बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 3.5
ब्र्हुप्भ्_3,4.2 स होवाचोषस्तश्चाक्रायणो यथा कश्चिदन्यथा प्रतिज्ञाय पूर्वं पुनर्विप्रतिपन्नो ब्रूयादन्यथासौ गौरसावश्वो यश्चलति धावतीति वा पूर्वं प्रत्यक्षं दर्शयामिति प्रतिज्ञाय पश्चाच्चलनादिलिङ्गैर्व्यपदिशत्येवमेवैतद्ब्रह्म प्राणनादिलिङ्गैर्व्यपदिष्टं भवति त्वया ।
किं बहुना त्यक्त्वा गोतृष्णानिमित्तं व्याजं यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
इतर आह-यथा मया प्रथमं प्रतिज्ञातस्तवाऽत्मव (त्मा वि) लक्षण इति तां प्रतिज्ञामनुवर्त एव ।
तत्तथैव यथोक्त मया ।
यत्पुनरुक्तं तमात्मानं घटादिवद्विषयीकुर्विति तदशक्यत्वान्न क्रियते ।
कस्मात्पुनस्तदशक्यमिति ।
आह ।
वस्तुस्वाभाव्यात् ।
किं पुनस्तद्वस्तुस्वाभाव्यम् ।
दृष्टयादिद्रष्टृत्वम् ।
दृष्टेर्द्रष्टा ह्यात्मा ।
दृष्टिरिति द्विविधा भवति लौकिकी पारमार्थिकी चेति ।
तत्र लौकिकी चक्षुःसंयुक्तान्तःकरणवृत्तिः ।
सा क्रियत इति जायते विनश्यति च ।
या त्वात्मनो दृष्टिरग्न्युष्णप्रकाशादिवत्सा च द्रष्टः स्वरूपत्वान्न जायते न विनश्यति च ।
सा क्रियमाणयोपाधिभूतया संसृष्टेवेति व्यपदिश्यते द्रष्टेति भेदवच्च द्रष्टा दृष्टिरिति च ।
यासौ लौकिकी दृष्टिश्चक्षुर्द्वारा रूपोपरक्ता जायमानैव नित्ययाऽत्मदृष्ट्या संसृष्टेव तत्प्रतिच्छाया तया व्याप्तैव जायते तथा विनश्यति च तेनोपचर्यते द्रष्टा सदा पश्यन्नपि पश्यति न पश्यति चेति ।
न तु पुनर्द्रष्टुर्दृष्टेः कदाचिदप्यन्यथात्वम् ।
तथा च वक्ष्यति षष्ठे-ध्यायतीव लेलायतीव ।
नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत इति च ।
तमिममर्थमाह-लौकिक्या दृष्टेः कर्मभूताया द्रष्टारं स्वकीयया नित्यया दृष्ट्या व्याप्तारं न पश्येः ।
यासौ लौकिकी दृष्टिः कर्मभूता सा रूपोपरक्ता रूपाभिव्यञ्जिका नाऽत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं व्याप्नोति ।
तस्मात्तं प्रत्यगात्मानं दृष्टेद्रष्टारं न पश्येः ।
तथा श्रुतेः श्रोतारं न शृणुयाः ।
तथा मतेर्मनोवृत्तेः केवलाया व्याप्तारं न मन्वीथाः ।
तथा विज्ञातेः केवलाया बुद्धिवृत्तेर्व्याप्तारं न विजानीयाः ।
एष वस्तुनः स्वभावो ऽतो नैव दर्शयितुं शक्यते गवादिवत् ।
न दृष्टेर्द्रष्टारमित्यत्राक्षराण्यन्यथा व्याचक्षते केचित् ।
न दृष्टेर्द्रष्टारं दृष्टेः कर्तारं दृष्टिभेदमकृत्वा दृष्टिमात्रस्य कर्तारं न पश्येरिति ।
दृष्टेरिति कर्मणि षष्ठी ।
सा दृष्टिः क्रियमाणा घटवत्कर्म भवति ।
द्रष्टारमिति तृजन्तेन द्रष्टुर्दृष्टिकर्तृत्वमाचष्टे ।
तेनासौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातृणामभिप्रायः ।
तत्र दृष्टेरिति षष्ठ्यन्तेन दृष्टिग्रहणं निरर्थकमिति दोषं न पश्यन्ति पश्यतां वा पुनरुक्तमसारः प्रमादपाठ इति वा नाऽदरः ।
कथं पुनराधिक्यं तृजन्तेनैव दृष्टिकर्तृत्वस्य सिद्धत्वाद्दृष्टेरिति निरर्थकम् ।
तदा द्रष्टारं न पश्येरित्येतावदेव वक्तव्यम् ।
यस्माद्धातोः परस्तृच्छूयते तद्धात्वर्थकर्तरि हि तृच्स्मर्यते ।
गन्तारं भत्तारं वा नयतीत्येतावानेव हि शब्दः प्रयुज्यते ।
न तु गतेर्गन्तारं भिदेर्भेत्तारमित्यसत्यर्थविशेषे प्रयोक्तव्यः ।
न चार्थवादत्वेन हातव्यं सत्यां गतौ ।
न च प्रमादपाठः ।
सर्वेषामविगानात् ।
तस्माद्व्याख्यातृणामेव बुद्धिदौर्बल्यं नाध्येतृप्रमादः यथा त्वस्माभिर्व्याख्यातं लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा प्रदर्शयितव्यस्तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्विःप्रयोग उपपद्यत आत्मस्वरूपनिर्धारणाय ।
ऽनहि द्रष्टुर्दृष्टेरिऽति च प्रदेशान्तरवाक्येनैवैकवाक्यतोपपन्ना भवति ।
तथा च"चक्षूंषि पश्यति""श्रोत्रमिदं श्रुतम्"इति श्रुत्यन्तरेणैकवाक्यतोपपन्ना ।
न्यायाच्च ।
एवमेव ह्यात्मनो नित्यत्वमुपपद्यते विक्रियाभावे विक्रियावच्च नित्यमिति च विप्रतिषिद्धम् ।
"ध्यायतीव लेलायतीव" "नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते" "एष नित्यो महिमा ब्राह्मणस्य"इति च श्रुत्यक्षराण्यन्यथा न गच्छन्ति ।
ननु द्रष्टा श्रोता मन्ता विज्ञातेत्येवमादीन्यप्यक्षराण्यात्मनो ऽविक्रियत्वे न गच्छन्तीति ।
न ।
यथाप्राप्तलौकिकवाक्यानुवादित्वात्तेषाम् ।
नाऽत्मतत्त्वनिर्धारणार्थानि तानि ।
दृष्टेर्द्रष्टारमित्येवमादीनामन्यार्थासम्भवाद्यथोक्तार्थपरत्वमवगम्यते ।
तस्मादनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेर्द्रष्टारमित्येवमादीनामन्यार्थासम्भवाद्यथोक्तार्थपरत्वमवगम्यते ।
तस्मादनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति ।
एष ते तवाऽत्मा सर्वैरुक्तैर्विशेणणैर्विशिष्टः ।
अत एतस्मादात्मनो ऽन्यदार्त कार्य वा शरीरं करणात्मकं वा लिङ्गम् ।
एतदेवैकमनार्तमविनाशि कूटस्थम् ।
ततो होषस्तश्चाक्रायण उपरराम ॥2॥
इति बृहदारण्यकोपनिषद्भाष्ये तृतीयाध्यायस्य चतुर्थ ब्राह्मणम् ॥4॥
स्तर्त् ब्र्हुप् 3,5.1
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ -- याज्ञवल्क्येति होवाच ।
यद् एव साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरः ।
यो ऽशनायापिपासे शोकं मोहं जरां मृत्युम् अत्येति ।
एतं वै तम् आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति ।
या ह्य् एव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा ।
उभे ह्य् एते एषणे एव भवतः ।
तस्माद् ब्रामणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् ।
बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः ।
अमौनं च मौनं च निर्विद्याथ ब्राह्मणः ।
स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एव ।
अतो ऽन्यद् आर्तम् ।
ततो ह कहोलः कौषीतकेय उपरराम
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0