भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 3.8

3.8.1

ब्र्हुप्भ्_3,7,15-23 अथाध्यात्मम्-यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुद्वौ, रेतसि प्रजनने ।
कस्मात् पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यो मनुष्यादिवदातमनि तिष्ठन्तमात्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आह-अदृष्टेनद् दष्टो न विषयीभूतः चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि सन्निहितत्वाद्द् दशिस्वरूप इति द्रष्टा ।
तथाश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं त्वलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु सन्निहितत्वाछ्रचोता ।
तथामतो मनःसङ्कल्पविषयतामनापन्नः;दृष्टश्रुते एव हि सर्वः सङ्कल्पयति;उद्दृष्टत्वादक्षुतत्वादेवामतः;अल्लप्तमननशक्तित्वात् सर्वमनःसु सन्निहितत्वाच्च मन्ता ।
तथाविज्ञातो निश्चयगोचरतामनापन्नोरूपादिवत् लसुखादिवद्वा, स्वयं त्वलुप्तविज्ञानशक्तित्वात्तत्सन्निधानाच्च विज्ञाता ।
तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति चान्ये नियन्तव्या विज्ञातारो ऽन्यो नियन्ता अन्तर्यामीति प्राप्तम्, तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते - नान्यो ऽतः, नान्यः अतो ऽस्मादन्तर्यामिणो नान्यो ऽस्ति द्रष्टा, तथा नान्यो ऽतो ऽस्ति मन्ता, नान्यो ऽतो ऽस्ति श्रोता, नान्यो ऽतो ऽस्ति मन्ता, नान्यो ऽतो ऽस्ति विज्ञाता ।
यस्मात् परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यो ऽदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता - एष ते आत्मान्तर्याम्यमृतः अस्मादीश्वरादात्मनो ऽन्यदार्तम् ।
ततो हि उद्दालक आरुणिरुपरराम ॥15॥
-23 ॥
इति तृतीयाध्याये सप्तममन्तर्यामिब्राह्मणम् ॥7॥
अतः परमशनायादिविनिर्मुक्तं निरुपाधिकं साक्षादपरोक्षात् सर्वान्तरं ब्रह्म वक्तव्यमित्यत आरम्भः -
स्तर्त् ब्र्हुप् 3,8.1
अथ ह वाचक्नव्य् उवाच -- ब्राह्मणा भगवन्तो हन्ताहम् इमं द्वौ प्रश्नौ प्रक्ष्यामि ।
तौ चेन् मे विवक्ष्यति ।
न वै जातु युष्माकम् इमं कश्चिद् ब्रह्मोद्यं जेतेति ।
पृच्छ गार्गीति

3.8.2

ब्र्हुप्भ्_3,8.1 अथ ह वाचक्नव्युवाच ।
सर्वं याज्ञवल्क्येन निषिद्धा मूर्धपातभयादुपरता सती पुनः प्रष्टुं ब्राह्मणानुज्ञां प्रार्थयते - हे ब्राह्मणा भगवन्तः पूजावन्तः शृणुत मम वचः;हन्ताहमिमं याज्ञवल्क्यं पुनर्द्वै प्रश्नौ प्रक्ष्यामि, यद्यनुमतिर्भवतामस्ति;तौ प्रश्नौ चेद्यदि वक्ष्यति कथयिष्यति मे, कथञ्चिन्न वै जातु कदाचिद् युष्माकं मध्ये इमं याज्ञवल्क्यं कश्चिद् ब्रह्मोद्यं ब्रह्मवदनं प्रति जेता न वै कश्चिद् भवेदिति ।
एवमुक्ता ब्राह्मणा अनुज्ञां प्रददुः - पृच्छ गार्गीति ॥1॥
स्तर्त् ब्र्हुप् 3,8.2
सा होवाच -- अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुर् अधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेद् एवम् एवाहं त्वा द्वाभ्यां प्रश्नाभ्याम् उपोदस्थाम् ।
तौ मे ब्रूहीति ।
पृच्छ गार्गीति

3.8.3

ब्र्हुप्भ्_3,8.2 लब्धानुज्ञा ह याज्ञवल्क्यं सा होवाच - अहं वै त्वा त्वां द्वौ प्रश्नौ प्रक्ष्यामीत्यनुषज्यते;कौ ताविति जिज्ञासायां तयोर्दुरुत्तरत्वद्योतयितुं दृष्टान्तपूर्वकं तावाह - हे याज्ञवल्क्य यथा लोके काश्यः काशिषु भवः काश्यः, प्रसिद्धं शौर्यं काश्ये, वैदेहो वा विदेहानां वा राजा, उग्रपुत्रः शूरान्वय इत्यर्थः, उज्ज्यम् अवतारितज्याकं धनुः पुनरधिज्यम् आरोपितल्याकं कृत्वा द्वौ बाणवन्तौ बाणशब्देन शराग्रे यो वंशखण्डः संधीयते, तेन विनापि शरो भवतीत्यतो विशिनष्टि बाणवन्ताविति - द्वौ बाणवन्तौ शरौ, तयोरेव विशेषणं सपत्नातिव्याधिनौ शत्रोः पीडाकरावतिशयेन, हस्ते कृत्वोपोत्तिष्ठेत् समीपत आत्मानं दर्शयेत् एवमेवाहं त्वा त्वां शरस्थानीयाभ्यां प्रश्नाभ्यां द्वाभ्यामुपोदस्थां उत्थितवत्यस्मि त्वत्समीपे ।
तौ मे ब्रूहीति - ब्रह्मविच्चेत् ।
आहेतरः - पृच्छ गार्गीति ॥2॥
स्तर्त् ब्र्हुप् 3,8.3
सा होवाच -- यद् ऊर्ध्वं याज्ञवल्क्य दिवो यद् अवाक् पृथिव्या यद् अन्तरा द्यावापृथिवी इमे यद् भूतं च भवच् च भविष्यच् चेत्य् आचक्षते कस्मिंस् तद् ओतं च प्रोतं चेति

3.8.4

ब्र्हुप्भ्_3,8.3 सा होवाच - यदूर्ध्वमुपरि दिवःअण्डकपालाद् यच्चावागधः पृथिव्या अधो ऽण्डकपालात्, यच्चान्तरा मध्ये द्यावापृथिवी द्यावापृथिव्योः अण्डकपालयोः, इमे च द्यावापृथिवी, यद् भूतं यच्चातीतम्, भवच्च वर्तमानं स्वव्यापारस्थम्, भविष्यच्च वर्तमानादूर्ध्वकालभाविलिङ्गगम्यम् - यत् सर्वमेतदाचक्षते कथयन्त्यागमतः - तत् सर्वं द्वैतजातं यस्मिन्नेकीभवतीत्यर्थः - तत् सूत्रसंज्ञं पूर्वोक्तं कस्मिन्नोतं च प्रोतं च पृथिवीधातुरिवाप्सु ॥3॥
स्तर्त् ब्र्हुप् 3,8.4
स होवाच -- यद् ऊर्ध्वं गार्गि दिवो यद् अवाक् पृथिव्या यद् अन्तरा द्यावापृथिवी इमे यद् भूतं च भवच् च भविष्यच् चेत्य् आचक्षत आकाशे तद् ओतं च प्रोतं चेति

3.8.5

ब्र्हुप्भ्_3,8.4 स होवाचेतरः - हे गार्गि यत् त्वयोक्तम्ऽऊर्ध्वं दिवःऽइत्यादि, तत् सर्वं यत् सूत्रमाचक्षते तत् सूत्रम्, आकाशे तदोतं प्रोतं च, यदेतद् व्याकृतं सूत्रात्मकं जगदव्याकृताकाशे, अप्स्विव पृथिवीधातुः, त्रिष्वपि कालेषु वर्तते उत्पत्तौ स्थितौ लये च ॥4॥
स्तर्त् ब्र्हुप् 3,8.5
सा होवच -- नमस् ते ऽस्तु याज्ञवल्क्य यो म एतं व्यवोचो ऽपरस्मै धारयस्वेति पृच्छ गार्गीति

3.8.6

ब्र्हुप्भ्_3,8.5 पुनः सा होवाच;नमस्ते ऽस्त्वित्यादि प्रश्नस्य दुर्वचत्वप्रदर्शनार्थम्;यो मे ममैतं प्रश्नं व्यवोचो विशेषणापाकृतवानसि;एतस्य दुर्वचत्वे कारणम् - सूत्रमेव तावदगम्यमितरैर्दुर्वाच्यम्, किमुत तत्, यस्मिन्नोतं च प्रोतं चेति;अतो नमो ऽस्तु ते तुभ्यम् ।
अपरस्मै द्वितीयाय प्रश्नाय धारयस्व दृढीकुर्वात्मानमित्यर्थः ।
पृच्छ गार्गीतीतर आह ॥5॥
स्तर्त् ब्र्हुप् 3,8.6
सा होवाच -- यद् ऊर्ध्वं याज्ञवल्क्य दिवो यद् अवाक् पृथिव्या यद् अन्तरा द्यावापृथिवी इमे यद् भूतं च भवच् च भविष्यच् चेत्य् आचक्षते कस्मिंस् तद् ओतं च प्रोतं चेति

3.8.7

ब्र्हुप्भ्_3,8.6 व्याख्यातमन्यत्;सा होवाच यदुर्ध्वं याज्ञवल्क्यैत्यादिप्रश्नः प्रतिवचनं च उक्तस्यैवार्थस्यावधारणार्थं पुनरुच्यते;न किञ्चिदपूर्वमर्थान्तरमुच्यते ॥6॥
स्तर्त् ब्र्हुप् 3,8.7
स होवाच -- यद् ऊर्ध्वं गार्गि दिवो यद् अवाक् पृथिव्या यद् अन्तरा द्यावापृथिवी इमे यद् भूतं च भवच् च भविष्यच् चेत्य् आचक्षत आकाश एव तद् ओतं च प्रोतं चेति ।
कस्मिन् नु खल्व् आकाश ओतश् च प्रोतश् चेति

3.8.8

ब्र्हुप्भ्_3,8.7 सर्वं यथोक्तं गार्ग्या प्रत्युच्चार्य तमेव पूर्वोक्तमर्थमवधारितवानाकाश एवेति याज्ञवल्क्यः ।
गार्ग्याह-कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ।
आकाशमेव तावत् कालत्रयातीतत्वाद् दुर्वाच्यम्, ततो ऽपि कष्टतरमक्षरम् यस्मिन्नाकाशमोतं च प्रोतं च, अतो ऽवाच्यमितिकृत्वा, न प्रतिपद्यते सा अप्रतिपत्तिर्नाम निग्रहस्थानं तार्किकसमये;अथावाच्यमपि वक्ष्यति, तथापि विप्रतिपत्तिर्नाम निग्रहस्थानम्;विरुद्वा प्रतिपत्तिर्हि सा, यदवाच्यस्य वदनम्;अतो दुर्वचनं प्रश्नं मन्यते गार्गी ॥ 7 ॥ तद् दोषद्वयमपि परिजिहीर्पन्नाह-
स्तर्त् ब्र्हुप् 3,8.8
स होवाच -- एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् अतमो ऽवाय्व् अनाकाशम् असङ्गम् अरसम् अगन्धम् अचक्षुष्कम् अश्रोत्रम् अवाग् अमनो ऽतेजस्कम् अप्राणम् अमुखम् अगात्रम् अनन्तरम् अबाह्यम् (वर् fओर् अगात्रम्: अमात्रम्) ।
न तद् अश्नाति किं चन ।
न तद् अश्नाति कश् चन

3.8.9

ब्र्हुप्भ्_3,8.8 स होवाच याज्ञवल्क्यः-एतद् वै तद् यत् पृष्टवत्यसि कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति, किं तत्? अक्षरम्-यन्न क्षीयते न क्षरतीति वाक्षरम्-तदक्षरं हे गार्गि ब्राह्मणा ब्रह्मविदो ऽभिवदन्ति ।
ब्रह्मणाभिवदनकथनेन-नाहमवाच्यं वक्ष्यामि न चन प्रतिपद्येयम्-इत्येवं दोपद्रयं परिहरति ।
एवमपाकुते प्रश्ने पुनर्गार्ग्याः प्रतिवचनं द्रष्टव्यम्-ब्रूहि किं तदक्षरम्? यद् ब्राह्मणा अभिवदन्ति, इत्युक्त आह-प्रस्थूलं तत् स्थूलादन्यत्, एवं तर्ह्यणु? अनणु, अस्तु तर्हि हस्वम्, अहस्वम्;एवं तर्हि दीर्घम्, नापि दीर्घमदीर्घम्;एवमेतैश्चतुर्भिः परिमाणप्रतिषेधैर्द्रव्यधर्मः प्रतिषिद्वः, न द्रव्यं तदक्षरमित्यर्थः ।
अस्तु तर्हि लोहितो गुणः, ततो ऽप्यन्यदलोहितम्;आग्नेयो गुणो लोहितः;भवतु तर्ह्यप्यां स्नेहनम्, न, अस्नेहनम्;अस्तु तर्हिच्छाया, सर्वथाप्यनिर्देश्यत्वात्, छायाया अप्यन्यदच्छायम्;अस्तु तर्हि तमः, अतमः;भवतु वायुस्तर्हि, अवायुः;भवेत्तर्ह्याकाशम्, अनाकाशम्;भवतु तर्हि सङ्गात्मकं जतुवत्, असङ्गम्ऽरसो ऽस्तु तर्हि, अरसम्ऽ;तथा गन्धो ऽस्त्वगन्धम्;अस्तु तर्हि चक्षुः, अचक्षुष्कम्-न हि चक्षुरस्य करणं विद्यते ऽतो ऽचक्षुष्कम्;"पश्यत्यचक्षुः"इति मन्त्रवर्णात् ।
तथाश्रोत्रम्;"स शृणोत्यकर्णः"इति;भवतु तर्हि वागवाक्;तथामनः;तथातेजस्कम्-अविद्यमानं तेजो ऽस्य तदतेजस्कम्;न हि तेजो ऽग्न्यादिप्रकाशवदस्य विद्यते;अप्राणम्-आध्यात्मिको वायुःप्रतिषिध्यते ऽप्राणमिति;मुखं तर्हि द्वारं तदमुखम्;अमान्नम्-मीयते येन तन्मात्रम् अमात्रं मात्रारूपं तन्न भवति, न तेन किञ्चिन्मीयते;अस्तु तर्हिच्छिद्रवत्, अनन्तरम्-नास्यान्तरमस्ति;सम्भवेत् तर्हि बहिस्तस्य, अबाह्यम्;अस्तु तर्हि भक्षयितृ तत् न तदश्नाति क्ञ्चिन;भवेत्तर्हि भक्ष्यं कस्यचित्, न तदश्नाति कश्चन;सर्वविशेषणरहितमित्यर्थः;एकमेवाद्वितीयं हि तत् केन किं विशिष्यते ॥ 8 ॥ अनेकविशेषणप्रतिषेधप्रयासादस्तित्वं तावदक्षरस्योपगमितं श्रुत्या;तथापि लोकबुद्विमपेक्ष्या शङ्क्यते यतः, अतो ऽस्तित्वायानुमानं प्रमाणमुपन्यस्यति-
स्तर्त् ब्र्हुप् 3,8.9
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्य् अर्धमासा मासा ऋतवः संवत्सरा इति विधृतास् तिष्ठन्ति ।
एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो ऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्यो ऽन्या यां यां च दिशम् अनु ।
एतस्य वा अक्षरस्य प्रशासने गार्गि मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ताः

3.8.10

वा अक्षरस्य्
अ प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति, यजमानं देवाः, दर्वीं पितरो ऽन्वायत्ताः ॥ 9 ॥
ब्र्हुप्भ्_3,8.9 एतस्य वा अक्षरस्य;यदेतदधिगतमक्षरं सर्वान्तरं साक्षादपरोक्षाद्ब्रह्म, य आत्मा अशनायादिधर्मातीतः, एतस्य वा अक्षरस्य प्रशासने-यथा राज्ञः प्रशासने राज्यमस्फुटितं नियतं वर्तते, एवमतस्याक्षरस्य प्रशासने हे गार्गि सूर्याचन्द्रमसो अहोरात्रयोर्लोकप्रदीपौ, तादर्थ्येन प्रशासित्रा ताभ्यां निर्वत्यमानलोकप्रयोजनविज्ञानवता निर्मितौ च, स्यातां साधारणसर्वप्राणिप्रकाशोपकारकत्वाल्लौकिकप्रदीपवत् ।
तस्मादस्ति तद् येन विधृतावीश्वरौ स्वतन्त्रौ सस्तौ निर्मितौ तिष्ठतो नियतदेशकालनिमित्तोदयास्तमयवृद्धिक्षयाभ्यां वर्तेते;तदस्त्येवमेतयोः प्रशासित्रक्षरम्, प्रदीपकर्तृविधारयितृवत् ।
एतस्य वा अक्षरस्य प्रशासने गार्गी द्यावापृथिवी च सावयवत्वात् स्फुटनस्वभावे अपि सत्यौ गुरुत्वात् पतनस्वभावे संयुक्तत्वाद् वियोगस्वभावे चेतनावदभिमानिदेवताधिष्ठितत्वात् स्वतन्त्रे अपि एतस्याक्षरस्य प्रशासने वर्तेते विधृते तिष्ठतः;एतद्ध्यक्षरं सर्वव्यवस्थासेतुः सर्वमर्यादाविधरणम्, अतो नास्याक्षरस्य प्रशासनं द्यावापृथिव्यावतिक्रामतः;तस्मात् सिद्धमस्यास्तित्वमक्षरस्य अव्यभिचारि हि तल्लिङ्गम्, यद् द्यावापृथिव्यौ नियते वर्तेते;चेतनावन्तं प्रशासितारमसंसारिणमन्तरेण नैतद् युक्तम् ।
"येन द्यौरुग्रा पृथिवी च दृष्टा"इति मन्त्रवर्णात् ।
एतस्य वा अक्षरस्य प्रशासने गार्गि, निमेषा मुहूर्ता इत्येते कालावयवाः सर्वस्य अतीतानागतवर्तमानस्य जनिमतः कलयितारः - यथा लोके प्रभुणा नियतो गणकः सर्वमायं व्ययं चाप्रमत्तो गणयति, तथा प्रभुस्थानीय एषां कालावयवानां नियन्ता ।
तथा प्राचयः प्रागञ्चनाः पूर्वदिग्गमना नद्यः स्यन्दन्ते स्रवन्ति श्वेतेभ्यो हिमवदादिभ्यः पर्वतेभ्यो गिरिभ्यो गङ्गाद्या नद्यस्ताश्च यथा प्रवर्तिता एव नियताः प्रवर्तन्ते ऽन्यथापि प्रवर्तितुमुत्सहन्त्यः, तदेतल्लिङ्गं प्रशास्तुः ।
प्रतीच्यो ऽन्याः प्रतीचीं दिशमञ्चन्ति सिन्ध्वाद्या नद्यः, अन्याश्च यां यां दिशमनुप्रवृत्तास्तां तां न व्यभिचरन्ति;तच्च सिङ्गम् ।
किञ्च ददतो हिरण्यादीन् प्रयच्छत आत्मपीडां कुर्वतो ऽपि प्रमाणज्ञा अपि मनुष्याः प्रशंसन्ति;तत्र यच्च दीयते, ये च ददति, ये च प्रतिगृह्मन्ति, तेषामिहैव समागमो विलयश्चान्वक्षो दृश्यते;अदृष्टस्तु परः समागमः, तथापि मनुष्या ददतां दानफलेन संयोगं पश्यन्तः प्रमाणज्ञतया प्रशंसन्ति; तच्च, कर्मफलेन संयोजयितरि कर्तुः कर्मफलविभागज्ञे प्रशास्तर्यसति न स्यात्;दानक्रियायाः प्रत्यक्षविनाशित्वात्;तस्मादस्ति दानकर्तृणां फलेन संयोजयिता ।
अपूर्वमिति चेत्? तत्सद्भावे प्रमाणानुपपत्तेः प्रशस्तुरपीति चेत् ।
न, आगमतात्पर्यस्य सिद्धत्वात्;अवोचाम द्यागमस्य वस्तुपरत्वात् ।
किञ्चान्यत्, अपूर्वकल्पनायां चार्थापत्तेः, क्षयो ऽन्यथैवोपपत्तेः ।
सेवाफलस्य सेव्यात् प्राप्तिदर्शनात् ।
सेवायाश्च क्रियात्वात्, तत्सामान्याच्च वागदानहोमादीनां सेव्याद् ईश्वरादेः फलप्राप्तिरुपपद्यते दृष्टक्रियाधर्मसामर्थ्यमपरित्यज्यैव फलप्राप्तिकल्पनोपपत्तौ दृष्टक्रियाधर्मसामर्थ्यपरित्यागो न न्याय्यः ।
कल्पनाधिक्याच्च, ईश्वरः कल्प्वो ऽपूर्वा वा? तत्र क्रियायाश्च स्वभावः सेव्यात् फलप्राप्तिर्दृष्टा न त्वपूर्वात्;न चापूर्वं दृष्टम्;तत्रापूर्वमदृष्टं कल्पयितव्यं तस्य च फलदातृत्वे सामर्थ्यम्, सामर्थ्ये च सति दानं चाभ्यधिकमिति ।
इह तु ईश्वरस्य सेव्यस्य सद्भावमात्रं कल्प्यम्, न तु फलदानसामर्थ्यं दातृत्वं च, सेव्यात् फलप्राप्तिदर्शनात् ।
अनुमानं च दर्शितम् -ऽद्यावापृथिव्यौ विधृते तिष्ठतःऽइत्यादि ।
तथा च यजमानं देवा ईश्वराः सन्तो जीवनार्थे ऽनुगताः, चरपुरोडाशाद्युपजीवनप्रयोजनेन, अन्यथापि जीवितुमुत्सहन्तः कृपणां दीनां वृत्तिमाश्रित्य स्थिताः, तच्च प्रशास्तुः प्रशासनात् स्यात् ।
तथा पितरो ऽपि तदर्थं दर्वी दर्वीहोममन्वायत्ता अनुगता इत्यर्थः, समानं सर्वमन्यत् ॥9॥
इतश्चास्ति तदक्षरं स्मात्तदज्ञाने नियता संसारोपपत्तिः ।
भवितव्यं तु तेन, यद्विज्ञानात् तद्विच्छेदः, न्यायोपपत्तेः ।
ननु क्रियात एव तद्विच्छित्तिः स्यादिति चेत्? न -
स्तर्त् ब्र्हुप् 3,8.10
यो वा एतद् अक्षरम् गार्ग्य् अविदित्वास्मिंल् लोके जुहोति यजते तपस् तप्यते बहूनि वर्षसहस्राण्य् अन्तवद् एवास्य तद् भवति
यो वा एतद् अक्षरम् अविदित्वा गार्ग्य् अविदित्वास्माल् लोकात् प्रैति स कृपणः ।
अथ य एतद् अक्षरं गार्गि विदित्वास्माल् लोकात् प्रैति स ब्राह्मणः

3.8.11

ब्र्हुप्भ्_3,8.10 यो वा एतदक्षरं हे गार्गि अविदित्वाविज्ञाय अस्मिंल्लोके जुहोति यजत तपस्तप्यते यद्यपि बहूनि वर्षसहस्राणि, अन्तवद् एवास्य तत् फलं भवति, तत्फलोपभोगान्ते क्षीयन्त एवास्य कर्माणि ।
अपि च यद्विज्ञानात् कार्पण्यात्ययः संसारविच्छेदः, यद्विज्ञानाभावाच्च कर्मकृत् कृपणः कृतफलस्यैवोपभोक्ताजननमरणप्रबन्धारूढः संसरति, तदस्त्यक्षरं प्रशासितृ;तदेतदुच्यते - यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात् प्रैति स कृपणः, पणक्रीत इव दासादिः ।
अथ य एतदक्षरं गार्गि विदित्वा अस्माल्लोकात् प्रैति स ब्राह्मणः ॥10॥
अग्नेर्दहनप्रकाशकत्वात् स्वाभाविकस्य प्रशास्तृत्वमचेतनस्यैवेत्यत आह -
स्तर्त् ब्र्हुप् 3,8.11
तद् वा एतद् अक्षरं गार्ग्य् अदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ ।
नान्यद् अतो ऽस्ति द्रष्टृ ।
नान्यद् अतो ऽस्ति श्रोतृ ।
नान्यद् अतो ऽस्ति मन्तृ ।
नान्यद् अतो ऽस्ति विज्ञातृ ।
एतस्मिन् नु खल्व् अक्षरे गार्ग्य् आकाश ओतश् च प्रोतश् च

3.8.12

ब्र्हुप्भ्_3,8.11 तद् वा एतदक्षरं गार्गि अदृष्टं न केनचिद् दृष्टम्, अविषयत्वात् स्वयं तु द्रष्टृ दृष्टिस्वरूपत्वात् ।
तथा श्रुतं श्रोत्राविषयत्वात्, स्वयं श्रोतृ श्रुतिस्वरूपत्वात् ।
तथामतं मनसो ऽविषयत्वात्, स्वयं मन्तृमतिस्वरूपत्वात् ।
तथाविज्ञातं बुद्धेरविषयत्वात्, स्वयं विज्ञातृ विज्ञानस्वरूपत्वात् ।
किञ्च नान्यदतो ऽस्मादक्षरादस्ति - नास्ति किञ्चिद् द्रष्टृ दर्शनक्रियाकर्तृ;एतदेवाक्षरं दर्शनक्रियाकर्तृ सर्वत्र ।
तथा नान्यदतो ऽस्ति श्रोतृ;तदेवाक्षरं श्रोतृ सर्वत्र ।
नान्यदतो ऽस्ति मन्तृ;तदेवाक्षरं मन्तृ सर्वत्र सर्वमनोद्वारेण ।
नान्यदतो ऽस्ति विज्ञातृ विज्ञानक्रियाकर्तृ, तदेवाक्षरं सर्वबुद्धिद्वारेण विज्ञानक्रियाकर्तृ, नाचेतनं प्रधानमन्यद् वा ।
एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ।
यदेव साक्षादपरोक्षाद्ब्रङ्म, य आत्मा सर्वान्तरो ऽशनायादि संसारधर्मातीतः, यस्मिन्नाकाश ओतश्च प्रोतश्च, एषा परा काष्ठा, एषा परा गतिः, एतत् परं ब्रह्म, एतत् पृथिव्यादेराकाशान्तस्य सत्यस्य सत्यम् ॥11॥
स्तर्त् ब्र्हुप् 3,8.12
सा होवाच -- ब्राह्मणा भगवन्तस् तद् एव बहु मन्यध्वं यद् अस्मान् नमस्कारेण मुच्येध्वम् ।
न वै जातु युष्माकम् इमं कश्चिद् ब्रह्मोद्यं जेतेति ।
ततो ह वाचक्नव्य् उपरराम

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc