भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 2.3

2.3.1

ब्र्हुप्भ्_2,2.4
इमावेव गोतमभरद्वाजौ कर्णौ-अयमेव गोतमो ऽयं भरद्वाजो दक्षिणश्चोत्तरश्च, विपर्ययेण वा ।
तथा चक्षुषी उपदिशन्नुवाच-इमावेव विश्वामित्रजमदग्नी दक्षिणं विश्वामित्र उत्तरं जमदग्निर्विपर्ययेण वा ।
इमावेव वसिष्ठकश्यपौ-नासिके उपदिशन्नुवाच;दक्षिणः पुटो भवति वसिष्ठः, उत्तरः कश्यपः पूर्ववत् ।
वागेवात्रिः, अदनक्रियायोगात्सप्तमः;वाचा ह्यन्नमद्यते तस्मादत्तिर्ह वै प्रसिद्धं नामैतत्-अत्तृत्वादत्तिरिति, अत्तिरेव सन् यदत्रिरित्युच्यते परोक्षेण ।
सर्वस्यैतस्यान्नजातस्य प्राणस्यात्रिनिर्वचनविज्ञानादत्ता भवति ।
अत्तैव भवति नामुष्मिन्नन्नेन पुनः प्रतिपद्यत इत्येतदुक्तं भवति-सर्वमस्यान्नं भवतीति ।
य एवमेतद्यथोक्तं प्राणयाथात्म्यं वेद, स एवं मध्यमः प्राणो भूत्वा
आधानप्रत्याधानगतो भोक्तैव भवति, न भोज्यम्, भोज्याद् व्यावर्तत इत्यर्थः ॥4॥
इति द्वितीयम् ब्राह्मणम् ॥2॥
स्तर्त् ब्र्हुप् 2,3.1
तत्र प्राणा वै सत्यमित्युक्तम् ।
याः प्राणानामुपनिषदः, ता ब्रह्मोपनिषत्प्रसङ्गेन व्याख्याताः-एते ते प्राणा इति चछ ते
किमात्मकाः? कथं वा तेषां सत्यत्वम्? इति च वक्तव्यमिति पञ्चभूतानां सत्यानां कार्यकरणात्मकानां स्वरूपावधारणार्थमिदं ब्राह्मणमारभ्यते-यदुपाधिविशेषापनयद्वारेण ऽनेति नेतिऽइति ब्रह्मणः सतत्त्वं निर्दिधारयिषितम् ।
द्वे वाव ब्रह्मणो रूपे ।
मूर्तं चैवामूर्तं च ।
मर्त्यं चामृतं च ।
स्थितं च यच् च ।
सच् च त्यं च

2.3.2

ब्र्हुप्भ्_2,3.1
तत्र द्विरूपं ब्रह्म पञ्चभूतजनितकार्यकरणसम्बद्धं मूर्तामूर्ताख्यं मर्त्यामृतस्वभावं तज्जनितवासनारूपं च सर्वञ्ज्ञं सर्वशक्ति सोपाख्यं भवति ।
क्रियाकारकफलात्मकं च सर्वव्यवहारास्पदम् ।
तदेव ब्रह्म विगतसर्वोपाधिविशेषं सम्यग्दर्शनविषयम् अजमजरममृतमभयम्, वाङ्मनसयोरप्यविषयमद्वैतत्वात् ऽनेति नेतिऽइति निर्दिश्यते ।
तत्र यदपोहद्वारेण ऽनेति नेतिऽइति निर्दिश्यते ब्रह्म, ते एते द्वे वाव-वावशब्दो ऽवधारणार्थः-द्वे एवेत्यर्थः-ब्रह्मणः परमात्मनो रूपे-रूप्यते याभ्यामरूपं परं ब्रह्म अविद्याध्यारोप्यमाणाभ्याम् ।
के ते द्वे? मूर्तं चैव मूर्तमेव च ।
तथामूर्तं चामूर्तमेव चेत्यर्थः ।
अन्तर्णीतस्वात्मविशेषणे मूर्तामूर्ते द्वे एवेत्यवधार्येते ।
कानि पुनस्तानि विशेषणानि मूर्तामूर्तयोः? इत्युच्यन्ते-मर्त्यं च मर्त्यं मरणधर्मि, अमृतं च तद्विपरीतम्, स्थितं च-परिच्छिन्नं गतिपूर्वकं यत्स्थास्नु, यच्च-यातीति यत्-व्यापि-अपरिच्छिन्नं स्थितविपरीतम्, सच्च-सदित्यन्येभ्यो विशेष्यमाणासाधारणधर्मविशेषवत्, त्यच्च-तद्विपरीतम् ऽत्यत्ऽइत्येव सर्वदा परोक्षाभिधानार्हम् ॥1॥
स्तर्त् ब्र्हुप् 2,3.2
तत्र चतुष्टयविशेषणविशिष्टं मूर्तं तथा अमूर्तं च ।
तत्र कानि मूर्तविशेषणानि? कानि चेतराणि? इति विभज्यते ।
तद् एतन् मूर्तं यद् अन्यद् वायोश् चान्तरिक्षाच् च ।
एतन् मर्त्यम् ।
एतत् स्थितम् ।
एतत् सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति ।
सतो ह्य् एष रसः

2.3.3

ब्र्हुप्भ्_2,3.2
तदेतन्मूर्तं मूर्च्छितावयवम् इतरेतरानुप्रविष्टावयवं घनं संहतमित्यर्थः ।
किं तत्? यदन्यत्;कस्मादन्यत्? वायोश्चान्तरिक्षाच्च भूतद्वयात्-परिशेषात् पृथिव्यादिभूतत्रयम् ।
एतन्मर्त्यम्-यदेतन्मूर्ताख्यं भूतत्रयमिदं मर्त्यं मरणधर्मि;कस्मात्? यस्मात्स्थितमेतत्;परिच्छिन्नं ह्यर्थान्तरेण सम्प्रयुज्यमानं विरुध्यते-यथा घटः स्तम्भकुण्ड्यादिना;तथा मूर्तं स्थितं परिच्छिन्नम् अर्थान्तरसम्बन्धि ततोर्ऽथान्तरविरोधान्मर्त्यम्;एतत्सद्विशेष्य माणासाधारणधर्मवत्, तस्माद्धि परिच्छिन्नम्, परिच्छिन्नत्वान्मर्त्यम् अतो मूर्तम्;मूर्तत्वाद्वा मर्त्यम्, मर्त्यत्वात्स्थितम्, स्थितत्वात्सत् ।
अतो ऽन्योन्याव्यभिचाराच्चतुर्णां धर्माणां यथेष्टं विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च दर्शयितव्यः ।
सर्वथापि तु भूतत्रयं चतुष्टयविशेषणविशिष्टं मूर्तं रूपं ब्रह्मणः ।
तत्र चतुर्णामेकस्मिन्गृहीते विशेषणे इतरद्गृहीतमेव विशेषणमित्याह-तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थितस्य, एतस्य सतः-चतुष्टयविशेषणस्य भूतत्रयस्येत्यर्थः, एष रसः सार इत्यर्थः ।
त्रयाणां हि भूतानां सारिष्ठः सविता;एतत्साराणि त्रीणि भूतानि, यत एतत्कृतविभज्यमानरूपविशेषणानि भवन्ति;आधिदैविकस्य कार्यस्यैतद्रूपम्-यत्सविता यदेतन्मण्डलं तपति;सतो भूतत्रयस्य हि यस्मादेष रस इत्येतद् गृह्यते ।
मूर्तो ह्येष सविता तपति, सारिष्ठश्च ।
यत्त्वाधिदैविकं करणं मण्डलस्याभ्यन्तरम्, तद्वक्ष्यामः ॥2॥
स्तर्त् ब्र्हुप् 2,3.3
अथामूर्तम् ।
वायुश् चान्तरिक्षश् च ।
एतद् अमृतम् ।
एतद् यत् ।
एतत् त्यम् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषः ।
त्यस्य ह्य् एष रस ।
इत्य् अधिदैवतम्

2.3.4

ब्र्हुप्भ्_2,3.3
अथामूर्तम्-अथाधुनामूर्तमुच्यते ।
वायुश्चान्तरिक्षं च यत्परिशेषितं भूतद्वयम्-एतदमृतम्, अमूर्तत्वात्;अस्थितम्, अतो ऽविरुध्यमानं केनचित्, अमृतममरणधर्मि ।
एतद्यत्स्थितविपरीतम्, व्यापि, अपरिच्छिन्नम्, यस्मात् ऽयत्ऽएतद् अन्येभ्यो ऽप्रविभज्यमानविशेषम्, अतस्त्यत्, ऽत्यत्ऽइति परोक्षाभिधानार्हमेव-पूर्ववत् ।
तस्यैतस्यामूर्तस्य तस्यामृतस्यैतस्य यत एतस्य त्यस्य चतुष्टयविशेषणस्यामूर्तस्यैष रसः;को ऽसौ? य
एष एतस्मिन्मण्डले पुरुषः-करणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते यः, स एषो ऽमूर्तस्य भूतद्वयस्य रसः पूर्ववत्सारिष्ठः ।
एतत्पुरुषसारं चामूर्तं भूतद्वयम्हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृतात् ।
तस्मात्तदर्थ्यात्तत्सारं भूतद्वयम् ।
त्यस्य ह्येष रसः-यस्माद्यो मण्डलस्थः पुरुषो मण्डलवन्न गृह्यते सारश्च भूतद्वयस्य, तस्मादस्ति मण्डलस्थस्य पुरुषस्य भूतद्वयस्य च साधर्म्यम्, तस्माद्युक्तं प्रसिद्धवद्वेतूपादानम्-त्यस्य ह्येष रस इति ।
रसः कारणं हिरण्यगर्भविज्ञानात्मा चेतन इति केचित् ।
तत्र च किल हिरण्यगर्भविज्ञानात्मनः कर्म वाय्वन्तरिक्षयोः प्रयोक्तृ, तत्कर्म वाय्वन्तरिक्षाधारं सदन्येषां भूतानां प्रयोक्तृ भवति;तेन स्वकर्मणा वाय्वन्तरिक्षयोः प्रयोक्तेति तयो रसः कारणमुच्यत इति ।
तन्न, मूर्तरसेनातुल्यत्वात् ।
मूर्तस्य तु भूतत्रयस्य रसो मूर्तमेव मण्डलं दृष्टं भूतत्रयस्य रसो मूर्तमेव मण्डलं दृष्टं भूतत्रयसमानजातीयम्, न चेतनः;तथामूर्तयोरपि भूतयोस्तत्समानजातीयेनैवामूर्तसेन युक्तं भवितुम्;वाक्यप्रवृत्तेस्तुल्यत्वात्;यथा हि मूर्तामूर्ते चतुष्टयधर्मवती विभज्येते, तथा रसरसवतोरपि मूर्तामूर्तयोस्तुल्येनैव न्यायेन युक्तो विभागः, न त्वर्धवैशसम् ।
मूर्तरसे ऽपि मण्डलोपाधिश्चेतनो विवक्ष्यत इति चेत्? अत्यल्पमिदमुच्यते, सर्वत्रैव तु मूर्तामूर्तयोर्ब्रह्मरूपेण विवक्षितत्वात् ।
पुरुषशब्दो ऽचेतने ऽनुपपन्न इति चेत्! न, पक्षपुच्छादिविशिष्टस्यैव लिङ्गस्य पुरुषशब्ददर्शनात् ।
"न वा इत्थं सन्तः शक्ष्यामः प्रजाः प्रजनयितुमिमान्सप्त पुरुषानेकं पुरुषं करवामेति त एतान्सप्त पुरुषानेकं पुरुषमकुर्वन्"इत्यादौ अन्नरसमयादिषु च श्रुत्यन्तरे पुरुषशब्दप्रयोगात् ।
इत्यधिदैवतमित्युक्तोपसंहारो ऽध्यात्मविभागोक्त्यर्थः ॥3॥
स्तर्त् ब्र्हुप् 2,3.4
अथाध्यात्मम् ।
इदम् एव मूर्तं यद् अन्यत् प्राणाच् च यश् चायम् अन्तर् आत्मन्न् आकाशः ।
एतन् मर्त्यम् ।
एतत् स्थितम् ।
एतत् सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच् चक्षुः ।
सतो ह्य् एष रसः

2.3.5

ब्र्हुप्भ्_2,3.4
अथाधुनाध्यात्मं मूर्तामूर्तयोर्विभाग उच्यते-किं तन्मूर्तम्? इदमेव, किं चेदम्? यदन्यत्प्राणाच्चवायोर्यश्चायमन्तरभ्यन्तरे आत्मन्नात्मन्याकाशः खं शरीरस्थश्च यः प्राण एतद् द्वयं वर्जयित्वा यदन्यच्छरीरारम्भकं भूतत्रयम्, एतन्मर्त्यमित्यादि समानमन्यत्पूर्वेण ।
एतस्य सतो ह्येष रसः-यच्चक्षुरिति; आध्यात्मिकस्य शरीरारम्भकस्य कार्यस्यैष रसः सारः; तेन हि सारेण सारवदिदं शरीरं समस्तं यथाधिदैवतमादित्यमण्डलेन ।
प्राथम्याच्च-चक्षुषी एव प्रथमे सम्भवतः सम्भवत इति ।
"तेजो रसो निरनर्तताग्निः"इति लिङ्गात्; तैजसं हि चक्षुः; एतत्सारम्; तैजसं हि चक्षुः; एतत्सारम् आध्यात्मिकं भूतत्रयम्; सतो ह्येष रस इति मूर्तत्वसारत्वे हेत्वर्थः ॥4॥
स्तर्त् ब्र्हुप् 2,3.5
अथामूर्तं प्राणश् च यश् चायम् अन्तर् आत्मन्न् आकाशः ।
एतद् अमृतम् ।
एतद् यत् ।
एतत् त्यत् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो यो ऽयं दक्षिणे ऽक्षन् पुरुषः ।
त्यस्य ह्य् एष रसः

2.3.6

ब्र्हुप्भ्_2,3.5
अथाधुनामूर्तमुच्यते ।
यत्परिशेषितं भूतद्वयं प्राणश्च यश्चायमन्तरात्मन्नाकाशः, एतदमूर्तम् ।
अन्यत्पूर्ववत् ।
एतस्य त्यस्यैष रसः सारः, यो ऽयं दक्षिणे ऽक्षन्पुरुषः-दक्षिणे ऽक्षन्निति विशेषग्रहणम्, शास्त्रप्रत्यक्षत्वात्;लिङ्गस्य हि दक्षिणे ऽक्ष्णि विशेषतो ऽधिष्ठातृत्वं शासत्रस्य प्रत्यक्षं सर्वश्रुतिषु तथा प्रयोगदर्शनात् ।
त्यस्य ह्येष रस इति
पूर्ववद्विशेषतो ऽग्रहणादमूर्तत्वसारत्वे एव हेत्वर्थः ॥5॥
स्तर्त् ब्र्हुप् 2,3.6
ब्रह्मणण उपाधिभूतयोर्मूर्तामूर्तयोः कार्यकरणविभागेन अध्यात्माधिदैवतयोर्विभागो व्याख्यातः सत्यशब्दवाच्ययोः ।
अथेदानीम्-
तस्य हैतस्य पुरुषस्य रूपम् ।
यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर् यथा पुण्डरीकं यथा सकृद्विद्युत्तम् ।
सकृद्विद्युत्तेव ह वा अस्य श्रीर् भवति य एवं वेद ।
अथात आदेशो नेति नेति ।
न ह्य् एतस्माद् इति नेत्य् अन्यत् परम् अस्ति ।
अथ नामधेयं सत्यस्य सत्यम् इति ।
प्राणा वै सत्यम् ।
तेषाम् एष सत्यम्

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc