भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 2.6

2.6.1

ब्र्हुप्भ्_2,5.19
इदं वै तन्मध्वित्यादि पूर्ववत् ।
रूपं रूपं प्रतिरूपो रूपान्तरं बभूवेत्यर्थः ।
प्रतिरूपो ऽनुरूपो वा यादृक्संमथानौ मातापितरौ तत्संस्थानस्तदनुरूप एव पुत्रो जायते ।
न हि चतुष्पदो द्विपाज्जायते द्विपदो वा चतुष्पात् ।
स एव हि परमेश्वरो नामरूपे व्याकुर्वाणो रूपं रूपं प्रतिरूपो बभूव ।
किमर्थ पुनः प्रतिरूपमागमनं तस्य? इत्युच्यते--तदस्यात्मनो रूपं प्रतिचक्षणाय प्रतिख्यापनाय ।
यदि हि नामरूपे न व्याक्रियेते, तदा अस्यात्मनो निरूपाधिकं रूपं प्रज्ञानघनाख्यं न प्रतिख्यायेत ।
यदा पुनः कार्यकरणात्मना नामरूपे व्याक-ते भवतः, तदास्य रूपं प्रतिख्यायेत ।
इन्द्रः परमेश्वरो मायाभिः प्रज्ञाभिः नामरूपभूतकृतमिथ्याभिमानैर्वा, न तु परमार्थतः; पुरुरूपो बहुरूप ईयते गभ्यते, एकरूप एव प्रज्ञानघनः सन्नविद्याप्रज्ञाभिः ।
कस्मात् पुनः कारणात्? युत्त्का रथ इव वाजिनः स्वविपयप्रकाशनाय, हि यस्मान्दस्य हरयो हरणादिन्द्रियाणि, शता शतानि, दश च प्राणिभेदबाहुल्याच्छतान दश च भवन्ति ।
तस्मादिन्द्रियविपयबाहुल्यात्तत्प्रकाशनायेव च युत्त्कान तानि न आत्मप्रकाशनाय ।
"पराञ्चि खानि व्यतृणत् स्वयम्भूः"इति हि काठके ।
तस्मातैरेव विपयस्वरूपैरीयते न प्रज्ञानघनैकरसेन स्वरूपेण ।
एवं तहि अयमन्यः परमेश्वरो ऽन्ये हरय इत्येवं प्राप्ते उच्यते-अयं वै हरयो ऽयं वै दश च सहस्राणि बहूनि चानन्तानि च प्राणिभेदस्यानन्त्यात् ।
किं बहुना, तदेतद्ब्रह्म य आत्मा ।
अपूर्वं नास्य कारणं पूर्व विद्यत इत्यपूर्वम् ।
नास्यापरं कार्यं विद्यत इत्यनपरम् ।
नास्य जात्यन्तरमन्तराले विद्यत इत्यनल्तरम् ।
तथा बहिरस्य न विद्यत इत्यवाह्यम् ।
किं पुनस्तन्निरन्तरं ब्रह्म? अयमात्मना ।
को ऽसौ? यः प्रत्यगात्मा द्रष्टा श्रोता मन्ता बोद्वा विज्ञाता सर्वानुभूः, सर्वात्मना सर्वमनुभवतीति सर्वमनुभूः ।
इत्येतदनुशासनं सर्ववेदान्तोपदेशः ।
एष सर्ववेदान्तानामुपसंह्रतोर्ऽथः ।
एतदमृतमभयम् ।
परिसमाप्तश्च शास्त्रार्थः ॥19 ॥
॥ इति पञ्चमं ब्राह्मणम् ॥
स्तर्त् ब्र्हुप् 2,6.1
अथ वंशः:
पौतिमाष्यो गौपवनात् ।
गौपवनः पशुतिमाष्यात् ।
पशुतिमाष्यो गौपवनात् ।
गौपवनः कौशिकात् ।
कौशिकः कौण्डिन्यात् ।
कौण्डिन्यः शाण्डिल्यात् ।
शाण्डिल्यः कौशिकाच् च गौतमाच् च ।
गौतमः

2.6.2

ब्र्हुप्भ्_2,6.1
अयेदानीं ब्रह्मविद्यार्थस्य मधुकाण्डस्य वंशः स्तुत्यर्थो ब्रह्मविद्यायाः ।
मन्त्रश्चायं स्वाध्यायार्थो जपार्थश्च ।
तत्र वंश इव वंशः यथा वेणुर्वंशः पर्वणः पर्वणो हि भिद्यते तद्वदग्रत्प्रभृति आमूलप्राप्तेरयं वंशः ।
अध्यायचतुष्टयस्य आचार्यपरम्पराक्रमो वंश इत्युच्यते ।
तत्र प्रथमान्तः शिष्यः पञ्चमयन्तः आचार्यः ।
परमेष्ठी विराट्, ब्राह्मणो हिरण्यगर्भात् ।
ततः परमाचार्यपरम्परानास्ति ।
यत्पुनर्ब्रह्म तन्नित्यं स्वयम्भू, तस्मै ब्रह्मणै स्वयम्भुवे नमः ॥1-3 ॥
स्तर्त् ब्र्हुप् 2,6.2-3
आग्निवेश्यात् ।
आग्निवेश्यः शाण्डिल्याच् चानभिम्लाताच् च ।
आनभिम्लात आनभिम्लातात् ।
आनभिम्लात आनभिम्लातात् ।
आनभिम्लातो गौतमात् ।
गौतमः सैतवप्राचीनयोग्याभ्याम् ।
सैतवप्राचीनयोग्यौ पाराशर्यात् ।
पाराशर्यो भारद्वाजात् ।
भारद्वाजो भारद्वाजाच् च गौतमाच् च ।
गौतमो भारद्वाजात् ।
भारद्वाजः पाराशर्यात् ।
पाराशर्यो वैजवापायनात् ।
वैजवापायनः कौशिकायनेः ।
कौशिकायनिः

2.6.3

घृतकौशिकात् ।
घृतकौशिकः प्राशर्यायणात् ।
पारशर्यायणः पाराशर्यात् ।
पाराशर्यो जातूकर्ण्यात् ।
जातूकर्ण्य आसुरायणाच् च यास्काच् च ।
आसुरायणस् त्रैवणेः ।
त्रैवणिर् औपजन्धनेः ।
औपजन्धनिर् आसुरेः ।
आसुरिर् भारद्वाजात् ।
भारद्वाज आत्रेयात् ।
आत्रेयो माण्टेः ।
माण्टिर् गौतमात् ।
गौतमो वात्स्यात् ।
वात्स्यः शाण्डिल्यात् ।
शाण्डिल्यः कैशोर्यात् काप्यात् ।
कैशोर्यः काप्यः कुमारहारितात् ।
कुमारहारितो गालवात् ।
गालवो विदर्भीकौण्डिन्यात् ।
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् ।
वत्सनपाद् बाभ्रवः पथः सौभरात् ।
पन्थाः सौभरो ऽयास्याद् आङ्गिरसात् ।
अयास्य आङ्गिरस आभूतेस् त्वाष्ट्रात् ।
आभूतिस् त्वाष्ट्रो विश्वरूपात् त्वाष्ट्रात् ।
विश्वरूपस् त्वाष्ट्रो ऽव्शिभ्याम् ।
अश्विनौ दधीच आथर्वणात् ।
दध्यङ्ङ् आथर्वणो ऽथर्वणो दैवात् ।
अथर्वा दैवो मृत्योः प्राध्वंसनात् ।
मृत्युः प्राध्वंसनः प्रध्वंसनात् ।
प्रध्वंसन एकर्षेः ।
एकर्षिर् विप्रचित्तेः ।
विप्रचित्तिर् व्यष्टेर् ।
व्यष्टिः सनारोः ।
सनारुः सनातनात् ।
सनातनः सनगात् ।
सनगः परमेष्ठिनः ।
परमेष्ठी ब्रह्मणः ।
ब्रह्म स्वयंभु ।
ब्रह्मणे नमः

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc