बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 2.2
ब्र्हुप्भ्_2,1.20
स यथा लोक ऊर्णनाभिः ।
ऊर्णनाभिर्लूताकीट एक एव प्रसिद्धः सन्स्वात्माप्रविभक्तेन तन्तुनोच्चरेदुद्गच्छेत् ।
न चास्ति तस्योद्गमने स्वतो ऽतिरिक्तं कारकान्तरम् ।
यथा चैकरूपादेकस्मादग्नेः श्रुद्रा अल्पा विस्फुलिङ्गास्रुटयो ऽग्न्यवयवा व्युच्चरन्ति विविधं नाना वोच्चरन्ति ।
यथेमौ दृष्टान्तौ कारकभेदाभावे ऽपि प्रवृत्तिं दर्शयतः, प्राक्प्रवृत्तेश्च स्वभावत एकत्वम्, एवमेवास्मादात्मनो विज्ञानमयस्य प्राक्प्रतिबोधाद्यत्स्वरूपं तस्मादित्यर्थः ।
सर्वे प्राणा वागादयः, सर्वे लोका भूरादयः, सर्वाणि कर्मफलानि, सर्वे देवाः प्राणलोकाधिष्ठातारो ऽग्न्यादयः, सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि प्राणिजातानि, सर्व एत आत्मान इत्यस्मिन्पाठ उपाधिसम्पर्कजनितप्रबुध्यमानविशेषात्मान इत्यर्थः, व्युच्चरन्ति ।
यस्मादात्मनः स्थावरजभ्गमं जगदिदमग्निविस्फुलिङ्गवद् व्युच्चरत्यनिशम्, यस्मिन्नेव च प्रलीयते जलबुद्बुदवत्, यदात्मकं च वर्तते स्थितिकाले, तस्यास्यात्मनो ब्रह्मणः, उपनिषद्;उप समीपं निगमयतीत्यभिधायकः शब्द उपनिषदित्युचत्यते, शास्रप्रामाण्यादेतच्छब्दगतो विशेषो ऽवसीयत उपनिगमयितृत्वं नाम ।
कासावुपनिषदित्याह-सत्यस्य सत्यमिति ।
सा हि सर्वत्र चोपनिषदलौकिकार्थत्वाद् दुर्विज्ञेयार्था, इति तदर्थमाचष्टे-प्राणा वै सत्यं तेषामेष सत्यमिति ।
एतस्यैव वाक्यस्य व्याख्यानायोत्तरं ब्राह्मणद्वयं भविष्यति ।
भवतु तावदुपनिषद्व्याख्यानायोत्तरं ब्राह्मणद्वयम्, तस्योपनिषदित्युक्तम्, तत्र न जानीमः किं प्रकृतस्यात्मनो विज्ञानमयस्य पाणिपेषणोत्थितस्य संसारिणः शब्दादिभुज इयमुपनिषदाहोस्विदसंसारिणः कस्यचित्? किञ्चातः? यदि संसारिणस्तदा संसार्येव विज्ञेयः, तद्विज्ञानादेव सर्वप्राप्तिः ।
स एव ब्रह्मशब्दवाच्यस्तद्विद्यैव ब्रह्मविद्येति ।
अथ असंसारिणः, तदा तद्विषया विद्या ब्रह्मविद्या ।
तस्माच्च ब्रह्मविज्ञानात्सर्वभावापत्तिः ।
सर्वमेतच्छास्रप्रामाण्याद्भविष्यति ।
किन्त्वस्मिन्पक्षे"आत्मेत्येवोपासीत" "आत्मानमेवावेदहं ब्रह्मास्मि"इति परब्रह्मैकत्वप्रतिपादिकाः श्रुतयः कुप्येरन्, संसारिणश्चान्यस्याभावे उपदेशानर्थक्यात् ।
यत एवं पण्डितानामप्येतन्महामोहस्थानम् अनुक्तप्रतिवचनप्रश्नविषयम्; अतो यथाशक्ति ब्रह्मविद्याप्रतिपादकवाक्येषु ब्रह्म विजिज्ञासूनां बुद्धिव्युत्पादनाय विचारयिष्यामः ।
न तावदसंसारी परः, पाणिपेषणप्रतिबोधिताच्छब्दादिभुजो ऽवस्थान्तरविशिष्टादुत्पत्तिश्रुतेः ।
न प्रशासिताशनायादिवर्जितः परो विद्यते, कस्मात्? यस्मात् ऽब्रह्म ज्ञपयिष्यामिऽ इति प्रतिज्ञाय सुप्तं पुरुषं पाणिपेषं बोधयित्वा तस्यैव स्वप्नद्वारेण सुषुप्त्याख्यमवस्थान्तरमुन्नीय तस्मादेवात्मनः सुषुप्त्यवस्थाविशिष्टाद् अग्निविस्फुलिङ्गोर्णनाभिदृष्टान्ताभ्यामुत्पत्तिं दर्शयति श्रुतिः"एवमेवास्मात्"इत्यादिना ।
न चान्यो जगदुत्पत्तिकारणमन्तराले श्रुतो ऽस्ति, विज्ञानमयस्यैव हि प्रकरणम् ।
समानप्रकरणे च श्रुत्यन्तरे कौषीतकिनामादित्यादिपुरुषान्प्रस्तुत्य"स होवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः"इति प्रबुद्धस्यैव विज्ञानमयस्य वेदितव्यतां दर्शयति, नार्थान्तरस्य ।
तथा च"आत्मनस्तु कामाय सर्वं प्रियं भवति"इत्युक्त्वा, य एवात्मा प्रियः प्रसिद्धस्तस्यैव द्रष्टव्यश्रोतव्यमन्तव्यनिदिध्यासितव्यतां दर्शयति ।
तथा च विद्योपन्यासकाले"आत्मेत्येवोपासीत" "तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्" "तदात्मानमेवावेदहं ब्रह्मास्मि"इत्येवमादिवाक्यानामानुलोम्यं स्यात्पराभावे ।
वक्ष्यति च -"आत्मानं चेद्विजानीयादयमस्मीति पूरुषः"इति ।
सर्ववेदान्तेषु च प्रत्यगात्मवेद्यतैव प्रदर्श्यते ऽहमिति, न बहिर्वेद्यता शब्दादिवत्प्रदर्श्यते ऽसौ ब्रह्मेति ।
तथा कौषीतकिनामेव"न वाचं विजिज्ञासीत वक्तारं विद्यात्"इत्यादिना वागादिकरणैर्व्यावृत्तस्य कर्तुरेव वेदितव्यतां दर्शयति ।
अवस्थान्तरविशिष्टो ऽसंसारीति चेत्-अथापि स्याद्यो जागरिते शब्दादिभुग्विज्ञानमयः, स एव सुषुप्ताख्यमवस्थान्तरं गतो ऽसंसारी परः प्रशासिता अन्यः स्यादिति चेन्न, अदृष्टत्वात् ।
न ह्येवन्धर्मकः पदार्थो दृष्टो ऽन्यत्र वैनाशिकसिद्धान्तात् ।
न हि लोके गौस्तिष्ठन् गच्छन्वा गौर्भवति, शयानस्त्वश्वादिजात्यन्तरमिति ।
न्यायाच्च-यद्धर्मको यः पदार्धः प्रमाणेनावगतो भवति, स देशकालावस्थान्तरेष्वपि तद्धर्मक एव भवति ।
स चेत्तद्धर्मकत्वं व्यभिचरति, सर्वः प्रमाणव्यवहारो लुप्येत ।
तथा च न्यायविदः साङ्ख्यमीमांसकादयो ऽसंसारिणो ऽभावं युक्तिशतैः प्रतिपादयन्ति ।
संसारिणो ऽपि जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानस्याभावाद् अयुक्तमिति चेत्-यन्महता प्रपञ्चेन स्थापितं भवता, शब्दादिभुक्संसार्येवावस्थान्तरविशिष्टो जगत इह कर्तेति-तदसत्; यतो जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानशक्तिसाधनाभावः सर्वलोकप्रत्यक्षः संसारिणः ।
स कथमस्मदादिः संसारी मनसापि चिन्तयितुमशक्यं पृथिव्यादिविन्यासविशिष्टं जगन्निर्मिनुयात्? अतो ऽयुक्तमिति चेन्न, शास्रात्; शास्रं संसारिणः"एवमेवास्मादात्मनः"इति जगदुत्पत्त्यादि दर्शयति ।
तस्मात्सर्वं श्रद्धेयमिति स्यादयमेकः पक्षः ।
"यः सर्वज्ञः सर्ववित्" "यो ऽशनायापिपासे अत्येति" "असङ्गो न हि सज्जते" "एतस्य वा अक्षरस्य प्रशासने" "यः सर्वेषु भूतेषु तिष्ठन्नन्तर्याम्यमृतः" "स यस्तान्पुरुषान्निरुह्यात्यक्रामत्" "स वा एष महानज आत्मा"
"एष सेतुर्विधरणः" "सर्वस्य वशी सर्वस्येशानः" "य आत्मापहतपाप्मा विजरो विमृत्युः" "तत्तेजो ऽसृजत" "आत्मा वा इदमेक एवाग्र आसीत्" "न लिप्यते लोकदुःखेन बाह्यः"इत्यादिश्रुतिशतेभ्यः ।
स्मृतेश्च"अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते"इति परो ऽस्त्यसंसारी ।
श्रुतिस्मृतिन्यायेभ्यश्च ।
स च कारणं जगतः ।
नन्"वेवमेवास्मादात्मन"इति
संसारिण एवोत्पत्तिं ।
दर्शयतीत्युक्तम् ।
न ।
"य एषो ऽन्तर्हृदय आकाश"इति परस्य प्रकृतत्वादस्मादात्मन इति युक्तः परस्यैव परामर्शः ।
"क्वैष तदाभूदि"त्यस्य प्रश्नस्य प्रतिवचनत्वेनाऽकाशशब्दवाच्यः पर आत्मोक्तो"य एषो ऽन्तर्हृदय आकाशस्तस्मिञ्छेत"इति ।
"सता सोम्य तदा सम्पन्नो भवत्य" "हरहर्गच्छन्त्य एतं ब्रह्मलोकं न विदन्ति" "प्राज्ञेनाऽत्मना सम्परिष्वक्तः" "पर आत्मनि संप्रतिष्ठते"इत्यादिश्रुतिभ्य आकाशशब्दः पर आत्मेति निश्चीयते ।
"दहरो ऽस्मिन्नन्तराकाश"इति प्रस्तुत्य तस्मिन्नेवाऽत्मशब्दप्रयोगाच्च ।
प्रकुत एव पर आत्मा ।
तस्माद्युक्तमेव अस्मादात्मन इति परमात्मन एव सृष्टिरिति ।
संसारिणः सृष्टिस्थितिसंहारज्ञानसामर्थ्याभावं चावोताम ।
अत्र च"आत्मेत्येवोपासीत" "आत्मानमेवावेदहं ब्रह्मास्मी"ति ब्रह्मविद्या प्रस्तुता ।
ब्रह्मविषयञ्च ब्रह्मविज्ञानमिति ।
"ब्रह्म ते ब्रवाणी"ति"ब्रह्म ज्ञपयिष्यामी"ति प्रारब्धम् ।
तत्रेदानीमसंसारि ब्रह्म जगतः कारणमशनायाद्यतीतं नित्यशुद्धबुद्धमुक्तस्वभावं तद्विपरीतश्च संसारी तस्मादहं ब्रह्मास्मीति न गृह्णीयात् ।
परं हि देवमीशानं निकृष्टः संसार्यात्मत्वेन स्मरन्कथं न दोषभाक्स्यात् ।
तस्मान्नाहं ब्रह्मास्मीति युक्तम् ।
तस्मात्पुष्पोदकाञ्जलिस्तुतिनमस्कारबल्युपहारस्वाध्यायध्यानयोगादिभिरार् इराधयिषेत ।
आराधनेन विदित्वा सर्वेशितृ ब्रह्म भवति ।
न पुनरसंसारि ब्रह्म संसार्यात्मत्वेन चिन्तयेदग्निमिव शीतत्वेनाऽकाशमिव मूर्तिमत्वेन ।
ब्रह्मात्मत्वप्रतिपादकमपि शास्रमर्थवादो भविष्यति ।
सर्वतर्कशास्रलोकन्यायैश्चैवमविरोधः स्यात् ।
न, मन्त्रब्राह्मणवादेभ्यस्तस्यैव प्रवेश श्रवणात् ।
"पुरश्चक्र"इति प्रकृत्य"पुरः पुरुष आविशदि"ति"रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय" "सर्वाणि रूपाणि विचित्य धोरो नामानि कृत्वाभिवदन्यदास्ते"इति सर्वशाखासु सहस्रशो मन्त्रवादाः सृष्टिकर्तुरेवासंसारिणः शरीरप्रवेशं दर्शयन्ति ।
तथा ब्राह्मणवादाः ।
"तत्सृष्ट्वा तदेवानुप्राविशत्" "स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत" "सेयं देवतेमास्तिसत्रो देवता अनेन जीवेनाऽत्मनानुप्रविश्य" "एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते"इत्याद्याः ।
सर्वश्रुतिषु च ब्रह्मण्यात्मशब्दप्रयोगादात्मशब्दस्य च प्रत्यगात्माभिधायकत्वात्"एष सर्वभूतान्तरात्मा"इति च श्रुतेः परमात्मव्यतिरेकेण संसारिणो ऽभावात्"एकमेवाद्वितीयम्" "ब्रह्मैवेदम्" "आत्मैवेदम्"इत्यादिश्रुतिभ्यो युक्तमेवाहं ब्रह्मास्मीत्यवधारयितुम् ।
यदैवं स्थितः शास्रार्थस्तदा परमात्मनः संसरित्वम् ।
तथा च सति शास्रानर्थक्यमसंसारित्वे चोपदेशानर्थक्यं स्पष्टो दोषः प्राप्तः ।
यदि तावत्परमात्मा सर्वभूतान्तरात्मा सर्वशरीरसम्पर्कजनितदुःखान्यनुभवतीति स्पष्टं परस्य संसारित्वं प्राप्तम् ।
तथा च परस्यासंसारित्वप्रतिपादिकाः श्रुतयः कुप्येरन्स्मृतयश्च सर्वे च न्यायाः ।
अथ कथञ्चित्प्राणिशरीरसम्बन्धजैर्दुःखैर्न सम्बध्यत इति शक्यं प्रतिपादयितुं परमात्मनः साध्यपरिहार्याभावादुपदेशानर्थक्यदोषो न शक्यते निवारयितुम् ।
अत्र केचित्परिहारमाचक्षते ।
परमात्मा न साक्षाद्भूतेष्वनुप्रविष्टः स्वेन रूपेण ।
किं तर्हि विकारभावमापन्नो विज्ञानात्मत्वं प्रतिपेदे ।
स च विज्ञानात्मा परस्मादन्यो ऽनन्यश्च ।
येनान्यस्तेन संसारित्वसम्बन्धी येनानन्यस्तेनाहं ब्रह्मेत्यवधारणार्हः ।
एवं सर्वमविरुद्धं भविष्यतीति ।
तत्र विज्ञानात्मनो विकारपक्षे एता गतयः-पृथिवीद्रव्यवदने-कद्रव्यसमाहारस्य सावयवस्य परमात्मन एकदेशविपरिणामो विज्ञानात्मा घटादिवत् ।
पूर्वसंस्थानावस्थस्य वा परस्यैकदेशो विक्रियते केशोषरादिवत्, सर्व एव वा परः परिणमेत्क्षीरादिवत् ।
तत्र समानजातीयानेकद्रव्यसमूहस्य कश्चिद्द्रव्यविशेषो विज्ञानात्मत्वं प्रतिपद्यते यदा, तदा समानजातीयत्वादेकत्वमुपचरितमेव न तु परमार्थतः ।
तथा च सति सिद्धान्तविरोधः ।
अथ नित्यायुतसिद्धावयवानुगतो ऽवयवी पर आत्मा, तस्य तदवस्थस्यैकदेशो विज्ञानात्मा संसारी-तदापि सर्वावयवानुगतत्वादवयविन एवावयवगतो दोषो गुणो वेति, विज्ञानात्मनः संसारित्वदोषेण पर एवात्मा सम्बध्यत इति, इयमप्यनिष्टा कल्पना ।
क्षीरवत्सर्वपरिणामपक्षे सर्वश्रुतिस्मृतिकोपः, स चानिष्टः ।
"निष्कलं निष्क्रियं शान्तम्" "दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः" "आकाशवत्सर्वगतश्च नित्यः" "स वा एष महानज आत्माजरो ऽमरो ऽमृतः" "न जायते म्रियते वा कदाचित्" "अव्यक्तो ऽयम्"इत्यादिश्रुतिस्मृतिन्यायविरुद्धा एते सर्वे पक्षाः ।
अचलस्य परमात्मन एकदेशपक्षे विज्ञानात्मनः कर्मफलवद्देशसंसरणानुपपत्तिः, परस्य वा संसारित्वम्-इत्युक्तम् ।
परस्यैकदेशो ऽग्निविस्फुलिङ्गवत्स्फुटितो विज्ञानात्मा संसरतीति चेत्-तथापि परस्यावयवस्फुटनेन क्षतप्राप्तिः, तत्संसरणे च परमात्मनः प्रदेशान्तरावयवव्यूहे छिद्रताप्राप्तिः, अव्रणत्ववाक्यविरोधश्च ।
आत्मावयवभूतस्य विज्ञानात्मनः संसरणे परमात्मशून्यप्रदेशाभावादवयवान्तरनोदनव्यूहनाभ्यां हृदयशूलेनेव परमात्मनो दुःखित्वप्राप्तिः ।
अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतेर्न दोष इति चेत्? न, श्रुतेर्ज्ञापकत्वात्;न शास्रं पदार्थानन्यथा कर्तुं प्रवृत्तम् ।
किं तर्हि? यथाभूतानामज्ञातानां ज्ञापने ।
किञ्चातः? शृणु-अतो यद्भवति, यथाभूता मूर्तामूर्तादिपदार्थधर्मा लोके प्रसिद्धाः ।
तद्दृष्टान्तोपादानेन तदविरोध्येव वस्त्वन्तरं ज्ञापयितुं प्रवृत्तं शास्रं न लौकिकवस्तुविरोधज्ञापनाय लौकिकवस्तुविरोधज्ञापनाय लौकिकमेव दृष्टान्तमुपादत्ते ।
उपादीयमानो ऽपि दृष्टान्तो ऽनर्थकः स्याद्दार्ष्टान्तिकासङ्गतेः ।
न ह्याग्निः शीत आदित्यो न तपतीति वा दृष्टान्तशतेनापि प्रतिपादयितुं शक्यम्, प्रमाणान्तरेणान्यथाधिगतत्वाद्वस्तुनः ।
न च प्रमाणं प्रमाणान्तरेण विरुध्यते, प्रमाणान्तराविषयमेव हि प्रमाणान्तरं ज्ञापयति ।
न च लौकिकपदपदार्थाश्रयणव्यतिरेकेणागमेन शक्यमज्ञातं वस्त्वन्तरमवगमयितुम् ।
तस्मात्प्रसिद्धन्यायमनुसरता न शक्या परमात्मनः सावयवांशांशित्वकल्पना परमार्थतः प्रतिपादयितुम् ।
"क्षुद्रा विस्फुलिङ्गाः" "ममैवांशः"इति च श्रूयते स्मर्यते चेति चेन्न, एकत्वप्रत्ययार्थपरत्वात् ।
अग्नेर्हि विस्फुलिङ्गो ऽग्निरेव इत्येकत्वप्रत्ययार्हे दृष्टो लोके; तथा चांशोंऽशिनैकत्वप्रत्ययार्हः; तत्रैवं सति विज्ञानात्मनः परमात्मविकारांशत्ववाचकाः शब्दाः परमात्मविकारांशत्ववाचकाः शब्दाः परमात्मैकत्वप्रत्ययाधित्सवः ।
उपक्रमोपसंहाराभ्यां च-सर्वासु ह्युपनिषत्सु पूर्वमेकत्वं प्रतिज्ञाय, दृष्टान्तैर्हेतुभिश्च परमात्मनो विकारांशादित्वं जगतः प्रतिपाद्य, पुनरेकत्वमुपसंहरति; तद्यथेहैव तावत्"इदं सर्वं यदयमात्मा"इति प्रतिज्ञाय, उत्पत्तिस्थितिलयहेतुदृष्टान्तैर्विकारविकारित्वाद्येकत्वप्रत्ययहेतून्प्रति पाद्य"अनन्तरमबाह्यम्" "अयमात्मा ब्रह्म"इत्युपसंहरिष्यति ।
तस्मादुपक्रमोपसंहरिष्यति ।
तस्मादुपक्रमोपसंहाराभ्यामयमर्थो निश्चीयते परमात्मैकत्वप्रत्ययद्रढिम्न उत्पत्तिस्थितिलयप्रतिपादकानि वाक्यानीति ।
अन्यथा वाक्यभेदप्रसङ्गाच्च-सर्वोपनिषत्सु हि विज्ञानात्मनः परमात्मनैकत्वप्रत्ययो विधीयत इत्यविप्रतिपत्तिः सर्वेषामुपनिषद्वादिनाम् ।
तद्विध्येकवाक्ययोगे च सम्भवत्युत्पत्त्यादिवाक्यानां न प्रमाणमस्ति;फलान्तरं च कल्पयितव्यं स्यात्;तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वप्रतिपादनपराः ।
अत्र च सम्प्रदायविद आख्यायिकां सम्प्रचक्षते-कश्चित्किल राजपित्रो जातमात्र एव मातापितृभ्यामपविद्धो व्याधगृहे संवर्धितः, सो ऽमुष्य वंश्यतामजानन्व्याधजातिप्रत्ययो व्याधजातिकर्माण्येवानुवर्तते; न राजास्मीति राजजातिकर्माण्यनुवर्तते ।
यदा पुनः कश्चित्परमकारुणिको राजपुत्रस्य राजश्रीप्राप्तियोग्यतां जानन्नमुष्य पुत्रतां बोधयति-"न त्वं व्याधो ऽमुष्य राज्ञः पुत्रः, कथञ्चिद्व्याधगृहमनुप्रविष्टः"इति-स एवं बोधितस्त्यक्त्वा व्याधजातिप्रत्ययकर्माणि पितृपैतामहीमात्मनः पदवीमनुवर्तते राजाहमस्मीति ।
तथा किलायं परस्मादग्निविस्फुलिङ्गादिवत्तज्जातिरेव विभक्त इह देहेन्द्रियादिगहने प्रविष्टो ऽसंसारी सन् देहेन्द्रियादिसंसारधर्ममनुवर्तते-"देहेन्द्रियसङ्घातो ऽस्मि कृशः स्थूलः सुखी दुःखी"इति परमात्मतामजानन्नात्मनः ।
न त्वमेतदात्मकः परमेव ब्रह्मास्यसंसारीति प्रतिबोधित आचार्येण हित्वैषणात्रयानुवृत्तिं ब्रह्मैवास्मीति प्रतिपद्यते ।
अत्र राजपुत्रस्य राजप्रत्ययवद्ब्रह्मप्रत्ययो दृढीभवति-विस्फुलिङ्गव देव त्वं परस्माद्ब्रह्मणो भ्रष्ट इत्युक्ते विस्फुलिङ्गस्य प्रागग्नेर्भ्रंशादग्न्येकत्वदर्शनात् ।
तस्मादेकत्वप्रत्ययदार्ढ्याय सुवर्णमणिलोहाग्निविस्फुलिङ्गदृष्टान्ताः, नोत्पत्त्यादिभेदप्रतिपादनपराः ।
सैन्धवधनवत्प्रज्ञप्त्येकरसनैरन्तर्यावधारणात्"एकधैवानुद्रष्टव्यम्"इति च ।
यदि च ब्रह्मणश्चित्रपटवद् वृक्षसमुद्रादिवच्चोत्पत्त्याद्यनेकधर्मविचित्रता विजिग्राहयिषिता, एकरसं सैन्धवघनवदनन्तरमबाह्यमिति नोपसमहरिष्यत्,"एकधैवानुद्रष्टव्यम्"इति च न प्रायोक्ष्यत-"य इह नानेव पश्यति"इति निन्दावचनं च ।
तस्मादेकरूपैकत्वप्रत्ययदार्ढ्यायैव सर्ववेदान्तेषूत्पत्तिस्थितिलयादिकल्पना, न तत्प्रत्ययकरणाय ।
न च निरवयवस्य परमात्मनो ऽसंसारिणः संसार्येकदेशकल्पनान्याय्या, स्वतो ऽदेशत्वात्परमात्मनः ।
अदेशस्य परस्य एकदेशसंसारित्वकल्पनायां पर एव संसारीति कल्पितं भवेत् ।
अथ परोपाधिकृत एकदेशः परस्य, घटकरकाद्याकाशवत्;न तदा तत्र विवेकिनां परमात्मैकदेशः पृथक्संव्यवहारभागिति बुद्धिरुत्पद्यते ।
अविवेकिनां विवेकिनां चोपचरिता बुद्धिर्दृष्टेति चेत्? न;अविवेकिनां मिथ्याबुद्धित्वात्, विवेकिनां च संव्यवहारमात्रालम्बनार्थत्वात्-यथा कृष्णो रक्तश्चाकाश इति विवेकिनामपि कदाचित्कृष्णता रक्तता च आकाशस्य संव्यवहारमात्रालम्बनार्थत्वं प्रतिपद्यत इति, न परमार्थतः कृष्णो रक्तो वा आकाशो भवितुमर्हति ।
अतो न पण्डितैर्ब्रह्मस्वरूपप्रतिपत्तिविषये ब्रह्मणोंऽशांश्येकदेशैकदेशिविकारविकारित्वकल्पना कार्या, सर्वकल्पनापनयनार्थसारपरत्वात्सर्वोपनिषदाम् ।
अतो हित्वा सर्वकल्पनामाकाशस्येव निर्विशेषता प्रतिपत्तव्या-"आकाशवत्सर्वगतश्च नित्यः" "न लिप्यते लोकदुःखेन बाह्यः"इत्यादिश्रुतिशतेभ्यः; नात्मानं ब्रह्मविलक्षणं कल्पयेत्-उष्णात्मक इवाग्नौ शीतैकदेशम्, प्रकाशात्मके वा सवितरि तमेकदेशम्-सर्वकल्पनापनयनार्थसारपरत्वात्सर्वोपनिषदाम् ।
तस्मान्नामरूपोपाधिनिमित्ता एव आत्मन्यसंसारधर्मिणि सर्वे व्यवहाराः;"रूपं रूपं प्रतिरूपो बभूव" "सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते"इत्येवमादिमन्त्रवर्णेभ्यः ।
न स्वत आत्मनः संसारित्वम्, अलक्तकाद्युपाधिसंयोगजनितरक्तस्फटिकादिबुद्धिवद्भ्रान्तमेव, न परमार्थतः ।
"ध्यायतीव लेलायतीव" "न वर्धते कर्मणा नो कनीयान्" "न लिप्यते कर्मणा पापकेन" "समं सर्वेषु भूतेषु तिष्ठन्तम्" "शुनि चैव श्वपाके च"इत्यादिश्रुतिस्मृतिन्यायेभ्यः परमात्मनो ऽसंसारितैव ।
अत एकदेशो विकारः शक्तिर्वा विज्ञानात्मा अन्यो वेति विकल्पयितुं निरवयवत्वाभ्युपगमे विशेषतो न शक्यते ।
अंशादिश्रुतिस्मृतिवादाश्चैकत्वार्थाः, न तु भेदप्रतिपादकाः, विवक्षितार्थैकवाक्ययोगात्-इत्यवोचाम ।
सर्वोपनिषदां परमात्मैकत्वज्ञापनपरत्वे अथ किमर्थं तत्प्रतिकूलोर्ऽथो विज्ञानात्मभेदः परिकल्प्यत इति? कर्मकाण्डप्रामाण्यविरोधपरिहारायेत्येकेच कर्मप्रतिपादकानि हि वाक्यानि अनेकक्रियाकारकफलभोक्तृकर्त्राश्रयाणि, विज्ञानात्मभेदाभावे ह्यसंसारिण एव परमात्मन एकत्वे कथमिष्टफलासु क्रियासु प्रवर्तयेयुः? अनिष्टफलाभ्यो वा क्रियाभ्यो निवर्तयेयुः? कस्य वा बद्धस्य मोक्षायोपनिषदारभ्येत? अपि च परमात्मैकत्वावादिपक्षे कथं परमात्मैकत्वोपदेशः? कथं वा तदुपदेशग्रहणफलम्? बद्धस्य हि बन्धनाशायोपदेशस्तदभाव उपनिषच्छास्रं निर्विषयमेव ।
एवं तर्हि उपनिषद्वादिपक्षस्य कर्मकाण्डवादिपक्षेण चोद्यपरिहारयोः समानः पन्थाः-येन भेदाभावे कर्मकाण्डं निरालम्बनमात्मानं न लभ्ते प्रामाण्यं प्रति तथोपनिषदपि ।
एवं तर्हि यस्य प्रामाण्ये स्वार्थविधातो नास्ति, तस्यैव कर्मकाण्डस्यास्तु प्रामाण्यम्;उपनिषदां तु प्रामाण्यकल्पनायां स्वार्थविघातो भवेदिति मा भूत्प्रामाण्यम् ।
न हि कर्मकाण्डं प्रमाणं सदप्रमाणं भवितुमर्हति;न हि प्रदीपः प्रकाश्यं प्रकाशयति, न प्रकाशयति चेति ।
प्रत्यक्षादिप्रमाणविप्रतिषेधाच्च-न केवलमुपनिषदो ब्रह्मैकत्वं प्रतिपादयन्त्यः स्वार्थविघातं कर्मकाण्डप्रामाण्यविघातं च कुर्वन्ति;प्रत्यक्षादिनिश्चितभेदप्रतिपत्त्यर्थप्रमाणैश्च विरुध्यन्ते ।
तस्मादप्रामाण्यमेवोपनिषदाम्;अन्यार्थता वास्तु;न त्वेव ब्रह्मैकत्वप्रतिपत्त्यर्थता ।
न;उक्तोत्तरत्वात् ।
प्रमाणस्य हि प्रमाणत्वमप्रमाणत्वं वा प्रमोत्पादनानुत्पादननिमित्म्, अन्यथा चेत्स्तम्भादीनां प्रामाण्यप्रसङ्गाच्छब्दादौ प्रमेये ।
किञ्चातः? यदि तावदुपनिषदो ब्रह्मैकत्वप्रतिपत्तिप्रमां कुर्वन्ति, कथमप्रमाणं भवेयुः? स भवानेवं वदन्वक्तव्यः-उपनिषत्प्रामाण्यप्रतिषेधार्थं भवतो वाक्यमुपनिषत्प्रामाण्यप्रतिषेधं किं न करोत्येवाग्निर्वा रूपप्रकाशम्? अथ करोति ।
यदि करोति भवतु तदा प्रतिषेधार्थं प्रमाणं भवद्वाक्यम्, अग्निश्च रूपप्रकाशको भवेत्;प्रतिषेधवाक्यप्रामाण्ये भवत्येवोपनिषदां प्रामाण्यम् ।
अत्र भवन्तो ब्रुवन्तु कः परिहार इति?
नन्वत्र प्रत्यत्रा मदावाक्य उपनिषत्प्रामाण्यप्रतिषेधार्थप्रतिपत्तिरग्नौ च रूपप्रकाशनप्रतिपत्तिः प्रमा ।
कस्तर्हि भवतः प्रद्वेषो ब्रह्मैकत्वप्रत्यये प्रमां प्रत्यक्षं कुर्वतीषूपनिषत्सूपलभ्यमानासु प्रतिषेधानुपपत्तेः ।
शोकमोहादिनिवृत्तिश्च प्रत्यक्षं फलं ब्रह्मैकत्वप्रतिपत्तिपारम्पर्यजनितमित्यवोचाम ।
तस्मादुक्तोत्तरत्वादुपनिषदं प्रत्यप्रामाण्यशङ्का तावन्नास्ति ।
यच्चोक्तं स्वार्थविघातकरत्वादप्रामाण्यमिति, तदपि न, तदर्थप्रतिपत्तेर्बाधकाभावात् ।
न हि
उपनिषद्भ्यः-ब्रह्मैकमेवाद्वितीयम्, नैव च-इति प्रतिपत्तिरस्ति;यथाग्निरुष्णः शीतश्चेत्यस्माद्वाक्याद्विरुद्धार्थद्वयप्रतिपत्तिः ।
अभ्युपगम्य चैतदवोचाम;न तु वाक्यप्रामाण्यसमय एषन्यायः-यदुतैकस्य वाक्यस्यानेकार्थत्वम् ।
सति चानेकार्थत्वे, स्वार्थश्च स्यात्, तद्विघातकृच्च विरुद्धो ऽन्योर्ऽथः ।
न त्वेतत्-वाक्यप्रमाणकानां विरुद्धमविरुद्धं च, एवं वाक्यम्, अनेकमर्थं प्रतिपादयतीत्येष समयः;अर्थैकत्वाद्व्येकवाक्यता ।
न च कानिचिदुपनिषद्वाक्यानि ब्रह्मैकत्वप्रतिषेधं कुर्वन्ति ।
यत्तु, लौकिकं वाक्यम्-अग्निरुष्णः शीतश्चेति, न तत्रैकवाक्यता, तदेकदेशस्य प्रमाणान्तरविषयानुवादित्वात् ।
अग्निः शीत इत्येतदेकं वाक्यम्;अग्निरुष्ण इति तु प्रमाणान्तरानुभवस्मारकम्, न तु स्वयमर्थावबोधकम् ।
अतो नाग्निः शीत इत्यनेनैकवाक्यता, प्रमाणान्तरानुभवस्मारणेनैवोपक्षीणत्वात् ।
यत्तु विरुद्धार्थप्रतिपादकमिदं वाक्यमिति मन्यते, तच्छीतोष्णपदाभ्याम् अग्निपदसामानाधिकरण्यप्रयोगनिमित्ता भ्रान्तिः;न त्वेवैकस्य वाक्यस्यानेकार्थत्वं लौकिकस्य वैदिकस्य वा ।
यच्चोक्तं कर्मकाण्डप्रामाण्यविघातकृदुपनिषद्वाक्यमिति, तन्न; अन्यार्थत्वात् ।
ब्रह्मैकत्वप्रतिपादनपरा ह्युपनिषदो नेष्टार्थप्राप्तौ साधनोपदेशं तस्मिन्वा पुरुषनियोगं वारयन्ति, अनेकार्थत्वानुपपत्तेरेव ।
न च कर्मकाण्डवाक्यानां स्वार्थे प्रमा नोत्पद्यते ।
असाधारणे चेत्स्वार्थे प्रमामुत्पादयति वाक्यम्, कुतो ऽन्येन विरोधः स्यात्? ब्रह्मैकत्वे निर्विषयत्वात्प्रमानोत्पद्यत एवेति चेत्? न, प्रत्यक्षत्वात्प्रमायाः ।
"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" "ब्राह्मणो न हन्तव्यः"इत्येवमादिवाक्येभ्यः प्रत्यक्षा प्रमा जायमाना; ऽसा नैव भविष्यति, यद्युपनिषदो ब्रह्मैकत्वं बोधयिष्यन्तिऽ इत्यनुमानम्; न चानुमानं प्रत्यक्षविरोधे प्रामाण्यं लभते; तस्मादसदेवैतद्गीयते-प्रमैव नोत्पद्यत इति ।
अपि च यथाप्राप्तस्यैव अविद्याप्रत्युपस्थापितस्य क्रियाकारकफलस्याश्रयणेन इष्टानिष्टप्राप्तिपरिहारोपायसामान्ये प्रवृत्तस्य तद्विशेषमजानतः तदाचक्षाणा श्रुतिः क्रियाकारकफलभेदस्य लोकप्रसिद्धस्य सत्यतामसत्यतां वा नाचष्टे न च वारयति, इष्टानिष्टफलप्राप्तिपरिहारोपायविधिपरत्वात् ।
यथा काम्येषु प्रवृत्ता श्रुतिः कामानां मिथ्याज्ञानप्रभवत्वे सत्यपि यथाप्राप्तानेव कामानुपादाय तत्साधनान्येव विधत्ते, न तु कामानां मिथ्याज्ञानप्रभवत्वादनर्थरूपत्वं चेति न विदधाति ।
तथा नित्याग्निहोत्रादिशास्रमपि मिथ्याज्ञानप्रभवं क्रियाकारकभेदं यथाप्राप्तमेवादाय इष्टविशेषप्राप्तिमनिष्टविशेषपरिहारं वा किमपि प्रयोजनं पश्यदग्निहोत्रादीनि कर्माणि विधत्ते ।
नाविद्यागोचरासद्वस्तुविषयमिति न प्रवर्तते यथा काम्येषु ।
न च पुरुषा न प्रवर्तेरन्नविद्यावन्तः, दृष्टत्वाद्यथा कामिनः ।
विद्यावतामेव कर्माधिकार इति चेत्? न, ब्रह्मैकत्वविद्यायां कर्माधिकारविरोधस्योक्तत्वात् ।
एतेन ब्रह्मैकत्वे निर्विषयत्वादुपदेशेन तद्ग्रहणफलाभावदोषपरिहार उक्तो वेदितव्यः ।
पुरुषेच्छारागादिवैचित्र्याच्च-अनेका हि पुरुषाणमिच्छाः, रागादयश्च दोषा विचित्राः;ततश्च बाह्यविषयरागाद्यपहृतचेतसो न शास्रं निवर्तयितुं शक्तम्;नापि स्वभावतो बाह्यविषयविरक्तचेतसो विषयेषु प्रवर्तयितुं शक्तम्;किन्तु शास्रादेतावदेव भवति-इदमिष्टसाधनमिदमनिष्टसाधनमिति साध्यसाधनसम्बन्धविशेषाभिव्यक्तिः-प्रदीपादिवत्तमसि रूपादिज्ञानम् ।
न तु शास्रं भृत्यानिव बलान्निवर्तयति नियोजयति वा;दृश्यन्ते हि पुरुषा रागादिगौरवाच्छास्रमप्यतिक्रामन्तः ।
तस्मात् पुरुषमतिवैचित्र्यमपेक्ष्य साध्यसाधनसम्बन्धविशेषाननेकधोपदिशति ।
तत्र पुरुषाः स्वयमेव यथारुचि साधनविशेषेषु प्रवर्तन्ते, शास्रं तु सवितृप्रदीपादिवदुदास्त एव ।
तथा कस्यचित्परो ऽपि पुरुषार्थो ऽपुरुषार्थवदवभासते; यस्य यथावभासः, स तथारूपं पुरुषार्थं पश्यति; तदनुरूपाणि साधनान्युपादित्सते ।
तथा चार्थवादो ऽपि-"त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः"इत्यादिः ।
तस्मान्न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधिशास्रस्य बाधकाः ।
न च विधिशास्रमेतावता निर्विषयं स्यात् ।
नाप्युक्तकारकादिभेदं विधिशास्रमुपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति ।
स्वविषयशूराणि हि प्रमाणानि, श्रोत्रादिवत् ।
तत्र पण्डितंमन्याः केचित्स्वचित्तवशात्सर्वं प्रमाणमितरेतरविरुद्धं मन्यन्ते, तछा प्रत्यक्षादिविरोधमपि चोदयन्ति ब्रह्मैकत्वे-शब्दादयः किल श्रोत्रादिविषया भिन्नाः प्रत्यक्षत उपलभ्यन्ते, ब्रह्मैकत्वं ब्रुवतां प्रत्यक्षविरोधः
स्यात्; तथा श्रोत्रादिभिः शब्दाद्युपलब्धारः कर्तारश्च धर्माधर्मयोः प्रतिशरीरं भिन्ना अनुमीयन्ते संसारिणः; तत्र ब्रह्मैकत्वं ब्रुवतामनुमानविरोधश्च ।
तथा च आगमविरोधं वदन्ति-"ग्रामकामो यजेत" "पशुकामो यजेत" "स्वर्गकामो यजेत"इत्येवमादिवाक्येभ्यो ग्रामपशुस्वर्गादिकामास्तत्साधनाद्यनुष्ठातारश्च भिन्ना अवगम्यन्ते ।
अत्रोच्यते-ते तु कुतर्कदूषितान्तःकरणा ब्राह्मणादिवर्णापसदा अनुकम्पनीया आगमार्थविच्छिन्नसम्प्रदायबुद्धय इति ।
कथम्? श्रोत्रादिद्वारैः शब्दादिभिः प्रत्यक्षत उपलभ्यमानैर्ब्रह्मण एकत्वं विरुध्यत इति वदन्तो वक्तव्याः-किं शब्दादीनां भेदेनाकाशैकत्वं विरुध्यत इति;अथ न विरुद्ध्यते, न तर्हि प्रत्यक्षविरोधः ।
यच्चोक्तं प्रतिशरीरं शब्दाद्युपलब्धारो धर्माधर्मयोश्च कर्तारो भिन्ना अनुमीयन्ते, तथा च ब्रह्मैकत्वे ऽनुमानविरोध इति;भिन्ना कैरनुमीयन्त इति प्रष्टव्याः;अथ यदि ब्रूयुः-सर्वैरस्माभिरनुमानकुशलैरिति-के यूयमनुमानकुशला इत्येवं पृष्टानां किमुत्तरम् ।
शरीरेन्द्रियमन आत्मसु च प्रत्येकमनुमानकौशलप्रत्याख्याने, शरीरेन्द्रियमनःसाधना आत्मानो वयमनुमानकुशलाः, अनेककारकसाध्यत्वात्क्रियाणामिति चेत्? एवं तर्ह्यनुमानकौशलेभवतामनेकत्वप्रसङ्गः; अनेककारकसाध्या हि क्रियेति भवद्भिरेवाभ्युपगतम् ।
तत्रानुमानं च क्रिया; सा शरीरेन्द्रियमन आत्मसाधनैः कारकैरात्मकर्तृका निर्वर्त्यत इत्येतत्प्रतिज्ञातम् ।
तत्र वयमनुमानकुशला इत्येवं वदद्भिः-शरीरेन्द्रियमनःसाधना आत्मानः प्रत्येकं वयमनेक इत्यभ्युपगतं स्यात् ।
अहो अनुमानकौशलं दर्शितमपुच्छशृङ्गैस्तार्किकबलीवर्दैः ।
यो ह्यात्मानमेव न जानाति स कथं मूढस्तद्गतं वा जानीयात्? तत्र किमनुमिनोति? केन वा लिङ्गेन? न ह्यात्मनः स्वतो भेदप्रतिपादकं किञ्चिल्लिङ्गमस्ति, येन लिङ्गेनात्मभेदं साधयेत्; यानि लिङ्गान्यात्मभेदसाधनाय नामरूपवन्त्युपन्यस्यन्ति, तानि नामरूपगतान्युपाधय एवात्मनो घटकरकापवरकभूच्छिद्राणीवाकाशस्य ।
यदाकाशस्य भेदलिङ्गं पश्यति, तदात्मनो ऽपि भेदलिङ्गं लभेत सः; न ह्यात्मनः परतो ऽपि विशेषमभ्युपगच्छद्भिस्तार्किकशतैरपि भेदलिङ्गमात्मनो दर्शयितुं शक्यते; स्वतस्तु दूरादपनीतमेव, अविषयत्वादात्मनः ।
यद्यत्पर आत्मधर्मत्वेनाभ्युपगच्छति, तस्य तस्य नामरूपाभ्यां चात्मनो ऽन्यत्वाभ्युपगमात्,"आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म"इति श्रुतेः"नामरूपे व्याकरवाणि"इति च ।
उत्पत्तिप्रलयात्मके हि नामरूपे, तद्विलक्षणं च ब्रह्म-अतो ऽनुमानस्यैवाविषयत्वात्कुतो ऽनुमानविरोधः? एतेनागमविरोधः प्रत्युक्तः ।
यदुक्तं ब्रह्मैकत्वे यस्मा उपदेशः, यस्य चोपदेशग्रहणफलम्, तदभावादेकत्वोपदेशानर्थक्यमिति, तदपि न, अनेककारकसाध्यत्वात्क्रियाणां कश्चोद्यो भवति ।
एकस्मिन्ब्रह्मणि निरुपाधिके नोपदेशः, नोपदेष्टा, न चोपदेशग्रहणफलम्; तस्मादुपनिषदां चानर्थक्यमित्येतदभ्युपगतमेव ।
अथानेककारकविषयानर्थक्यं चोद्यते-न, स्वतो ।
ञभ्युपगमविरोधादात्मवादिनाम् ।
तस्मात्तार्किकचाटभटराजाप्रवेश्यम् अभयं दुर्गमिदमल्पबुद्ध्यगम्यं शास्रगुरुप्रसादरहितैश्च,"कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति" "देवैरत्रापि विचिकित्सितं पुरा" "नैषा तर्केण मतिरापनेया"-वरप्रसादलभ्यत्वश्रुतिस्मृतिवादेभ्यश्च;"तदेजति तन्नैजति तद्दूरे तद्वन्तिके"इत्यादिविरुद्धधर्मसमवायित्वप्रकाशकमन्त्रवर्णेभ्यश्च ।
गीतासु च-"मत्स्थानि सर्वभूतानि"इत्यादि ।
तस्मात्परब्रह्मव्यतिरेकेण संसारी नाम नान्यद्वस्त्वन्तरमस्ति ।
तस्मात्सुष्ठूच्यते"ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेद् अहं ब्रह्मास्मि" "नान्यदतो ऽस्ति द्रष्टृ नान्यदतो ऽस्ति श्रोतृ"इत्यादिश्रुतिशतेभ्यः ।
तस्मात्परस्यैव ब्रह्मणः"सत्यस्य सत्यम्"नामोपनिषत्परा ॥20॥
इति बृहदारण्यकोपनिषद्भाष्ये द्वितीयाध्याये प्रथममजातशत्रुब्राह्मणम् ॥1॥
स्तर्त् ब्र्हुप् 2,2.1
ऽब्रह्म ज्ञपयिष्यामिऽइति प्रस्तुतम्;तत्र यतो जगज्जातं यन्मयं यस्मिंश्च लीयते तदेकं ब्रह्मेति ज्ञापितम् ।
किमात्मकं पुनस्तज्जगज्जायते, लीयते च? पञ्चभूतात्मकम्;भूतानि च नामरूपात्मकानि;नामरूपे सत्यमिति ह्युक्तम्;तस्य सत्यस्य पञ्चभूतात्मकस्य सत्यं ब्रह्म ।
कथं पुनर्भूतानि सत्यमिति मूर्तामूर्तब्राह्मणम् ।
मूर्तामूर्तभूतात्मकत्वात्कार्यकरणात्मकानि भूतानि प्राणा अपि सत्यम् ।
तेषां कार्यकरणात्मकानां भूतानां सत्यत्वनिर्दिधारयिषया ब्राह्मणद्वयमारभ्यते सैवोपनिषद्व्याख्या ।
कार्यकरणसत्यत्वावधारणद्वारेण हि सत्यस्य सत्यं ब्रह्मावधार्यते ।
अत्रोक्तम् ऽप्राणा वै सत्यं तेषामेष सत्यम्ऽइति ।
तत्र के प्राणाः? कियत्यो वा प्राणविषया उपनिषदः? काः? इति च ब्रह्मोपनिषत्प्रसङ्गेन करणानां प्राणानां स्वरूपमवधारयति-पथिगतकूपारामाद्यवधारणवत् ।
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यान् अवरुणद्धि ।
अयं वाव शिशुर् यो ऽयं मध्यमः प्राणः ।
तस्येदम् एवाधानम् इदं प्रत्याधानं प्राणः स्थूणान्नं दाम
ब्र्हुप्भ्_2,2.1
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद, तस्येदं फलम्; किं तत्? सप्त सप्तसंख्याकान् ह द्विषतो द्वेषकर्तॄन् भ्रातृव्यान् ।
भ्रातृव्या हि द्विविधा भवन्ति, द्विषन्तो ऽद्विषन्तश्च, तत्र द्विषन्तो ये भ्रातृव्यास्तान् द्विषतो भ्रातृव्यानवरुणद्धि; सप्त ये शीर्षण्याः प्राणा विषयोपलब्धिद्वाराणि तत्प्रभवा विषयरागाः सहजत्वाद् भ्रातृव्याः ।
ते ह्यस्य स्वात्मस्थां दृष्टिं विषयविषयां कुर्वन्ति, तेन ते द्वेष्टारो भ्रातृव्याः ।
प्रत्यगात्मेक्षणप्रतिषेधकरत्वात् ।
काठके चोक्तम्-"पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्"इत्यादि ।
तत्र यः शिश्वादीन्वेद, तेषां याथात्म्यमवधारयति, स एतान् भ्रातृव्यानवरुणद्ध्यपावृणोति विनाशयति ।
तस्मै फलश्रवणेनाभिमुखीभूतायाह-अयं वाव शिशुः ।
को ऽसौ? यो ऽयं मध्यमः प्राणः, शरीरमध्ये यः प्राणो लिङ्गात्मा, यः पञ्चधा शरीरमाविष्टः-बृहन्पाण्डरवासः सोम राजन्नित्युक्तः, यस्मिन्वाङ्मनः प्रभृतीनि करणानि विषक्तानि-पड्वीशशङ्कुनिदर्शनात्; स एष शिशुरिव, विषयेष्वितरकरणवदपटुत्वात्; शिशुं साधानमित्युक्तम् ।
किं पुनस्तस्य शिशोर्वत्सस्थानीयस्य करणात्मन आधानम्? तस्येदमेव शरीरमाधानं कार्यात्मकम्-आधीयते ऽस्मिन्नित्याधानम्; तस्य हि शिशोः प्राणस्येदं शरीरमधिष्ठानम्, अस्मिन्हि करणान्यधिष्ठितानि लब्धात्मकान्युपलब्धिद्वाराणि भवन्ति, न तु प्राणमात्रे विषक्तानि ।
तथा हि दर्शितमजातशत्रुणा-उपसंहृतेषु करणेषु विज्ञानमयो नोपलभ्यते, शरीरदेशव्यूढेषु तु करणेषु विज्ञानमय उपलभमान उपलभ्यते-तच्च दर्शितं पाणिपेषप्रतिबोधनेन ।
इदं प्रत्याधानं शिरः; प्रदेशविशेषेषु-प्रति प्रत्याधीयत इति प्रत्याधानम् ।
प्राणः स्थूणा अन्नपानजनिताशक्तिः-प्राणो बलमिति पर्यायः ।
बलावष्टम्भो हि प्राणो ऽस्मिञ्छरीरे-"स यत्रायमात्माबल्यं न्येत्य संमोहमिव"इति दर्शनात् ।
यथा वत्सः स्थूणावष्टम्भ एवं शरीरपक्षपाती वायुः प्राणः स्थूणेति केचित् ।
अन्नं दाम-अन्नं हि भुक्तं त्रेधा परिणमते;य;स्थूलः परिणामः, स एतद्द्वयं भूत्वा इमामप्येति-मूत्रं च पुरीषं च ।
यो मध्यमो रसः स रसो लोहितादिक्रमेण स्वकार्यं शरीरं साप्तधातुकमुपचिनोति;स्वयोन्यन्नागमे हि शरीरमुपचीयते ऽन्नमयत्वात्;विपर्यये ऽपक्षीयते पतति;यस्त्वणिष्ठो रसः-अमृतम् ऊर्क्प्रभावः-इति च कथ्यते, स नाभेरूर्ध्वं हृदयदेशमागत्य, हृदयाद्विप्रसृतेषु द्वासप्ततिनाडीसहस्रेष्वनुप्रविश्य यत्तत्करणसङ्घातरूपं लिङ्गं शिशुसञ्ज्ञकम्, तस्य शरीरे स्थितिकारणं भवति बलमुपजनयत्स्थूणाख्यम्;तेनान्नमुभयतः पाशवत्सदामवत् प्राणशरीरयोर्निबन्धनं भवति ॥1॥
स्तर्त् ब्र्हुप् 2,2.2
इदानीं तस्यैव शिशोः प्रत्याधान ऊढस्य चक्षुषि काश्चनोपनिषद उच्यन्ते-
तम् एताः सप्ताक्षितय उपतिष्ठन्ते ।
तद् या इमा अक्षंल् लोहिन्यो राजयस् ताभिर् एनं रुद्रो ऽन्वायत्तः ।
अथ या अक्षन्न् आपस् ताभिः पर्जन्यः ।
या कनीनका तयादित्यः ।
यत् कृष्णं तेनाग्निर् ।
यच् छुक्लं तेनेन्द्रः ।
अधरयैनं वर्तन्या पृथिव्य् अन्वायत्ता ।
द्यौर् उत्तरया ।
नास्यान्नं क्षीयते य एवं वेद
ब्र्हुप्भ्_2,2.2
तमेताः सप्ताक्षितय उपतिष्ठन्तेतं करणात्मकं प्रामं शरीरे ऽन्नबन्धनं चक्षुष्यूढमेता वक्ष्यमाणाः सप्त सप्तसङ्ख्याका अक्षितयो ऽक्षितिहेतुत्वादुपतिष्ठन्ते ।
यद्यपि मन्त्रकरणे तिष्ठतिरुपपूर्व आत्मनेपदी भवति, इहापि सप्त देवताभिधानानि मन्त्रस्थानीयानि करणानि;तिष्ठतेरतो ऽत्राप्यात्मनेपदं न विरुद्धम् ।
कास्ता अक्षितयः? इत्युच्यन्ते-तत्तत्र या इमाः प्रसिद्धाः, अक्षन्नक्षणि लोहिन्यो लोहिता राजयो रेखाः, ताभिर्द्वारभूताभिरेनं मध्यमं प्राणं रुद्रो ऽन्वायत्तो ऽनुगतः; अथ या अक्षन्नक्षण्यापो धूमादिसंयोगेनाभिव्यज्यमानाः, ताभिरद्भिर्द्वारभूताभिः पर्जन्यो देवतात्मान्वायत्तो ।
ञनुगत उपतिष्ठत इत्यर्थः ।
स चान्नभूतो ऽक्षितिः प्राणस्य;"पर्जन्ये वर्षत्यानन्दिनः प्राणा भवन्ति"इति श्रुत्यन्तरात् ।
या कनीनका दृक्छक्तिस्तया कनीनकया द्वारेणादित्यो मध्यमं प्राणमुपतिष्ठते;यत्कृष्णं चक्षुषि तेनैनमग्निरुपतिष्ठते;यच्छुक्लं चक्षुषि तेनेन्द्रः;अधरया वर्तन्या पक्ष्मणैनं पृथिव्यन्वायत्ता, अधरत्वसामान्यात्;
एताः सप्तान्नभूताः प्राणस्य सन्ततमुपतिष्ठन्ते-इत्येवं यो वेद, तस्यैतत्फलम्-नास्यान्नं क्षीयते, य एवं वेद ॥2॥
स्तर्त् ब्र्हुप् 2,2.3
तद् एष श्लोको भवति --
अर्वाग्बिलश् चमस ऊर्ध्वबुध्नस् तस्मिन् यशो निहितं विश्वरूपम् ।
तस्यासत ऋषयः सप्त तीरे वाग् अष्टमी ब्रह्मणा संविदानेति ।
अर्वाग्बिलश् चमस ऊर्ध्वबुध्न इति ।
इदं तच् छरीर एष ह्य् अर्वाग्बिलश् चमस ऊर्ध्वबुध्नः ।
तस्मिन् यशो निहितं विश्वरूपम् इति ।
प्राणा वै यशो विश्वरूपम् ।
प्राणान् एतद् आह ।
तस्यासत ऋषयः सप्त तीर इति ।
प्राणा वा ऋषयः ।
प्राणाण् एतद् आह ।
वाग् अष्टमी ब्रह्मणा संविदानेति ।
वाग् घ्य् अष्टमी ब्रह्मणा संवित्ते
ब्र्हुप्भ्_2,2.3
तत्तत्रैतस्मिन्नर्थे एष श्लोको मन्त्रो भवति-अर्वाग्बिलश्चमस इत्यादिः ।
तत्र मन्त्रार्थमाचष्टे श्रुतिः-अर्वाग्बिलश्चमस इत्यादिः ।
तत्र मन्त्रार्थमाचष्टे श्रुतिः-अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति ।
कः पुनरसावर्वाग्बिलश्चमस ऊर्ध्वबुध्नः? इदं तत् शिरः, चमसाकारं हि तत् ।
कथम्? एष ह्यर्वाग्बिलो मुखस्य बिलरूपत्वात्, शिरसो बुध्नाकारत्वादूर्ध्वबुध्नः ।
तस्मिन्यशो निहितं विश्वरूपमिति-यथा सोमश्चमसे, एवं तस्मिञ्छिरसि विश्वरूपं नानारूपं निहितं स्थितं भवति ।
किं पुनस्तद् यशः? प्राणा वै यशो विश्वरूपम्-प्राणाः श्रोत्रादयो वायवश्च मरुतः सप्तधा तेषु प्रसृता यशः-इत्येतदाह मन्त्रः, शब्दादिज्ञानहेतुत्वात् ।
तस्यासत ऋषयः सप्त तीर इति-प्राणाः परिस्पन्दात्मकाः, त एव च ऋषयः, प्राणावेतदाह मन्त्रः ।
वागष्टमी ब्रह्मणा संविदानेति-ब्रह्मणा संवादं कुर्वती अष्टमी भवति;तद्धेतुमाह-वाग्घ्यष्टमी ब्रह्मणा संवित्त इति ॥3॥
स्तर्त् ब्र्हुप् 2,2.4
के पुनस्तस्य चमसस्य तीर आसत ऋषय इति ।
इमाव् एव गोतमभरद्वाजौ ।
अयम् एव गोतमो ऽयं भरद्वाजः ।
इमाव् एव विश्वामित्रजमदग्नी ।
अयम् एव विश्वामित्रो ऽयं जमदग्निः ।
इमाव् एव वसिष्ठकश्यपौ ।
अयम् एव वसिष्ठो ऽयं कश्यपः ।
वाग् एवात्रिः ।
वाचा ह्य् अन्नम् अद्यते ।
अत्तिर् ह वै नामैतद् यद् औत्रिर् इति ।
सर्वस्यात्ता भवति ।
सर्वम् अस्यान्नं भवति य एवं वेद
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0