बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 1.5
ब्र्हुप्भ्_1,4.17 आत्मैवेदमग्र आसीत् ।
आत्मैव स्वाभाविको ऽविद्वान्कार्यकरणसङ्घातलक्षणो वर्णी, अग्रे प्राग्दारसम्बन्धात्,आत्मेत्यभिधीयते;तस्मादात्मनः पृथग्भूतं काम्यमानं जायादिभेदरूपं नासीत्;स एवैक आसीत् - जायाद्येषणाबीजभूता विद्यावानेक एवासीत् ।
स्वाभाविक्या स्वात्मनि कर्त्रादिकारकक्रियाफलात्मकताध्यारोपलक्षणया अविद्यावासनया वासितः सो ऽकामयत कामितवान् ।
कथम्? जाया कर्माधिकारहेतुभूता मे मम कर्तुः स्यात्;तया विनाहमनधिकृत एव कर्मणि;अतः कर्माधिकारसम्पत्तये भवेज्जाया;अथाहं प्रजायेय प्रजारूपेणाहमेवोत्पद्येय ।
अथ वित्तं मे स्यात्कर्मसाधनं गवादिलक्षणम् अथाहमभ्युदयनिःश्रेयससाधनं कर्म कुर्वीय;येनाहमनृणी भूत्वा देवादीनां लोकान् प्राप्नुयाम्, तत्कर्म कुर्वीय;काम्यानि च पुत्रवित्तस्वर्गादिसाधनानि ।
एतावान्वै काम एतावद्विषयपरिच्छिन्न इत्यर्थः ।
एतावानेव हि कामयितव्यो विषयो यदुत जायापुत्रवित्तकर्माणि साधनलक्षणैषणा;लोकाश्च त्रयो मनुष्यलोकः पितृलोको देवलोक इति फलभूताः साधनैषणा, तस्मात्सा एकैवैषणा या लोकैषणा ।
सैकैव सत्येषणा साधनापेक्षेति द्विधा;अतो ऽवधारयिष्यति"उभे ह्येते एषणे एव"3 । 5 । 1) इति ।
फलार्थत्वात्सर्वारम्भस्य लोकैषणार्थप्राप्ता उक्तैवेति ।
एतावान्वा एतावानेव काम इत्यवध्रियते ।
भोजने ऽभिहिते तृप्तिर्न हि पृथगभिधेया, तदर्थत्वाद्भोजनस्य ।
ते एते एषणे साध्यसाधनलक्षणे कामः, येन प्रयुक्तो ऽविद्वानवश एव कोशकारवदात्मानं वेष्टयति - कर्ममार्ग एवात्मानं प्रणिदधद्बहिर्मुखीभूतो न स्वं लोकं प्रतिजानाति ।
तथा च तैत्तिरीयके -"अग्निमुग्धो हैव धूमतान्तः स्वं लोकं न प्रतिजानाति"इति ।
कथं पुनरेतावत्त्वमवधार्यते कामानाम्? अनन्तत्वात् ।
अनन्ता हि कामाः, इत्येतदाशङ्क्य हेतुमाह - यस्माद् न इच्छन् च न इच्छन्नपि, अतो ऽस्मात्फलसाधनलक्षणाद् भूयो ऽधिकारं न विन्देन्न लभेत ।
न हि लोके फलसाधनव्यतिरिक्तं दृष्टमदृष्टं वा लब्धव्यमस्ति ।
लब्धव्यविषयो हि कामः, तस्य चैतद्व्यतिरेकेणाभावात् युक्तं वक्तुम्ऽएतावान्वै कामःऽइति ।
एतदुक्तं भवति - दृष्टार्थमदृष्टार्थ वा साध्यसाधनलक्षणम् अविद्यावत्पुरुषाधिकारविषयमेषणाद्वयं कामः, अतो ऽस्माद्विदुषा व्युत्थातव्यमिति ।
यस्मादेवमविद्वानात्मा कामो पूर्वं कामयामास, तथा पूर्वतरो ऽपि, एषा लोकस्थितिः प्रजापतेश्चैवमेष सर्गं आसीत् ।
सो ऽबिभेदविद्यया, ततः कामप्रयुक्त एकाक्यरममाणो ऽस्त्युपघाताय स्त्रियमैच्छत्, तां समभवत् ततः सर्गो ऽयमासीदिति ह्युक्तम् ।
तस्मात्तत्सृष्टौ एतर्ह्येतस्मिन्नपि काल एकाकी सन्प्राग्दारक्रियातः कामयते - जाया मे स्यात्, अथ प्रजायेय अथ वित्तं मे स्यात्, अथ कर्म कुर्वीय - इत्युक्तार्थं वाक्यम् ।
स एवं कामयमानः सम्पादयंश्च जायादीन्यावत्स एतेषां यथोक्तानां जायादीनामेकैकमपि न प्राप्नोति, अकृत्स्नो ऽसम्पूर्णो ऽहमित्येवं तावदात्मानं मन्यते ।
पारिशेष्यात्समस्तानेवैतान्सम्पादयति यदा, तदा तस्य कृत्स्नता ।
यदा तु न शक्नोति कृत्स्नतां सम्पादयितुं तदा अस्य कृत्स्नत्वसम्पादनायाह - तस्यो तस्याकृत्स्नत्वभिमानिनः कृत्स्नता इयम् एवं भवति कथम्? अयं कार्यकरणसङ्घातः प्रविभज्यते;तत्र मनो ऽनुवृत्ति हि इतरत्सर्वं कार्यकरणज्ञातमिति मनः प्रधानत्वाजात्मेवात्मा ।
यथा जायादीनां कुटुम्बपतिरात्मेव तदनुकारित्वाञ्जायादि चतुष्ट्यस्य;एवमिहापि मन आत्मा परिकल्पते कृत्स्नतायै ।
तथा वाग्जाया, मनो ऽनुवृत्तित्वसामान्याद्वाचः ।
वागिति शब्दश्चोदनादिलक्षणः, मनसा श्रोत्रद्वारेण गृह्यते ऽवधार्यते प्रसृज्यते च, इति मनसो जायेव वाक् ।
ताभ्यां च वाङ्मनसाभ्यां जायापतिस्थानीयाभ्यां प्रसूयते प्राणः कर्मार्थम्, इति प्राणः प्रजेव ।
तत्र प्राणचेष्टादिलक्षणं कर्म चक्षुर्मानुषं वित्तम् ।
तद् द्विविधं वित्तं मानुषमितरच्च;अतो विशिनष्टीतरवित्तनिवृत्त्यर्थ मानुषमिति ।
गवादि हि मनुष्यसम्बन्धि वित्तं चक्षुर्ग्राह्यं कर्मसाधनम्;तस्मात्तत्स्थानीयम्, तेन सम्बन्धाच्चक्षुर्ग्राह्यं वित्तम्;चक्षुषा हि यस्मात्तन्मानुषं वित्तं विन्दते गवाद्युपलभत इत्यर्थः ।
किं पुनरितरद्वित्तम्? श्रोत्रं दैवं देवविषयत्वाद्विज्ञानस्य ।
विज्ञानं दैवं वित्तम्;तदिह श्रोत्रमेव सम्पत्तिविषयम् ।
कस्मात्? श्रोत्रेण हि यस्मात्तद्दैवं वित्तं विज्ञानं शृणोति;अतः श्रोत्रमेव तदिति ।
किं पुनरेतैरात्मादिवित्तान्तैरिह निर्वर्त्य कर्म? इत्युच्यते - आत्मैव - आत्मेति शरीरमुच्यते ।
कथं पुनरात्मा कर्मस्थानीयः? अस्य कर्महेतुत्वात् ।
कथं कर्महेतुत्वम्? आत्मना हि शरीरेण यतः कर्म करोति ।
तस्याकृत्स्नत्वाभिमानिन एवं कृत्स्नता सम्पन्ना - यथा बाह्या जायादिलक्षणा एवम् ।
तस्मात्स एष पाङ्क्तः पञ्चभिर्निर्वृत्तः पाङ्क्तो यज्ञो दर्शनमात्रनिर्वृत्तो ऽकर्मिणो ऽपि ।
कथं पुनरस्य पञ्चत्वसम्पत्तिमात्रेण यज्ञत्वम्? उच्यते - यस्माद्बाह्यो ऽपि यज्ञः पशुपुरुषसाध्यः, स च पशुः पुरुषश्च पाङ्क्त एव यथोक्तमनआदिपञ्चत्वयोगात् ।
तदाह - पाङ्क्तः पशुगर्वादिः, पाङ्क्तः पुरुषः पशुत्वे ऽप्यधिकृतत्वेनास्य विशेषः पुरुषस्येति पृथक्पुरुषग्रहणम् ।
किं बहुना? पाङ्क्तमिदं सर्वं कर्मसाधनं फलं च, यदिदं किञ्च यत्किञ्चिदिदं सर्वम् ।
एवं पाङ्क्तं यज्ञमात्मानं यः सम्पादयत् स तदिदं सर्वं जगदात्मत्वेनाप्नोति य एवं वेद ॥17॥
इति प्रथमाध्याये चतुर्थं सृष्ट्यादिसर्वात्मताब्राह्मणम् ॥4॥
यत्सप्तान्नानि मेधया ।
अविद्या प्रस्तुता, तत्राविद्वानन्यां देवतामुपास्तेऽअन्यो ऽसावन्यो ऽहमस्मिऽइति ।
स वर्णाश्रमाभिमानः कर्मकर्तव्यतया नियतो जुहोत्यादिकर्मभिः कामप्रयुक्तो देवादीनामुपकुर्वन्सर्वेषां भूतानां लोक इत्युक्तम् ।
यथा च स्वकर्मभिरेकैकेन सर्वैर्भूतैरसौ लोको भोज्यत्वेन सृष्टः, एवमसावपि जुहोत्यादिपाङ्क्तकर्मभिः सर्वाणि भूतानि सर्वं च जगदात्मभोज्यत्वेनासृजत् ।
एवमेकैकः स्वकर्मविद्यानुरूप्येण सर्वस्य जगतो भोक्ता भोज्यं च, सर्वस्य सर्वः कर्ता कार्यं चेत्यर्थः ।
एतदेव च विद्याप्रकरणे मधुविद्यायां वक्ष्यामः -ऽसर्वं सर्वस्य कार्यं मधुऽइत्यात्मैकत्वविज्ञानार्थम् ।
यदसौ जुहोतीत्यादिना पाङ्क्तेन काम्येन कर्मणा आत्मभोज्यत्वेन जगदसृजत विज्ञानेन च, तज्जगत्सर्वं सप्तधा प्रविभज्यमानं कार्यकारणत्वेन सप्तान्नान्युच्यन्ते, भोज्यत्वात्;तेनासौ पिता तेषामन्नानाम् ।
एतेषामन्नानां सविनियोगानां सूत्रभूताः सङ्क्षेपतः प्रकाशकत्वादिमे मन्त्राः ।
स्तर्त् ब्र्हुप् 1,5.1
यत् सप्तान्नानि मेधया तपसाजनयत् पिता ।
एकम् अस्य साधारणं द्वे देवान् अभाजयत् ।
त्रीण्य् आत्मने ऽकुरुत पशुभ्य एकं प्रायच्छत् ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
कस्मात् तानि न क्षीयन्ते अद्यमानानि सर्वदा ।
यो वै ताम् अक्षितिं वेद सो ऽन्नम् अत्ति प्रतीकेन ।
स देवान् अपिगच्छति स ऊऋजम् उपजीवति ।
इति श्लोकाः
ब्र्हुप्भ्_1,5.1 यत्सप्तान्नानि, यद् अजनयदिति क्रियाविशेषणम्;मेधया प्रज्ञया विज्ञानेन तपसा च कर्मणा;ज्ञानकर्मणी एव हि मेधातपः शब्दवाच्ये, तयोः प्रकृतत्वात्;नेतरे मेधातपसी, अप्रकरणात्;पाङ्क्तं हि कर्म जायादिसाधनम्; ऽय एवं वेदऽइति चानन्तरमेव ज्ञानं प्रकृतम्;तस्मान्न प्रसिद्धयोर्मेधातपसोराशङ्का कार्या;अतो यानि सप्तान्नानि ज्ञानकर्मभ्यां जनितवान्पिता तानि प्रकाशयिष्याम इति वाक्यशेषः ॥1॥
तत्र मन्त्राणामर्थस्तिरोहितत्वात्त्प्रायेण दुर्विज्ञेयो भवतीति तदर्थव्याख्यानाय ब्राह्मणं प्रवर्तते -
स्तर्त् ब्र्हुप् 1,5.2
यत् सप्तान्नानि मेधया तपसाजनयत् पितेति ।
मेधया हि तपसाजनयत् पितैकम् अस्य साधारणम् इति ।
इदम् एवास्य तत् साधारणम् अन्नं यद् इदम् अद्यते ।
स य एतद् उपास्ते न स पाप्मनो व्यावर्तते ।
मिश्रं ह्य् एतत् ।
द्वे देवान् अभाजयद् इति ।
हुतं च प्रहुतं च ।
तस्माद् देवेभ्यो जुह्वति च प्र च जुह्वति ।
अथो आहुर् दर्शपूर्णमासाव् इति ।
तस्मान् नेष्टियाजुकः स्यात् ।
पशुभ्य एकं प्रायच्छद् इति ।
तत् पयः ।
पयो ह्य् एवाग्रे मनुष्याश् च पशवश् चोपजीवन्ति ।
तस्मात् कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति ।
अथ वत्सं जातम् आहुस् तृणाद् इति ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति ।
पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
तद् यद् इदम् आहुः संवत्सरं पयसा जुह्वद् अप पुनर्मृत्युं जयतीति ।
न तथा विद्यात् ।
यद् अहर् एव जुहोति तद् अहः पुनर्मृत्युम् अपजयत्य् एवं विद्वान् ।
सर्वं हि देवेभ्यो ऽन्नाद्यं प्रयच्छति ।
कस्मात् तानि न क्षीयन्ते अद्यमानानि सर्वदेति ।
पुरुषो वा अक्षितिः ।
स हीदम् अन्नं पुनः पुनर् जनयते ।
यो वैताम् अक्षितिं वेदेति ।
पुरुषो वा अक्षितिः ।
स हीदम् अन्नं धियाधिया जनयते कर्मभिः ।
यद् धैतन् न कुर्यात् क्षीयेत ह ।
सो ऽन्नम् अत्ति प्रतीकेनेति ।
मुखं प्रतीकं मुखेनेत्य् एतत् ।
स देवान् अपिगच्छति स ऊर्जम् उपजीवतीति प्रशंसा
ब्र्हुप्भ्_1,5.2 तत्रऽयत्सप्तान्नानि मेधया तपसाजनयत्पिताऽइत्यस्य कोर्ऽथ उच्यते? इथि हि शब्देनैव व्याचष्टे प्रसिद्धार्थावद्योतकेन ।
प्रसिद्धो ह्यस्य मन्त्रस्यार्थ इत्यर्थः ।
यदजनयदिति चानुवादस्वरूपेण मन्त्रेण प्रसिद्धार्थतैव प्रकाशिता ।
अतो ब्राह्मणमविशङ्क्यैवाह -ऽमेधया हि तपसाजनयत्पिताऽइति? ननु कथं प्रसिद्धातास्यार्थस्य? इत्युच्यते - जायादिकर्मान्तानां लोकफलसाधनानां पितृत्वं तावत् प्रत्यक्षमेव, अभिहितं चऽजाया मे स्यात्ऽइत्यादिना ।
तत्र च दैवं वित्तं विद्या कर्म पुत्रश्च फलभूतानां लोकानां साधनं स्रष्टृत्वं प्रतीत्यभिहितम्, वक्ष्यमाणं च प्रसिद्धमेव;तस्माद्युक्तं वक्तुं मेधयेत्यादि ।
एषणा हि फलविषया प्रसिद्धैव च लोके ।
एषणा च जायादीत्युक्तम्ऽएतावान्वै कामःऽइत्यनेन ।
ब्रह्मविद्याविषये च सर्वैकत्वात्कामानुपपत्तेः ।
एतेनाशास्त्रीयप्रज्ञातपोभ्यां स्वाभाविकाभ्यां जगत्स्रष्टृत्वमुक्तमेव भवति;स्थावरान्तस्य चानिष्टफलस्य कर्मविज्ञाननिमित्तत्वात् ।
विवक्षितस्तु शास्त्रीय एव साध्यसाधनभावो ब्रह्मविद्याविधित्सया तद्वैराग्यस्य विवक्षितत्वात् ।
सर्वो ह्यं व्यक्ताव्यक्तलक्षणः संसारो ऽसुद्धो ऽनित्यः साध्यसाधनरूपो दुःखो ऽविद्याविषय इत्येतस्माद्विरक्तस्य ब्रह्मविद्या आरब्धव्येति ।
तत्रान्नानां विभागेन विनियोग उच्यते-ऽएकमस्य साधारण्मऽइति मन्त्रपदम्, तस्य व्याख्यानम्ऽइदमेवास्य तस्माधारणमन्नम्ऽइत्युत्त्कम् ।
अस्य भोत्त्कृसमुदायस्य, किं तत्? यदिदमद्यते भुज्यते सर्वैः प्राणिभिरहन्यहनि, तस्माधारणं सर्वभोक्त्रर्थमकल्पयत्पिता सृष्ट्वान्नम् ।
स य एतत्साधारणं सर्वप्राणभृत्स्थितिकरं भुज्यमानमन्नमुपास्ते तत्परो भवतीत्यर्थः-- उपासनं हि नाम तात्पर्य दृष्टं लोकेऽगुरुमुपास्तेऽ ऽराजानमुपास्तेऽइत्यादौ--तस्माच्छरीरस्थित्यर्थन्नोपभोगप्रधानोनादृष्टार्थकर्मप्रधान इत्यर्थः;स एवं भूतो न पाप्मनो ऽधर्मद्वयावर्तते--न विमुच्यत इत्येतत् ।
तथा च मन्त्रवर्णः---"मोघमन्नंविन्दते"इत्यादिः ।
स्मृतिरपि-"नात्मार्थ पाचयेदन्नम्" "अप्रदायैभ्यो यो भूङ्क्ते स्तेन एव सः" "अन्नादे भ्रूणहा मार्ष्टि" इत्यादिः ।
कस्मात्पुनः पाप्मनो न व्यावर्तते? मिश्रं ह्येतस्मर्सेषां हि स्वं तदप्रविभक्तं यत्प्राणिभिर्भुज्यते ।
सर्वभोज्यत्पादेव यो मुखे प्रक्षिप्यमाणो ऽपि ग्रासः परस्य पीडाकरो दृश्यते,ऽममेदं स्यात्ऽइति हि सर्वेषां तत्राशा प्रतिवद्वा ।
तस्मान्न परमपीडय्त्वा ग्रसितुमपि शक्यते ।
"दुष्कृतं हि मनुष्याणाम्"इत्यादिस्मरणाच्च ।
गृहिणा वैश्वदेवाख्यमन्नं यदहन्यहनि निरूप्यत इति केचित्, तत्र, सर्वभोत्तकृसाधारणत्वं वैश्वदेवाख्यस्यान्नस्य न सर्वप्राणभृद्भुज्यमानान्नवत्प्रत्यक्षम्, नापिऽयदिदमद्यतेऽइति तद्विषयं वचनमनुकूलम् ।
सर्वप्राणभृद्भपज्यमानांनान्नान्तःपातित्वाच्च वैश्वदेवाख्यस्य युत्तकं श्वचाण्डालाद्याधस्यान्नस्य ग्रहणम्, वैश्वदेवव्यतिरेकेणापि श्वचाण्डालाद्याधाश्वदर्शनात्, तत्र युत्कम्,ऽयदिदमद्यतेऽइति वचनम् ।
यदि हि तन्न गृह्येत, साधारणशब्देन पित्रासृष्टत्वाविनियुत्त्कत्वे तस्य प्रसज्येयाताम् ।
इष्यते हि तत्सृष्टवं तद्विनियुत्त्कत्वं य सर्वस्यान्नजातस्य ।
न च वैश्वदेवाख्यं शास्त्रोक्तं कर्म कुर्वतः पाप्मनो ऽविनिवृत्तिर्युक्ता, न च तस्य प्रतिषेधो ऽस्ति, न च मत्स्यबन्धनादिकर्मवत्स्वभावजुगुप्सितमेतत्, शिष्टनिर्वर्त्यत्वात्, अकरणे च प्रत्यवायश्रवणात् ।
इतरत्र च प्रत्यवायोपपत्तेः"अहमन्नमन्नमदन्तमा3ङ्मि"(तै.उ.3 । 10 । 6) इति मन्त्रवर्णात् ।
द्वे देवानभाजयत् इति मन्त्रपदम्, ये द्वे अन्ने सृष्ट्वा देवानभाजयत् ।
के ते द्वे? इत्युच्यते - हुतं च प्रहुतं च ।
हुतमित्यग्नौ हवनम्, प्रहुतं हुत्वा बलिहरणम् ।
यस्माद् द्वे एते अन्ने हुतप्रहुते देवानभाजयत्पिता ।
तस्मादेतर्ह्यपि गृहिणः काले द्वेभ्यो(? ) जुह्वति देवेभ्य इदमन्नमस्माभिर्दीयमानमिति मन्वाना जुह्वति, प्रजुह्वति च हुत्वा बलिहरणं च कुर्वत इत्यर्थः ।
अथो अप्यन्य आहुर्द्वे अन्ने पित्रा देवेभ्यः प्रत्ते न हुतप्रहुते, किं तर्हि? दर्शपूर्णमासाविति ।
द्वित्वश्रवणाविशेषादत्यन्तप्रसिद्धत्वाच्च हुतप्रहुते इति प्रथमः पक्षः ।
यद्यपि द्वित्वं हुतप्रहुतयोः सम्भवति, तथापि श्रौतयोरेव तु दर्शपूर्णमासयोर्देवान्नत्वं प्रसिद्धतरम्, मन्त्र प्रकाशितत्वात् ।
गुणप्रधानप्राप्तौ च प्रधाने प्रथमतरा अवगतिः, दर्शपूर्णमासयोश्च प्राधान्यं हुतप्रहुतापेक्षया ।
तस्मात्तयोरेव ग्रहणं युक्तम्ऽद्वे देवानभाजयत्ऽइति ।
यस्माद्देवातमेते पित्रा प्रकॢप्ते दर्शपूर्णमासाख्ये अन्ने, तस्मात्तयोर्देवार्थत्वाविघाताय नेष्टियाजुक इष्टियजनशीलः, इष्टिशब्देन किल काम्या इष्टयः, शातपथीयं प्रसिद्धिः, ताच्छील्यप्रत्ययप्रयोगात्काम्येष्टियजनप्रधाने न स्यादित्यर्थः ।
पशुभ्य एकं प्रायच्छदिति - यत्पशुभ्य एकं पुनस्तदन्नम्? तत्पयः ।
कथं पुनरवगम्यते पशवो ऽस्यान्नस्य स्वामिनः? इत्यत आह - पयो ह्यग्रे प्रथमं यस्मान्मनुष्याश्च पशवश्च पयः एवोपजीवन्तीति ।
उचितं हिऽतपो तदन्नम्ऽअन्यथा कथं तदेवाग्रे नियमेनोपजीवेयुः? कथमग्रे तदेवोपजीवन्ति? इत्युच्यते - मनुष्याश्च पशवश्च यस्मात्तेनैवान्नेन वर्तन्ते ऽद्यत्वे ऽपि, यथा पित्रा आदौ विनियोगः कृतस्तथा ।
तस्मात्कुमारं बालं जातं घृतं वा त्रैवर्णिका जातकर्मणि जातरूपसंयुक्तं प्रतिलेहयन्ति पश्चात् पाययन्ति ।
यथासम्भवमन्येषां स्तनमेवाग्रे धापयन्ति मनुष्येभ्यो ऽन्येषां पशूनाम् ।
अथ वत्सं जातमाहुःऽकियत्प्रमाणो वत्सःऽ? इत्येवं पृष्टा- सन्तो ऽतृणाद इति ।
नाद्यापि तृणमत्ति, अतीव बालः, पयसैवाद्यापि वर्तत इत्यर्थः ।
यच्चाग्रे जातकर्मादौ घृतमुपजीवन्ति, यच्चेतरे पय एव, तत्सर्वथापि पय एवोपजीवन्ति;घृतस्यापि पयोविकारत्वात्पयस्त्वमेव कस्मात्पुनः सप्तमं सत्पश्वन्नं चतुर्थत्वेन व्याख्यायते? कर्मसाधनत्वात् ।
कर्म हि पयःसाधनाश्रयं अग्निहोत्रादि ।
तच्च कर्म साधनं वित्तसाध्यं वक्ष्यमाणस्यान्नत्रयस्य साध्यस्य, यथा दर्शपूर्णमासौ पूर्वोक्तावन्ने ।
अतः कर्मपक्षत्वात् कर्मणा सह पिण्डीकृत्योपदेशः ।
साधनत्वाविशेषादर्थसम्बन्धादानन्तर्यमकारणमिति चाव्याख्याने प्रतिपत्तिसौकर्याच्च ।
सुखं हि नैरन्तर्येण व्याख्यातु शक्यन्ते ऽन्नानि व्याख्यातानि च सुखं प्रतीयन्ते ।
तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेत्यस्य कोर्ऽथः? इत्युच्यते - तस्मिन्पश्वन्ने पयसि सर्वमध्यात्माधिभूताधिदैवलक्षणं कृत्स्नं जगत्प्रतिष्ठितं यच्च प्राणिति प्राणवेष्टावद्यच्च न स्थानरं शैलादि ।
तत्र हि शब्देनैव प्रसिद्धावद्योतकेन व्याख्यातम् ।
कारणत्वापपत्तेः ।
कारणत्वं चाग्निहोत्रादिकर्मसमवायित्वम् ।
अग्निहोत्राद्याहुतिविपरिणामात्मकं च जगत्कृत्स्नमिति श्रुतिस्मृतिवादाः शतशो व्यवस्थिताः ।
अतो युक्तमेव हि शब्देन व्याख्यानम् ।
यत्तद्ब्राह्मणान्तरेष्विदमाहुः - संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति, संवत्सरेण किल त्रीणि षष्टिशतान्याहुतीनां सप्त च शतानि विंशतिश्चेति याजुष्मतीरिष्टका अभिसम्पद्यमानाः संवत्सरस्य चाहोरात्राणि, संवत्सरमग्निं प्रजापतिमाप्नुवन्ति;एवं कृत्वा संवत्सरं जुह्वदपजयति पुनः मृत्युम्, इतः प्रेत्य देवेषु सम्भूतः पुनर्न म्रियत इत्यर्थः ।
इत्येवं ब्राह्मणवादा आहुः, न तथा विद्यान्न तथा द्रष्टव्यम्;यदहरेव जुहोति तदहः पुनर्मृत्युमपजयति, न संवत्सराभ्यासमपेक्षते ।
एवं विद्वान्सन्, यदुक्तम् - पयसि हीदं सर्वं प्रतिष्ठितं पय आहुतिविपरिणामात्मकत्वात्सर्वस्येति, तदेकेनैवाह्वा जगदात्मत्वं प्रतिपद्यते;तदुच्यते - अपजयति पुनर्मृत्युं पुनर्मरणम्, सकृन्मृत्वाविद्धाञ्छरीरेण वियुज्य सर्वात्मा भवति न पुनर्मरणाय परिच्छिन्नं शरीरं गृह्णातीत्यर्थः ।
कः पुनर्हेतुः सर्वात्माप्त्या मृत्युमपजयति? इत्युच्यते - सर्वं समस्तं हि यस्माद्देवेभ्यः सर्वेभ्यो ऽन्नाद्यमन्नमेव तदाद्यं च सायंप्रातराहुतिप्रक्षेपेण प्रयच्छति ।
तद्युक्तं सर्वमाहुतिमयमात्मानं कृत्वा सर्वदेवान्नरूपेण सर्वैर्देवैरेकात्मभावं गत्वा सर्वदेवमयो भूत्वा पुनर्न म्रियत इति ।
अथैतदप्युक्तं ब्राह्मणेन -"ब्रह्म वै स्वयम्भू तपो ऽतप्यत तदैक्षत न वै तपस्यानन्त्यमस्ति, हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति, तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यगाधिपत्यं पर्येत्"इति ।
कस्मात्तानि न क्षीयन्ते ऽद्यमानानि सर्वदेति ।
यदा पित्रा अन्नानि सृष्ट्वा सप्त पृथक्पृथग्भोक्तृभिरद्यगानानि - तन्निमित्तत्वात्तेषां स्थितेः - सर्वदा नैरन्तर्येण;कृतक्षयोपपत्तेश्च युक्तस्तेषां क्षयः ।
न च तानि क्षीयमाणानि, जगतो ऽविभ्रष्टरूपेणैवावस्थानदर्शनात् ।
भवितव्यं चाक्षयकारणेन;तस्मात्कस्मात्पुनस्तानि न क्षीयन्त इति प्रश्नः ।
तस्येदं प्रतिवचनम् -ऽपुरिषो वा अक्षितिःऽ ।
यथासौ पूर्वमन्नानां स्रष्टासीत्पिता मेधया जायादिसम्बन्धेन च पाङ्क्तकर्मणा भोक्ता च, तथा येभ्यो दत्तान्यन्नानि ते ऽपि तेषामन्नानां भोक्तारो ऽपि सन्तः पितर एव, मेधया तपसा च यतो जनयन्ति तान्यन्नानि ।
तदेतदभिधीयते पुरुषो वै यो ऽन्नानां भोक्ता सो ऽक्षितिरक्षयहेतुः ।
कथमस्याक्षितित्वम्? इत्युच्यते - स हि यस्मादिदं भुज्यमानं सप्तविधं कार्यकरणलक्षणं क्रियाफलात्मकं पुनः पुनर्भूयो भूयो जनयत उत्पादयति धिया धिया तत्तत्कालभाविन्या तया तया प्रज्ञया, कर्मभिश्च वाङ्मनःकायवेष्टितैः यद्यदि ह यद्येतत्सप्तविधमन्नमुक्तं क्षणमात्रमपि न कुर्यात्प्रज्ञया कर्मभिश्च, ततो विच्छिद्येत भुज्यमानत्वात्सातत्येन क्षीयेत ह ।
तस्माद्यथैवायं पुरुषो भोक्ता अन्नानां नैरन्तर्येण, यथाप्रज्ञे यथाकर्म च करोत्यपि ।
तस्मात्पुरुषो ऽक्षितिः सातत्येन कर्तृत्वात् ।
तस्माद् भुज्यमानान्यप्यन्नानि न क्षीयन्त इत्यर्थः ।
अतः प्रज्ञाक्रियालक्षणप्रबन्धारूढः सर्वो लोकः साध्यसाधनलक्षणः क्रियाफलात्मकः संहतानेकप्राणिकर्मवासनासन्तानावष्टब्धत्वात्क्षणिको ऽशुद्धो ऽसारो नदीस्रोतः प्रदीपसन्तानकल्पः कदलीस्तम्भवदसारः फेनमायामरीच्यम्भःस्वप्नादिसमस्तदात्मगतदृष्टीनामविकीर्यमाणो नित्यः सारवानिव लक्ष्यते ।
तदेतद्वैराग्यार्थमुच्यते - धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत हेति - विरक्तानां ह्यस्माद्ब्रह्मविद्या आरब्धव्या चतुर्थप्रमुखेणेति ।
यो वैतामक्षितिं वेदेति;वक्ष्यमाणान्यपि त्रीण्यन्नान्यस्मिन्नवसरे व्यख्यातान्येवेति कृत्वा तेषां याथात्म्यविज्ञानफलमुपसंह्रियते - यो वा एताम् अक्षितिम् अक्षयहेतुं यथोक्तं वेद, पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयते हेति ।
सो ऽन्नमत्ति प्रतीकेनेत्यस्यार्थ उच्यते - मुखं मुख्यत्वं प्राधान्यमित्येतत् ।
प्राधान्येवान्नानां पितुः पुरुषस्याक्षितित्वं यो वेद सो ऽन्नमत्ति नान्नं प्रति गुणभूतः सन् ।
यथाज्ञो न तथा विद्वानन्नानायात्मभूतः, भोक्तैव भवति, न भोज्यतामापाद्यते ।
स देवानपि गच्छति स ऊर्जमुपजीवति, देवानपि गच्छति देवात्मभावं प्रतिपद्यते, ऊर्जममृतं चोपजीवतीति यदुक्तं सा प्रशंसा, नापूर्वार्थो ऽन्यो ऽस्ति ॥2॥
पाङ्क्तस्य कर्मणः फलभूतानि यानि त्रीण्यन्नाप्युपक्षिप्तानि तानि कार्यत्वाद्विस्तीर्णविषयत्वाच्च पूर्वभ्यो ऽन्नेभ्यः पृथगुत्कृष्टानि, तेषां व्याख्यानार्थ उत्तरो ग्रन्थ आ ब्राह्मणपरिसमाप्तेः ।
स्तर्त् ब्र्हुप् 1,5.3
त्रीण्य् आत्मने ऽकुरुतेति:
मनो वाचं प्राणं तान्य् आत्मने ऽकुरुत ।
अन्यत्रमना अभूवं नादर्शम् अन्यत्रमना अभूवं नाश्रौषम् इति मनसा ह्य् एव पश्यति मनसा शृणोति ।
कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिर् अधृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव ।
तस्माद् अपि पृष्ठत उपस्पृष्टो मनसा विजानाति ।
यः कश्च शब्दो वाग् एव सा ।
एषा ह्य् अन्तं आयत्तैषा हि न ।
प्राणो ऽपानो व्यान उदानः समानो ऽन इत्य् एतत् सर्वं प्राण एव ।
एतन्मयो वा अयम् आत्मा ।
वाङ्मयो मनोमयः प्राणमयः
ब्र्हुप्भ्_1,5.3 त्रीण्यात्मने ऽकुरुतेति को ऽस्यार्थ इत्युच्यते - मनोवाक्प्राणा एतानि त्रीण्यन्नानि, तानि मनो वाचं प्राणं चात्मने आत्मार्थमकुरुत - कृतवान् सृष्ट्वा आदौ पिता ।
तेषां संशय इत्यत आह - अस्ति तावन्मनः श्रोत्रादिबाह्यकरणव्यतिरिक्तम्, यत एवं प्रसिद्धम् - बाह्यकरणविषयात्मसम्बन्धे सत्यप्यभिमुखीभूतं विषयं न गृह्णाति,ऽकिं दृष्टवानसीदं रूपम्ऽ? इत्युक्तो वदति -ऽअन्यत्र मे गतं मन आसीत्सो ऽहमन्यत्रमना आसं नादर्शम्ऽ ।
तथाऽइदं श्रुतवानसि मदीयं वचःऽइत्युक्तःऽअन्यत्रमना अभूवं नाश्रौषं न श्रुतवानस्मिऽइति ।
तस्माद् यस्यासन्निधौ रूपादिग्रहणसमर्थस्यापि सतश्चक्षुरादेः स्वस्वविषयसम्बन्धे रूपाशब्दादिज्ञानं न भवति, यस्य च भावे भवति, तदन्यदस्ति मनो नामान्तःकरणं सर्वकारणविषययोगि इत्यवगभ्यते ।
तस्मात्सर्वो हि लोकां मनसा ह्येव पश्यति मनसा शृणोति, तद्वयग्रत्वे दर्शनाद्यभावात् ।
अस्तित्वे सिद्वे मनसः स्वरूपार्थमिदमुच्यतेकामः स्त्रीच्यतिकराभीलाषादिः, संकल्पः प्रत्युपस्थितविपयविकल्पनं शुक्लनीलादिभेदेन, विचिकित्सा संशयज्ञानम्, श्रद्वा अदृष्टार्थेषु कर्मस्वास्तिक्यवुद्विदैवयादिपु च, अश्रद्वा तद्विपरीता वुद्विः, धृतिर्धारणं देहाद्यवसादे उत्तम्भन्, अधृतिस्तद्विपर्ययः, ह्रीर्लज्जा, धीः प्रज्ञा, भीर्भय्म, इत्येतदेवमादिकं सर्वं मन एव;मनसो ऽन्तःकरणस्य रूपाण्येतानि ।
मनो ऽस्तित्वं प्रत्यन्यच्च कारणमुच्यते-तस्मान्मनो नामास्तयन्तः करणम्, यस्माच्चक्षुषो ह्यगोचरे पृष्ठप्तो ऽप्युपस्पृष्ठः केनिचिद् हस्तस्यायं स्पर्शो जानेरयमिति विवेकेन प्रतिपद्यते ।
यदि विवेककृन्मनो नाम नास्ति तर्हि त्वङ्मात्रेण कुतो विवेकप्रतिपत्तिः स्यात्? तन्मनः ।
अस्ति तावन्मनः, स्वरूपं च तस्यापाधिगतम् ।
त्रीण्यन्नानीह फलभूतानि कर्मणां मनोवाक्प्राणाख्यानि अध्पात्ममधिभूतमधिदैवं च व्याचिख्यासितानि ।
तत्र आध्यात्मिकानां वाङ्मनः प्राणानां मनो व्याख्यातम् ।
अथेदार्नीवाग्वत्त्कव्येत्यारंमः- यः कश्च लोके शब्दो धवनिस्ताल्वादिव्यङ्ग्यः प्राणिभिर्वर्णादिलक्षण इतरो वा वादित्रमेधादिनिमित्तः सर्वो ध्वनिर्वागेव सा ।
इदं तावद्वाचः स्वरूपमुत्त्कम्? अथ तस्याः कार्यमुच्यते-एषा वाग्घि यस्मादन्तमभिधेयावसानमभिधेयनिर्णयमायत्तानुगता ।
एषा पुनः स्वयं नाभिधेयवत्प्रकाश्या अभिधेयप्रकाशिकैव् प्रकाशात्मकत्वात् प्रदीपादिवत् ।
न हि प्रदीपादिप्रकाशः प्रकाशान्तरेण प्रकाश्यते, तद्वद्वाक्प्रकाशिकैव स्वयं न प्रकाश्येत्यनवस्थां श्रुतिः परिहरति - एषा हि न प्रकाश्या ।
प्रकाशकत्वमेव वाचः कार्यमित्यर्थः ।
अथ प्राण उच्यते - प्राणो मुखनासिकासञ्चार्या हृदयवृत्तिःप्रणयनात्प्राणः अपनयनान्मूत्रपुरीषादेरपाननो ऽधोवृत्तिरानाभिस्थानः;व्याननो व्यायमनकर्मा व्यानः प्राणापानयोः सन्धिर्वीर्यवत्कर्महेतुश्च;उदान उत्कर्षोर्ध्वगमनादिहेतुरापादतलमस्तकस्थान ऊर्ध्ववृत्तिः, समानः समं नयनाद् भुक्तस्य पीतस्य च कोष्ठस्थानो ऽन्नपक्ता, अन इत्येषां वृत्तिविशेषाणां सामान्यभूता सामान्यदेहचेष्टाभिसम्बन्धिनी वृत्तिः, एवं यथोक्तं प्राणादिवृत्तिजातमेतत्सर्वं प्राण एव ।
प्राण इथि वृत्तिमानाध्यात्मिको ऽन उक्तः ।
कर्म चास्य वृत्तिभेदप्रदर्शनेनैव व्याख्यातम् ।
व्याख्यातान्याध्यात्मिकानि मनोवाक्प्राणाख्यान्यन्नानि ।
एतन्मय एतद्विकारः प्राजापत्यैरेतैर्वाङ्मनः प्राणैरारब्धः ।
को ऽसौ? अथं कार्यकरणसङ्घात आत्मा पिण्ड आत्मस्वरूपत्वेनाभिमतो ऽविवेकिभिः ।
अविशेषेणैतन्मय इत्युक्तस्य विशेषेण वाङ्मयो मनोमयः प्राणमय इति स्फुटीकरणम् ॥3॥
तेषामेव प्राजापत्यानामन्नानामाधिभौतिको विस्तारो ऽभिधीयते
स्तर्त् ब्र्हुप् 1,5.4
त्रयो लोका एत एव ।
वाग् एवायं लोको मनो ऽन्तरिक्षलोकः प्राणो ऽसौ लोकः
ब्र्हुप्भ्_1,5.4 त्रय लोका एत एव वागेवायं लोको मनो ऽन्तरिक्षलोकः, प्राणो ऽसौ लोकः ॥4॥
तथा -
स्तर्त् ब्र्हुप् 1,5.5-7
त्रयो वेदा एत एव ।
वाग् एवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः
देवा पितरो मनुष्या एत एव ।
वाग् एव देवा मनः पितरः, प्राणो मानुष्याः
पिता माता प्रजैत एव ।
मन एव पिता वाङ् माता प्राणः प्रजा
ब्र्हुप्भ्_1,5.5-7 त्रयो वेदा इत्यादीनि वाक्यानि ऋज्वर्थानि ॥5-7॥
स्तर्त् ब्र्हुप् 1,5.8
विज्ञातं विजिज्ञास्यम् अविज्ञातम् एत एव ।
यत् किञ्च विज्ञातं वाचस् तद् रूपम् ।
वाग् घि विज्ञाता ।
वाग् एनं तद् भूत्वावति
ब्र्हुप्भ्_1,5.8 विज्ञातं विजिज्ञास्यमविज्ञातमेत एव ।
तत्र विशेषः - यत्किञ्च विज्ञातं विस्पष्टं ज्ञातं वाचस्तद्रूपम् ।
तत्र स्वयमेव हेतुनाह - वाग्धि विज्ञाता प्रकाशात्मकत्वात् ।
कथमविज्ञाता भवेद् यान्यानपि विज्ञापयदि"वाचैव सम्राड्बन्धुः प्रज्ञायते"(4 । 1 । 2) इति हि वक्ष्यति ।
वाग्विशेषविद इदं फलमुच्यते - वागेवैनं यथोक्तवाग्विभूतिविदं तद्विज्ञातं भूत्वा अवति पालयति, विज्ञातरूपेणेवास्यान्नं भोज्यतां प्रतिपद्यत इत्यर्थः ॥8॥
तथा -
स्तर्त् ब्र्हुप् 1,5.9
यत् किञ्च विजिज्ञास्यं मनसस् तद् रूपम् ।
मनो हि विजिज्ञास्यम् ।
मन एनं तद् भूत्वावति
ब्र्हुप्भ्_1,5.9 यत्किञ्च विजिज्ञास्यम्, विस्पष्टं ज्ञातुमिष्टं विजिज्ञास्यम्, तत्सर्वं मनसो रूपम्;मनो हि यस्मास्यम् ।
पूर्वमन्मनोविभूतिविदः फलम् - मन एनं तद्विजिज्ञास्यं भूत्वा अवति विजिज्ञास्यस्वरूपेणैवान्नत्वमापद्यते ॥9॥
तथा -
स्तर्त् ब्र्हुप् 1,5.10
यत् किञ्चाविज्ञातं प्राणस्य तद् रूपम् ।
प्राणो ह्य् अविज्ञातः ।
प्राण एनं तद् भूत्वावति
ब्र्हुप्भ्_1,5.10 यत्किञ्चाविज्ञातं विज्ञानागोचरं न च सन्दिह्यमानम्, प्राणस्य तद्रूपम् प्राणो ह्यविज्ञातो ऽनिरुक्तश्रुतेः ।
विज्ञातविजिज्ञास्याविज्ञातभेदेन वाङ्मनःप्राणविभागे स्थिते त्रयो लोका इत्यादयो वाचनिका एव ।
सर्वत्र विज्ञातादिरूपदर्शनाद्वचनादेव नियमः स्मर्तव्यः ।
प्राण एनं तद्भूत्वा अवति - अविज्ञातरूपेणैवास्य प्राणो ऽन्नं भवतीत्यर्थः ।
शिष्यपुत्रादिभिः सन्दिह्यमानाविज्ञातोपकारा अप्याचार्यपित्रादया दृश्यन्ते;तथा मनःप्राणयोरपि सन्दिह्यमानाविज्ञातयोरन्नत्वोपपत्तिः ॥10॥
व्याख्यातो वाङ्मनःप्राणानामाधिभौतिको विस्तारः ।
अथायमाधिदैविकार्य आरम्भः -
स्तर्त् ब्र्हुप् 1,5.11
तस्यै वाचः पृथिवी शरीरम् ।
ज्योतीरूपम् अयम् अग्निः ।
तद् यावत्य् एव वाक् तावती पृथिवी तावान् अयम् अग्निः
ब्र्हुप्भ्_1,5.11 तस्यै तस्याः वाचः प्रजापतेरन्नत्वेन प्रस्तुतायाः पृथिवी शरीरं ब्रह्म आधारः, ज्योतीरूपं प्रकाशात्मकं करणं चाधेयं प्रकाशः, तदुभयं पृथिव्यग्नि वागेव प्रजापतेः ।
तत्तत्र यावत्येव यावत्परिमाणैव अध्यात्माधिभूतभेदभिन्ना सती वाग्भवति, तत्र सर्वत्र आधारत्वेन पृथिवी व्यवस्थिता, तावत्येव भवति कार्यभूता;तावानयमग्निः, आधेयः करणरूपो ज्योतिरूपेण पृथिवीमनुप्रविष्टस्तावानेव भवति ।
समानमुत्तरम् ॥11॥
स्तर्त् ब्र्हुप् 1,5.12
अथैतस्य मनसो द्यौः शरीरम् ।
ज्योतीरूपम् असाव् आदित्यः ।
तद् यावद् एव मनस् तावती द्यौस् तावान् असाव् आदित्यः ।
तौ मिथुनं समैताम् ।
ततः प्राणो ऽजायत ।
स इन्द्रः ।
स एषो ऽसपत्नः ।
द्वितीयो वै सपत्नः ।
नास्य सपत्नो भवति य एवं वेद
ब्र्हुप्भ्_1,5.12 अथैतस्य प्राजापत्यान्नोक्तस्यैव मनसो द्यौर्द्युलोकः शरीरं कार्यमाधारः, ज्योतीरूपं करणमाधेयो ऽसावादित्यः ।
तत्तत्र यावत्परिमाणमेव अध्यात्ममधिभूतं वा मनस्तावती तावद्विस्तारा तावत्परिमाणा मनसो ज्योतीरूपस्य करणस्य आधारत्वेन व्यवस्थिता द्यौः, तावानसावादित्यो ज्योतीरूपं करणमाधेयम् ।
ताववग्न्यादित्यौ वाङ्मनसे आधिदैविके भातापितरौ, मिथुनं मैथुन्यमितरेतरसंसर्ग समैतां समगच्छेताम् ।
ऽमनसा आदित्येन प्रभूतं पित्रा, वाचाग्निना मात्रा प्रकाशितं कर्म करिष्यामिऽइति, अन्तरा रोदस्योः ।
ततस्तयोरेव सङ्गमनात्प्राणो वायुरज्ञायत परिस्पन्दाय कर्मणे ।
यो जातः स इन्द्रः परमेश्वरः, न केवलमिन्द्र एवासपत्नो ऽविद्यमानः सपत्नो यस्य;कः पुनः सपत्ननो नाम? द्वितीयो वै प्रतिपक्षत्वेनोपगतः स द्वितीयः सपत्न इत्युच्यते ।
तेन द्वितीयत्वे ऽपि सति वाङ्मनसे न सपत्नत्वं भजेते, प्राणं प्रति गुणभावोपगते एव हि ते अध्यात्ममिव ।
तत्र प्रासङ्गिकासपत्नविज्ञानफलमिदम् - नास्यविदुषःसपत्नः प्रतिपक्षो भवति, य एवं यथोक्तं प्राणमसपत्नं वेद ॥12॥
स्तर्त् ब्र्हुप् 1,5.13
अथैतस्य प्राणस्यापः शरीरम् ।
ज्योतीरूपम् असौ चन्द्रः ।
तद् यावान् एव प्राणस् तावत्य आपस् तावान् असौ चन्द्रः ।
त एते सर्व एव समाः सर्वे ऽनन्ताः ।
स यो हैतान् अन्तवत उपास्ते ऽन्तवन्तं स लोकं जयति ।
अथ यो हैतान् अनन्तान् उपास्ते ऽनन्तं स लोकं जयति
ब्र्हुप्भ्_1,5.13 अथैतस्य प्रकृतस्य प्रजापत्यान्नस्य प्राणमस्य, न प्रजोक्तस्यान्तरनिर्दिष्टस्य, आपः शरीरं कार्यं करणाधारः, पूर्ववज्जयोतीरूपमसौ चन्द्रः ।
तत्रयावनेव प्राणो यावत्परिमाणो ऽध्यात्मादिभेदेषु, तावद्व्याप्तिमत्य आपः तावत्परिमाणाः, तावानसौ चन्द्रो ऽबाधेयस्तास्वप्स्वनुप्रविष्टः करणभूतो ऽध्यात्ममधिभूतं च तावद्व्याप्तिमानेव ।
तान्येतानि पित्रा पाङ्क्तेन कर्मणा सृष्टानि त्रीण्यन्नानि वाङ्मनःप्राणाख्यानि ।
अध्यात्ममधिभूतं च जगत्समस्तमेतैर्व्याप्तम्, नैतेभ्यो ऽन्यदतिरिक्तं किञ्चिदस्ति कार्यात्मकं करणात्मकं वा ।
समस्तानि त्वेतानि प्रजापतिः ।
त एते वाङ्मनःप्राणाः सर्वे एव समास्तुल्या व्याप्तिमन्तो यावत्प्राणिगोचरं साध्यात्माधिभूतं व्याप्य व्यवस्थिताः ।
अत एवानन्ता यावत्संसारभाविननो हि ते ।
न हि कार्यकरणप्रत्याख्यानेन संसारो ऽवगम्यते ।
कार्यकरणात्मका हि त इत्युक्तम् ।
स यः कश्चिद् हैतान्प्रजापतेरात्मभूतानन्तवतःपरिच्छिन्नानध्यात्मरूपेण वा अधिभूतरूपेण वा अधिभूतरूपेण वोपास्ते, स च तदुपासनानुरूपमेव फलमन्तवन्तं लोकं जयति, परिच्छिन्न एव जायते नैतेषामात्मभूतो भवतीत्यर्थः ।
अथ पुनर्यो हैताननन्तान्सर्वात्मकान्सर्वप्राण्यात्मभूतान् अपरिच्छिन्नानुपास्ते सो ऽन्तमेव लोकं जयति ॥13॥
पिता पाङ्क्तेन कर्मणा सप्तान्नानि सृष्ट्वा त्रीण्यन्नान्यात्मार्थङ्करोदित्युक्तम् ।
तान्येतानि ।
पाङ्क्तकर्मफलभूतानि व्याख्यातानि ।
तत्र कथं पुनः पाङ्क्ततावगम्यते, वित्तकर्मणमोरपि तत्र सम्भवात् ।
तत्र पृथिव्यग्नी माता, दिवादित्यौ पिता ।
यो ऽप्यमनयोरन्तरा प्राणः, स प्रजेति व्याख्यातम् ।
तत्र वित्तकर्मणी सम्भावयितव्ये इत्यारम्भः -
स्तर्त् ब्र्हुप् 1,5.14
स एष संवत्सरः प्रजापतिष् षोडशकलः ।
तस्य रात्रय एव पञ्चदश कला ।
ध्रुवैवास्य षोडशी कला ।
स रात्रिभिर् एवा च पूर्यते ऽप च क्षीयते ।
सो ऽमावास्यां रात्रिम् एतया षोडश्या कलया सर्वम् इदं प्राणभृद् अनुप्रविश्य ततः प्रातर् जायते ।
तस्माद् एतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्याद् अपि कृकलासस्यैतस्या एव देवताया अपचित्यै
ब्र्हुप्भ्_1,5.14 ऽस एषः संवत्सरःऽ -यो ऽयं त्र्यन्नात्मा प्रजापतिः प्रकृतः, स एष संवत्सरात्मना विशेषतो निर्दिश्यते ।
षोडशकलः षोडश कला अवयवा अस्य सो ऽयं षोडशकलः संवत्सरः संवत्सरात्माकालरूपः ।
तस्य च कालात्मनः प्रजापतेः रात्रय एवाहोरात्राणि, तिथय इत्यर्थः, पञ्चदश कलाः ।
ध्रुवैव नित्यैव व्यवस्थिता अस्य प्रजापतेः षोडशी षोडशानां पूरणी कला ।
स रात्रिभिरेव तिथिभिः कलोक्ताभिरापूर्यते चापक्षीयते च ।
प्रतिपदाद्याभिर्हि चन्द्रमाः प्रजापतिः शुक्लपक्ष आपूर्यते कलाभिरुपचीयमानाभिर्वर्धते यावत्सम्पूर्णमण्डलः पौर्णमास्याम् ।
ताभिरेवापचीयमानाभिः कलाभिरपक्षीयते कृष्णपक्षे यावद् ध्रुवैका कला व्यवस्थिता अमावास्याम् ।
स प्रजापतिः कलात्मा अमावास्याममावास्यायां रात्रिंरात्रौ या व्यवस्थिता ध्रुवा कलोक्ता एतया षोडश्या कलया सर्वमिदं प्राणभृत्प्राणिजातमनुप्रविश्य यदपः पिबति यच्चौपधीरश्नाति तत्सर्वमेव ओषध्यात्मना सर्वं व्याप्यामावास्यां रात्रिमवस्थाय ततो ऽपरेद्युः प्रातर्ज्ञायते द्वितीयया कलया संयुक्तः ।
एवं पाङ्क्तात्मको ऽसौ प्रजापतिः ।
दिवादित्यौ मनः पिता;पृथिव्यग्नो वाग्ज्ञाया माता;तयोश्च प्राणः प्रजा ।
चान्द्रमस्यस्तिथयः कला वित्तम्, उपचयापचयधर्मित्वाद्वित्तवत् ।
तासां च कलानां कालावयवानां जगत्परिणामहेतुत्वं कर्म ।
एवमेष कृत्स्नः प्रजापतिः"जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय" (बृ.उ.1 । 4 । 17) इत्येषणानुरूप एव पाङ्क्तस्य कर्मणः फलभूतः संवृत्तः ।
कारणानुविधायि हि कार्यमिति लोके ऽपि स्थितिः ।
यस्मादेष चन्द्र एतां रात्रिं सर्वप्राणिजातमनुप्रविष्टो ध्रुवया कलया वर्तते, तस्माद्धेतोरेताममावास्यां रात्रिं प्राणभृतः प्राणिनः प्राणं न विच्छिन्द्यात्प्राणिनं न प्रमापयेदित्येतत्, अपि कृकलासस्य ।
कृकलासो हि पापात्मा स्वभावेनैव हिंस्यते प्राणिभिर्दृष्टो ऽप्यमङ्गल इति कृत्वा ।
बाढं प्रतिषिद्धा, तथापि नामावास्याया अन्यत्र प्रतिप्रसवार्थं वचनं हिंसायाः कृकलासविषये वा, किं तर्हि? एतस्याः सोमदेवताया अपचित्यै पूजार्थम् ॥14॥
स्तर्त् ब्र्हुप् 1,5.15
यो वै स संवत्सरः प्रजापतिः षोडशकालो ऽयम् एव स यो ऽयम् एवंवित् पुरुषः ।
तस्य वित्तम् एव पञ्चदश कलाः ।
आत्मैवास्य षोडशी कला ।
स वित्तेनैवा च पूर्यते ऽप च क्षीयते ।
तद् एतन् नभ्यं यद् अयम् आत्मा ।
प्रधिर् वित्तम् ।
तस्माद् यद्य् अपि सर्वज्यानिं जीयत आत्मना चेज् जीवति प्रधिनागाद् इत्य् एवाहुः
ब्र्हुप्भ्_1,5.15 यो वै परोक्षाभिहितः संवत्सरः प्रजापतिः षोडशकलः स नैवात्यन्तं परोक्षो मन्तव्यः, यस्मादयमेव स प्रत्यक्ष उपलभ्यते ।
को ऽसावयम्? यो यथेक्तं त्र्यन्नात्मकं प्रजापतिमात्मभूतं वेत्ति स एवंवित्पुरुषः ।
केन सामान्येन प्रजापतिरिति तदुच्यते - तस्यैवंविदः पुरुषस्य गवादि वित्तमेव पञ्चदश कला उपचयापचयधर्मित्वात्;तद्वित्तसाध्यं च कर्म ।
तस्य कृत्स्नतायै आत्मैव पिण्ड एवास्य विदुषः षोडशी कला ध्रुवस्थानीया ।
स चन्द्रवद्वित्तेनैवापूर्यते चापक्षीयते च - तदेतल्लोके प्रसिद्धम् ।
तदेतन्नभ्यम्, नाभ्यै हितं नभ्यं नाभिं वा अर्हतीति ।
किं तत्? यदयं यो ऽयमात्मा पिण्डः ।
प्रधिर्वित्तं परिवारस्थानीयं बाह्यं चक्रस्येवारनेम्यादि ।
तस्माद्यद्यपि सर्वज्यानिं सर्वस्वापहरणं जीयते हीयते ग्लानिं प्राप्नोति, आत्मना चक्रनाभिस्थानीयेन चेद्यदि जीवति प्रधिना बाह्येन परिवारेणायमगात्क्षीणो ऽयं यथा चक्रमरनेमिविमुक्तमेवमाहुः ।
जीवंश्चेद् अरनेमिस्थानीयेन वित्तेन पुनरुपचीयत इत्यभिप्रायः ॥15॥
एवं पाङ्क्तेन दैववित्तविद्यासंयुक्तेन कर्मणा त्र्यन्नात्मकः प्रजापतिर्भवतीति व्याख्यातम् ।
अनन्तरं च जायादिवित्तं परिवारस्थानीयमित्युक्तम् ।
तत्र पुत्रकर्मापरविद्यानां लोकप्राप्तिसाधनत्वमात्रं सामान्येनावगतम्, न पुत्रादीना लोकप्राप्तिफलं प्रति विशेषसम्बन्धनियमः ।
सो ऽयं पुत्रादीनां साधनानां साध्यविशेषसम्बन्धो वक्तव्य इत्युत्तरकण्डिका प्रणीयते -
स्तर्त् ब्र्हुप् 1,5.16
अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति ।
सो ऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा ।
कर्मणा पितृलोकः ।
विद्यया देवलोकः ।
देवलोको वै लोकानां श्रेष्ठः ।
तस्माद् विद्यां प्रशंसन्ति
ब्र्हुप्भ्_1,5.16 अथेति वाक्योपन्यासार्थः ।
त्रयः, वावेत्यवधारणार्थः ।
त्रय एव शास्त्रोक्तसाधनार्हा लोकाः, न न्यूना नाधिका वा ।
के ते? इत्युच्यते - मनुष्यलोकः पितृलोको देलोक इति ।
तेषां सो ऽयं मनुष्यलोकः पुत्रेणैव साधनेन जय्यो जेतव्यः साध्यः - यथा च पुत्रेण जेतव्यस्तथोत्तरत्र वक्ष्यामः, - नान्येन कर्मणा, विद्यया वेति वाक्यशेषः ।
कर्मणा अग्निहोत्रादिलक्षणेन केवलेन पितृलोको जेतव्यो न पुत्रेण नापि विद्यया ।
विद्यया देवलोको न पुत्रेण नापि कर्मणा ।
देवलोको वै लोकानां त्रयाणां श्रेष्ठः प्रशस्यतमः ।
तस्मात्तत्साधनत्वाद्विद्यां प्रशंसन्ति ॥16॥
एवं साध्यलोकत्रयफलभेदेन विनियुक्तानि पुत्रकर्मविद्याख्यानि त्रीणि साधनानि ।
जाया तु पुत्रकर्मार्थत्वान्न पृथक्साधनमिति पृथङ्नाभिहिता ।
वित्तं च कर्मसाधनत्वान्न पृथक्साधनम् ।
विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्मप्रतिलाभेनैव भवतीति प्रसिद्धम् ।
पुत्रस्य त्वक्रियात्मकत्वात्केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायते ।
अतस्तद्वक्तव्यमित्यथानन्तरमारभ्यते -
स्तर्त् ब्र्हुप् 1,5.17
अथातः सम्प्रत्तिः ।
यदा प्रैष्यन् मन्यते ऽथ पुत्रम् आह -- त्वं ब्रह्म त्वं यज्ञस् त्वं लोक इति ।
स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञो ऽहम् लोक इति ।
यद् वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्य् एकता ।
ये वै के च यज्ञास् तेषां सर्वेषां यज्ञ इत्य् एकता ।
ये वै के च लोकास् तेषां सर्वेषां लोक इत्य् एकता ।
एतावद् वा इदं सर्वम् ।
एतन् मा सर्वं सन्न् अयम् इतो भुनजद् इति ।
तस्मात् पुत्रम् अनुशिष्टं लोक्यम् आहुः ।
तस्माद् एनम् अनुशासति ।
स यदैवंविद् अस्माल् लोकात् प्रैत्य् अथैभिर् एव प्राणैः सह पुत्रम् आविशति ।
स यद्य् अनेन किञ्चिद् अक्ष्णया कृतं भवति तस्माद् एनं सर्वस्मात् पुत्रो मुञ्चति तस्मात् पुत्रो नाम ।
स पुत्रेणैवास्मिल् लोके प्रतितिष्ठति ।
अथैनम् एते देवाः प्राणा अमृता आविशन्ति
ब्र्हुप्भ्_1,5.17 सम्प्रतिः सम्प्रदानम्;सम्प्रत्तिरिति वक्ष्यमाणस्य कर्मणो नामधेयम् ।
पुत्रो हि स्वात्मव्यापारसम्प्रदानं करोत्यनेन प्रकारेण पिता, तेन सम्प्रत्तिसंज्ञकमिदं कर्म ।
तत्कस्मिन्काले कर्तव्यम्? इत्याह - स पिता यदा यस्मिन् काले प्रैष्यन् मरिष्यन् मरिष्यामीत्यपरिष्टादिदर्शनेन मन्यते, अथ तदा पुत्रमाहूयाह - त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।
स एवमुक्तः पुत्रः प्रत्याह;स तु पूर्वमेवानुशिष्टो जानाति मयैतत्कर्तव्यमिति, तेनाह - अहं ब्रह्माहं यज्ञो ऽहं लोक इथि ।
एतद्वाक्यत्रयम् ।
एतस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्याख्यानाय प्रवर्तते ।
यद्वै किञ्च यत्किञ्चावशिष्टमनूक्तमधीतमनधीतं च, तस्य सर्वस्यैव ब्रह्मेत्येतस्मिन्पदे एकता एकत्वम् यो ऽध्ययनव्यापारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषयः, स इत ऊर्ध्वं त्वं ब्रह्म त्वत्कर्तृको ऽस्त्वित्यर्थः ।
तथा ये वै के च यज्ञा अनुष्ठेयाः सन्तो मया अनुष्ठिताश्चाननुष्ठिताश्च, तेषां सर्वेषां यज्ञ इत्येतस्मिन्पदे एकतैकत्वम्, मत्कर्तृका यज्ञा य आसन्, ते इत ऊर्ध्वं त्वं यज्ञः - त्वत्कर्तृका भवन्त्वित्यर्थः ।
ये वै के च लोका मया जेतव्याः सन्तो जिता अजिताश्च, तेषां सर्वेषां लोक इत्येतस्मिन्पदे एकता ।
इत ऊर्ध्वं मयाध्ययनयज्ञलोकजयकर्तव्यक्रतुस्त्वयि समर्पितः, अहं तु मुक्तो ऽस्मि कर्तव्यताबन्धनविषयात्क्रतोः ।
स च सर्वं तथैव प्रतिपन्नवान्पुत्रो ऽनुशिष्टत्वात् ।
तत्रेमं पितुरभिप्रायं मन्वाना आचष्ट श्रुतिः - एतावदेतत्परिमाणं वै इदं सर्वं यद्गृहिणा कर्तव्यम्, यदुत वेदा अध्येतव्याः, यज्ञा यष्टव्याः, लोकाश्च जेतव्याः ।
एतन्मा सर्वं सन्नयम् - सर्वं हीमं भारं मदधीनं मत्तो ऽपच्छिद्य आतमनि निधाय, इतो ऽस्माल्लोकान्मा माम् अभुनजत्पालयिष्यतीति ।
ऌडर्थे लङ्, छन्दसि कालनियमाभावात् ।
यस्मादेवं सम्पन्नः पुत्रः पितरम् अस्माल्लोकात्कर्तव्यताबन्धनतो मोचयिष्यति, तस्मात्पुत्रमनुशिष्टं लोक्यं लोकहितं पितुराहुर्ब्राह्मणाः ।
अत एव ह्येनं पुत्रमनुशासति, लोक्यो ऽयं नः स्यादिति, पितरः ।
स पिता यदा यस्मिन्काले एवंवित्पुत्रसमर्पितकर्तव्यताक्रतुः, अस्माल्लोकात्पैति म्रियते, अथ तदैभिरेव प्रकृतैर्वाङ्मनःप्राणैः पुत्रमाविशति पुत्रं व्याप्नोति ।
अध्यात्मपरिच्छेदहेत्वपगमात् पितुर्वाङ्मनःप्राणाःस्वेन आधिदैविकेन रूपेण पृथिव्यग्न्याद्यात्मना भिन्नघटप्रदीपप्रकाशवत्सर्वमाविशन्ति ।
तैः प्राणैः सह पितात्याविशति, वाङ्मनःप्राणात्मभावित्वात्पितुः ।
अहमस्म्यनन्ता वाङ्मनःप्राणा अध्यात्मादिभेदविस्तारा इत्येवं भावितो हि पिता ।
तस्मात्तत्प्राणानुवृत्तित्वं पितुर्भवतीति युक्तमुक्तम् - एभिरेव प्राणैः सह पुत्रमाविशतीत्;सर्वेषां ह्यसावात्मा भवति पुत्रस्य च ।
एतदुक्तं भवति - यस्य पितुरेवमनुशिष्टः पुत्रो भवति सो ऽस्मिन्नेव लोके वर्तते पुत्ररूपेण, नैव मृतो मन्तव्य इत्यर्थः ।
तथा च श्रुत्यन्तरे -"सो ऽस्यायमितर आत्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते"(ऐ.उ.4 । 4) इति ।
अथेदानीं पुत्रनिर्वचनमाह - स पुत्रो यदि कदाचिदनेन पित्रा अक्ष्ण्या कोणच्छिद्रतो ऽन्तरा अकृतं भवति कर्तव्यम्, तस्मात्, कर्तव्यतारूपात्पित्रा अकृतात् सर्वस्माल्लोकप्राप्तिप्रतिबन्धरूपात्पुत्रो मुञ्चति मोचयति तत्सर्वं स्वयमनुतिष्ठन्पूरयित्वा ।
तस्मात्पूरणेन त्रायते स पितरं यस्मात्तस्मात्पुत्रो नाम ।
इदं तत्पुत्रस्य पुत्रत्वं यत्पितुश्छिद्रं पूरयित्वा त्रायते ।
स पितैवंविधेन पुत्रेण मृतो ऽपि सन्नमृतो ऽस्मिन्नेव लोके प्रतितिष्ठति, एवमसौ पिता पुत्रेणेमं मनुष्यलोकं जयति ।
न तथा विद्याकर्मभ्यां देवलोकपितृलोकौ स्वरूपलाभसत्तामात्रेण;न हि विद्याकर्मणी स्वरूपलाभव्यतिरेकेण पुत्रवद्व्यापारान्तरापेक्षया लोकजयहेतुत्वं प्रतिपद्येते ।
अथ कृतसम्प्रत्तिकं पितरमेनमेते वागादयः प्राणा दैवा हैरण्यगर्भा अमृता अमरणधर्माण आविशन्ति कथमिति वक्ष्यति पृथिव्यै चैनमित्यादि ।
एवं पुत्रकर्मापरविद्यानां मनुष्यलोकपितृलोकदेव लोकसाध्यार्थता प्रदर्शिता श्रुत्या स्वयमेव ।
अत्र केचिद्वावदूक्ताः श्रुत्युक्तविशेषविनियोगोपसहारेण च ।
तस्मादृणश्रुतिरविद्वद्विषया न परमात्मविद्विषयेति सिद्धम् ।
वक्ष्यति च -"करिष्यामो येषां नो ऽयमात्मायं लोकः" (4 । 4 । 22) इति ।
केचित्तु पितृलोकदेवलोकजयो ऽपि पितृलोकदेवलोकाभ्यां व्यावृत्तिरेव;तस्मात्पुत्रकर्मापरविद्याभिः समुचित्यानुष्ठिताभिस्त्रिभ्य एतेभ्यो लोकेभ्यो व्यावृत्तः परमात्मविज्ञानेन मोक्षमधिगच्छतीति परम्परया मोक्षार्थान्येव पुत्रादिसाधनानीच्छन्ति ।
तेषामपि मुखापिधानायेयमेव श्रुतिरुत्तरा कृतसम्प्रत्तिकस्य पुत्रिणः कर्मिणः त्र्यन्नात्मविद्याविदः, फलप्रदर्शनाय प्रवृत्ता ।
न चेदमेव फलं मोक्षफलमिति शक्यं, वक्तुम्, त्र्यन्नसम्बन्धात्, मेधातपःकार्यत्वाच्चान्नानाम्,ऽपुनः पुनर्जनयतेऽइति दर्शनात्; ऽयद्धैतन्न कुर्यात्क्षीयेत हऽइति च क्षयश्रवणात् ।
शरीरं ज्योतीरूपमिति च कार्यकरणत्वोपपत्तेः ।
ऽत्रयं वा इदम्ऽइति च नामरूपकर्मात्मकत्वेनोपसंहारात् ।
न चेदमेव साधनत्रयं संहतं सत्कस्यचिन्मोक्षार्थं कस्यचित् त्र्यन्नात्मफलमित्यस्मादेव वाक्यादवगन्तु शक्यम्, पुत्रादिसाधनानां त्र्यन्नात्मफलदर्शनेनैवोपक्षीणत्वाद् वाक्यस्य ।
स्तर्त् ब्र्हुप् 1,5.18
पृथिव्यै चैनम् अग्नेश् च दैवी वाग् आविशति ।
सा वै दैवी वाग् यया यद् यद् एव वदति तत् तद् भवति
ब्र्हुप्भ्_1,5.18 पृथिव्यै पृथिव्याः च एनम् अग्नेश्च दैवी अधिदैवात्मिका वागेनं कृतसम्प्रत्तिकमाविशति ।
सर्वेषां हि वाच उपादानभूता दैवी वाक्पृथिव्यग्निलक्षणा, सा ह्याध्यात्मिकासङ्गादिदोषैर्निरुद्धा ।
विदुषस्तद्दोषापगमे आवरणभङ्ग इवोदकप्रदीपप्रकाशवच्च व्याप्नोति ।
तदेतदुच्यत् - पृथिव्या अग्नेश्चैनं दैवी वागाविशतीति ।
सा च दैवी वागनृतादिदोषरहिता शुद्धा, यया वाचा दैव्या यद्यदेव आत्मने परस्मै वा वदति तत्तदा भवति, अमोघा अप्रतिबद्धा अस्य वाग्भवतीत्यर्थः ॥18॥
तथा -
स्तर्त् ब्र्हुप् 1,5.19
दिवश् चैनम् आदित्याच् च दैवं मन आविशति ।
तद् वै दैवं मनो येनानन्द्य् एव भवत्य् अथो न शोचति
ब्र्हुप्भ्_1,5.19 दिवश्चैनमादित्याच्च दैवं मन आविशति - तच्च दैवं मनः;स्वभावनिर्मलत्वात्;येन मनसा असौ आनन्द्येव भवति सुख्येव भवति;अथो अपि न शोचति, शोकादिनिमित्तासंयोगाति ॥19॥
तथा -
स्तर्त् ब्र्हुप् 1,5.20
अद्भ्यश् चैनं चन्द्रमसश् च दैवः प्राण आविशति ।
स वै दैवः प्राणो यः संचरंश् चासंचरंश् च न व्यथते ऽथो न रिष्यति ।
स एष एवंवित् सर्वेषां भूतानाम् आत्मा भवति ।
यथैषा देवतैवं सः ।
यथैतां देवतां सर्वाणि भूतान्य् अवन्त्य् एवं हैवंविदं सर्वाणि भूतान्य् अवन्ति ।
यद् उ किञ्चेमाः प्रजाः शोचन्त्य् अमैवासां तद् भवति ।
पुण्यम् एवामुं गच्छति ।
न ह वै देवान् पापं गच्छति
ब्र्हुप्भ्_1,5.20 अद्भयश्चैनं चन्द्रमसश्च दैवः प्राण आविशति ।
स वै दैवः प्राणः किंल्लक्षणः? इत्युच्यते-यः सञ्चरन् प्राणिभेदेष्व सञ्चरन्समष्टिव्य ष्टिरूपेण--अथवा सञ्चरन जङ्गमेषु असञ्चरन्स्थावरेषु, न व्यथते न दुःखनिमित्तेन भयेन युड्यते ।
अथां अपि न रिष्यति न विनश्यति न हिंसामापद्यते ।
सः--यो यथोक्तमेवं वेत्ति व्यन्नात्मदर्शनं सः-सर्वेषां भूतानां प्राणो भवति, सर्वेषां भूतानां मनो भवति, सर्वेषां भूतानां वाग्भवति-इत्येवं सर्वाभूतात्मतया सर्वज्ञो भवतीत्यर्थः;सर्वकृच्च ।
तथैपा पूर्वसिद्वा हिरण्यगर्भदेवता एवमेव नास्य सर्वज्ञत्वे सर्वकृत्तवे वा क्कचित्प्रतिघातः ।
स इति दार्ष्टान्तिकनिर्देशः ।
किञ्च यथैतांद् दिरण्यगर्भदेवतामिज्यादिभिः सर्वाणि भूतान्यवन्ति पालयन्ति पूज्यन्ति, एवं ह एवंविदं सर्वाणि भूतान्यवन्ति-इज्यादिलक्षणां पूजां सततं प्रयपञ्जत इत्यर्थः ।
अथेदमाशङ्कयते-सर्वप्राणिनामात्मा भवतीत्युत्त्कम्, तस्य च सर्वप्राणिकार्यकरणात्मत्वे सर्वप्राणिसुखदुःखैः सम्बध्येतेति ।
तन्न, अपरिच्छिन्नबुद्वित्वात् परिच्छिन्नात्मबुद्वीनां ह्याक्रोशादौ दुःखसम्बन्धो दृष्टः- अनेनाहमाक्रुष्ट इति ।
अस्य तु सर्वात्मनो य आक्रुश्यते यश्चाक्रोशति यतोरात्मत्वबुद्विविशेषाभावान्न तन्निमित्तं दुःखमुपपद्यते ।
मरणदुःखवच्च निमित्ताभावात् यथा हि कस्मिंश्चिन्मृते कस्यचिद् दुःखमुत्पद्यते-ममासौपुत्रोभ्राताचेति, पुत्रादिनिमित्तम्;तन्निमित्ताभावे तन्मरणदर्शिनो ऽपि नैव दुःखमुपजायते, तथेश्वरस्याप्यपरिच्छिन्नात्मनो ममतवतादिदुःखनिमित्तमिध्याज्ञानादिदोपाभावान्नैव दुःखमुपजायते ।
तदेतदुच्यते-यदु किञ्चयत् किञ्च इमाः प्रजाः शोचन्त्यमैव सहैव प्रजाभिस्तच्छोकादिनिमित्तं दुःखं संयुक्तं भवत्यासां प्रजानां परिच्छिन्नबुद्विजनितत्वात् ।
सर्वात्मनस्तु केन सह किं संयुक्त भवेद्वियुक्त वा? अमुं तु प्राजापत्ये पदे वर्तमानं पुण्यमेव शुभमेवफलमभिप्रेतं पुण्यमिति-निरतिशयं हि तेन पुण्यं कृतम्;तेन तत्फलमेव गच्छति ।
न ह वै देवान्पापं गच्छति, पापफलस्यावसराभावात् पापफलं दुःख न गच्छतीत्यथः ॥20॥
ऽत एते सर्व एव समाः सर्वे ऽनन्ताःऽइत्यविशेषेण वाङ्मनःप्राणानामुपासनमुक्तम्, नान्यतमगतो वेशेष उक्तः ।
किमेवमेव प्रतिपत्तव्यम्? किं वा विचार्यमाणे कश्चिद्विशेषो व्रतमुपासनं प्रति प्रतितपत्तुं शक्यते? इत्युच्यते-
स्तर्त् ब्र्हुप् 1,5.21
अथातो व्रतमीमांसा ।
प्रजापतिर् ह कर्माणि ससृजे ।
तानि सृष्टान्य् अन्यो ऽन्येनास्पर्धन्त ।
वदिष्याम्य् एवाहम् इति वाग् दध्रे ।
द्रक्ष्याम्य् अहम् इति चक्षुः ।
श्रोष्याम्य् अहम् इति श्रोत्रम् ।
एवम् अन्यानि कर्माणि यथाकर्मम् ।
तानि मृत्युः श्रमो भूत्वोपयेमे ।
तान्य् आप्नोत् ।
तान्य् आप्त्वा मृत्युर् अवारुन्ध ।
तस्माच् छ्राम्यत्य् एव वाक् ।
श्राम्यति चक्षुः ।
श्राम्यति श्रोत्रम् ।
अथेमम् एव नाप्नोत् यो ऽयं मध्यमः प्राणः ।
तानि ज्ञातुं दध्रिरे ।
अयं वै नः श्रेष्ठो यः संचरंश् चासंचरंश् च न व्यथते ऽथो न रिष्यति ।
हन्तास्यैव सर्वे रूपं भवामेति ।
त एतस्यैव सर्वे रूपम् अभवन् ।
तस्माद् एत एतेनाख्यायन्ते प्राणा इति ।
तेन ह वाव तत् कुलम् आचक्षते यस्मिन् कुले भवति य एवं वेद ।
य उ हैवंविदा स्पर्धते ऽनुशुष्यति ।
अनुशुष्य हैवान्ततो म्रियत इत्य् अध्यात्मम्
ब्र्हुप्भ्_1,5.21 अथातो ऽनन्तरं व्रतमीमांसा उपासनकर्मविचारणेत्यर्थः ।
एषां प्राणानां कस्य कर्म व्रतत्वेन धारयितव्यमिति मीमांसा प्रवर्तते ।
तत्र प्रजापतिर्ह - हशब्दः किलार्थे - प्रजापतिः किल प्रजाः सृष्ट्वा कर्माणि करणानि वागादीनि - कर्माथानि हि तानीति कर्माणीत्युच्यन्ते - ससृजे सृष्टवान्वागादीनि करणानीत्यर्थः ।
तानि पुनः सृष्टान्यन्योन्येन इतरेतरमस्पर्धन्त स्पर्धां संघर्षं चक्रुः ।
कथम्? वदिष्याम्येव स्वव्यापाराद्वदनादनुपरतैवाहं स्यामिति वाग्व्रतं दध्रे धृतवती - यद्यन्यो ऽपि मत्समो ऽस्ति स्वव्यापारादनुपरन्तुं शक्तः, सो ऽपि दर्शयत्वात्मनो वीर्यमिति ।
तथा द्रक्ष्याम्यहमिति चक्षुः, श्रोष्याम्यहमिति श्रोत्रम्;एवमन्यानि कर्माणि करणानि यथाकर्म - यद्यद्यस्य कर्म यथाकर्म ।
तानि करणानि मृत्युर्मारकः श्रमः श्रमरूपी भूत्वा उपयेमे सञ्जग्राह ।
कथम्? तानि करणानि स्वव्यापारे प्रवृत्तान्याप्नोत्, श्रमरूपेणात्मानं दर्शितवान् ।
आप्त्वा च तान्यवारुन्ध अवरोधं कृतवान्मृत्युः - स्वकर्मभ्यः प्रच्यावितवानित्यर्थः ।
तस्मादद्यत्वे ऽपि वदने स्वकर्मणि प्रवृत्ता वाक् श्राम्यत्वेन श्रमरूपिणा मृत्युना संयुक्ता स्वकर्मतः प्रच्यवते ।
तथा श्राम्यति चक्षुः, श्राम्यति श्रोत्रम् ।
अथेममेव मुख्यं प्राणं नाप्नोन्न प्राप्तवान्मृत्युः श्रमरूपी, यो ऽयं मध्यमः प्राणस्तम् ।
तेनाद्यत्वे ऽप्यश्रान्त एव स्वकर्मणि प्रवर्तते ।
तानीतराणि करणानि तं ज्ञातुं दध्रिरे धृतवन्ति मनः ।
अयं वै नो ऽस्माकं मध्ये श्रेष्ठः प्रशस्यतमो ऽभ्यधिकः, यस्माद्यः सञ्चरंश्चासञ्चरंश्च न व्यथते ऽथो न रिष्यति - हन्तेदानीमस्यैव प्राणस्य सर्वे वयं रूपमसाम प्राणमात्मत्वेन प्रतिपद्येमहि - एवं विनिश्चित्य ते एतस्यैव सर्वे रूपमभवन्;प्राणरूपमेवात्मत्वेन प्रतिपन्नाः, प्राणव्रतमेव दध्रिरे - अस्मद्व्रतानि न मृत्योर्वारणाय पर्याप्तानीति ।
यस्मात्प्राणेन रूपेण रूपवन्तीतराणि करणानि चलनात्मना स्वेन च प्रकाशात्मनः, न हि प्राणादन्यत्र चलनात्मकत्वोपपत्तिः;चलनव्यापारपूर्वकाण्येव हि सर्वदा स्वव्यापारेषु लक्ष्यन्ते;तस्मादेते वागादय एतेन प्राणाभिधानेन आख्यायन्ते ऽभिधीयन्ते प्राणा इत्येवम् ।
य एवं प्राणात्मतां सर्वकरणानां वेत्ति प्राणशब्दाभिधेयत्वं च, तेन ह वाव तेनैव विदुषा तत्कुलमाचक्षते लौकिकाः ।
यस्मिन्कुले स विद्वाञ्जातो भवति तत्कुलं विद्वाञ्जातो भवति तत्कुलं विद्वन्नाम्नैव प्रथितं भवत्यमुष्यदं कुलमिति, यथा तापत्य इति ।
य एवं यथोक्तं वेद वागादीनां प्राणरूपतां प्राणाख्यत्वं च तस्यैतत्फलम् ।
किञ्च यः कश्चिदु हैवंविदा प्राणात्मदर्शिना स्पर्धते तत्प्रतिपक्षी सन्, सो ऽस्मिन्नेव शरीरे ऽनुशुष्यति शोषमुपगच्छति ।
अनुशुष्य हैव शोषं गत्वैव अन्ततो ऽन्ते म्रियते न सहसानुपद्रुतो म्रियते इत्यैवमुक्तमध्यात्मं प्राणात्मदर्शनमित्युक्तोपसंहारो ऽधिदैवतप्रदर्शनार्थः ॥21॥
स्तर्त् ब्र्हुप् 1,5.22
अथाधिदेवतं:
ज्वलिष्याम्य् एवाहम् इत्य् अग्निर् दध्रे ।
तप्स्याम्य् अहम् इत्य् आदित्यः ।
भास्याम्य् अहम् इति चन्द्रमाः ।
एवम् अन्या देवता यथादेवतम् ।
स यथैषां प्राणानां मध्यमः प्राण एवम् एतासां देवतानां वायुः ।
म्लोचन्ति ह्य् अन्या देवता न वायुः ।
सैषानस्तमिता देवता यद् वायुः
ब्र्हुप्भ्_1,5.22 अथानन्तरम् अधिदैवतं देवताविषयं दर्शनमुच्यते ।
कस्य देवताविशेषस्य व्रतधारणं श्रेयः? इति मीमास्यते ।
अध्यात्मवत्सर्वम् ।
ज्वलिष्याम्येवाहमित्यग्निर्दध्रे ।
तप्स्याम्यहमित्यादित्यः;भास्याम्यहमिति चन्द्रमाः;एवमन्या देवता यथादैवतम् ।
सो ऽध्यात्मं वागादीनामेषां प्राणो मृत्युना अनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन प्राणव्रतेनाभग्नव्रतो यथा;एवमेतासामग्न्यादीनां देवतानां वायुरपि ।
म्लोचन्त्यस्तं यन्ति स्वकर्मेभ्य उपरमन्ते - यथाध्यात्मं वागादयो ऽन्या देवता अग्न्याद्याः, न वायुरस्तं याति - यथा मध्यमः प्राणः, अतः सैषा अनस्तमिता देवता यद्वायुर्यो ऽयं वायुः ।
एवमध्यात्ममधिदैवं च मीमांसित्वा निर्धारितम् - प्राणवाय्य्वात्मनो व्रतमभग्नमिति ॥22॥
स्तर्त् ब्र्हुप् 1,5.23
अथैष श्लोको भवति --
यतश् चोदेति सूर्यो ऽस्तं यत्र च गच्छतीति ।
प्राणाद् वा एष उदेति प्राणे ऽस्तम् एति ।
तं देवाश् चक्रिरे धर्मं स एवाद्य स उ श्व इति ।
यद् वा एते ऽमुर्ह्य् अध्रियन्त तद् एवाप्य् अद्य कुर्वन्ति ।
तस्माद् एकम् एव व्रतं चरेत् प्राण्याच् चैवापान्याच् च ।
नेन् मा पाप्मा मृत्युर् आप्नवद् इति ।
यद्य् उ चरेत् समापिपयिषेत् तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0