ञोपवीतादिपरित्यागः, न तु विधातव्य इति चेत्!सुतरामात्मज्ञानविधिनैव विहितस्य समानकर्तृकत्वश्रवणेन दार्ढ्येपपत्तिः, तथा भिक्षाचर्यस्य च ।
यत् पुनरुक्तं वर्तमानापदेशादर्थवादमात्रमिति - न, औदुम्बरयूपादिविधिसमानत्वाददोषः ।
ऽव्युत्थाय भिक्षाचर्यं चरन्तिऽइत्यनेन पारिव्राज्यं विधीयते, पारिव्राज्याश्रमे च यज्ञोपवीतादिसाधनानि विहितानि, लिङ्गं च श्रुतिभिः स्मृतिश्च ।
अतस्तद् वर्जयित्वा अन्यस्माद् व्युत्थानम् एषणात्वे ऽपीति चेत्? न, विज्ञानसमानकर्तृकात् पारिव्राज्यादेषणाव्युत्थानलक्षणात् पारिव्राज्यान्तरोपपत्तेः;यद्धि तदेषणाभ्यो व्युत्थानलक्षणं पारिव्राज्यं तदात्मज्ञानाङ्गम्, आत्मज्ञानविरोध्येषणापरित्यागरूपत्वात्, अविद्याविषयत्वाच्चैषणायाः, तद्व्यतिरेकेण चास्त्याश्रमरूपं पारिव्राज्यं ब्रह्मलोकादिफलप्राप्तिसाधनम्, यद्विषयं यज्ञोपवीतादिसाधनविधानं सिङ्गविधानं च ।
न च एषणारूपसाधनापादानस्य आश्रमधर्ममात्रेण पारिव्राज्यान्तरे विषये सम्भवति सति, सर्वोपनिषद्विहितस्य आत्मज्ञानस्य बाधनं युक्तम्, यज्ञोपवीताद्यविद्याविषयैषणारूपसाधनोपादित्सायां चावश्यम् असाधनफलरूपस्य अशनायादिसंसारधर्मवर्जितस्य अहं ब्रह्मास्मि, इथि विज्ञानं बाध्यते, न च तद्राधनं युक्तम्. सर्वोपनिषदां तदर्थपरत्वात् ।
ऽभिक्षाचर्यं चरन्तिऽइत्येषणां ग्राहयन्ती श्रुतिः स्वयमेव बाधत इति चेत्? अथापि स्यादेषणाभ्यो व्युत्थानं विधाय पुनरेषणकदेशं भिक्षाचर्यग्राहयन्ती तत्सम्बद्धमन्यदपि ग्राहयतीति चेत्? न, भिक्षाचर्यस्याप्रयोजकत्वाद् हुत्वोत्तरकालभक्षणात् ।
शेषप्रतिपत्तिकर्मत्वादप्रयोजकं हि तत्, असंस्कारमपि स्यात्, न तु भिक्षाचर्यम्;नियमादृष्टस्यापि ब्रह्मविदो ऽनिष्टत्वात् ।
नियमादृष्टस्यानिष्टत्वे किं भिक्षाचर्येणेति चेत्! न, अन्यसाधनाद् व्युत्थानस्य विहितत्वात् ।
तथापि किं तेनेति चेत्? यदि स्यात्, बाधमभ्युपगम्यते हि तत् ।
यानि पारिव्राज्ये ऽभिहितानि वचनानिऽयज्ञोपवीत्येवाधीयीतऽइत्यादीनि, तान्यविद्वत्पारिव्राज्यमात्रविषयाणीति परिहृतानि;इतरथा आत्मज्ञानबाधः स्यादिति ह्युक्तम्,"निराशिषमनारम्भं निर्नमस्तारमस्तुतिम् ।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणे विदुः"इति सर्वकर्माभावं दर्शयति स्मृतिर्विदुषः,"विद्वांलिङ्गो धर्मज्ञः"इति च ।
तस्मात् परमहंसपारिव्राज्यमेव व्युत्थानलक्षणं प्रतिपद्येतात्मवित् सर्वकर्मसाधनपरित्यागरूपमिति ।
यस्मात् पूर्वे ब्राह्मणा एतमात्मानम् असाधनफलस्वभावं विदित्वा सर्वस्मात् साधनफलस्वरूपादेषणालक्षणाद् व्युत्थाय भिक्षाचर्यं चरन्ति स्म, दृष्टादृष्टार्थं कर्म तत्साधनं च हित्वा, तस्माद् अद्यत्वे ऽपि ब्राह्मणो ब्रह्मवित् पाण्डित्यं पण्डितभावम्, एतदात्मविज्ञानं पाण्डित्यम्, निर्विद्य निःशेषं विदित्वा आत्मविज्ञानं निरवशेषं कृत्वेत्यर्थः - आचार्यत आगमतश्च, एषणाभ्यो व्युत्थाय-एषणाव्युत्थानावसानमेव हि तत् पाण्डित्यम् एषणातिरस्कारोद्भवत्वादेषणाविरुद्वत्वात्;एषणामतिरस्कृत्य न ह्यात्मज्ञानेनैव विहितमेषणाव्युत्थानम् आत्मज्ञानसमानकर्तृकत्वाप्रत्ययोपादानलिङ्गश्रुत्याद् दढीकृतम् ।
तस्मादेपणाभ्यो व्युत्थाय ज्ञानबनभावेन बाल्येन तिष्ठासेत् स्थातुमिच्छेत् ।
साधनफलाश्रयणं हि बलमितरेषामनात्मविदाम्, तद् बलं हित्वा विद्वान् असाधनफलस्वरूपात्मविज्ञानमेव बलं तद्भावमेव केवलमाश्रयेत्, तदाश्रयणे हि करणान्येषणाविपये एनं ह्रत्वा स्थापयितुं नीत्सहन्ते;ज्ञानबलहीनं हि मूढंद् दष्टादृष्टविषयायाम् एषणायामेवैनं करणानि नियोजयन्ति;बलं नाम आत्मविद्ययाशेषविषयदृष्टितिरस्करणम्;अतस्तद्भावेन बाल्येन तिष्ठासेत्;तथा"आत्मना बिन्दते वीर्यम्"इति श्रुत्यन्तरात् ।
"नायमात्मा बलहीनेन लभ्यः"इति च ।
बाल्यं च पाण्डित्यं च निर्विद्य निःशेषं कृत्वाथ मननान्मुनिर्योगी भवति;एतावद्वि ब्राह्मणेन कर्तव्यम्, यदुत सर्वानात्मप्रत्ययतिरस्करणम्;एतत् कृत्वा कृतकृत्यो योगी भवति ।
अमौनं च आत्मज्ञानानात्मप्रत्ययतिरस्कारौ पाण्डित्यबाल्यसंज्ञकौ निःशेषं कृत्वा, मौनं नाम अनात्मप्रत्ययतिरस्करणस्य पर्थवसानं फलम्, तच्च निर्विद्याथ ब्राह्मणः कुतकृत्यो भवतिब्रह्मैव सर्वमिति प्रत्यय उपजायते ।
स ब्राह्मणः कुतकृत्यः, अतो ब्राह्मणः, निरूपचरितं हि तदा तस्य ब्राह्मण्यं प्राप्तम्;केन स्यात् केन चरणेन भवेत्? येन स्याद् येन चरणेन भवेत्, तेनेदृश एवायम्-येन केनचिच्चरणेन स्यात् तेनेदृश एव उक्तलक्षण एव ब्राह्मणो भवति;येन केनचिच्चरणेनेति स्तुत्यर्थम्-येयं ब्राह्मण्यावस्था सेयं स्तूयते, न तु चरणे ऽनादरः ।
अत एतस्माद् ब्राह्मण्यावस्थानाद अशनायाद्यतीतात्मस्वरूपाद् नित्यतृप्ताद् अन्यद् अविद्याविपयम् एषणालक्षणं वस्त्वन्तरम्, आर्त विनाशि आर्तिपरिगृहीतम्, स्वप्नमायामरीच्युदकसमम् असारम्, आत्मैवाकः केवलो नित्यमुक्त इति ।
ततो ह कहोलः कौपातकेयः उपरराम ॥1॥
यत् साक्षादपरोक्षाद् ब्रह्म सर्वन्तर आत्मेत्युक्तम्, तस्य सर्वान्तरस्य स्वरूपाधिगमाय आ शाकल्यब्राह्मणाद् ग्रन्थ आरभ्यते ।
पृथिव्यादीनि ह्याकाशान्तानि भूतानि अन्तर्वहिर्भावेन व्यवस्थितानि;तेषां यद् बाह्यं बाद्यम् अविगम्याधिगम्य निराकुर्वन् द्रष्टुः साक्षात् सर्वान्तरो ऽगौण आत्मा सर्वसंसारधर्मविनिर्मुक्तो दर्शयितव्य इत्यारम्भः----
स्तर्त् ब्र्हुप् 3,6.1
अथ हैनं गार्गी वाचक्नवी पप्रच्छ -- याज्ञवल्क्येति होवाच ।
यद् इदं सर्वम् अप्स्व् ओतं च प्रोतं च कस्मिन् नु खल्व् आप ओताश् च प्रोताश् चेति ।
वायौ गार्गीति ।
कस्मिन् नु खलु वायुर् ओतश् च प्रोतश् चेति ।
अन्तरिक्षलोकेषु गार्गीति ।
कस्मिन् नु खल्व् अन्तरिक्षलोका ओतश् च प्रोतश् चेति ।
गन्धर्वलोकेषु गार्गीति ।
कस्मिन् नु खलु गन्धर्वलोका ओताश् च प्रोताश् चेति ।
अदित्यलोकेषु गार्गीति ।
कस्मिन् नु खल्व् आदित्यलोका ओताश् च प्रोताश् चेति ।
चन्द्रलोकेषु गार्गीति ।
कस्मिन् नु खलु चन्द्रलोका ओताश् च प्रोताश् चेति ।
नक्षत्रलोकेषु गार्गीति ।
कस्मिन् नु खलु नक्षत्रलोका ओताश् च प्रोताश् चेति ।
देवलोकेषु गार्गीति ।
कस्मिन् नु खलु देवलोका ओताश् च प्रोताश् चेति ।
इन्द्रलोकेषु गार्गीति ।
कस्मिन् नु खल्व् इन्द्रलोका ओताश् च प्रोताश् चेति ।
प्रजापतिलोकेषु गार्गीति ।
कस्मिन् नु खलु प्रजापतिलोका ओताश् च प्रोताश् चेति ।
ब्रह्मलोकेषु गार्गीति ।
कस्मिन् नु खलु ब्रह्मलोका ओताश् च प्रोताश् चेति ।
स होवाच -- गार्गि मातिप्राक्षीः ।
मा ते मूर्धा व्यपप्तत् ।
अनतिप्रश्न्यां वै देवताम् अतिपृच्छसि ।
गार्गि मातिप्राक्षीर् इति ।
ततो ह गार्गी वाचक्नव्य् उपरराम
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0