भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 3.1

3.1.1

ब्र्हुप्भ्_2,6.3
अयेदानीं ब्रह्मविद्यार्थस्य मधुकाण्डस्य वंशः स्तुत्यर्थो ब्रह्मविद्यायाः ।
मन्त्रश्चायं स्वाध्यायार्थो जपार्थश्च ।
तत्र वंश इव वंशः यथा वेणुर्वंशः पर्वणः पर्वणो हि भिद्यते तद्वदग्रत्प्रभृति आमूलप्राप्तेरयं वंशः ।
अध्यायचतुष्टयस्य आचार्यपरम्पराक्रमो वंश इत्युच्यते ।
तत्र प्रथमान्तः शिष्यः पञ्चमयन्तः आचार्यः ।
परमेष्ठी विराट्, ब्राह्मणो हिरण्यगर्भात् ।
ततः परमाचार्यपरम्परानास्ति ।
यत्पुनर्ब्रह्म तन्नित्यं स्वयम्भू, तस्मै ब्रह्मणै स्वयम्भुवे नमः ॥1-3॥
इति षष्ठं ब्राह्मणम् ॥
=======================================================================
अध्यय 3
जनको ह वैदेह इत्यादि याज्ञवल्कोयं काण्डमारभ्यते ।
उपपत्तिप्रधानत्वादतिक्रान्तेन मधुकाण्डेन समानार्थत्वे ऽपि सति न पुनरुक्तता ।
मधुकाण्डं ह्यागेमप्रधानम् ।
आगमोपपत्ती ह्यात्मैकत्वप्रकाशनाय प्रवृत्ते शक्नुतः करतलगतबिल्वमिव दर्शयितुम् ।
श्रोतव्यो मन्तव्य इति ह्युक्तम् ।
तस्मादागमार्थस्यैव परीक्षापूर्वकं निर्धारणाय याज्ञवल्कीयं काण्डमुपपत्तिप्रधानमारभ्यते ।
आख्यायिका तु विज्ञानस्तुत्यर्थोपायविधिपरा वा ।
प्रसिद्धो ह्युपायो विद्वद्भिः शास्त्रेषु च दृष्टो दानम् ।
दानेन हृयुपनमन्ते प्राणिनः ।
प्रभूतं हिरण्यं गोसहस्रदानं चेहोपलभ्यते ।
तस्मादन्यपरेणापि शास्त्रेण विद्याप्राप्त्युपायदानप्रदर्शनार्थाऽख्यायिकाऽरब्धा ।
अपि च तद्विद्यसंयोगस्तैश्व सह वादकरणं विद्याप्राप्त्युपायो न्यायविद्यायां दृष्टः ।
तच्चास्मिन्नद्याये प्राबल्येन प्रदर्श्यते ।
प्रत्यक्षा च विद्वत्संयोगे प्रज्ञावृद्धिः ।
तस्माद्विद्याप्राप्त्युपायप्रदर्शनार्थैवाख्यायिका ।
स्तर्त् ब्र्हुप् 3,1.1
जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे ।
तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः ।
तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव -- कः स्विद् एषां ब्राह्मणानाम् अनूचानतम इति ।
स ह गवां सहस्रम् अवरुरोध ।
दशदश पादा एकैकस्याः शृङ्गयोर् आबद्धा बभूवुः

3.1.2

ब्र्हुप्भ्_3,1.1 जनको नाम ह किल सम्राड्राजा बभूव विदेहानां तत्र भवो वैदेहः ।
स च बहुदक्षिणेन यज्ञेन शाखान्तरप्रसिद्धो वा बहुदक्षिणो नाम यज्ञो ऽश्वमेधो वा दक्षिणाबाहुल्याद्बहुदक्षिण इहोच्यते तेनेजे ऽयजत् ।
तत्र तस्मिन्यज्ञे निमन्त्रिता दर्शनकामा वा कुरूणां देशानां पञ्चालानां च ब्राह्मणास्तेषु हि विदुषां बाहुल्यं प्रसिद्धमभिसमेता अभिसंगता बभूवुः ।
तत्र महान्तं विद्वत्समुदायं दृष्ट्वा तस्य ह किल जनकस्य वैदेहस्य यजमानस्य को नु खल्वत्र ब्रह्मिष्ठ इति विशेषेण ज्ञातुमिच्छा विजिज्ञासा बभूव ।
कथं, कःस्वित्को नु खल्वेषां ब्राह्मणानामनूचानतमः सर्व इमे ऽनूचानाः कःस्विदेषामतिशयेनानूचान इति ।
स हानूचानतमविषयोत्पन्निजिज्ञासः संस्तद्विज्ञानोपायार्थं गवां सहस्रं प्रथमवयसामवरुरोध गोष्ठे ऽवरोधं कारयामास ।
किंविशिष्टास्ता गावो ऽवरुद्धा इत्युच्यते ।
पलचतुर्थभागः पादः सुवर्णस्य ।
दश दश पादा एकैकस्या गोः शृङ्गयोराबद्धा बभूवुः ।
पञ्च पञ्च पादा एकैकस्मिञ्शृङ्गे ॥1॥
स्तर्त् ब्र्हुप् 3,1.2
तान् होवाच -- ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजताम् इति ।
ते ह ब्राह्मणा न दधृषुः ।
अथ ह याज्ञवल्क्यः स्वम् एव ब्रह्मचारिणम् उवाच -- एताः सौम्योदज सामश्रवा3 इति ।
ता होदाचकार ।
ते ह ब्राह्मणाश् चुक्रुधुः: -- कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति ।
अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव ।
स हैनं पप्रच्छ -- त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठो ऽसी3 इति ।
स होवाच -- नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति ।
तं ह तत एव प्रष्टुं दध्रे होताश्वलः

3.1.3

ब्र्हुप्भ्_3,1.2 गा एवमवरुध्य ब्राह्मणांस्तान्होवाच ।
हे ब्राह्मणा भगवन्त इत्यामन्त्रथ यो वो युष्माकं ब्रह्मिष्ठः सर्वे यूयं ब्रह्माणो ऽतिशयेन युष्माकं ब्रह्मा यः स एता गा उदजतामुत्कालयतु स्वगृहं प्रति ।
ते ह ब्राह्मणा न दधृषुः ह किलैवमुक्ता ब्राह्मणा ब्रह्मिष्ठतामात्मनः प्रतिज्ञातुं न दधृपुर्न प्रगल्भाः संवृत्ताः ।
अप्रगल्भभूतेषु ब्राह्मणेष्वथ ह याज्ञवल्क्यः स्वमात्मीयमेव ब्रह्मचारिणमन्तेवासिनमुवाच- एता गा हे सोम्योदजोद्गमयास्मद्गृहान् प्रति, हे सामश्रवः- सामविधिं हि शृणोत्यतोर्ऽयाच्चतुर्वेदो याज्ञवल्क्यः ।
ता गा होदाचकारोत्कालितवानाचार्यगृहं प्रति ।
याज्ञवल्क्येन ब्रह्मिष्ठपणस्वीकरणेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञाता, इति ते ह चुक्रुधुः क्रुद्धवन्तो ब्राह्मणाः ।
तेषां क्रोधाभिप्रायमाचष्टे- कथं नो ऽस्माकं एकैकप्रधानानां ब्रह्मिष्ठो ऽस्मीति ब्रुवीतेति ।
अथ हैवं क्रुद्धेषु ब्राह्मणेषु जनकस्य यजमानस्य होता ऋत्विगश्वलो नाम बभूव आसीत् ।
स एनं याज्ञवल्क्यम्, ब्रह्मिष्ठाभिमानी राजाश्रयत्वाच्चधृष्टः, याज्ञवल्क्यं पप्रच्छ पृष्टवान् ।
कथम्? त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठो ऽसी 3 इति ।
प्लुतिर्भर्त्सनार्था ।
स होवाच याज्ञवल्क्यः- नमस्कर्मो वयं ब्रह्मिष्ठाय, इदानीं गोकामाः स्मो वयमिति ।
तं ब्रह्मिष्ठप्रतिज्ञं सन्तं तत एव ब्रह्मिष्ठपणस्वीकरणात् प्रष्टुं दध्रे धृतवान् मनो होता अश्वलः ॥2॥
स्तर्त् ब्र्हुप् 3,1.3
याज्ञवल्क्येति होवाच -- यद् इदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योर् आप्तिम् अतिमुच्यत इति ।
होत्रर्त्विजाग्निना वाचा ।
वाग् वै यज्ञस्य होता ।
तद् येयं वाक् सो ऽयम् अग्निः स होता सा मुक्तिः सातिमुक्तिः

3.1.4

ब्र्हुप्भ्_3,1.3 याज्ञवल्क्येति होवाच ।
तत्र मधुकाण्डे पाडक्तेन कर्मणा दर्शनसप्तुच्चितेन यजमानस्य मृत्योरत्ययो व्याख्यात उद्गीथप्रकरणे सङ्क्षेपतः ।
तस्यैव परीक्षाविषयो ऽयमितितद्गतदर्शनविशेषार्थो ऽयं विस्तर आरभ्यते ।
यदिदं साधनजातम् अस्य कर्मण ऋत्विगग्न्यादि मृत्युना कर्मलक्षणेन स्वाभाविकासङ्गसहितेन आप्तं ज्याप्तम्, न केवलं व्याप्तमभिषन्नं च मृत्युना बशीकृतं च ।
केन दर्शनलक्षणेन साधनेन यजमानो मृत्योराप्तिमति मृत्युगचरत्वम् अतिक्रम्य मुच्यते स्वतन्त्रो मृत्योरवशो भवतीत्यर्थः ।
ननूद्गीथ एवाभिहितं येनातिमुच्यतेमुख्यप्राणात्मदर्शनेनेति ।
बाढमुक्तम्, यो ऽनुक्तो विशेषस्तत्र, तदर्थो ऽयमारम्भ इत्यदोषः ।
होत्रर्त्विजाग्निना वाचेत्याह याज्ञवल्क्यः ।
एतस्यार्थंव्याचष्टे ।
कः पुनर्हेता येन मृत्युमतिकामति? इत्युच्यते-वाग्वै यज्ञस्य यजमानस्य"यज्ञो वै यजमानः"इति श्रुतेः ।
यज्ञस्य यजमानस्य यावाक्सैव होताधियज्ञे ।
कथम्? ततत्रयेयंवन्ग यज्ञस्ययजमानस्य सो ऽयं प्रसिद्धो ऽग्निरधिदैवतम् ।
तदेतत्व्यन्नप्रकरणेव्याख्यातम् ।
स चाग्निर्हेता"अग्निर्वै होता"इति श्रुतेः ।
यदेतद् यज्ञस्य साधनद्वयम्होता चत्विङ्ग् अधियज्ञम्, अध्यात्मं च वाक् एतदुभयं साधनद्वयं परिच्छिन्नं मृत्युना आप्तं स्वाभाविकाज्ञानासङ्गप्रयुक्तेन कर्मणा मृत्युना प्रतिक्षणमन्यथात्वमापद्यमानं वशीकृतम् ।
तद् अनेनाधिदैवतरूपेणाग्निनाऽदृश्यमानंऽयजमानस्य यज्ञस्य सृत्योरतिमुक्तये भवति ।
तदेतदाह-स मुक्तिः स होता अग्निर्मुक्तिः, अग्निस्वरूपदर्शनमेव मुक्तिः ।
यदैव साधनद्वयमग्निरूपेण गश्यति, तदानीमेव हि स्वाभाविकादासङ्गान्मृत्योर्विमुच्यते आध्यात्मिकात् परिच्छिन्नरूपादाधिभौतिकाच्च ।
तस्मात् स होता अग्निरूपेण दृष्टो मुक्तिर्मुक्तिसाधनं यजमानस्य ।
सा अतिमुक्तिः-यैव च मुक्तिः सातिमुक्तिः, अतिमुक्तिसाधनमित्यर्थः ।
साधनद्वयस्य परिच्छिन्नस्य या अधिदेवतारूपेणापरिच्छिन्नेनाग्निरूपेण दृष्टिः, सा मुक्तिः ।
यासौ मुक्तिरधिदेवतादृष्टिः सैव, अध्यात्माधिभूतपरिच्छेदविषयासङ्गास्पदं मृत्युमतिक्रम्य अधिदेवतात्वस्याग्निभावस्य प्राप्तिर्या फलभूता, सा अतिमुक्तिरित्युच्यते ।
तस्या अतिमुक्तेर्मुक्तिरेव साधनमिति कृत्वा सा अतिमुक्तिरित्याह ।
यजमानस्य ह्यतिमुक्तिर्वागादीनामग्न्यादिभाव इत्युद्गीथप्रकरणे व्याख्यातम् ।
तत्र सामान्येन मुख्यप्राणदर्शनमात्रं मुक्तिसाधनमुक्तम्, न तद्विशेषः ।
वागादीनाम् अग्न्यादिदर्शनमिह विशेषो वर्ण्यते ।
मृत्युप्राप्त्यतिमुक्तिस्तु सैव फलभूता, योद्गीथब्राह्मणेन व्याख्याता -ऽमृत्युप्रतिक्रान्तो दीप्यतेऽ(1 । 3 । 12) इत्याद्या ॥3॥
स्तर्त् ब्र्हुप् 3,1.4
याज्ञवल्क्येति होवाच -- यद् इदं सर्वम् अहोरात्राभ्याम् आप्तं सर्वम् अहोरात्राभ्याम् अभिपन्नं केन यजमानो ऽहोरात्रयोर् आप्तिम् अतिमुच्यत इति ।
अध्वर्युणर्त्विजा चक्षुषादित्येन ।
चक्षुर् वै यज्ञस्याध्वर्युः ।
तद् यद् इदं चक्षुः सो ऽसाव् आदित्यः ।
सो ऽध्वर्युः सा मुक्तिः सातिमुक्तिः

3.1.5

ब्र्हुप्भ्_3,1.4 याज्ञवल्क्येति होवाच ।
स्वाभाविकादज्ञानासङ्गप्रयुक्तात् कर्मलक्षणान्मृत्योरतिमुक्तिर्व्याख्याता ।
तस्य कर्मणः सासङ्गस्य मृत्योराश्रयभूतानां दर्शपूर्णमासादिकर्मसाधनानां यो विपरिणामहेतुः कालः, तस्मात् कालात् पृथगतिनुष्ठानव्यतिरेकेणापि प्रागूर्ध्वं च क्रियायाः साधनविपरिणामहेतुत्वेन व्यापारदर्शनात् कालस्य ।
तस्मात् पृथक्कालादतिमुक्तिर्वक्तव्येत्यत आह- यदिदं सर्वमहोरात्राभ्यामाप्तम्, स च कालो द्विरूपः - अहोरात्रादिलक्षणाः, तिथ्यादिलक्षणश्च ।
तत्राहोरात्रादिलक्षणात्तावदतिमुक्तिमाह - अहोरात्राभ्यां हि सर्वं जायते वर्धते विनश्यति च, तथा यज्ञसाधनं च ।
यज्ञस्य यजमानस्य चक्षुरध्वर्युश्च ।
शिष्टान्यक्षराणि पूर्ववन्नेयानि ।
यजमानस्य चक्षुरध्वर्युश्च साधनद्वयमध्यात्माधिभूतपरिच्छेदं हित्वा अधिदैवतात्मना दृष्टं यत् स मुक्तिः सो ऽध्वर्युरादित्यभावेन दृष्टो मुक्तिः ।
सैव मुक्तिरेवातिमुक्तिरिति ।
पूर्ववत् आदित्यात्मभावमापन्नस्य हि नाहोरात्रे सम्भवतः ॥4॥
इदानीं तिथ्यादिलक्षणादतिमुक्तिरुच्यते-
स्तर्त् ब्र्हुप् 3,1.5
याज्ञवल्क्येति होवाच -- यद् इदं सर्वं पूर्वपक्षापरपक्षाभ्याम् आप्तं सर्वं पूर्वपक्षापरपक्षाभ्याम् अभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोर् आप्तिम् अतिमुच्यत इति ।
उद्गात्रर्त्विजा वयुना प्राणेन ।
प्राणो वै यज्ञस्योद्गाता ।
तद् यो ऽयं प्राणः स वायुः स उद्गाता ।
स मुक्तिः सातिमुक्तिः

3.1.6

ब्र्हुप्भ्_3,1.5 इदानीं तिथ्यादिलक्षणादतिमुक्तिरूच्यते-यदिदं सर्वम् - अहोरात्रयोरविशिष्टयोरादित्यः कर्ता, न प्रति पदादीनां तिथीनाम्;तासां तु वृद्धिक्षयोपगमनेनप्रतिपत्प्रभृतीनां चन्द्रमाः कर्ता ।
अतस्तदापाच्या पूर्वपक्षापरपक्षात्ययः, आदित्यापच्या अहोरात्रात्ययवत् ।
तत्र यजमानस्य प्राणो वायुः, स एवौद्गाता - इत्युद्गीथब्राह्मणे ऽवगतम्ऽवाचा च ह्येव स प्राणेन चोदगायत्ऽइति च निर्धारितम् ।
ऽअथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रःऽइति च ।
प्राणावायुचन्द्रमसामेकत्वाच्चन्द्रमसा वायुना चोपसंहारे न कश्चिद् विशेषः ।
एवं मन्यमाना श्रुतिर्वायुना अधिदैवतरूपेणोपसंहरति ।
अपि च वायुनिमित्तौ हि वृद्धिक्षयौ चन्द्रमसः ।
तेन तिथ्यादिलक्षणस्य कालस्य कर्तुरपि कारयिता वायुः ।
अतो वायुरूपापन्नस्तिथ्यादिकालादतीतो भवतीत्युपपन्नतरं भवति ।
तेन श्रुत्यन्तरे चन्द्ररूपेण दृष्टिर्मुक्तिरतिमुक्तिश्च ।
इह तु काण्वानां साधनद्वयस्य तत्कारणरूपेण वाय्वात्मना दृष्टिर्मुक्तिरतिमुक्तिश्चेति न श्रुत्योर्विरोधः ॥5॥
स्तर्त् ब्र्हुप् 3,1.6
याज्ञवल्क्येति होवाच -- यद् इदम् अन्तरिक्षम् अनारम्बणम् इव केनाक्रमेण यजमानः स्वर्गं लोकम् आक्रमत इति ।
ब्रह्मणर्त्विजा मनसा चन्द्रेण ।
मनो वै यज्ञस्य ब्रह्मा ।
तद् यद् इदं मनः सो ऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिर् इत्य् अतिमोक्षा ।
अथ संपदः

3.1.7

ब्र्हुप्भ्_3,1.6 मृत्योः कालादतिमुक्तिर्व्याख्याता यजमानस्य ।
सो ऽतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतोत्य फलं प्राप्नोत्यतिमुच्यत इत्युच्यते ।
यदिदं प्रसिद्धमन्तरिक्षमाकाशो ऽनारम्बणमनालम्बनमिवशब्दादस्त्येव तत्राऽलम्बनं तत्तु न ज्ञायत इत्यभिप्रायः ।
यत्तु तदज्ञायमानमालम्बनं तत्सर्वनाम्ना केनेति पृच्छ्यते ।
अन्यथा फलप्राप्तेरसंभवात् ।
येनावष्टम्भेनाऽक्रमेण यजमानः कर्मफलं प्रतिपद्यमानो ऽतिमुच्यते किं तदिति प्रश्नविषय ।
केनाऽक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति स्वर्गं लोकं फलं प्राप्नोत्यतिमुच्यत इत्यर्थः ।
ब्रह्मणर्त्विजा मनसा चन्द्रेणेत्यक्षरन्यासः पूर्ववत् ।
तत्राध्यात्मं यज्ञस्य यजमानस्य यदिदं प्रसिद्धं मनः सो ऽसौ चन्द्रो ऽधिदैवतम् ।
मनो ऽध्यात्मं चन्द्रमा अधिदैवतमिति हि प्रसिद्धम् ।
स एव चन्द्रमा ब्रह्मर्त्विक्तेनाधिभूतं ब्राह्मणः परिच्छिन्नं रूपमध्यात्मं च मनस एतद्द्वयमपरिच्छिन्नेन चन्द्रमसो रूपेण पश्यति ।
तेन चन्द्रमसा मनसावलम्बनेन कर्मफलं स्वर्गं लोकं प्राप्नोत्यतिमुच्यत इत्यभिप्रायः ।
इतीत्युपसंहाराथं वचनम् ।
इत्येवंप्रकारा मृत्योरतिमोक्षाः ।
सर्वांणि हि दर्शनप्रकाराणि यज्ञाङ्गविषयाण्यस्मिन्नवसर उक्तानीति कृत्वोपसंहार इत्यतिमोक्षाः ।
एवंप्रकारा अतिमोक्षा इत्यर्थः ।
अथ संपदः ।
अथाधुना संपद उच्यन्ते ।
संपन्नाम केनचित्सामान्येनाग्निहोत्रादीनां कर्मणां महतां फलवतां तत्फलाय संपादनं संपत् ।
फलस्यैव वा सर्वोत्साहेन फलसाधनानुष्ठाने प्रयततां केनचिद्वैगुण्येनासंभवः ।
तदिदानीमाहिताग्निः सन्यत्किञ्चित्कर्माग्निहोत्रादीनां यथासंभवमादायाऽलम्बनीकृत्य कर्मफलविद्वत्तायां सत्यां यत्कर्मफलकामो भवति तदेव संपादयति ।
अन्यथा राजसूयाश्वमेधपुरुषमेधसर्वमेधलक्षणानामधिकृतानां त्रैवर्णिकानामप्यसंभवस्तेषां तत्पाठः स्वाध्यायार्थ एव केवलः स्यात् ।
यदि तत्फलप्राप्त्युपायः कश्चन न स्यात् ।
तस्मात्तेषां सेपदैव तत्फलप्राप्तिस्तस्मात्संपदामपि फलवत्त्वमतः संपद आरभ्यन्ते ॥6॥
स्तर्त् ब्र्हुप् 3,1.7
याज्ञवल्क्येति होवाच -- कतिभिर् अयम् अद्यर्ग्भिर् होतास्मिन् यज्ञे करिष्यतीति ।
तिसृभिर् इति ।
कतमास् तास् तिस्र इति ।
पुरोनुवाक्या च याज्या च शस्यैव तृतीया ।
किं ताभिर् जयतीति ।
यत् किञ्चेदं प्राणभृद् इति

3.1.8

ब्र्हुप्भ्_3,1.7 याज्ञवल्क्येति होवाच अभिमुखीकरणाय ।
कतिभिरयमद्यर्ग्भिर्हेतास्मिन् यज्ञे कतिभिः कतिसङ्ख्याभिरृग्भिरृग्जातिभिः अयंहोतर्त्विगस्मिन् यज्ञे करिष्यति शस्त्रं शंसति ।
आहेतरः-तिसृभिरृग्जातिभिः ।
इत्युक्कवन्तं प्रत्या हेतरः-कतमास्तास्तिस्त्र इति ।
सङ्ख्येयविषयो ऽयं प्रश्नः, पूर्वस्तु सङ्ख्याविषयः ।
पुरोनुवाक्याच-प्राग्यागफालाद् याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः पुरोनुवाक्येत्युच्यते ।
यागार्थं याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिर्याज्या ।
शस्त्रार्थं याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः शस्या ।
सर्वास्तु याः काश्चन ऋचः;ताः स्तोत्रिया वा अन्या वा सर्वा एतास्वेव तिसृषु ऋग्जातिष्वन्तर्भवन्ति ।
किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति-अतश्चसङ्ख्यासामान्याद् यत्किञ्चित्प्राणभृज्जातम, तत् सर्वं जयति तत् सर्वं फलजातं सम्पादयति सङ्ख्यादिसामान्येन ॥7॥
स्तर्त् ब्र्हुप् 3,1.8
याज्ञवल्क्येति होवाच -- कत्य् अयम् अद्याध्वर्युर् अस्मिन् यज्ञ आहुतीर् होष्यतीति ।
तिस्र इति ।
कतमास् तास् तिस्र इति ।
या हुता उज्ज्वलन्ति या हुता अतिनेदन्ति या हुता अधिशेरते ।
किं ताभिर् जयतीति ।
या हुता उज्ज्वलन्ति देवलोकम् एव ताभिर् जयति ।
दीप्यत इव हि देवलोको ।
या हुता अतिनेदन्ते पितृलोकम् एव ताभिर् जयति ।
अतीव हि पितृलोकः ।
या हुता अधिशेरते मनुष्यलोकम् एव ताभिर् जयत्यि ।
अध इव हि मनुष्यलोकः

3.1.9

ब्र्हुप्भ्_3,1.8 याज्ञवल्क्येति होवावेति पूर्ववत् ।
कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्हेष्यतीति, कत्याहुतिप्रकाराः? तस्त्र इति, कतमास्तास्तिस्त्र इति पूर्ववत् ।
इतर आह-या हूता उज्ज्वलन्ति समिदाज्याहुतयः या हुता अतिनेदन्ते ऽतीव शब्दं कुवन्ति मासाद्याहुतयः, या हुता अधिशेरते ऽध्याधो गत्वा भूमेरधिशेरते पयःसोमाहुतयः ।
किं ताभिर्जयतीति, ताभिरेवं निर्वर्तिताभिराहुतिभिः किं जयतीति ।
या आहुतयो हुता उज्ज्वलन्त्युज्ज्वलनयुक्ता आहुतयो निर्वर्तिताः, फलं च देवलोकाख्यमुज्ज्वलमेव, तेन सामान्येन या मयता उज्ज्वलन्त्य आहुतयो निर्वर्त्यमानास्ता एताः साक्षाद्देवलोकस्य कर्मफलस्यरूपं देवलोकाख्यं फलमेव मया निर्वर्त्यत इत्येवं सम्पादयति ।
या हुता अतिनेदन्ते आहुतयः पितृलोकमेव ताभिर्जयति कुत्सितशब्दकर्तृत्वसामान्येन ।
पितृलोकमेव ताभिर्जयति कुत्सितशब्दकर्तृत्वसामान्येन ।
पितृलोकसम्बद्धायां हि संयमन्यां पुर्यां वैवस्वतेन यात्यमानानांऽहा हताः स्म मुञ्च मुञ्चऽइति शब्दोभवति ।
तथावदानाहुतयः तेन पितृलोकसामान्यात् पितृलोक एव मया निर्वर्त्यत इति सम्पादयति ।
या हुता अधिशेरते मनुष्यलोकमेव तामिजयति भूम्युपरि सम्बन्धसामान्यात् ।
अध इव ह्यघ एव हि मनुष्यलोकः उपरितनान् साध्यांल्लोकानपेक्ष्य, अथवाधोगमनमपेक्ष्य ।
अतो मनुष्यलोक एव मया निर्वर्त्यत इति सम्पादयति ।
या हुता अधिशेरते मनुष्यलोकमेव ताभिजयति भूम्युपरि सम्बन्धसामान्यात् ।
अध इव ह्यध एव हि मनुष्यलोकः उपरितनान् साध्यांल्लोकानपेक्ष्य, अथवाधोगमनमपेक्ष्य ।
अतो मनुष्यलोक एव मया निर्वर्त्यत इति सम्पादयति पयःसोमाहुतिनिर्वर्तनकाले ॥8॥
स्तर्त् ब्र्हुप् 3,1.9
याज्ञवल्क्येति होवाच -- कतिभिर् अयम् अद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर् गोपायतीति ।
एकयेति ।
कतमा सैकेति ।
मन एवेति ।
अनन्तं वै मनो ऽनन्ता विश्वे देवाः ।
अनन्तम् एव स तेन लोकं जयति

3.1.10

ब्र्हुप्भ्_3,1.9 याज्ञवल्क्येति होवाचेति पूर्ववत् ।
अयमृत्विग्ब्रह्मा दक्षिणतो ब्रह्मासने स्थित्वा यज्ञं गोपायति ।
कतिभिर्देवताभिर्गोपायतीति प्रासङ्गिकमेतद्वहुवचनम् ।
एकया हि देवतया गोपायत्यसौ ।
एवं ज्ञाते बहुवचनेन प्रश्नो नोपपद्यते स्वयं जानतस्तस्मात्पूर्वयोः कण्डिकयोः प्रश्नप्रतिवचनेषु कतिभिः कति तिसृभिस्तिस्त्र इति प्रसङ्गं दृष्ट्वेहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते ।
अथवा प्रतिवादिव्यामोहार्थ बहुवचनम् ।
इतर आहैकयेत्येका सा देवता यया दक्षिणतः स्थित्वा ब्रह्माऽसने यज्ञं गोपायति ।
कतमा सैकेति ।
मन एवेति मनः सा देवता ।
मनसा हि ब्रह्मा व्याप्रियते ध्यानेनैव ।
"तस्य यज्ञस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा"(छ.उ.4 । 16 । 1) इति श्रुत्यन्तरात् ।
तेन मन एव देवता तया मनसा हि गोपायति ब्रह्मा यज्ञम् ।
तच्च मनो वृत्तिभेदेनानन्तम् ।
वैशब्दः प्रसिद्धावद्योतनार्थः ।
प्रसिद्धं मनस आनन्त्य्म ।
तदानन्त्याभिमानिनो देवाः,"सर्वे देवा यत्रैकं भवन्ति"इत्यादिश्रुत्यन्तरात् ।
तेनानन्त्यसामान्यादनन्तमेव स तेन लोकं जयति ॥9॥
स्तर्त् ब्र्हुप् 3,1.10
याज्ञवल्क्येति होवाच -- कत्य् अयम् अद्योद्गातास्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति ।
तिस्र इति ।
कतमास् तास् तिस्र इति ।
पुरोनुवाक्या च याज्या च शस्यैव तृतीया ।
कतमास् ताः ।
या अध्यात्मम् इति ।
प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या ।
किं ताभिर् जयतीति ।
पृथिवीलोकम् एव पुरोनुवाक्यया जयत्य् अन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ।
ततो ह होताश्वल उपरराम

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc