भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 3.4

3.4.1

ब्र्हुप्भ्_3,3.2 स होवाच याज्ञवल्क्य उवाच वै सः ।
वैश्ब्दः स्मरणार्थः ।
उवाच वै स गन्धर्वस्तुभ्यम् ।
अगच्छन्वै ते पारिक्षितास्तत्तत्र क्व? यत्र यस्मिन्नश्वमेधयाजिनो गच्छन्तीति ।
निर्णोते प्रश्न आह-क्व नु कस्मिन्नश्वमेधयाजिनो गच्छन्तीति ।
तेषां गतिविवक्षया भुवनकोशपरिमाणमाह-द्वात्रिंशतं वै द्वे अधिके त्रिंशद्द्वात्रिंशतं वै देवरथाह्रयानि देव आदित्यस्तस्य रथो देवरथस्तस्य रथस्य गत्याह्रा यावत्परिच्छिद्यते देशपरिमाण तद्देवरथाह्रयं तद्द्वात्रिंशद्गुणितं देवरथाह्रयानि तावत्परिमाणो ऽयं लोको लोकालोकगिरिणा परिक्षिप्तः ।
यत्र वैराजं शरीरं यत्र च कर्मफलोपभोगः प्राणिनां स एष लोक एतावांल्लोको ऽतः परमलोकस्तं लोकं समन्तं समन्ततो लोकविस्ताराद्द्विगुणपरिमाणविस्तारेण परिमाणेन तं लोकं परिक्षिप्ता पर्येति पृथिवी ।
तां पृथिवीं तथैव समन्तं द्विस्तावद्द्विगुणेन परिमाणेन समुद्रः पर्येति यं घनोदमाचक्षते पौराणिकाः ।
तत्रण्डकपालयोर्विवरपरिमाणमुच्यते ।
येन विवरेण मार्गेण वहिर्निर्गच्छन्तो व्याप्नुवन्त्यश्वमेधयाजिनः ।
तत्र यावती यावत्परिमाण क्षुरस्य धाराग्रं यावद्वा सौक्ष्म्येण युक्तं मक्षिकायाः पत्रं तावांस्तावत्परिमाणो ऽन्तरेण मध्ये ऽण्डकपालयोराकाश्छिद्रं तेनाऽकाशेनेत्येतत् ।
तान्पारिक्षितानश्वमेधयाजिनः प्राप्तानिद्रः परमेश्वरो यो ऽश्वमेवे ऽग्निश्चितः सुपर्णो यद्विषयं दर्शनमुक्तं तस्य प्राचि दिविशर इत्यादिना सुपर्णः पक्षी भूत्वा पक्षपुच्छाद्यात्मकः सुपर्णो भूत्वा वायवे प्रायच्छन्मूर्तत्वान्नास्त्यात्मनो गतिस्तत्रेति ।
तान्पारिक्षितान्वायुरात्मनि धित्वा स्थापयित्वा स्वात्मभूतान्कृत्वा तत्र तस्मिन्नगमयत् ।
क्व ।
यत्र पूर्वे ऽतिक्रान्ताः पारिक्षिता अश्वमेधयाजिनो ऽभवन्निति ।
एवमिव वा एवमेव स गन्धर्वो वायुमेव प्रशशंस पारिक्षितानां गतिम् ।
समाप्ताऽख्यायिका ।
आख्यायिकानिर्वृत्तं त्वर्थमाख्यायिकातो ऽपसुत्य श्रुतिः स्वमुखेनैवाऽचष्टे ऽस्मभ्यम् ।
यस्माद्वायुः स्थावरजङ्गमानां भूतानामन्तरात्मा बहिश्च स एव तस्मादध्यात्माधिभूताधिदैवभावेन विविधा याष्टिर्व्याप्तिः स वायुरेव ।
तथा समष्टिः केवलेन सूत्रात्मना वायुरेव ।
एवं वायुमात्मानं समष्टिव्यष्टिरूपात्मकत्वेनोपगच्छति य एवं वेद ।
तस्य किं फलमित्याहि-अप पुनर्मृत्युं जयति सकृत्मृत्वा पुननं म्रियते ।
तत आत्मनः प्रश्ननिर्णयाद्भुज्युर्लाह्यायनिरुपरराम ॥2॥
इति बृहदारण्यकोपनिषद्भाष्ये तृतीयाध्यायस्य तृतीयं ब्राह्मणम् ॥3॥
स्तर्त् ब्र्हुप् 3,4.1
अथ हैनम् उषस्तश् चाक्रायणः पप्रच्छ ।
याज्ञवल्क्येति होवाच -- यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ।
यो ऽपानेनापानिति स त आत्मा सर्वान्तरः ।
यो व्यानेन व्यनिति स त आत्मा सर्वान्तरः ।
य उदानेनोदनिति स त आत्मा सर्वान्तरः ।
एष त आत्मा सर्वान्तरः

3.4.2

ब्र्हुप्भ्_3,4.1 अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ ।
पुण्यपापप्रयुक्तैर्ग्रहातिग्रहैर्गृहीतः पुनः पुनर्ग्रहातिग्रहांस्त्यजन्नुपाददत्संसरतीत्युक्तम् ।
पुण्यस्य च पर उत्कर्षो व्याख्यातो व्याकृतविषयः समष्टिव्यष्टिरूपो द्वैतैकत्वात्मप्राप्तिः ।
यस्तु ग्रहातिग्रहैर्ग्रस्तः संसरति सो ऽस्ति वा नास्त्यस्तित्वे च किंलक्षण इत्यात्मन एव विवेकाधिगमायोषस्तप्रश्न आरभ्यते ।
तस्य च निरुपाधिस्वरूपस्य क्रियाकारकविनिर्मुक्तस्वभावस्याधिगमाद्यथोक्ताद्वन्धनाद्विमुच्यते सप्रयोजकात् ।
आख्यायिकासंबन्धस्तु प्रसिद्धः ।
अथ हैनं प्रकृतं याज्ञवल्क्यमुषस्तो नामतश्चक्रस्यापत्यं चाक्रायणः पप्रच्छ ।
यद्ब्रह्म साक्षादव्यवहितं केनचिद्द्रष्टुरपरोक्षादगौणम् ।
न श्रोत्रब्रह्मादिवत् ।
किं तत् ।
य आत्मा ।
आत्मशब्देन प्रत्यगात्मोच्यते ।
तत्राऽत्मशब्दस्य प्रसिद्धत्वात् ।
सर्वस्याभ्यन्तरः सर्वान्तरः यद्यःशब्दाभ्यां प्रसिद्ध आत्मा ब्रह्मेति ।
तमात्मानं मे मह्यं व्याचक्ष्वेति ।
विष्पष्टं शृङ्गे गृहीत्वा यथा गां दर्शयति तथाऽचक्ष्व सो ऽयमित्येवं कथयस्वेत्यर्थः ।
एवमुक्तः प्रत्याह याज्ञवल्क्यः-एषु ते तवाऽत्मा सर्वान्तरः सर्वस्याभ्यन्तरः ।
सर्वविशेषणोपलभणार्थ सर्वान्तरग्रहणम् ।
यत्साक्षादव्यवहितमपरोक्षादगौणं ब्रह्म बृहत्तममात्मा सर्वस्याभ्यन्तर एतैर्गुणैः समस्तैरुक्त एषः ।
को ऽसौ तवाऽत्मा ।
यो ऽयं कार्यकरणसंघातस्तव येनाऽत्मनाऽत्मवान्स एष तवात्मा ।
तव कार्यकरणसंघातस्येत्यर्थः ।
तत्र पिण्डस्तम्याभ्यन्तरे लिङ्गात्मा करणसंघातस्तृतीयो यश्च संदिह्यमानस्तेषु कतमो ममाऽत्मा सर्वान्तरस्त्वया विवक्षित इत्युक्त इतर आह-यः प्राणेन मुखनासिकासंचारिणा प्राणिति प्राणचेष्टां करोति येन प्राणः प्रणीयत इत्यर्थः ।
स ते तब कार्यकरणसंघातस्याऽत्मा विज्ञानमयः ।
समानमन्यत् ।
यो ऽपानेनापानीति ।
यो व्यानेन व्यानीतीति च्छान्दसं दैर्ध्यम् ।
सर्वाः कार्यकरणसंघातगताः प्राणनादिचेष्टा दारुयन्त्रस्येव येन क्रियन्ते ।
नहि चेतनावदनधिष्ठतस्य दारुयन्त्रस्येव प्राणनादिचेष्टा विद्यन्ते ।
तस्माद्विज्ञानमयेनाधिष्ठितं विलक्षणेन दारुयन्त्रवत्प्राणनादिचेष्टां प्रतिपद्यते ।
तस्मात्सो ऽस्ति कार्यकरणसंघातविलक्षणो यश्चिष्टयति ॥1॥
स्तर्त् ब्र्हुप् 3,4.2
स होवाचोषस्तश् चाक्रायणः -- यथा वै ब्रूयाद् असौ गौर् असाव् अश्व इत्य् एवम् एवैतद् व्यपदिष्टं भवति ।
यद् एव साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरः ।
न दृष्टेर् द्रष्टारं पश्येः ।
न श्रुतेः श्रोतारं शृणुयाः ।
न मतेर् मन्तारं मन्वीथा ।
न विज्ञातेर् विज्ञातारं विजानीयाः ।
एष त आत्मा सर्वान्तरः ।
अतो ऽन्यद् आर्तम् ।
ततो होषस्तश् चाक्रायण उपरराम

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc