भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 3.3

3.3.1

ब्र्हुप्भ्_3,2.13 ग्रहातिग्रहरूपं बन्धनमुक्तं मृत्युरूपं तस्य च मृत्योर्मृत्युसद्भावान्मोक्षश्चोपपद्यते ।
स च मोक्षो ग्रहातिग्रहरूपाणामिहैव प्रलयः प्रदीपनिर्वाणवत् ।
यद्वद्ग्रहातिग्रहाख्यं बन्धनं मृत्युरूपं तस्य यत्प्रयोजकं तत्स्वरूपनिर्धारणार्थमिदमारभ्यते ।
याज्ञवल्क्येति होवाच ।
अत्र केचिद्वर्णयन्ति ग्रहातिग्रहस्य सप्रयोजकस्य विनाशे ऽपि किल न मुच्यते ।
नामावशिष्टो ऽविद्ययोषरस्थानीयया स्वात्मप्रभवया प मात्मनः परिच्छिन्नो भोज्याच्च जगतो व्यावृत्त उच्छिन्न कामकर्मान्तराले व्यवतिष्ठते ।
तस्य परमात्मैकत्वदर्शने द्वैतदर्शनमपनेतव्यमित्यतः परं परमात्मदर्शनमारब्धव्यमित्येवमपवर्गाख्यामन्तरालावस्थां परिकल्योत्तरग्रन्थसंबन्धं कुर्वन्ति ।
तत्र वक्तव्यं विशीर्णेषु करणेषु विदेहस्य परमात्मदर्शनश्रवणमनननिदिध्यासनानि कथमिति ।
समवनीतप्राणस्य हि नाममात्रावशिष्टस्येति तैरुच्यते ।
मृतः शेत इति हयुक्तम् ।
न मनोरथेनाप्येतदुपपादयितुं शक्यते ।
अथ जीवन्नेवाविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते तत्तु किंनिमित्तमिति वक्तव्यम् ।
समस्तद्वैतैकत्वात्मप्राप्तिनिमित्तमिति यद्युच्यते तत्पूर्वमेव निराकृतम् ।
कर्मसहितेन द्वैतैकत्वात्मदर्शनेन सम्पन्नो विद्वान्मृतः समवनीतप्राणो जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयादसमवनीतप्राणो भोज्याज्जीवन्नेव व्यावृत्तो विरक्तः परमात्मदर्शनाभिमुखः स्यात् ।
न चोभयमेकप्रयत्ननिष्पाद्येन साधनेन लभ्यम् ।
हिरण्यगर्भप्राप्तिसाधनं चेन्न ततो व्यावृत्तिसाधनम् ।
परमात्माभिमुखीकरणस्य भोज्याद्वयावृत्तेः साधनं चेन्न हिरण्यगर्भप्राप्तिसाधनम् ।
न हि यद्गतिसाधनं तद्गतिनिवृत्तेरपि ।
अथ मृत्वा हिरण्यगर्भं प्राप्य ततः समवनीतप्राणो नामावशिष्टः परमात्मज्ञाने ऽधिक्रियते ।
ततो ऽस्मदाद्यर्थं परमात्मज्ञानोपदेशो ऽनर्थकः स्यात् ।
सर्वेषां हि ब्रह्मविद्या पुरुषार्थायोपदिश्यते"तद्यो यो देवानाम्"इत्याद्यया श्रुत्या ।
तस्मादत्यन्तनिकृष्टा शास्त्रबाह्यैवेयं कल्पना ।
प्रकृतं तु वर्तयिष्याम ।
तत्र केन प्रयुक्तं ग्रहातिग्रहलक्षणं बन्धनमित्येतन्निर्दिधारयिषयाऽह-यत्रास्य पुरुषस्यासम्यग्दर्शिनः शिरःपाण्यादिमतो मृतस्य वागग्निमप्येति वातं प्राणो ऽप्येति चक्षुरादित्यमप्येतीति सर्वत्र सम्बध्यते ।
मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मेत्यत्राऽत्माधिष्ठानं हृदयाकाशमुच्यते ।
स आकाशमप्येति ।
ओषधीरपियति लोमानि ।
वनस्पतीनपियन्ति केशाः ।
अप्सु लोहितं च रेतश्च निधीयत इति पुनरादानलिङ्गम् ।
सर्वत्र हि वागादिशब्देन देवताः परिगृह्यन्ते न तु करणान्येवापक्रामन्ति प्राङ्मोक्षात् ।
तत्र देवताभिरनधिष्ठितानि करणानि न्यस्तदात्राद्युपमानानि विदेहश्च कर्ता पुरुषो ऽस्वतन्त्रः किमाश्रितो भवतीति पृच्छयते-क्वायं तदा पुरुषो भवतीति ।
किमाश्रितस्तदा पुरुषो भवतीति ।
यमाश्रयमाश्रित्य पुनः कार्यकरणसंघातमुपादत्ते येन ग्रहातिग्रहलक्षणं बन्धनं प्रयुज्यते तत्किमिति प्रश्नः ।
अत्रोच्यते-स्वभावयदृच्छाकालकर्मदैवविज्ञानमात्रशून्यानि वादिभिः परिकल्पितानि ।
अतो ऽनेकविप्रतिपत्तिस्थानत्वान्नैव जल्पन्यायेन वस्तुनिर्णयः ।
अत्र वस्तुनिर्णयं चेदिच्छस्याहर सोभ्य हस्तसार्तभाग ह आवामेवैतस्य त्वत्पृष्टस्य वेदितव्यं यत्तद्वेदिष्यावो निरूपयिष्यावः ।
कस्मात् ।
न नावावयोरेतद्वस्तु सजने जनसमुदाये निर्णेतुं शक्यते ।
अत एकान्त गमिष्यावो विचारणाय ।
तौ हेत्यादि श्रुतिवचनम् ।
तौ याज्ञवल्क्यार्तभागावेकान्तं गत्वा किं चक्रतुरित्युच्यते-तौ होत्क्रम्य सजनाद्देशान्मन्त्रयाञ्चक्राते ।
आदौ लौकिकवादिपक्षाणामेकैकं परुगृह्य विचारितवन्तौ ।
तौ ह विचार्य यदूचतुरपोह्य पूर्वपक्षान्सर्वानेव तच्छृणु ।
कर्म हैवाऽश्रयं पुनः पुनः कार्यकरणोपादानहेतुं तत्तत्रोचतुरुक्तवन्तौ ।
न केवलं कालकर्मदैवेश्वरेष्वभ्युपगतेषु हेतुषु यत्प्रशशंसतुस्तौ कर्म हैव तत्प्रशशंसतुः ।
यस्मान्निर्धारितमेतत्कर्मप्रयुक्तं ग्रहातिग्रहादिकार्यकरणोपादानं पुनः पुनस्तस्मात्पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति तद्विपरोतेन विपरीतो भवति पापः पापेनेत्येवं याज्ञवल्क्येन प्रश्नेषु निर्णीतेषु ततो ऽशक्यप्रकम्प्यत्वाद्याज्ञवल्क्यस्य ह जरत्कारव आर्तभाग उपरराम ॥13॥
इति तृतीयाध्याये द्वितीयमार्तभागब्राह्मणम् ॥2॥
स्तर्त् ब्र्हुप् 3,3.1
अथ हैनं भुज्युर् लाह्यायनिः पप्रच्छ -- याज्ञवल्क्येति होवाच -- मद्रेषु चरकाः पर्यव्रजाम ।
ते पतञ्चलस्य काप्यस्य गृहान् ऐम ।
तस्यासीद् दुहिता गन्धर्वगृहीता ।
तम् अपृच्छाम को ऽसीति ।
सो ऽब्रवीत् सुधन्वाङ्गिरस इति ।
तं यदा लोकानाम् अन्तान् अपृच्छाम ।
अथैनम् अब्रूम -- क्व पारिक्षिता अभवन्न् इति ।
क्व पारिक्षिता अभवन् ।
स त्वा पृच्छामि याज्ञवल्क्य ।
क्व पारिक्षिता अभवन्न् इति

3.3.2

ब्र्हुप्भ्_3,3.1 अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ ।
ग्रहातिग्रहलक्षणं बन्धनमुक्तम् ।
यस्मात्सप्रयोजकान्मुक्तो मुच्यते येन वा बद्धः संसरति स मृत्युः ।
तस्माच्च मोक्ष उपपद्यते ।
यस्मान्मृयोर्मृत्युरस्ति ।
मुक्तस्य च न गतिः क्वचित् ।
सर्वोत्सादो नाममात्रावशेषः प्रदीपनिर्वाणवदिति चावधृतम् ।
तत्र संसरतां मुच्यमानानां च कार्यकरणानां स्वकारणसंसर्गे समाने मुक्तानामत्यन्तमेव पुनरनुपादानम् ।
संसरतां तु पुनः पुनरुपादानं येन प्रयुक्तानां भवति तत्कर्मेत्यवधारितं विचारणापूर्वकम् ।
तत्क्षये च नामावशेषेण सर्वोत्सादो मोक्षः ।
तच्च पुण्यपापाख्यं कर्म ।
पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेत्यवधारितत्वात् ।
एतत्कृतः संसारः ।
तत्रापुण्येन स्थावरजङ्गमेषु स्वभावदुःखबहुलेषु नरकतिर्यक्प्रेतादिषु च दुःखमनुभवति पुनः पुनर्जायमानो म्रियमाणश्चेत्येतद्राजवर्त्मवत्सर्वलोकप्रसिद्धम् ।
यत्तु शास्त्रीयं पुण्यो वै पुण्येन कर्मणा भवति तत्रैवादरः क्रियत इह श्रुत्या ।
पुण्यमेव च कर्म सर्वपुरुषार्थसाधनमिति सर्वे श्रुतिस्मृतिवादाः ।
मोक्षस्यापि पुरुषार्थत्वात्तत्साध्यता प्राप्ता ।
यावद्यावत्पुण्योत्कर्षस्तावत्तावत्फलोत्कर्षप्राप्तिः ।
तस्मादुत्तमेव पुण्योत्कर्षेण मोक्षो भविष्यतीत्याशङ्का स्यात् ।
सा निवर्तयितव्या ज्ञानसहितस्य च प्रकृष्टस्य कर्मण एतावती गतिः ।
व्याकृतनामरूपास्पदत्वात्कर्मणस्तत्फलस्य च ।
न त्वकार्ये नित्ये ऽव्याकृतधर्मिण्यनामरूपात्मके क्रियाकारकफलस्वभाववर्जिते कर्मणो व्यापारो ऽस्ति ।
यत्र च व्यापारः स संसार एवेत्यस्यार्थस्य प्रदर्शनाय ब्रह्मणमारभ्यते ।
यत्तु कैश्चिदुच्यते विद्यासहितं कर्म निरभिसंधि मन्त्रशर्करादियुक्तविषदध्यादिवत्कार्यान्तरमारभत इति ।
तन्न ।
अनारभ्यत्वान्मोक्षस्य ।
बन्धनाश एव हि मोक्षो न कार्यभूतः बन्धनं चाविद्येत्यवोचाम ।
अविद्यायाश्च न कर्मणा नाश उपपद्यते ।
दृष्टविषयत्वाच्व कर्मसामर्थ्यस्य ।
उत्पत्त्याप्तिविकारसंस्कारा हि कर्मसामर्थ्यस्य विषयाः ।
उत्पादयितुं प्रापयितुं विकर्तुं च सामर्थ्यं कर्मणो नातो व्यतिरिक्तविषयो ऽस्ति कर्मसामर्थ्यस्य ।
लोके ऽप्रसिद्धत्वात् ।
न च मोक्ष एषां पदार्थानामन्यतमः ।
अविद्यामात्रव्यवहित इत्यवोचाम ।
बाढम् ।
भवतु केवलस्यैव कर्मण एवंस्वभावता ।
विद्यासंयुक्तस्य तु निरभिसंधेर्भवत्यन्यथा स्वभावः ।
दृष्टं ह्यन्यशक्तित्वेन निर्ज्ञातानामपि पदार्थानां विषदध्यादीनां विद्यामन्त्रशर्करादिसंयुक्तानामन्यविषये सामथ्यम् ।
तथा कर्मणो ऽप्यस्त्विति चेत् ।
न ।
प्रमाणाभावात् ।
तत्र हि कर्मण उक्तविषयव्यतिरेकेण विषयान्तरे सामर्थ्यास्तित्वे प्रमाणं न प्रत्यक्षं नानुमानं नोपमानं नार्थापत्तिर्न शब्दो ऽस्ति ।
ननु फलान्तराभावे चोदनान्यथानुपपत्तिः प्रमाणमिति ।
न हि नित्यानां कर्मणां विश्वजिन्न्यायेन फलं कल्प्यते ।
नापि श्रुतं फलमस्ति ।
चोद्यन्ते च तानि ।
पारिशेष्यान्मोक्षस्तेषां फलमिति गम्यते ।
अन्यथा हि पुरुषा न प्रवर्तेरन् ।
ननु विश्वजिन्न्याय एवाऽयातो मोक्षस्य फलस्य कल्पितत्वात् ।
मोक्षे वान्यस्मिन्वा फले ऽकल्पिते पुरुषा न प्रवर्तेरन्निति मोक्षः फलं कल्प्यते श्रुतार्थापत्त्या यथा विश्वजिति ।
नन्वेवं सति कथमुच्यते विश्वजिन्न्यायो न भवतीति ।
फलं च कल्प्यते विश्वजिन्न्यायश्च न भवतीति विप्रतिषिद्धमभिधीयते ।
मोक्षः फलमेव न भवतीति चेत् ।
न ।
प्रतिज्ञाहानात् ।
कर्म कार्यान्तरं विषदध्यादिवदारभत इति हि प्रतिज्ञातम् ।
स चेन्मोक्षः कर्मणः कार्यं फलमेव न भवतीति सा प्रतिज्ञा हीयेत ।
कर्मकार्यत्वे च मोक्षस्य स्वर्गादिफलेभ्यो विशेषो वक्तव्यः ।
अथ कर्मकार्यं न भवति नित्यानां कर्मणां फलं मोक्ष इत्यस्या वचनव्यक्तेः कोर्ऽथ इति वक्तव्यम् ।
न च कार्यफलशब्दभेदमात्रेण विशेषः शक्यः कल्पयितुम् ।
अफलं च मोक्षो नित्यैश्च कर्मभिः क्रियते नित्यानां कर्मणां फलं न कार्यमिति चैषोर्ऽथो विप्रतिषिद्धो ऽभिधीयते यथाग्निः शीत इति ।
ज्ञानवदिति चेत् ।
यथा ज्ञानस्य कार्यं मोक्षो ज्ञानेनाक्रियमाणो ऽप्युच्यते तद्वत्कर्मकार्यत्वमिति चेत् ।
न ।
अज्ञाननिवर्तकत्वाज्ज्ञानस्य ।
अज्ञानव्यवधाननिवर्तकत्वाज्ज्ञानस्य मोक्षो ज्ञानकार्यमित्युपचर्यते ।
न तु कर्मणा निवर्तयितव्यमज्ञानम् ।
न चाज्ञानव्यतिरेकेण मोक्षस्य व्यवधानान्तरं कल्पयितुं शक्यम् ।
नित्यत्वान्मोक्षस्य साधकस्वरूपाव्यतिरेकाच्च, यत्कर्मणा निवर्त्येत ।
अज्ञानमेव निवर्तयतीति चेत् ।
न ।
विलक्षणत्वात् ।
अनभिव्यक्तिरज्ञानमभिव्यक्तिलक्षणेन ज्ञानेन विरुध्यते ।
कर्म तु ताज्ञानेन विरुध्यते तेन ज्ञानविलक्षणं कर्म ।
यदि ज्ञानाभावो यदि संशयज्ञानं यदि विपरीतज्ञानं वोच्यते ऽज्ञानमिति सर्वं हि तज्ज्ञानेनैव निवर्त्यते ।
न तु कर्मणान्यतमेनापि विरोधाभावात् ।
अथादृष्टं कर्मणामज्ञाननिवर्तकत्वं कल्प्यमिति चेत् ।
न ।
ज्ञानेनाज्ञाननिवृत्तौ गम्यमानायामदृष्टनिवृत्तिकल्पनानुपपत्तेः ।
यथावघातेन व्रीहीणां तुषनिवृत्तौ गम्यमानायामग्निहोत्रादिनित्यकर्मकार्यादृष्टा न कल्प्यते तुषनिवृत्तिः ।
तद्वदज्ञाननिवृत्तिरपि नित्यकर्मकार्यादृष्टा न कल्प्यते ।
ज्ञानेन विरुद्धत्वं चासकृत्कर्मणामवोचाम ।
यदविरुद्धं ज्ञानं कर्मभिस्तद्देवलोकप्राप्तिनिमित्तमित्युक्तं"विद्यया देवलोकः"इति श्रुतेः ।
किञ्चान्यत्कल्प्ये च फले नित्यानां कर्मणां श्रुतानां यत्कर्मभिर्विरुध्यते द्रव्यगुणकर्मणां कार्यमेव न भवति, किं तत्कल्प्यतामिति? यस्मिन्कर्मणः सामर्थ्यमेव न दृष्टम्, किंवा यस्मिन्दृष्टं सामर्थ्यं यच्च कर्मणां फलमविरुद्धं तत्कल्प्यतामिति ।
पुरुषप्रवृत्तिजननायावश्यं चेत्कर्मफलं कल्पयितव्यम् कर्माविरुद्धविषय एव श्रुतार्थापत्तेः क्षीणत्वान्नित्यो मोक्षः फलं कल्पयितुं न शक्यस्तद्व्यवधानाज्ञाननिवृत्तिर्वा ।
अविरुद्धत्वाद्दृष्टसामर्थ्यविषयत्वाच्चेति ।
पारिशेष्यन्यायान्मोक्ष एव कल्पयितव्य इति चेत् ।
सर्वेषां हि कर्मणां सर्वं फलम् न चान्यदितरकर्मफलव्यतिरेकेण फलं कल्पनायोग्यमस्ति ।
परिशिष्टश्च मोक्षः ।
स चेष्टो वेदविदां फलम् ।
तस्मात्स एव कल्पयितव्य इति चेत् ।
न ।
कर्मफलव्यक्तोनामानन्त्यात्पारिशेष्यन्यायानुपपत्तेः ।
नहि पुरुषेच्छाविषयाणां कर्मफलानामेतावत्त्वं नाम केनचिदसर्वज्ञेनावधृतं तत्साधनानां वा पुरुषेच्छानां वानियतदेशकालनिमित्तत्वात्पुरुषेच्छाविषयसाधनानां च पुरुषेष्टफलप्रयुक्तत्वात् ।
प्रतिप्राणि चेच्छावैचित्र्यात्फलानां तत्साधनानां चाऽनन्त्यसिद्धिः ।
तदानन्त्याच्चाशक्यमेतावत्त्वं पुरुषैर्ज्ञातुम् ।
अज्ञाते च साधनफलैतावत्त्वे कथं मोक्षस्य परिशेषसिद्धिरिति ।
कर्मफलजातिपारिशेष्यमिति चेत् ।
सत्यपीच्छाविषयाणां तत्साधनानां चाऽनन्त्ये कर्मफलजातित्वं नाम सर्वेषां तुल्यम् ।

मोक्षसत्वकर्मफलत्वात्परिशिष्टः स्यात् ।
तस्मात्परिशेषात्स एव युक्तः कल्पयितुमिति चेत् ।
न ।
तस्यापि नित्यकर्मफलत्वाभ्युपगमे कर्मफलसमानजातीयत्वोपपत्तेः परिशेषानुपपत्तिः ।
तस्मादन्यथाप्युपपत्तेः क्षीणा श्रुतार्थापत्तिः ।
उत्पत्तयाप्तिविकारसंस्काराणामन्यतमपि नित्यानां कर्मणां फलमुपपद्यत इति क्षीणा श्रुतार्थापत्तिः ।
चतुर्णामन्यतम एव मोक्ष इति चेत् ।
न तावदुत्पाद्यो नित्यत्वात् ।
अत एवाविकार्यो ऽसंस्कार्यश्चात एव, असाधनद्रव्यात्मकत्वाच्च ।
साधनात्मकं हि द्रव्यं संस्क्रियते ।
यथा पात्राज्यादि प्रोक्षणादिना ।
न च संस्क्रियमाणः संस्कारनिर्वर्त्यो वा यूपादिवत् ।
पारिशेष्यादाप्यः स्यात् ।
नाऽप्यो ऽप्यात्मस्वभावत्वादेकत्वाच्च ।
इतरैः कर्मभिर्वैलक्षण्यान्नित्यानां कर्मणां तत्फलेनापि विलक्षणेन भवितव्यमिति चेत् ।
न ।
कर्मत्वसालक्षण्यात्सलक्षणं कस्मात्फलं न भवतीतरकर्मफलैः ।
निमित्तवैलक्षण्यादिति चेत् ।
न ।
क्षामवत्यादिभिः समानत्वात् ।
यथा हि गृहदाहादौ निमित्ते क्षामवत्यादीष्टिर्यथा भिन्ने जुहोति स्कन्ने जुहोतीत्येवमादौ नैमित्तिकेषु कर्मसु न मोक्षः फलं कल्प्यते ।
तैश्चाविशेषान्नैमित्तिकत्वेन जीवनादिनिमित्ते च श्रवणात् ।
तथा नित्यानामपि न मोक्षः फलम् ।
आलोकस्य सर्वेषां रूपदर्शनसाधनत्व उलूकादय आलोकेन रूपं न पश्यन्तीत्युलुकादिचक्षुषो वैलक्षण्यादितरलोकचक्षुर्भिर्न रसादिविषयत्वं परिकल्प्यते रसादिविषये सामर्थ्यस्यादृष्टत्वात् ।
सुदूरमपि गत्वा यद्विषये दृष्टं सामर्थ्यं तत्रैव कश्चिद्विशेषः कल्पयितव्यः ।
यत्पुनरुक्तं विद्यामन्त्रशर्करादिसंयुक्तविषददध्यादिवन्नित्यानि कार्यान्तरमारभन्त इति ।
आरभ्यतां विशिष्टं कार्यं तदिष्टत्वादविरोधः ।
निरभिसंधेः कर्मणो विद्यासंयुक्तस्य विशिष्टकार्यान्तरारम्भे न कश्चिद्विरोधः ।
देवयाज्यात्मयाजिनोरात्मयाजिनो विशेषश्रवणाद्देवयाजिनःऽश्रेयानात्मयाजीऽत्यादौऽयदेव विद्यया करोतीऽत्यादौ च ।
यस्तु परमात्मदर्शनविषये मनुनोक्त आत्मयाजिशब्दःऽसमं पश्यन्नात्मयाजीऽत्यत्र समं पश्यन्नात्मयाजी भवतीत्यर्थः ।
अथवा भूतपूर्वगत्या ।
आत्मयाज्यात्मसंस्कारार्थं नित्यानि कर्माणि करोति"इदं मे ऽनेनाङ्ग संस्क्रियते"इति श्रुतेः ।
तथा गार्भैर्हेमैरित्यादिप्रकरणे कार्यकरणसंस्कारार्थत्वं नित्यानां कर्मणां दर्शयति ।
संस्कृतश्च य आत्मयाजी तैः कर्मभिः समं द्रष्टुं समर्थो भवति ।
तस्येह वा जन्मान्तरे वा सममात्मदर्शनमुत्पद्यते समं पश्यन्स्वाराज्यमधिगच्छतीत्येषोर्ऽथः ।
आत्मयाजिशब्दस्तु भूतपूर्वगत्या प्रयुज्यते ।
ज्ञानयुक्तानां नित्यानां कर्मणां ज्ञानोत्पत्तिसाधनत्वप्रदर्शनार्थम् ।
किञ्चान्यत्- ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ।
उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः ॥
इति च देवसार्ष्टिव्यतिरेकेण भूताप्ययं दर्शयति भूतान्यप्येति पञ्च वै ।
भूतान्यत्येतीति पाठं ये कुर्वन्ति तेषां वेदविषये परिच्छिन्नबुद्धित्वाददोषः ।
न चार्थवादत्वमध्यायस्य ब्रह्मान्तकर्मविपाकार्थस्य तद्वयतिरिक्तात्मज्ञानार्थस्य च कर्मकाण्डोपनिषद्भयां तुल्यार्थत्वदर्शनात् ।
विहिताकरणप्रतिषिद्धकर्मणां च स्थावरश्वसूकरादिफलदर्शनात् ।
वान्ताश्यादिप्रेतदर्शनाच्च ।
न च श्रुतिस्मृतिवीरीतप्रतिषिद्धव्यतिरेकेण विहितानि वा प्रतिषिद्धानिवा कर्माणि केनचिदवगन्तुं शक्यन्ते ।
येषामकरणादनुष्ठानाच्च प्रेतश्वसूकरस्थावरादीनि कर्मफलानि प्रत्यक्षानुमानाभ्यामुपलभ्यन्ते ।
न चैषामकर्मफलत्वं केनचिदभ्युपगम्यते ।
तस्माद्विहिताकरणप्रतिषिद्धसेवानां यथैते कर्मविपाकाः प्रेततिर्यक्स्थावरादयस्तथोत्कृष्टेष्वपि ब्रह्मान्तेषु कर्मविपाकत्वं वेदितव्यम् ।
तस्मात्"स आत्मनो वपामुदखिदत्" "सो ऽरोदीदि"त्यादिवन्नाभूतार्थवादत्वम् ।
तत्राप्यभूतार्थवदत्वं मा भूदिति चेत् ।
भवत्वेवम् ।
न चैतावतास्य न्यायस्य बाधो भवति ।
न चास्मत्पक्षो वा दुष्यति ।
न च"ब्रह्मा विश्वसृज"इत्यादीनां काम्यकर्मफलत्वं शक्यं वक्तुम् ।
तेषां देवसार्ष्टितायाः फलस्योक्तत्वात् ।
तस्मात्साभिसंधीनां नित्यानां कर्मणां सर्वमेधाश्वमेधादीनां च ब्रह्मत्वादीनि फलानि ।
येषां पुनर्नित्यानि निरभिसंधीन्यात्मसंस्कारार्थानि तेषां ज्ञानोत्पत्त्यर्थानि तानि ।
"ब्राह्मीयं क्रियते तनुः"इति स्मरणात् ।
तेषामारादुपकारकत्वान्मोक्षसाधनान्यपि कर्माणि भवन्तीति न विरुध्यते ।
यथा चायमर्थः षष्ठे जनकाख्यायिकासमाप्तौ वक्ष्यामः ।
यत्तु विषदध्यादिवदित्युक्तं तत्र प्रत्यक्षानुमानविषयत्वादविरोधः ।
यस्त्वत्यन्तशब्दगम्योर्ऽथस्तत्र वाक्यस्याभावे तदर्थप्रतिपादकस्य न शक्यं कल्पयितुं विषदध्यादिसाधर्म्यम् ।
न च प्रमाणान्तरविरुद्धार्थविषये श्रुतेः प्रामाण्यं कल्प्यते यथा शीतो ऽग्निः क्लेदयतीति ।
श्रुते तु तादर्थ्ये वाक्यस्य प्रमाणान्तरस्याऽभासत्वम ।
यथा खद्योतो ऽग्निरिति तलमलिनमन्तरिक्षमिति बालानां यत्प्रत्यक्षमपि तद्विषयप्रमाणान्तरस्य यथार्थत्वे निश्चिते निश्चितार्थमपि बालप्रत्यक्षमाभासीभवति ।
तस्माद्वेदप्रामाण्यस्याव्यभिचारात्तादर्थ्ये सति वाक्यस्य तथात्वं स्यात् ।
न तु पुरुषमतिकौशलम् ।
नहि पुरुषमतिकौशलात्सविता रूपं न प्रकाशयति ।
तथा वेदवाक्यान्यपि नान्यार्थानि भवन्ति ।
तस्मान्न मोक्षार्थानि कर्माणीति सिद्धम् ।
अतः कर्मफलानां संसारत्वप्रदर्शनायैव ब्राह्मणमारभ्यते ।
अथानन्तरम् उपरते जारत्कारवे, भुज्युरिति नामतो लह्यस्यापत्यं लाह्यस्तदपत्यं लाह्यायनिः पप्रच्छ ।
याज्ञवल्क्येति होवाच ।
आदाबुक्तमश्वमेधदर्शनम्;समष्टिव्यष्टिफलश्चाश्वमेधक्रतुः, ज्ञानसमुच्चितो वा केवलज्ञानसम्पादितो वा, सर्वकर्मणां परा काष्ठा;भ्रणहत्याश्वमेधाभ्यां न परं पुण्यपापयोरिति हि स्मरन्ति;तेन हि समष्टिं व्यष्टीश्च प्राप्नोति;तत्र व्यष्टयो निर्ज्ञाता अन्तरण्डविषया अश्वमेधयागफलभूताः;ऽमृत्युरस्यात्मा भवत्येतासां देवतानामेका भवतिऽ(1 । 2 । 7) इत्युक्तम् ।
मृत्युश्चाशनायालक्षणो बुद्धयात्मा समष्टिः प्रथमजो वायुः सूत्रं सत्यं हिरण्यगर्भः;तस्य व्याकृतो विषयः-यदात्मकं सर्वं द्वैतैकत्वम् ।
यः सर्वभूतान्तरात्मा लिङ्गम् अमूर्तरसो यदाश्रितानि सर्वभूतकर्माणि, यः कर्मणां कर्मसम्बद्धानां च विज्ञानानां परा गतिः परं फलम्, तस्य कियान् गोचरः कियति व्याप्तिः सर्वतः परिमण्डलीभूता, सा वक्तव्या;तस्याम् उक्तायां सर्वः संसारो बन्धगोचर उक्तो भवति ।
तस्य च समष्टिव्यष्ट्यात्मदर्शनस्य अलौकिकत्वप्रदर्शनार्थमाख्यायिकामात्मनो वृत्तां प्रकुरुते;तेन च प्रतिवादिबुद्धिंव्यामोहयिष्यामीति मन्यते ।
मद्रेषु मद्रा नाम जनपदास्तेषु, चरका अध्ययनार्थव्रतचरणाच्चरका अध्वर्यवो वा, पर्यव्रजाम पर्यटितवन्तः;ते पतञ्चलस्य नामतः, काप्यस्य कपिगोत्रस्य, गृहान् ऐम गतवन्तः ।

तस्यासीद् दुहिता गन्धर्वगृहीता-गन्धर्वेण अमानुषेण सच्वेन केनचिदाविष्टा;गन्धर्वो वा धिष्ण्यो ऽग्निरृत्विगदेवता विशिष्टविज्ञानत्वादवसीयते;न हि सच्वमात्रस्येदृशं विज्ञानमुपपद्यते ।
तं सर्वे वयं परिवारिताः सन्तो ऽपृच्छाम-को ऽसीति, कस्त्वमसि किन्नामा किंसतच्वः ।
सो ऽब्रवीद् गन्धर्वः सुधन्वा नामतः, आङ्गिरसो गोत्रतः ।
तं यदा यस्मिन् काले लोकानामन्तान् पर्यवसानानि अपृच्छाम अथैनं गन्धर्वमब्रूम-भूवनकोशपरिमाणज्ञानाय प्रवृत्तेषु सर्वेष्वात्मानं श्लाघयन्तः पृष्टवन्तो वयम्;कथम्? क्व पारिक्षिता अभवन्निति ।
स च गन्धर्वः सर्वमस्मभ्यब्रवीत् ।
तेन दिव्येभ्यो मया लब्धं ज्ञानम्, तत्तव नास्ति, अतो निगृहीतो ऽसि, इत्यभिप्रायः ।
सो ऽहं विद्यासम्पन्नो लब्धागमो गन्धर्वात् त्वा त्वां पृच्छामि याज्ञवल्क्य-क्व पारिक्षिता अभवन्तत् त्वं किं जानासि? हे याज्ञवल्क्यऽकथय पृच्छामि क्व पारिक्षिता अभवन्निति ॥1॥
स्तर्त् ब्र्हुप् 3,3.2
स होवाच -- उवाच वै सः ।
अगच्छन् वै ते तद् यत्राश्वमेधयाजिनो गच्छन्तीति ।
क्व न्व् अश्वमेधयाजिनो गच्छन्तीति ।
द्वात्रिंशतं वै देवरथाह्न्यान्य् अयं लोकः ।
तं समन्तं पृथिवी द्विस्तावत् पर्येति ।
तां समन्तं पृथिवीं द्विस्तावत् समुद्रः पर्येति ।
तद् यावती क्षुरस्य धारा यावद् वा मक्षिकायाः पत्त्रं तावान् अन्तरेणाकाशः तान् ऐन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् ।
तान् वायुर् आत्मनि धित्वा तत्रागमयद् यत्राश्वमेधयाजिनो ऽभवन्न् इति ।
एवम् इव वै स वायुम् एव प्रशशंस तस्माद् वायुर् एव व्यष्टिर् वायुः समष्टिः ।
अप पुनर्मृत्युं जयति य एवं वेद ।
ततो ह भुज्युर् लाह्यायनिर् उपरराम

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc