बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 3.2
ब्र्हुप्भ्_3,1.10 याज्ञवल्क्येति होवाचेति पूर्ववत् ।
कति स्तोत्रियाः स्तोप्यतीत्ययमुद्गाता ।
स्तोत्रिया नाम ऋक्सामसमुदायः कतिपयानामृचाम् ।
स्तोत्रियावाशम्यावायाः काश्चन ऋचः, ता सर्वास्तिस्त्र एवेत्याह ।
ताश्च व्याख्याताः- मुरोनुवाक्या च याज्या च शस्यैव तृतीयेति ।
तत्र पूर्वमुक्तम् - यत्किञ्चेदं प्राणभृत सर्वे जयतीति तत् केन सामान्येन? इत्युच्यते - कतमास्तास्तिस्त्र ऋचो या अध्यात्मं भवन्तीति ।
प्राण एव पुरोनुवाक्या, पशब्दसामान्यात् ।
अवानो याज्या, आनन्तर्यात् ।
अपानेन हि प्रत्तं हविर्देवता ग्रसन्ति, यागश्च प्रदानम् ।
व्यानःशस्या -"अप्राणन्ननपानन्नृचमभिव्याहरति"(छ. उ. 1 । 3 । 4) । इति श्रत्यन्तरात् ।
किं ताभिर्जयतीति व्याख्यातम् ।
तत्र विशेषसम्बन्धसामान्यमनुक्तमिहोच्यते, सर्वमन्यद् व्याख्यातम् ।
लोकसम्बन्धसामान्येन पृथिवीलोकमेवपुरोनुवाक्यया जयति, अन्तरिक्षलोकं याज्यया, मध्यमत्वसामान्यात् ।
द्युलोकंशस्ययोर्ध्वत्वसामान्यात् ।
ततो ह तस्मादात्मनः प्रश्ननिर्णयादसौ होता अश्वल उपरराम नायमस्मद्गेचर इति ॥10॥
इति तृतीयाध्याये प्रथममश्वलब्राह्मणम् ॥1॥
आख्यायिकासम्बन्धः प्रसिद्ध एव ।
मृत्योरतिमुक्तिर्व्याख्याता काललक्षणात् कर्मलक्षणाच्च ।
कः पुनरसौ मृत्युर्यस्मादतिमुक्तिर्व्याख्याता? स च स्वाभाविकाज्ञानासङ्गास्पदो ऽध्यात्माधिभूताविषयपरिच्छिन्नो ग्रहातिग्रहलक्षणो मृत्युः ।
तस्मात् परिच्छिन्नरूपान्मृत्योरतिमुक्तस्य रूपाण्यगन्यादित्यादीन्युद्गीथप्रकरणे व्याख्यातानि ।
अश्वलप्रश्नेचतद्गतो विशेषः कश्चित् ।
तच्चैतत् कर्मणां ज्ञानसहितानां फलम् ।
एतस्मात् साध्यसाधनरूपात् संसारान्मोक्षः कर्तव्य इत्यतोबन्धनरूपस्यमृत्योः स्वरूपमुच्यते ।
बद्धस्य हि मोक्षः कर्तव्यः ।
यदप्यतिमुक्तस्य स्वरूपमुक्तं तत्रापि ग्रहातिग्रहाभ्यामविनिर्मुक्त एव मृत्युरूपाभ्याम् ।
तथा चोक्तं"अशनायाहिमृत्युः"(बृ.उ.1 । 2 । 1) "एष एव मृत्युः"इति ।
आदित्यस्थं पुरुषमङ्गीकृत्याह"एको मृत्युर्वहवा"इति च ।
तदात्मभावापन्नो हि मृत्योराप्तिमतिमुच्यत इत्युच्यते ।
न च तत्र ग्रहातिग्रहौ मृत्युरूपौ नस्तः ।
"अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यः"(बृ. उ. 1 । 5 । 12) ऽमनश्वऽग्रहः स कामेनातिग्राहेण गृहीतः"(3 । 2 । 7) इति, वक्ष्यति"प्राणो वै ग्रहः सो ऽपानेनातिग्राहेण"(3 । 2 । 2) इति,"वाग्वै ग्रहः स नाम्नातिग्राहेण"(3 । 2 । 3) इति च ।
तथा व्यन्नविभागे व्याख्यातमस्माभिः ।
सुविचारितं चैतद् यदेव प्रवृत्तिकारणं तदेव निवृत्तिकारणं न भवतीति ।
केचित्तु सर्वमेव निवृत्तिकारणं मन्यन्ते ।
अतः काग्णात् पूर्वस्मात्पूर्वस्मान्मृत्योर्मुच्यते उत्तरमुत्तरं प्रतिपद्यमानो व्यावृत्त्यर्थमेव प्रति पद्यते न तु तादर्थ्यम्, इत्यत आ द्वैतक्षयात सर्वं मृत्युः, द्वैनक्षये तु परमार्थता मृत्योराप्तिमतिमुच्यते ।
अतश्च आपेक्षिकी गौणी मुक्तिरन्तराले ।
सर्वमेतद् एवत् अबार्हदारण्यकम् ।
ननु सर्वैकत्वं मोक्षः"तस्मात्तत्सर्वमभवत्"(बृ. उ. 1 । 4 । 10) इति श्रुतेः ।
बाढं भवत्येतदपि, नतु"ग्रामकामो यजेत, पशुकामो यजेत"इत्यादिश्रुतीनां तादर्थ्यम् ।
यदि ह्यद्वैतार्थत्वमेव आसां ग्रामपशुस्वर्गाद्यर्थत्वं नास्तीति ग्रामपशुस्वर्गादयो न गृह्येरन्, गृह्यन्ते तु कर्मफलवैचित्र्यविशेषाः ।
यदि च वैदिकानां कर्मणां तादर्थ्यमेव, संसार एव नाभविष्यत् ।
अथ तादर्थ्ये ऽपि अनुनिष्पादितपदार्थस्वभावः संसार इति चेत् ।
यथा च रूपदर्शनार्थ आलोके सर्वो ऽपि तत्रस्थः प्रकाश्यत एव ।
न;प्रमाणानुपपत्तेः ।
अद्वैतार्थत्वे वैदिकानां कर्मणां विद्यासहितानाम् अन्यस्पानुनिष्पादितत्वे प्रमाणानुपपत्तिः ।
न प्रत्यक्षं नानुमानमत एव च नागमः ।
उभयम् एकेन वाक्येन प्रदर्श्यत इति चेत् कुल्याप्रणयनालोकादिवत् ।
तन्नेवम्;वाक्यधर्मानुपपत्तेः ।
न च एकवाक्यगतस्यार्थस्य प्रवृत्तिनिवृत्तिसाधनत्वमवगन्तुं शक्यते ।
कुल्याप्रणयनालोकादावर्थस्य प्रत्यक्षत्वाददोषः ।
यदप्युच्यते मन्त्रा अस्मिन्नर्थेः दृष्टा इति ।
अयमेव तु तावदर्थः प्रमाणागम्यः ।
मन्त्राः पुनः किम् अस्मिन्नर्थ आहोस्विदन्यस्मिन्नर्थ इति मृग्यमेतत् ।
तस्माद् ग्रहातिप्रहलक्षणो मृत्युर्बन्धः, तस्मान्भोक्षो वक्तव्य इत्यत इदमारभ्यते न च जानीमो विषयसन्धाविवान्तराले ऽवस्थानमर्धजरतीयं कौशलम् ।
यत्तु मृत्योरतिमुच्यत इत्युकत्वा ग्रहातिग्रहावुच्येते, तच्वर्थसम्बन्धात् ।
सर्वो ऽयं साध्यसाधनलक्षणो बन्धः, ग्रहातिग्रहाविनिर्मोकात् ।
निगडे हि निर्ज्ञाते निगडितस्य मोक्षाय यत्नः कर्तव्यो भवति;तस्मातादर्थ्येनारम्भः ।
स्तर्त् ब्र्हुप् 3,2.1
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ ।
याज्ञवल्क्येति होवाच -- कति ग्रहाः कत्य् अतिग्रहा इति ।
अष्टौ ग्रहा अष्टाव् अतिग्रहा इति ।
ये ते ऽष्टौ ग्रहा अष्टाव् अतिग्रहाः कतमे त इति
ब्र्हुप्भ्_3,2.1 अथ हैनं हशब्द ऐतिह्यार्थः ।
अथानन्तरमश्वल उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारव ऋतभागस्यापत्यमार्तभागः पप्रच्छ याज्ञवल्क्येति होवाचेत्यभिमुखोकरणाय ।
पूर्ववत्प्रश्नः कति ग्रहाः कत्यतिग्रहा इति ।
इतिशब्दो वाक्यपरिसमाप्त्यर्थः ।
