बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 2.4
ब्र्हुप्भ्_2,3.6
तस्य हैतस्य पुरुषस्य करणात्मनो लिङ्गस्य रूपं वक्ष्यामो वासनामयं मूर्तामूर्तवासनाविज्ञानमयसंयोगजनितं विचित्रं पटभित्तिचित्रवन्मायेन्द्रजालमृगतृष्णिकोपमं सर्वव्यामोहास्पदमेतावन्मात्रमेव आत्मेति विज्ञानवादिनो वैनाशिका यत्र भ्रान्ताः, एतदेव वासनारूपं पटरूपवदात्मनो द्रव्यस्य गुण इति नैयायिका वैशेषिकाश्च सम्प्रतिपन्नाः, इदमात्मार्थं त्रिगुणं स्वतन्त्रं प्रधानाश्रयं पुरुषार्थेन हेतुना प्रवर्तत इति साङ्ख्याः ।
औपनिषदंमन्या अपि केचित्प्रक्रियां रचयन्ति-मूर्तामूर्तराशिरेकः, परमात्मराशिरुत्तमः, ताभ्यामन्यो ऽयं मध्यमः किल तृतीयः कर्त्रा भोक्त्राविज्ञानमयेन अजातशत्रुप्रतिबोधितेन सह विद्याकर्मपूर्वप्रज्ञासमुदायः;प्रयोक्ता कर्मराशिः, प्रयोज्यः पूर्वोक्तो मूर्तामूर्तभूतराशिः साधनं चेति ।
तत्र च तार्किकैः सह सन्धिं कुर्वन्ति ।
लिङ्गाश्रयश्चैष कर्मराशिरित्युक्त्वा पुनस्ततस्रस्यन्तः साङ्ख्यत्वभयात्, सर्वः कर्मराशिः-पुष्पाश्रय इव गन्धः पुष्पवियोगे ऽपि पुटतैलाश्रयो भवति, तद्वत्-लिङ्गवियोगे ऽपि परमात्मैकदेशमाश्रयति, स परमात्मैकदेशः किलान्यत आगतेन गुणेन कर्मणा सगुणो भवति निर्गुणो ऽपि सन्, स कर्ता भोक्ता बध्यते मुच्यते च विज्ञानात्मा - इति वैशेषिकचित्तमप्यनुसरन्ति;स च कर्मराशिर्भूतराशेरागन्तुकः, स्वतो निर्गुण एव परमात्मैकदेशत्वात्;स्वत उत्थिता अविद्या अनागन्तुकाप्यूषरवदनात्मधर्मः-इत्यनया कल्पनया साङ्ख्यचित्तमनुवर्तन्ते ।
सर्वमेतत्तार्किकैः सह सामञ्जस्यकल्पनया रमणीयं पश्यन्ति, लोपनिषत्सिद्धान्तं सर्वन्यायविरोधं च पश्यन्ति;कथम्? उक्ता एव तावत्साव यवत्वे परमात्मनः
संसारित्वसव्रणत्वकर्मफलदेशसंसारित्वसव्रणत्वकर्मफलदेशसंसरणानुपपत्त्यादयो दोषाः;नित्यभेदे च विज्ञानात्मनः परेणैकत्वानुपपत्तिः ।
लिङ्गमेवेति चेत्परमात्मन उपचरितदेशत्वेन कल्पितं घटकरकभूछिद्राकाशादिवत्, तथा लिङ्गवियोगे ऽपि परमात्मदेशाश्रयणं वासनायाः ।
अविद्यायाष्च स्वत उत्थानम् ऊषरवत्-इत्यादिकल्पनानुपपन्नैव ।
न च वास्य देशव्यतिरेकेण वासनाया वस्त्वन्तरसञ्चरणं मनसापि कल्पयितुं शक्यम् ।
न च श्रुतयो गच्छन्ति"कामः सङ्कल्पो विचिकित्सा" "हृदये ह्येव रूपाणि" "ध्यायतीव लेलायतीव" "कामा ये ऽस्य हृदि श्रिताः""तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य"इत्याद्याः ।
न चासां श्रुतीनां श्रुतादर्थान्तरकल्पना न्याय्या, आत्मनः परब्रह्मत्वोपपादनार्थपरत्वादासाम्, एतावन्मात्रार्थोपक्षयत्वाच्च सर्वोपनिषदाम् ।
तस्माच्छ्रुत्यर्थकल्पनाकुशलाः सर्व एवोपनिषदर्थमन्यथा कुर्वन्ति ।
तथापि वेदार्थश्चेत्स्यात्कामं भवतु, न मे द्वेषः ।
न च ऽद्व वाव ब्रह्मणो रूपेऽइति राशित्रयपक्षे समञ्जसम्;यदा तु मूर्तामूर्ते तज्जनितवासनाश्च मूर्तामूर्ते द्वे रूपे, ब्रह्म च रूपि तृतीयम्, न चान्यच्चतुर्थमन्तरालेतदा एतदनुकूलमवधारणम्, द्वे एव ब्रह्मणो रूपे इति;अन्यथा ब्रह्मैकदेशस्य विज्ञानात्मनो रूपे इति कल्प्यम्, परमात्मनो वा विज्ञानात्मद्वारेणेति ।
तदा च रूपे एवेति द्विवचनमसमञ्जसम्, रूपाणीति वासनाभिः सह बहुवचनं युक्ततरं स्यात्- द्वे च मूर्तामूर्ते वासनाश्च तृतीयमिति ।
अथ मूर्तामूर्ते एव परमात्मनो रूपे, वासनास्तु विज्ञानात्मन इति चेत्-तदा विज्ञानात्मद्वारेण विक्रियमाणस्य परमात्मनः-इतीयं वाचोयुक्तिरनर्थिका स्यात्, वासनाया अपि विज्ञानात्मद्वारत्वस्य अविशिष्टत्वात्;न च वस्तु
वस्त्वन्तरद्वारेण विक्रियत इति मुख्यया वृत्त्या शक्यं कल्पयितुम्;न च विज्ञानात्मा परमात्मनो वस्त्वन्तरम्, तथा कल्पनायां सिद्धान्तहानात् ।
तस्माद् वेदार्थमूढानां स्वचित्तप्रभवा एवमादिकल्पना अक्षरबाह्याः;न ह्यक्षरबाह्यो वेदार्थो वेदार्थोपकारी वा, निरपेक्षत्वाद्वेदस्य प्रामाण्यं प्रति;तस्माद्राशित्रयकल्पना असमञ्जसा ।
ऽयो ऽयं दक्षिणे ऽक्षन्पुरुषःऽइति लिङ्गात्मा प्रस्तुतो ऽध्यात्मे, अधिदैवे च ऽय एष एतस्मिन्मण्डले पुरुषःऽ
इति, ऽतस्यऽइति प्रकृतोपादानात्स एवोपादीयते यो ऽसौ त्यस्यामूर्तस्य रसो न तु विज्ञानमयः ।
ननु विज्ञानमयस्यैवैतानि रुपाणि कस्मान्न भवन्ति? विज्ञानमयस्यापि प्रकृतत्वात्, ऽतस्यऽइति च प्रकृतोपादानात् ।
नैवम्, विज्ञानमयस्यारूपित्वेन विजिज्ञापयिषितत्वात्;यदि हि तस्यैव विज्ञानमयस्यैतानि माहारजनादीनि रूपाणि स्युस्तस्याव ऽनेति नेतिऽइत्यनाख्येयरूपतयादेशो न स्यात् ।
नन्वन्यस्यैवासादेशो न तु विज्ञानमयस्येति!
न, षष्ठान्ते उपसंहारात्-"विज्ञातारमरे केन विजानीयात्"इति विज्ञानमयं प्रस्तुत्य"स एष नेति नेति"इति"विज्ञापयिष्यामि"इति च प्रतिज्ञाया अर्थवत्त्वात् ।
यदि च विज्ञानमयस्यैव असंव्यवहार्यमात्मस्वरूपं ज्ञापयितुमिष्टं स्यात्प्रध्वस्तसर्वोपाधिविशेषम्, तत इयं प्रतिज्ञार्थवती स्यात्- येनासौ ज्ञापितो जानात्यात्मानमेवाहं ब्रह्मास्मीति, शास्रनिष्ठां प्राप्नोति न बिभेति कुतश्च ।
अथ पुनरन्यो विज्ञानमयः, अन्यः ऽनेति नेतिऽ इति व्यपदिश्यते-तदान्यददो ब्रह्मान्यो ऽहमस्मीति
विपर्ययो गृहीतः स्यात्, न ऽआत्मानमेवावेदहं ब्रह्मास्मिऽ इति ।
तस्मात् ऽतस्य हैतस्यऽ इति लिङ्गपुरुशस्यै वैतानि रूपाणि ।
सत्यस्य च सत्ये परमात्मस्वरूपे वक्तव्ये निरवशेषं सत्यं वक्तव्यम्;सत्यस्य च विशेषरूपाणि वासनाः, तासामिमानि रूपाण्युच्यन्ते, एतस्य पुरुषस्य प्रकृतस्य लिङ्गात्मन एतानि रूपाणि;कानि तानि? इत्युच्यन्ते- यथा लोके, महारजनं हरिद्रा तया रक्तं माहारजनं यथा वासो लोके, एवं स्त्र्यादिविषयसंयोगे तादृशं वासनारूपं रञ्जनाकार मुत्पद्यते चित्तस्य, येनासौ पुरुषो रक्त इत्युच्यते वस्रादिवत् ।
यथा च लोके पाण्ड्वाविकम्, अवेरिदम् आविकम् ऊर्णादि, यथा च तत्पाण्डुरं भवति, तथान्यद्वासनारूपम् ।
यथा च लोके इन्द्रगोपो ऽत्यन्तरक्तो भवति, एवमस्य वासनारूपम् ।
क्वचिद्विषयविशेषापेक्षया रागस्य तारतम्यम्, क्वचित्पुरुषचित्तवृत्त्यपेक्षया ।
यथा च लोके ऽग्न्यर्चिर्भास्वरं भवति, तथा क्वचित्कस्यचिद्वासनारूपं भवति ।
यथा पुम्डरीकं शुक्लम्, तद्वदपि च वासनारूपं कस्यचिद्भवति ।
यथा सकृद्विद्युक्तम्, यथा लोके सकृद्विद्योतनं सर्वतः प्रकाशकं भवति, तथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचिद्वासनारूपमुपजायते ।
नैषां वासनारूपाणामादिरन्तो मध्यं सङ्ख्या वा, देशः कालो निमित्तं
वावधार्यते-असङ्ख्येयत्वाद्वासनायाः, वासनाहेतूनां चानन्त्यात् ।
तथा च वक्ष्यति षष्ठे-"इदंमयो ऽदोमयः"इत्यादि ।
तस्मान्न स्वरूपसङ्ख्यावधारणार्था दृष्टान्ताः- ऽयथा माहारजनं वासःऽइत्यादयः, किं तर्हि? प्रकारप्रदर्शनार्थाः-एवम्प्रकाराणि हि वासनारूपाणीति ।
यत्तु वासनारूपमभिहितमन्ते-सकृद्विद्योतनमिवेति, तत्किल हिरण्यगर्भस्य अव्याकृतात्प्रादुर्भवतः तडिद्वत्सकृदेव व्यक्तिर्भवतीति;तत्तदीयं वासनारूपं हिरण्यगर्भस्य यो वेद तस्य सकृद्विद्युत्तेव, ह वै इत्यवधारणार्थौ, एवमेवास्य श्रीः ख्यातिर्भवतीत्यर्थः, यथा हिरण्यगर्भस्य-एवमेतद्यथोक्तं वासनारूपमन्त्यं यो वेद ।
एवं निरवशेषं सत्यस्य स्वरूपमभिधाय, यत्तत्सत्यस्य सत्यमवोचाम तस्यैव स्वरूपावधारणार्थं ब्रह्मण इदमारभ्यते-अथानन्तरं सत्यस्वरूपनिर्देशानन्तरम्, यत्सत्यस्य सत्यं तदेवावशिष्यते यस्मादतस्तस्मात्सत्यस्य सत्यं स्वरूपं निर्देक्ष्यामः ।
आदेशो निर्देशो ब्रह्मणः ।
कः पुनरसौ निर्देशः? इत्युच्यते-नेति नेतीत्येवं निर्देशः ।
ननु कथमाभ्यां ऽनेति नेतिऽइति शब्दाभ्यां सत्यस्य सत्यं निर्दिदिक्षितम्? इत्युच्यते-सर्वोपाधिविशेषापोहेन ।
यस्मिन्न कश्चिद्विशेषो ऽस्ति-नाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो वा;तद्द्वारेण हि शब्दप्रवृत्तिर्भवति ।
न चैषां कश्चिद् विशेषो ब्रह्मण्यस्ति;अतो न निर्देष्टुं शक्यते-इदं तदिति ।
गौरसौ स्पन्दते शुक्लो विषाणीति यथा लोके निर्दिश्यते, तथा;अध्यारोपितनामरूपकर्मद्वारेण ब्रह्म निर्दिश्यते ऽविज्ञानमानन्दं ब्रह्मऽ ऽविज्ञानघन एव ब्रह्मात्माऽइत्येवमादिशब्दैः ।
यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति;निरस्तसर्वोपाधिविशेषम्, तदा न शक्यते केनचिदपि प्रकारेण निर्देष्टुम्;तदा अयमेवाभ्युपायः-यदुत प्राप्तनिर्देशप्रतिषेधद्वारेण ऽनेति नेतिऽइति निर्देशः ।
इदं च नकारद्वयं वीप्साव्याप्त्यर्थम्;यद्यत्प्राप्तं तत्तन्निषिध्यते ।
तथा च सति अनिर्दिष्टाशङ्का ब्रह्मणः परिहृता भवति;अन्यथा हि नकारद्वयेन प्रकृतद्वयप्रतिषेधे, यदन्यत्प्रकृतात्प्रतिषिद्धद्वयाद्ब्रह्म तन्न निर्दिष्टम्, कीदृशं नु खलु-इत्याशङ्का न निवर्तिष्यते;तथा चानर्थकश्च स निर्देशः, पुरुषस्य विविदिषाया अनिवर्तकत्वात्;
ऽब्रह्म ज्ञपयिष्यामिऽइति च वाक्यम् अपरिसमाप्तार्थं स्यात् ।
यदा तु सर्वदिक्कालादिविविदिषा निवर्तिता स्यात् सर्वोपाधिनिराकरणद्वारेण तदा सैन्धवघनवदेकरसं प्रज्ञानघनमनन्तरमबाह्यं सत्यस्य सत्यमहंब्रह्मास्मीति सर्वतो निवर्तते विविदिषा, आत्मन्येवावस्थिता प्रज्ञा भवति ।
तस्माद्वीप्सार्थं नेति नेतीति नकारद्वयम् ।
ननु महता यत्नेन परिकरबन्धं कृत्वा किं युक्तमेवं निर्देश्टुं ब्रह्म? बाढम्;कस्मात्? न हि-यस्मात्, ऽइति न, इति नऽइत्येतस्मात्-इतीति व्याप्तव्यप्रकारा नकारद्वयविषया निर्दिश्यन्ते, यथा ग्रामो ग्रामो रमणीय इति, अन्यत्परं निर्देशनं नास्ति;तस्मादयमेव निर्देशो ब्रह्मणः ।
यदुक्तम्- ऽतस्योपनिषत्सत्यस्य सत्यम्ऽइति, एवंप्रकारेण सत्यस्य सत्यं तत्परं ब्रह्म;अतो युक्तमुक्तं नामधेयं ब्रह्मणः, नामैव नामधेयम्;किं तत्? सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमिति ॥6॥
इति तृतीयं ब्राह्मणम् ॥3॥
स्तर्त् ब्र्हुप् 2,4.1
आत्मेत्येवोपासीत;तदेव तस्मिन्सर्वस्मिन्पदनीयमात्मतत्त्वम्, यस्मात्प्रेयः पुत्रादेः-इत्युपन्यस्तस्य वाक्यस्य व्याख्यानविषये सम्बन्धप्रयोजने अभिहिते- ऽतदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्ऽइति;एवं प्रत्यगात्मा ब्रह्मविद्याया विषय इत्येतदुपन्यस्तम् ।
अविद्यायाश्च विषयः- ऽअन्यो ऽसावन्यो ऽहमस्मीति न स वेदऽइत्यारभ्य चातुर्वर्ण्यप्रविभागादिनिमित्तपाङ्क्तकर्मसाध्यसाधनलक्षणो बीजाङ्कुरवद्व्याकृताव्याकृतस्वभावो नामरूपकर्मात्मकः संसारः ऽत्रयं वा इदं नाम रूपं कर्मऽइत्युपसंहृतः ।
शास्रीय उत्कर्षलक्षणो ब्रह्मलोकान्तो ऽधोभावश्च स्थावरान्तो ऽशास्रीयः पूर्वमेव प्रदर्शितः- ऽद्वया हऽइत्यादिना ।
एतस्मादविद्याविषयाद्विरक्तस्य प्रत्यगात्मविषयब्रह्मविद्यायामधिकारः कथं नाम स्यादिति-तृतीये ऽध्याये उपसंहृतः समस्तो ऽविद्याविषयः ।
चतुर्थे तु ब्रह्मविद्याविषयं प्रत्यगात्मानम् ऽब्रह्म ते ब्रवाणिऽइति ऽब्रह्म ज्ञपयिष्यामिऽइति च प्रस्तुत्य, तद्ब्रह्मैकमद्वयं सर्वविशेषशून्यं क्रियाकारकफलस्वभावसत्यशब्दवाच्याशेषभूतधर्मप्रतिषेधद्वारेण ऽनेति नेतिऽइति ज्ञापितम् ।
अस्या ब्रह्मविद्याया अङ्गत्वेन संन्यासो विधित्सितः, जायापुत्रवित्तादिलक्षणं पाङ्क्तं कर्माविद्याविषयं यस्मान्नात्मप्राप्तिसाधनम्; अन्यसाधनं ह्यन्यस्मै फलसाधनाय प्रयुज्यमानं प्रतिकूलं भवति ।
न हि बुभुक्षापिपासानिवृत्त्यर्थं धावनं गमनं वा साधनम्; मनुष्यलोकपितृलोकदेवलोकसाधनत्वेन हि पुत्रादिसाधनानि श्रुतानि, नात्मप्राप्तिसाधनत्वेन ।
विशेषितत्वाच्च; न च ब्रह्मविदो विहितानि, काम्यत्वश्रवणात्- ऽएतावान्वै कामःऽ इति ।
ब्रह्मविदश्चाप्तकामत्वादाप्तकामस्य कामानुपपत्तेः ।
"येषां नो ऽयमात्मायं लोकः"इति च श्रुतेः ।
केचित्तु ब्रह्मविदो ऽप्येषणासम्बन्धं वर्णयन्ति, तैर्बृहदारण्यकं न श्रुतम्; पुत्राद्येषणानामविद्वद्विषयत्वम्; विद्याविषये च-"येषां नो ऽयमात्मायं लोकः"इत्यतः"किं प्रजया करिष्यामः"इत्येष विभागस्तैर्न श्रुतः श्रुत्या कृतः; सर्वक्रियाकारकफलोपमर्दस्वरूपायां च विद्यायां सत्याम्, सह कार्येणाविद्याया अनुपपत्तिलक्षणश्च विरोधस्तैर्न विज्ञातः ।
व्यासवाक्यं च तैर्न श्रुतम्; कर्मविद्यास्वरूपयोर्विद्याविद्यात्मकयोः प्रतिकूलवर्तनं विरोधः;
"यदिदं वेदवचनं कुरु कर्म त्यजेति च ।
कां गतिं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥
एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे ।
एतावन्योन्यवैरूप्ये वर्तेते प्रतिकूलतः ।
"इत्येवं पृष्टस्य प्रतिवचनेन - "कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनःः ॥
इत्येवमादिविरोधः प्रदर्शितः ।
तस्मान्न साधनान्तरसहिता ब्रह्मविद्या पुरुषार्थसाधनम्, सर्वविरोधात्, साधननिरपेक्षैव पुरुषार्थसाधनमिति पारिव्राज्यं सर्वसाधनसंन्यासलक्षणमङ्गत्वेन विधित्स्यते ।
एतावदेव अमृतत्वसाधनम् इत्यवधारणात्, षष्ठसमाप्तौ, लिङ्गाच्च-कर्मी सन्याज्ञवल्क्यः प्रवव्राजेति ।
मैत्रेय्यै च कर्मसाधनरहितायै साधनत्वेनामृतत्वस्य ब्रह्मविद्योपदेशाद् वित्तनिन्दावचनाच्च ।
यदि ह्यमृतत्वसाधनं कर्म स्याद् वित्तसाध्यं पाङ्क्तं कर्म, इति तन्निन्दावचनमनिष्टं स्यात् ।
यदि तु परितित्याजयिषितं कर्म, ततो युक्ता तत्साधननिन्दा ।
कर्माधिकारनिमित्तवर्णाश्रमादिप्रत्ययोपमर्दाच्च-"ब्रह्म तं परा दात्" "क्षत्रं तं परादात्"इत्यादेः ।
न हि ब्रह्मक्षत्राद्यात्मप्रत्ययोपमर्दे, ब्राह्मणेनेदं कर्तव्यं क्षत्रियेणेदं कर्तव्यमिति विषयाभावादात्मानं लभते विधिः ।
यस्यैव पुरुषस्योपमर्दितः प्रत्ययो ब्रह्मक्षत्राद्यात्मविषयः, तस्य तत्प्रत्ययसंन्यासात् तत्कार्याणां कर्मणां कर्मसाधनानां च अर्थप्राप्तश्च सन्यासः ।
तस्मादात्मज्ञानाङ्गत्वेन संन्यासविधित्सयैव आख्यायिकेयमारभ्यते-
मैत्रेयीति होवाच याज्ञवल्क्यः -- उद्यास्यन् वा अरे ऽहम् अस्मात् स्थानाद् अस्मि ।
हन्त ते ऽनया कात्यायन्यान्तं करवाणीति
ब्र्हुप्भ्_2,4.1
मैत्रेयीति होवाच याज्ञवल्क्यः-मैत्रेयीं स्वभार्यामामन्त्रितवान्याज्ञवल्क्यो नाम ऋषिः;उद्यास्यन्नूर्ध्वं यास्यन्पारिव्राज्याख्यमाश्रमान्तरं वै ।
अरे इति सम्बोधनम् ।
अहम्, अस्माद्गार्हस्थ्यात्, स्थानादाश्रमात्, ऊर्ध्वं गन्तुमिच्छन्नस्मि
भवामि;अतो हन्तानुमतिं प्रार्थयामि ते तव;किञ्चान्यत्ते तवानया द्वितीयया भार्यया कात्यायन्यान्तं विच्छेदं करवाणि;पतिद्वारेण युवयोर्मया सम्बन्धस्य विच्छेदं करवाणि द्रव्यविभागं कृत्वा;वित्तेन संविभज्य युवां गमिष्यामि ॥1॥
स्तर्त् ब्र्हुप् 2,4.2
सा होवाच मैत्रेयी -- यन् नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् कथं तेनामृता स्याम् इति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति
ब्र्हुप्भ्_2,4.2
सा एवमुक्ता होवाच-यद्यदि ऽनुऽइति वितर्के, मे मम इयं पृथिवी, भगोः-भगवन्, सर्वा सागरपरिक्षिप्ता वित्तेन धनेन पूर्णा स्यात्;कथम्? न कथञ्चनेत्याक्षेपार्थः, प्रश्नार्थो वा, तेन पृथिवीपूर्णवित्तसाध्येन कर्मणाग्निहोत्रादिना अमृता किं स्यामिति व्यवहितेन सम्बन्धः ।
प्रत्युवाच याज्ञवल्क्यः-कथमिति यद्याक्षेपार्थम्, अनुमोदनं नेति होवाच याज्ञवल्क्यः-कथमिति यद्याक्षेपार्थम्, अनुमोदनं नेति होवाच याज्ञवल्क्य इति;प्रश्नश्चेत्प्रतिवचनार्थम्;नैव स्या अमृता, किं तर्हि? यथैव लोके उपकरणवतां साधनवतां जीवितं सुखोपायभोगसम्पन्नम्;तथैव तद्वदेव तव जीवितं स्यात्;अमृतत्वस्य तु नाशा मनसाप्यस्ति वित्तेन वित्तसाध्येन कर्मणेति ॥2॥
स्तर्त् ब्र्हुप् 2,4.3
सा होवाच मैत्रेयी -- येनाहं नामृता स्यां किम् अहं तेन कुर्याम् ।
यद् एव भगवान् वेद तद् एव मे ब्रूहीति
ब्र्हुप्भ्_2,4.3
सा होवाच मैत्रेयी;एवमुक्ता प्रत्युवाच मैत्रेयी-यद्येवं येनाहं नामृता स्याम्, किमहं तेन वित्तेन कुर्याम्? यदेव भगवान्केवलममृतत्वसाधनं वेद, तदेवामृतत्वसाधनं मे मह्यं ब्रूहि ॥3॥
स्तर्त् ब्र्हुप् 2,4.4
स होवाच याज्ञवल्क्यः -- प्रिया बतारे नः सती प्रियं भाषसे ।
एह्य् आस्स्व ।
व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति
ब्र्हुप्भ्_2,4.4
स होवाच याज्ञवल्क्यः ।
एवं वित्तसाध्ये ऽमृतत्वसाधने प्रत्याख्याते, याज्ञवल्क्यः स्वाभिप्रायसम्पत्तौ तुष्ट आह;स होवाच-प्रियेषाटा, बतेत्यनुकम्प्याह, अरे मैत्रेयि नो ऽस्माकं पूर्वमपि प्रिया सती भवन्ती इदानीं प्रियमेव चित्तानुकूलं भाषसे;अत एह्याःस्वोपविश व्याख्यास्यामि-यत्ते तव इष्टम् अमृतत्वसाधनम् आत्मज्ञानं
कथयिष्यामि ।
व्याचक्षाणस्य तु मे मम व्याख्यानं कुर्वतो निदिध्यासस्व वाक्यान्यर्थतो निश्चयेन ध्यातुमिच्छेति ॥4॥
स्तर्त् ब्र्हुप् 2,4.5
स होवाच -- न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस् तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्य् आत्मनस् तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य् आत्मनस् तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य् आत्मनस् तु कामाय वित्तं प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य् आत्मनस् तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य् आत्मनस् तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य् आत्मनस् तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य् आत्मनस् तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य् आत्मनस् तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस् तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्
ब्र्हुप्भ्_2,4.5
स होवाच-अमृतत्वसाधनं वैराग्यमुपदिदिक्षुर्जायापतिपुत्रादिभ्यो विरागमुत्पादयति तत्संन्यासाय ।
न वै-वैशब्दः प्रसिद्धस्मरणार्थः;प्रसिद्धमेवैतल्लोके;पत्युर्भर्तुः कामाय प्रयोजनाय जायायाः पतिः प्रियो न भवति, किं तर्ह्यात्मनस्तु कामाय प्रयोजनायैव भार्यायाः पतिः प्रियो भवति ।
तथा न वा अरे जायाया इत्यादि समानमन्यत्, न वा अरे पुत्राणाम्, न वा अरे वित्तस्य, न वा अरे ब्रह्मणः, न वा अरे क्षत्रस्य, न वा अरे देवानाम्, न वा अरे भूतानाम्, न वा अरे सर्वस्य, पूर्वं पूर्वं यथासन्ने प्रीतिसाधने वचनम्;तत्र तत्रेष्टतरत्वाद्वैराग्यस्य;सर्वग्रहणमुक्तानुक्तार्थम् ।
तस्माल्लोकप्रसिद्धमेतत्-आत्मैव प्रियः, नान्यत् ।
ऽतदेतत्प्रेयः पुत्रात्ऽइत्युपन्यस्तम्, तस्यैतद् वृत्तिस्थानीयं प्रपञ्चितम् ।
तस्मादात्मप्रीतिसाधनत्वाद्गौणी अन्यत्र प्रीतिः, आत्मन्येव मुख्या ।
तस्मादात्मा वै अरे द्रष्टव्यो दर्शनार्हः, दर्शनविषयमापादयितव्यः;श्रोतव्यः पूर्वमाचार्यत आगमतश्च;पश्चान्मन्तव्यस्तर्कतः;ततो निदिध्यासितव्यो निश्चयेन ध्यातव्यः;एवं ह्यसौ दृष्टो भवति श्रवणमनननिदिध्यासनसाधनैर्निर्वर्तितैः ।
यदैकत्वमतान्युपगतानि, तदा सम्यग्दर्शनं ब्रह्मैकत्वविषयं प्रसिदति, नान्यथा श्रवणमात्रेण ।
यद्ब्रह्मक्षत्रादि कर्मनिमित्तं वर्णाश्रमादिलक्षणम् आत्मविद्याध्यारोपितप्रत्ययविषयं क्रियाकारकफलात्मकमविद्याप्रत्ययविषयम्-रज्जवाम्व सर्पप्रत्ययः, तदुपमर्दनार्थम् आह-आत्मनि खल्वरे मैत्रेयि दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं विज्ञातं भवति ॥5॥
ननु कथमन्यस्मिन्विदिते ऽन्यद्विदितं भवति? नैष दोषः;न हि आत्मव्यतिरेकेणान्यत्किञ्चिदस्ति ;यद्यस्ति न तद्विदितं स्यात्;न त्वन्यदस्ति;आत्मैव तु सर्वम्;तस्मात्सर्वमात्मनि विदिते विदितं स्यात् ।
कथं पुनरात्मैव सर्वमित्येतच्छ्रावयति-
स्तर्त् ब्र्हुप् 2,4.6
ब्रह्म तं परादाद् यो ऽन्यत्रात्मनो ब्रह्म वेद ।
क्षत्रं तं परादाद् यो ऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास् तं परादुर् यो ऽन्यत्रात्मनो लोकान् वेद ।
देवास् तं परादुर् यो ऽन्यत्रात्मनो देवान् वेद ।
भूतानि तं परादुर् यो ऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद् यो ऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रम् इमे लोका इमे देवा इमानि भूतानीदं सर्वं यद् अयम् आत्मा
ब्र्हुप्भ्_2,4.6
ब्रह्म ब्राह्मणजातिस्तं पुरुषं परादात्परादध्यात्पराकुर्यात्;कम्? यो ऽन्यत्रात्मन आत्मस्वरूपव्यतिरेकेण-आत्मैव न भवतीयं ब्राह्मणजातिरिति-तां यो वेद, तं परादध्यात्सा
ब्राह्मणजातिरनात्मस्वरूपेण मां पश्यतीति;परमात्माहि सर्वेषामात्मा ।
तथा क्षत्रं क्षत्रियजातिः, तथा लोकाः, देवाः, भूतानि, सर्वम् ।
इदं ब्रह्मेति-यान्यनुक्रान्तानि तानि सर्वाणि, आत्मैव, यदयमात्मा-यो ऽयमात्मा द्रष्टव्यः श्रोतव्य इति प्रकृतः;यस्मादात्मनो जायत आत्मन्येव लीयत आत्ममयं च स्थितिकाले, आत्मव्यतिरेकेणाग्रहणात्, आत्मैव सर्वम् ॥6॥
कथं पुनरिदानीमिदं सर्वमात्मैवेति ग्रहीतुं शक्यते? चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते ।
तत्र दृष्टान्त उच्यते ।
तत्र दृष्टान्त उच्यते-यत्स्वरूपव्यतिरेकेणाग्रहणं यस्य, तस्य तदात्मत्वमेव लोके दृष्टम् ।
स्तर्त् ब्र्हुप् 2,4.7
स यथा दुन्दुभेर् हन्यमानस्य न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय ।
दुन्दुभेस् तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः
ब्र्हुप्भ्_2,4.7
स यथा-स इति दृष्टान्तः, लोके यथा दुन्दुभेर्भेर्यादेः, हन्यमानस्य ताड्यमानस्य दण्डादिना, न, बाह्याञ्छब्दान् बहिर्भूताञ्छब्दविशेषान् दुन्दुभिशब्दसामान्यान्निष्कृष्टान् दुन्दुभिशब्दविशेषान् न शक्नुयाद् ग्रहणाय ग्रहीतुम्;दुन्दुभेस्तु ग्रहणेन, दुन्दुभिशब्दा एत इति, शब्दविशेषा गृहीता भवन्ति, दुन्दुभिशब्दसामान्यव्यतिरेकेणाभावात्तेषाम् ।
दुन्दुभ्याघातस्य वा, दुन्दुबेराहननम् आघातः, दुन्दुभ्याघातविशिष्टस्य शब्दसामान्यस्य ग्रहणेन तद्गता विशेषा गृहीता
भवन्ति, न तु त एव निर्भिद्य ग्रहीतुं शक्यन्ते, विशेषरूपेणाभावात्तेषाम् ।
तथा प्रज्ञानव्यतिरेकेण स्वप्नजागरितयोर्न कश्चिद्वस्तुविशेषो गृह्यते;तस्मात्प्रज्ञानव्यतिरेकेण अभावो युक्तस्तेषाम् ॥7॥
स्तर्त् ब्र्हुप् 2,4.8
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः
ब्र्हुप्भ्_2,4.8
तथा स यथा शङ्खस्य ध्मायमानस्य शब्देन संयोज्यमानस्य आपूर्यमाणस्य न बाह्याञ्छब्दाञ्छक्नुयादित्येवमादि पूर्ववत् ॥8॥
स्तर्त् ब्र्हुप् 2,4.9
स यथा वीणायै वाद्यमानायै न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः
ब्र्हुप्भ्_2,4.9
तथा वीणायै वाद्यमानायै-वीमाया वाद्यमानायाः ।
अनेकदृष्टान्तोपादानमिह सामान्यबहुत्वख्यापनार्थम्-अनेके हि विलक्षणाश्चेतनाचेतनरूपाः सामान्यविशेषाः-तेषां पारम्पर्यगत्या यथैकस्मिन्महासामान्ये ऽन्तर्भावः प्रज्ञानघने, कथं नाम प्रदर्शयितव्य इति;दुन्दुभिशङ्खवीणाशब्दसामान्यविशेषाणां यथा शब्दत्वे ऽन्तर्भावः, एवं स्थितिकाले तावत्सामान्यविशेषाव्यतिरेकाद् ब्रह्मैकत्वं शक्यमवगन्तुम् ॥9॥
स्तर्त् ब्र्हुप् 2,4.10
एवमुत्पत्तिकाले प्रागुत्पत्तेर्ब्रह्मैवेति शक्यमवगन्तुम् ।
यथाग्नेर्विस्फुलिङ्गधूमाङ्गारार्चिषां प्राग्विभागादग्निरेवेति भवत्यग्न्येकत्वम्, एवं जगन्नामरूपविकृतं प्रगुत्पत्तेः प्रज्ञानघन एवेति युक्तं ग्रहीतुमित्येतदुच्यते-
स यथार्द्रैधाग्नेर् अभ्याहितात् पृथग् धूमा विनिश्चरन्त्य् एव वा अरे ऽस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्याननि ।
अस्यैवैतानि निश्वसितानि
ब्र्हुप्भ्_2,4.10
स यथा-आर्द्रैधाग्नेः, आर्द्रैरेधोभिरिद्धो ऽग्निरार्द्रैधाग्निः, तस्मात्, अभ्याहितात्पृथग्धूमाः, पृथग्नानाप्रकारम्, धूमग्रहणं विस्फुलिह्गादिप्रदर्शनार्थम्, धूमविस्फुलिङ्गादयो विनिश्चरन्ति विनिर्गच्छन्ति ।
एवम्-यथायं दृष्टान्तः, अरे मैत्रेय्यस्य परमात्मनः प्रकृतस्य महतो भूतस्य निश्वसितमेतत्, निश्वसितमिव निश्वसितम्;यथा अप्रयत्नेनैव पुरुषनिश्वासो भवत्येवं वा अरे ।
किं तन्निश्वसितमिव ततो जातमित्युच्यते-यदृग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरसः-चतुर्विधं मन्त्रजातम्, इतिहास इत्युर्वशीपुरूरवसोः संवादादिः-"उर्वशीहाप्सराः"इत्यादिब्राह्मणमेव, पुराणम्"असद्वा इदमग्र आसीत्"इत्यादि, विद्या देवजनविद्या वेदः सो ऽयमित्याद्या, उपनिषदः"प्रियमित्येतदुपासीत"इत्याद्याः, श्लोका ब्राह्मणप्रभवा मन्त्राः"तदेते श्लोकाः"इत्यादयः; सूत्राणि वस्तुसङ्ग्रह वाक्यानि वेदे यथा-"आत्मेत्येवोपासीत"इत्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि, व्याख्यानान्यर्थवादाः, अथवा वस्तुसङ्ग्रहवाक्यविवरणान्यनुव्याख्यानानि, यथा चतुर्थाध्याये ऽआत्मेत्येवोपासीतऽ इत्यस्य, यथा वा ऽअन्यो ऽसावन्यो ऽहमस्मीति न स वेद यथा पशुरेवम्ऽ इत्यस्यायमेवाध्यायशेषः, मन्त्रविवरणानि व्याख्यानानि, एवमष्टविधं ब्राह्मणम् ।
एवं मन्त्रब्राह्मणयोरेव ग्रहणम्, नियतरचनावतो विद्यमानस्यैव वेदस्याभिव्यक्तिः पुरुषनिश्वासवत्, न च पुरुषबुद्धिप्रयत्नपूर्वकः; अतः प्रमाणं निरपेक्ष एव स्वार्थे; तस्माद्यत्तेनोक्तं तत्तथैव प्रतिपत्तव्यम्, आत्मनः श्रेय इच्छद्भिः ज्ञानं वा कर्म वेति ।
नामप्रकाशवशा हि रूपस्य विक्रियाव्यवस्था ।
नामरूपयोरेव हि परमात्मोपाधिभूतयोर्व्याक्रियमाणयोः सलिलफेनवत्तत्त्वान्यत्वेनानिर्वक्तव्ययोः सर्वावस्थयोः संसारत्वम्-इत्यतो नाम्न एव निश्वसितत्वमुक्तम्, तद्वचनेनैवेतरस्य निश्वसितत्वसिद्धेः ।
अथवा सर्वस्य द्वैतजातस्य अविद्याविषयत्वमुक्तम्-"ब्रह्म तं परादात्.....इदं सर्वं यदयमात्मा"इति ।
तेन वेदस्याप्रामाण्यमाशङ्क्यते ।
तदाशङ्कानिवृत्त्यर्थमिदमुक्तम्? पुरुषनिश्वासवदप्रयत्नोत्थितत्वात्प्रमाणं वेदः, न यथा अन्यो ग्रन्थ इति ॥10॥
किञ्चान्यत्, न केवलं स्थित्युत्पत्तिकालयोरेव प्रज्ञानव्यतिरेकेणाभावाज्जगतो ब्रह्मत्वम्, प्रलयकाले च ।
जलबुद्बुदफेनादीनामिव सलिलव्यतिरेकेणाभावः, एवं प्रज्ञानव्यतिरेकेण तत्कार्याणां नामरूपकर्मणां तस्मिन्नेव लीयमानानामभावः ।
तस्मादेकमेव ब्रह्म प्रज्ञानघनमेकरसं प्रतिपत्तव्यमित्यत आह ।
प्रलयप्रदर्शनाय दृष्टान्तः-
स्तर्त् ब्र्हुप् 2,4.11
स यथा सर्वासाम् अपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वग् एकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुर् एकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रम् एकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयम् एकायनम् ।
एवं सर्वेषां कर्मणां हस्ताव् एकायनम् ।
एवं सर्वेषाम् आनन्दानाम् उपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुर् एकायनम् ।
एवं सर्वेषाम् अध्वनां पादाव् एकायनम् ।
एवं सर्वेषां वेदानां वाग् एकायनम्
ब्र्हुप्भ्_2,4.11
स इति दृष्टान्तः;यथा येन प्रकारेण, सर्वासां नदीवापीतडागादिगतानामपाम्, समुद्रो ऽब्धिरेकायनम्, एकगमनमेकप्रलयो ऽविभागप्राप्तिरित्यर्थः;यथायां दृष्टान्तः, एवं सर्वेषां स्पर्शानां मृदुकर्कशकठिनपिच्छिलादीनां वायोरात्मभूतानां त्वगेकायनम्, त्वगिति त्वग्विषयं स्पर्शसामान्यमात्रम्, तस्मिन्प्रविष्टाः स्पर्शविशेषाः-आप इव समुद्रम्-तद्व्यतिरेकेणाभावभूता भवन्ति;तस्यैव हि ते संस्थानमात्रा आसन् ।
तथा तदपि स्पर्शसामान्यमात्रं त्वक्छब्दवाच्यं मनःसङ्कल्पे मनोविषयसामान्यमात्रे, त्वग्विषय इवस्पर्शविशेषाः, प्रविष्टं तद्व्यतिरेकेणाभावभूतं भवति;एवं मनोविषयो ऽपि बुद्धिविषयसामान्यमात्रे प्रविष्टस्तद्व्यतिरेकेणाभावभूतो भवति;विज्ञानमात्रमेव भूत्वा प्रज्ञानघने परे ब्रह्मण्याप इव समुद्रे प्रलीयते ।
एवं परम्पराक्रमेण शब्दादौ सह ग्राहकेण करणेन प्रलीने प्रज्ञानघने उपाध्यभावात्सैन्धवघनवत् प्रज्ञानघनमेकरसमनन्तमपारं निरन्तरं ब्रह्म व्यवतिष्ठते ।
तस्मादात्मैव एकमद्वयमिति प्रतिपत्तव्यम् ।
तथा सर्वेषां गन्धानां पृथिवीविशेषाणां नासिके घ्राणविषयसामान्यम्, तथा सर्वेषां रसानामब्विशेषाणां चक्षुश्चक्षुर्विषयसामान्यम्, तथा शब्दानां श्रोत्रविषयसामान्यं पूर्ववत् ।
तथा श्रोत्रादिविषयसामान्यानां मनोविषयसामान्ये सङ्कल्पे;मनोविषयसामान्यस्यापि बुद्धिविषयसामान्ये विज्ञानमात्रे;विज्ञानमात्रं भूत्वा परस्मिन्प्रज्ञानघने प्रलीयते ।
तथा कर्मेन्द्रियाणां विषया वदनादानगमनविसर्गानन्दविशेषाः तत्तत्क्रियासामान्येष्वेव प्रविष्टा न विभागयोग्या भवन्ति, समुद्र इवाब्विशेषाः; तानि च सामान्यानि प्राणमात्रम्, प्राणश्च प्रज्ञानमात्रमेव ।
"यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः"इति कौषीतकिनो ऽधीयते ।
ननु सर्वत्र विषयस्यैव प्रलयो ऽभिहितः, न तु करणस्य;तत्र को ऽभिप्राय इति? बाढम्;किन्तु विषयसमानजातीयं करणं मन्यते श्रुतिः, न तु जात्यन्तरम्;विषयस्यैव स्वात्मग्राहकत्वेन संस्थानान्तरं करणं नाम-यथा रूपविशेषस्यैव संस्थानं प्रदीपः करणं सर्वरूपप्रकाशने, एवं सर्वविषयविशेषाणामेव स्वात्मविशेषप्रकाशकत्वेन संस्थानान्तराणि करणानि प्रदीपवत् ।
तस्मान्न करणानां पृथक्प्रलये यत्नः कार्यः,
विषयसामान्यात्मकत्वाद्विषयप्रलयेनैव प्रलयः सिद्धो भवति करणानामिति ॥11॥
तत्र ऽइदं सर्वं यदयमात्माऽ इति प्रतिज्ञातम्, तत्र हेतुरभिहितः-आत्मसामान्यत्वम्, आत्मजत्वम्, आत्मप्रलयत्वं च ।
तस्मादुत्पत्तिस्थितिप्रलयकालेषु प्रज्ञानव्यतिरेकेणाभावात्"प्रज्ञानं ब्रह्म" "आत्मैवेदं सर्वम्"इति प्रतिज्ञातं यत्, तत्तर्कतः साधितम् ।
स्वाभाविको ऽयं प्रलय इति पौराणिका वदन्ति ।
यस्तु बुद्धिपूर्वकः प्रलयो ब्रह्मविदां ब्रह्मविद्यानिमित्तः, अयमात्यन्तिक इत्याचक्षते-अविद्यानिरोधद्वारेण यो भवति; तदर्थो ऽयं विशेषारम्भः-
स्तर्त् ब्र्हुप् 2,4.12
स यथा सैन्धवखिल्य उदके प्रास्त उदकम् एवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् ।
यतो-यतस् त्व् आददीत लवणम् ।
एवं वा अर इदं महद् भूतम् अनन्तम् अपारं विज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति ।
न प्रेत्य संज्ञास्तीत्य् अरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः
ब्र्हुप्भ्_2,4.12
तत्र दृष्टान्त उपादीयते-स यथेति ।
सैन्धवखिल्यः- सिन्धोर्विकारः सैन्धवः, सिन्धुशब्देनोदकमभिधीयते, स्यन्दनात्सिन्धुरुदकम्, तद्विकारस्तत्र भवो वा सैन्धवः सैन्धवश्चासौ खिल्यश्चेति सैन्धवखिल्यः, खिल एव खिल्यः स्वार्थे यत्प्रत्ययः, उदेक सिन्धौ स्वयोनौप्रस्तः प्रक्षिप्तः, उदकमेव विलीयमानमनुविलीयेत;यत्तद्भौमतैजससम्पर्कात्काठिन्यप्राप्तिः ।
खिल्यस्य स्वयोनिसम्पर्कादपगच्छति तदुदकस्य विलयनम्, तदनु सैन्धवखिल्यो विलीयत इत्युच्यते ।
तदेतदाह उदकमेवानुविलीयेतेति ।
न ह नैव अस्य खिल्यस्योद्ग्रहणायोद्धृत्य पूर्ववद्ग्रहणाय ग्रहीतुं नैव समर्थः कश्चित्स्यात्सुनिपुणो ऽपि ।
इवशब्दो ऽनर्थकः ।
ग्रहणाय नैव समर्थः;कस्मात्? यतो यतो यस्माद्यस्माद्देशातदुदकमाददीत गृहीत्वा स्वादयेत्, लवणास्वादमेव तदुदकं न तु खिल्यमावः ।
यथायं दृष्टान्तः, एवमेव वा अरे मैत्रेयिदं परमात्माख्यं महद्भूतम्-यस्मान्महतो भूतादविद्यया परिच्छिन्ना सती कार्यकरणोपाधिसम्बन्धात्खिल्यमावमापन्नासि, मर्त्या जन्ममरणाशनायापिपासादिसंसारधर्मवत्यसि, नामरूपकार्यात्मिका-अमुष्यान्व याहमिति, स खिल्यभावस्तव कार्यकरणभूनोपाधिसम्पर्कभ्रान्तिजनितो महति भूते स्वयोनौ महासमुद्रस्यानीये परमात्मनि अजरे ऽमरे ऽभये शुद्वे सैन्धववनवदेकरसे प्रज्ञानघने ऽनन्ते ऽपारे निरन्तरे ऽविद्याजनितभ्रान्तिमेदवर्जिते प्रवेशितः ।
तस्मिन्प्रविष्टे स्वयोनिग्रस्ते खिल्यभावे ऽविद्याकृते भेदभावे प्रणाशिते-इदमेकमद्वैतं महद्भूतम् महच्च तद् भूतं च महद्भूतं सर्वमहत्तरत्वादाकाशादिकारणत्वाच्च ।
भूतं विष्वपि कालेपु स्वरूपाध्यभिचारात्सर्वदैव परिनिष्पन्नमिति वैकालिको निष्ठाप्रत्ययः ।
अथवा भूतशब्दः परमार्थवाची, महच्च पारमार्थिकं चेत्यर्थः;लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं हिमवदादिपर्वतोपमं न परमार्थवस्तु;अतो विशिनष्टि--इदं तु महच्च तदभूतं चेति ।
अनन्तं नास्यान्तो विद्यत इत्यनन्तम्;कदाचिदापेक्षिकं स्यादित्यतो विशिनष्टयपारमितिविज्ञप्तिर्विज्ञानम्, विज्ञानम च तद्घनश्चेति विज्ञानघनः, घनशब्दोजात्यन्तरप्रतिषेधार्थः-यथा सुवर्णघनो ऽयोघन इति;
एवशब्दो ऽवधारणार्थः-नान्यञ्जात्यन्तरमन्तराले विद्यत इत्यर्थः ।
यदीदमेकमद्वैतं परमार्थतः स्वच्छं संसारदुःखासम्पृत्त्कम्, किन्निमितो ऽयं खिल्यभाव आत्मनो जातो मृतः सुखी दुःख्यहं ममेत्येवमादिलक्षणो ऽनेकसंसारधर्मोपद्रुतः? इत्युच्यते--
एतेभ्यो भूतेभ्यो यान्येतानि कार्यकरणविपयाकारपरिणतानि नामरूपात्मकानि सल्लिफेनवुद्वुदोपमानिस्वच्छस्य परमात्मनः सलिलोपमस्य, येपां विषयपर्यन्तानां प्रज्ञानघने ब्रह्मणि परमार्थविवेकज्ञानेन प्रविलापनमुत्तकं नदीसमुद्रवत--एतभ्यो हेतुभूतेभ्यो भूतेभ्यः सत्यशब्दवाच्येभ्यः समुत्थाय सैन्धवखिल्यवत्-यथा अद्भयः सूर्यचन्द्रादिप्रतिबिम्बः, यथा वा स्वच्छस्य स्फटिकस्य अलत्तकाद्युपाधिभ्यो रत्त्कादिभावः, एवं कार्यकरणभूतभूतोपाधिभ्यो विशेपात्मखिल्यभावेन समुत्थाय सम्यगुत्थाय--येभ्यो भूतेभ्य उत्थितः तानि यदाकार्यकरणविषयाकारपरिणतानि भूतान्यात्मनो विशेपात्मखिल्यहेतुभूतानि शास्त्राचार्योपदेशेन ब्रह्मविद्याया नदीसमुद्रवत्प्रविलापितानि विनश्यन्ति, सलिलफेनबुद्बुदादिवत्तेषु विनश्यत्सु अन्वेवैष विशेषात्मखिल्यभावो विनश्यति;यथा उदकालत्त्फकादिहेत्वपनये सार्यचन्द्रस्फटिकादिप्रतिबिम्बो विनश्यति, चन्द्रादि स्वरूपमेव परमार्थतो व्यवतिष्ठते, तद्वत्प्रज्ञानघनमनन्तमपारं स्वच्छं व्यवतिष्ठते ।
न तत्र प्रेत्य विशेपसंज्ञास्ति कार्यकरणसङ्घातेभ्योविमुत्त्कस्य-इत्येवमरे मैत्रेयि ब्रवीमि नास्ति विशेषसंज्ञेति--अहमसावमुष्य पुत्रो ममेदं क्षेत्रं धनं सुखी दुःखीत्येवमादिलक्षणा, अविद्याकृतत्वात्तस्याः;अविद्यायाश्चब्रह्मविद्यया निरन्वयतो नाशितत्वात्कुतो विशेषसंज्ञासम्भवो ब्रह्मविदश्चैतन्यस्वभावावस्थितस्य? शरीरावस्थितस्यापि विशेषसंज्ञा नोपपद्यते किमुत कार्यकरणविमुत्त्कस्य सर्वतः? इति होवाचोत्त्कवान्किल परमार्थदर्शनं मैत्रेय्यै भार्यायै याज्ञवल्क्यः ॥12 ॥
एवं प्रतिबोधिता--
स्तर्त् ब्र्हुप् 2,4.13
सा होवाच मैत्रेयी -- अत्रैव मा भगवान् अमूमुहन् न प्रेत्य संज्ञास्तीति ।
स होवाच -- न वा अरे ऽहं मोहं ब्रवीमि ।
अलं वा अर इदं विज्ञानाय
ब्र्हुप्भ्_2,4.13
सा ह किलोवाचोत्त्कवती मैत्रेयी--अत्रैव एतस्मित्रेव एकस्मिन्वस्तुनि ब्रह्मणि विरुद्वधर्मवत्तवमाचक्षणेन भगवता मम मोह कृतः;तदाह--अत्रैव मा भगवान्पूजावानमूमुहन्मोहं कृतचान् ।
कथं तेन विरुद्वधर्मवत्त्वम् उत्कमित्युच्यते--पूर्व विज्ञानघन एवेति प्रतिशाय पुनर्न प्रेत्य संशास्तीति;कथं विज्ञानघन एव? कथं वा न प्रेत्य संज्ञास्तीति? न ह्युष्णः शीतश्चाग्निरेवैको भवति ।
अतो मूढास्म्यत्र ।
स होवाच याज्ञवल्क्यः-न वा अरे मैत्रेय्यहं मोहं ब्रवीमि मोहनं वाक्यं न ब्रवीमित्यर्थः ।
ननु कथं विरुद्वधर्मत्वमवोचः-विज्ञान घनं संज्ञाभावं च ? न मयेदमेकस्मिन्वमिंण्यमिहितम्, त्वयैवेदं विरुद्वधर्मत्वेनैकं वस्तु परिगृहीतं भ्रान्त्या, न तु मयोत्त्कम् ।
मया त्विदमुत्त्कम्--यस्त्वविद्याप्रत्युपस्यापितःकार्यकरणसम्बन्धी आत्मनः खिल्यभावः, यस्मिन्विद्यया नाशिते, तन्निमित्ता या विशेषसंज्ञा शरीरादिसम्बन्धिनी अन्यत्वदर्शनलक्षणा, सा कार्यकरणसङ्घातोपाधौ प्रविलापिते नश्यति हेत्वभावाद् उदकाद्याधारनाशादिव चन्द्रादिप्रतिबिम्ब स्तन्निमित्तश्च प्रकाशादिः; न पुनः परमार्थचन्द्रादित्यस्वरूपानाशवदसंसारिब्रह्मस्वरूपस्य विज्ञानघनस्य नाशः; तद्विज्ञाघन इत्युत्त्कम्; स आत्मा सर्वस्य जगतः, परमार्थतो भूतनाशान्न विनाशी ।
विनाशी त्वविद्यकृतः खिल्यभावः,"वाचारम्भणं विकारो नामधेयम्"(छा0 उ0 6 ।1 ।4) इति श्रुत्यन्तरात् ।
अयं तु पारमार्थिकः-अविनाशी वा अरे ऽयमात्मा, अतो ऽलं पर्याप्तं वै अरे इदं महद्भूतमनन्तमपारं य याव्याख्यातं विज्ञानाय विज्ञातुम् ।
स्तर्त् ब्र्हुप् 2,4.14
यत्र हि द्वैतम् इव भवति तद् इतर इतरं जिघ्रति तद् इतर इतरं पश्यति तद् इतर इतरं शृणोति तद् इतर इतरं जिघ्रति तद् इतर इतरम् अभिवदति तद् इतर इतरं मनुते तद् इतर इतरं विजानाति ।
यत्र वास्य सर्वम् आत्मैवाभूत् तत् केन कं जिघ्रेत् तत् केन कं जिघ्रेत् तत् केन कं पश्येत् तत् केन कं शृणुयात् तत् केन कम् अभिवदेत् तत् केन कं मन्वीत तत् केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
विज्ञातारम् अरे केन विजानीयाद् इति
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0