तत्र निर्ज्ञातेषु वा ग्रहातिग्रहेषु प्रश्नः स्यादनिर्ज्ञातेषु वा ।
यदि तावद्ग्रहा अतिग्रहाश्च निर्ज्ञातास्तदा तद्गतस्यापि गुणस्य संख्याया निज्ञातत्वात्कति ग्रहाः कत्यतिग्रहा इति संख्याविषयः प्रश्नो नोपपद्यते ।
अथनिर्ज्ञातास्तदा संख्येयविषयप्रश्न इति के ग्रहाः के ऽतिग्रहा इति प्रष्टव्यं न तु कति ग्रहाः कत्यतिग्रहा इति प्रश्नः ।
अपि च निर्ज्ञातसामान्यकेशु विशेषविज्ञानाय प्रश्नो भवति यथा कतमे ऽत्र कठाः कतमे ऽत्र कालापा इति ।
न चात्र ग्रहातिग्रहा नाम पदार्थाः केचन लोके प्रसिद्धाः ।
येन विशेषार्थः प्रश्नः स्यात् ।
ननु चातिमुच्यत इत्युक्तं ग्रहगृहोतस्य हि मोक्षः स मुक्तिः सातिमुक्तिरिति हि द्विरुक्तम् ।
तस्मात्प्राप्ता ग्रहा अतिग्रहाश्च ।
ननु तत्रापि चत्वारो ग्रहा अतिग्रहाश्च निर्ज्ञाता वाक्चक्षुः प्राणमनांसि तत्र कतीति प्रश्नो नोपपद्यते निर्ज्ञातत्वात् ।
न ।
अनवधारणार्थत्वात् ।
न हि चतुष्ट्वं तत्र विवक्षितमिह तु ग्रहातिग्रहादर्शने ऽष्ठत्वगुणविवक्षया कतोति प्रश्न उपपद्यत एव ।
तस्मात्स मुक्तिः सातिमुक्तिरिति मुक्त्यतिक्ती द्विरुक्ते ग्रहातिग्रहा अपि सिद्धाः ।
अतः कतिसंख्याका ग्रहाः कति वातिग्रहा इति पृच्छति ।
इतर आह-अष्टौ ग्रहा अष्टावतिग्रहा इति ।
ये ते ऽष्टौ ग्रहा अभिहिताः कतमे ते नियमेन ग्रहीतव्या इति ॥1॥
स्तर्त् ब्र्हुप् 3,2.2
प्राणो वै ग्रहः ।
सो ऽपानेनातिग्रहेण गृहीतः ।
प्राणेन हि गन्धाञ् जिघ्रति
ब्र्हुप्भ्_3,2.2 तत्राऽह ।
प्राणो वै ग्रहः प्राण इति घ्राणमुच्यते ।
प्रकरणात् ।
वायुसहितः सः ।
अपानेनेति गन्धेनेत्येतत् ।
अपानसचिवत्वादपानो गन्ध उच्यते ।
अपानोपहृतं हि गन्धं घ्राणेन सर्वो लोको जिघ्रति ।
तदेतदुच्यते ऽपानेन हि गन्धाञ्जिघ्रतीति ॥2॥
स्तर्त् ब्र्हुप् 3,2.3-9
वाग् वै ग्रहः ।
स नाम्नातिग्रहेण गृहीतः ।
वाचा हि नामान्य् अभिवदति
जिह्वा वै ग्रहः ।
स रसेनातिग्रहेण गृहीतः ।
जिह्वया हि रसान् विजानाति
चक्षुर् वै ग्रहः ।
स रूपेणातिग्रहेण गृहीतः ।
चक्षुषा हि रूपाणि पश्यति
श्रोत्रं वै ग्रहः ।
स शब्देनातिग्रहेण गृहीतः ।
श्रोत्रेण हि शब्दाञ् शृणोति
मनो वै ग्रहः ।
स कामेनातिग्रहेण गृहीतः ।
मनसा हि कामान् कामयते
हस्तौ वै ग्रहः ।
स कर्मणातिग्रहेण गृहीतः ।
हस्ताभ्यां हि कर्म करोति
त्वग् वै ग्रहः ।
स स्पर्शेनातिग्रहेण गृहीतः ।
त्वचा हि स्पर्शान् वेदयत ।
इत्य् अष्टौ ग्रहा अष्टाव् अतिग्रहाः
ब्र्हुप्भ्_3,2.3-9 वाग्वै ग्रहः ।
वाचा ह्यध्यात्मपरिच्छिन्नयाऽसङ्गविषयास्पदयासत्यानृतासभ्यबीभत्साद् इवचनेषु व्यापृतया गृहीतो लोको ऽपहृतस्तेन ।
वाग्ग्रहः स नाम्नातिग्रारेण गृहीतः स वागाख्यो ग्रहो नाम्ना वक्तव्येन विषयेणातिग्रहेण अतिग्राहेणेति दैघ्यं छान्दसं नाम वक्तव्यार्था हि वाक्तेन वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक्तेन वशीकृता तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः ।
अतो नाम्नातिग्राहेण गृहीता वागित्युच्यते ।
वक्तव्यासङ्गेन हि प्रवृत्ता सर्वानर्थैर्युज्यते ।
समानमन्यत् ।
इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते ऽष्टावतिग्रहा इति ॥ 3-9 ॥
स्तर्त् ब्र्हुप् 3,2.10
याज्ञवल्क्येति होवाच -- यद् इदं सर्वं मृत्योर् अन्नं का स्वित् सा देवता यस्या मृत्युर् अन्नम् इति ।
अग्निर् वै मृत्युः सो ऽपाम् अन्नम् ।
अप पुनर्मृत्युं जयति
ब्र्हुप्भ्_3,2.10 उपसंहृतेषु ग्रहातिग्रहेष्वाह पुनः - याज्ञवल्क्येति होवाच ।
यदिदं सर्वं मृत्योरन्नं यदिदं व्याकृतं सर्वं मृत्योरन्नं सर्वं जायते विपद्यते च ग्रहातिग्रहलक्षणेन मृत्युना ग्रस्तम् ।
कास्वित्का नु स्यात्सा देवता यस्या देवताया मृत्युरप्यन्नं भवेत् ।
"मृत्युर्यस्योपसेचनम्"इति श्रुत्यन्तरात् ।
अयमभिप्रायः प्रष्टुः ।
यदि मृत्योर्मृत्युं वक्ष्यत्यनवस्था स्यात् ।
अथ न वक्ष्यत्यस्माद्ग्रहातिग्रहलक्षणान्मृत्योर्मोक्षो नोपपद्यते ।
ग्रहातिग्रहमृत्युविनाशे हि मोक्षः यात् ।
स यदि मृत्योरपि मृत्युः स्याद्भवेद्ग्रहातिग्रहलक्षणस्य मृत्योर्विनाशः अतो दुर्वचनं प्रश्नं मन्वानः पृच्छति कास्वित्सा देवतेति ।
अस्ति तावन्मृत्योर्मृत्युः ।
नन्वनवस्था स्यात्तस्याप्यन्यो मृत्युरिति ।
नानवस्था ।
सर्वमृत्योर्मृत्य्वन्तरानुपपत्तेः ।
कथं पुनरवगम्यते ऽस्ति मृत्योर्मृत्युरिति ।
दृष्टत्वात् ।
अग्निस्तावत्सर्वस्य दृष्टो मृत्युर्विनाशकत्वात् ।
सो ऽद्भिर्भक्ष्यते सो ऽग्निरपामन्नम् ।
गृहाण तर्ह्यस्ति मृत्योर्मृत्युरिति ।
तेन सर्वं ग्रहातिग्रहजातं भक्ष्यते मृत्योर्मृत्युना ।
तस्मिन्बन्धने नाशिते मृत्युना भक्षिते संसारान्मोक्ष उपपन्नो भवति ।
बन्धनं हि ग्रहातिग्रहलक्षणमुक्तं तस्माच्च मोक्ष उपपद्यत इत्येतत्प्रसाधितम् ।
अतो बन्धमोक्षाय पुरुषप्रयासः सफलो भवत्यतो ऽपजयति पुनर्मृत्युम् ॥10॥
स्तर्त् ब्र्हुप् 3,2.11
याज्ञवल्क्येति होवाच -- यत्रायं पुरुषो म्रियत उद् अस्मात् प्राणाः क्रामन्त्य् आहो नेति ।
नेति होवाच याज्ञवल्क्यः ।
अत्रैव समवनीयन्ते ।
स उच्छ्वयति ।
आध्मायति ।
आध्मातो मृतः शेते
ब्र्हुप्भ्_3,2.11 परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन यो ऽसौ मुक्तो विद्वान्सो ऽयं पुरुषो यत्र यस्मिन्काले म्रियत उदूर्ध्वमस्माद्ब्रह्मविदो म्रियमाणात्प्राणा वागदयो ग्रहा नामादयश्चातिग्रहा वासनारूपा अन्तस्थाः प्रयोजकाः कामत्न्यूर्ध्वमुत्क्रामन्त्याहोस्विन्नेति ।
नेति होवाच याज्ञवल्क्यो नोत्क्रामन्त्यत्रैवास्मिन्नेव परेणाऽत्मनाविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ परब्रह्मसतत्तवे समवनीयन्त एकीभावेन समवसृज्यन्ते प्रलीयन्त इत्यर्थः ।
ऊर्मय इद समुद्रे ।
तथा च श्रुत्यन्तरं कलाशब्दवाच्यानां प्राणानां परस्मिन्नात्मनि प्रलयं दर्शयति -"एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ती"ति ।
इति परेणाऽत्मनाविभागं गच्छन्तीति दर्शितम् ।
न तर्हि मृतो, नहि, मृतश्चायं यस्मात्स उच्छ्वयत्युच्छूनतां प्रतिपद्यत आध्मायति बाह्येन वायुना पूर्यते दृतिवदाध्मातो मृतः शेते निश्चेष्टः बन्धननाशे मुक्तस्य न क्वचिद्गमनमिति वाक्यार्थः ॥11॥
स्तर्त् ब्र्हुप् 3,2.12
याज्ञवल्क्येति होवाच -- यत्रायं पुरुषो म्रियते ।
किम् एनं न जहातीति ।
नामेति ।
अनन्तं वै नामानन्ता विश्वे देवाः ।
अनन्तम् एव स तेन लोकं जयति
ब्र्हुप्भ्_3,2.12 मुक्तस्य किं प्राणा एव समवनोयन्त आहोस्वित्तत्प्रयोजकमपि सर्वम् ।
अथ प्राणा एव न तत्प्रयोजकं सर्व, प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः ।
अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यत इत्येवमर्थ उत्तरः प्रश्नः ।
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति ।
आहेतरो नामेति सर्वं समवनीयत इत्यर्थः ।
नाममात्रं तु न लीयत आकृतिसम्बन्धात् ।
नित्यं हि नाम ।
अनन्तं वै नाम ।
नित्यत्वमेवाऽनन्त्यं नाम्नः ।
तदानन्त्याधिकृता अनन्ता बै विश्वे देवा अनन्तमेव स तेन लोकं जयति ।
तन्नामानन्त्याधिकृतान्विश्वान्देवानात्मत्वेनोपेत्य तेनाऽनन्त्यदर्शनेनानन्तमेव लोकं जयति ॥12॥
स्तर्त् ब्र्हुप् 3,2.13
याज्ञवल्क्येति होवाच -- यत्रास्य पुरुषस्य मृतस्याग्निं वाग् अप्येति वातं प्राणश् चक्षुर् आदित्यं मनश् चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरम् आकाशम् आत्मौषधीर् लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश् च निधीयते क्वायं तदा पुरुषो भवतीति ।
आहर सौम्य हस्तम् आर्तभाग ।
आवाम् एवैतस्य वेदिष्यावो न नाव् एतत् सजन इति ।
तौ होत्क्रम्य मन्त्रयां चक्राते ।
तौ ह यद् ऊचतुः कर्म हैव तद् ऊचतुः ।
अथ ह यत् प्रशंसतुः कर्म हैव तत् प्रशशंसतुः ।
पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ।
ततो ह जारत्कारव आर्तभाग उपरराम
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0