बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 1.4
ब्र्हुप्भ्_1,3.28 अथानन्तरं यस्माच्चैवं विदुषा प्रयुज्यमानं देवभावायाभ्यारोहफलं जपकर्म, अतस्तस्मात्तद्विधीयत इह ।
तस्य चोद्गीथसम्बन्धात्सर्वत्र प्राप्तौ पवमानानामिति वचनात् पवमानेषु त्रिष्वपि कर्तव्यतायां प्राप्तायां पुनः काल संकोचं करोति- स वै खलु प्रस्तोता साम प्रस्तौति ।
स प्रस्तोता यत्र यस्मिन्काले साम प्रस्तुयात्प्रारभेत तस्मिन्काल एतानि जपेत् ।
अस्य च जपकर्मण आख्या अभ्यारोह इति ।
आभिमुख्येनारोहत्यनेन जपकर्मणैवंविद् देवभावात्मानमित्यभ्यारोहः ।
एतानीति बहुवचनात्त्रीणि यजूंषि ।
द्वितीयानिर्देशाद् ब्राह्मणोत्पन्नत्वाच्च यथापठित एव स्वरः प्रयोक्तव्यो न मान्त्रः ।
याजमानं जपकर्म ।
एतानि तानि यजूंषि-ऽअसतो मा सद्गमयऽऽतमसो मा ज्योतिर्गमयऽ ऽमृत्योर्मामृतं गमयऽइति ।
मन्त्रामर्थस्तिरोहितो भवतीति स्वयमेव व्याचष्टे ब्राह्मणं मन्त्रार्थम्- स मन्त्रो यदाह यदुक्तवान्को ऽसावर्थः? इत्युच्यते-ऽअसतो मा सद्गमयऽइति मृत्युर्वा असत्- स्वाभाविककर्मविज्ञाने मृत्युरित्युच्येते, असद् अत्यन्ताधोभावहेतुत्वात् ।
सदमृतम्- सच्छास्त्रीयकर्मविज्ञाने अगरणहेतुत्वादमृतम् ।
तस्मादसतो असत्कर्मणो ऽज्ञानाच्च मा मां सच्छास्त्रीयकर्मविज्ञाने गमय देवभावसाधनात्मभावमापादयेत्यर्थः ।
तत्र वाक्यार्थमाह- अमृतं मा कुर्वित्येवैतदाहेति ।
तथा तमसो मा ज्योतिर्गमयेति मृत्युर्गमयेति ।
मृत्युर्वै तमः सर्वं ह्यज्ञानमावरणात्मकत्वात्तमः तदेव च मरणहेतुत्वान्मृत्युः ।
ज्योतिरमृतं पूर्वोक्तविपरीतं दैवं स्वरूपम् ।
प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः, तदेवामृतमविनाशात्मकत्वात् ।
तस्मात् तमसो मा ज्योतिर्गमयेति पूर्ववन्मृत्योर्मामृतं गमयेत्यादि ।
अमृतं मा कुर्वित्येवैतदाह- दैवं प्राजापत्यं फलभावमापादयेत्यर्थः ।
पूर्वो मन्त्रो ऽसाधनस्वभावात् साधनभावमापादयेति ।
द्वितीयस्तु साधनभावादपि अज्ञानरूपात् साध्यभावमापादयेति ।
मृत्योर्मामृतं गमयेति पूर्वयोरेव मन्त्रयोः समुचितोर्ऽथस्तृतीयेन मन्त्रेणोच्यत इति प्रसिद्धार्थतैव ।
नात्र तृतीये मन्त्रे तिरोहितमन्तर्हितमिवार्थरूपं पूर्वयोरिव मन्त्रयोरस्ति, यथाश्रुत एवार्थः ।
याजमानमुद्गानं कृत्वा पवमानेषु त्रिषु, अथानन्तरं यानीतराणि शिष्टानि स्तोत्राणि तेष्वात्मने ऽन्नाद्यमागायेत् प्राणविदुद्गाताप्राणभूतः प्राणवदेव ।
यस्मात्स एव उद्गातैवं प्राणं यथोक्तं वेत्ति, अतः प्राणवदेव तं कामं साधयितुं समर्थः ।
तस्माद्यजमानस्तेषु स्तोत्रेषु प्रयुज्यमानेषु वरं वृणीत, यं कामं कामयेत तं कामं वरं वृणीत प्रार्थयेत ।
यस्मात्स एष एवंविदुद्गातेति तस्माच्छब्दात्प्रागेव सम्बध्यते ।
आत्मने वा यजमानाय वा यं कामं कामयते इच्छत्युद्गाता तमागायत्यागानेन साधयति ।
एवं तावज्ज्ञानकर्मभ्यां प्राणात्मापत्तिरित्युक्तम् ।
तत्र नास्त्याशङ्कासम्भवः ।
अतः कर्मापाये प्राणापत्तिर्भवति वा न वा? इत्याशङ्कते ।
तदाशङ्कानिवृत्त्यर्थमाह- तद्धैतलोकजिदेवेति ।
तद्धतदेतत्प्राणदर्शनं कर्मवियुक्तं केवलमपि, लोकजिदेवेति लोकसाधनमेव ।
न ह एवालोक्यतायै अलोकार्हत्वाय आशा आशंसनं प्रार्थनं नैवास्ति ह ।
न हि प्राणात्मनि उत्पन्नात्माभिमानस्य तत्प्राप्त्याशंसनं सम्भवति ।
न हि ग्रामस्थः कदा ग्रामं प्राप्नुतामित्यरण्यस्थ इवाशास्ते ।
असन्निकृष्टविषये ह्यनात्मन्याशंसनम्, न तत्स्वात्मनि सम्भवति ।
तस्मान्नाशास्ति कदाचित्प्राणात्मभावं न प्रपद्येयमिति ।
कस्यैतत्? य एवमेतत्साम प्राणं यथोक्तं निर्धारितमहिमानं वेद- अहमस्मि प्राण इन्द्रियविषयासङ्गैरासुरैः पाप्मभिरधर्षणीयो विशुद्धः, वागादिपञ्चकं च मदाश्रयत्वादग्न्याद्यात्मरूपं स्वाभाविकविज्ञानोत्थेन्द्रियविषयासङ्गजनितासुरपाप्मदोषवियुक्तं सर्वभूतेषु च मदाश्रयान्नाद्योपयोगबन्धनम्, आत्मा चाहं सर्वभूतानामाङ्गिरसत्वात्, ऋग्यजुः सामोद्गीथभूतायाश्च वाच आत्मा तद्वयाप्तेस्तन्निर्वर्तकत्वाच्च, मम साम्नो गीतिभावमापद्यमानस्य बाह्यं धनं भूषणं सौस्वर्यं ततो ऽप्यान्तरं सौवर्ण्यलाक्षणिकं सौस्वर्यम्, गीतिभावमापद्यमानस्य मम कण्ठादिस्थानानि प्रतिष्ठा ।
एवं गुणो ऽहं पुत्तिकादिशरीरेषु कार्त्स्न्येन परिसमाप्तो ऽमूर्तत्वात्सर्वगतत्वाच्च- इति आ एवमभिमानाभिव्यक्तेर्वेदोपास्त इत्यर्थः ॥28॥
इति प्रथमाध्याये तृतीयमुद्गीथब्राह्मणम् ॥3॥
ज्ञानकर्मभ्यां समुचिताभ्यां प्रजापतित्वप्राप्तिर्व्याख्याता केवलप्राणदर्शनेन चऽतद्धैतल्लोकजिदेवऽइत्यादिना ।
प्रजापतेः फलभूतस्य सृष्टिस्थितिसंहारेषु जगतः स्वातन्त्र्यादिविभूत्युपवर्णनेन ज्ञानकर्मणोर्वैदिकयोः फलोत्कर्षो वर्णयितव्य इत्येवमर्थमारभ्यते ।
तेन च कर्मकाण्डविहितज्ञानकर्मस्तुतिः कृत्वा भवेत्सामर्थ्यात् ।
विवक्षितं त्वेतत्- सर्वमप्येतज्ज्ञानकर्मफलं संसार एव, भयारत्यादियुक्तत्वश्रवणात्, कार्यकरणलक्षणत्वाच्च स्थूलव्यक्तानित्यविषयत्वाच्चेति ।
ब्रह्मविद्यायाः केवलाया वक्ष्यमाणाया मोक्षहेतुत्वमित्युत्तरार्थं चेति ।
न हि संसारविषयात्साध्यसाधनादिभेदलक्षणाद् अविरक्तस्य आत्मैकत्व ज्ञानविषये ऽधिकारः, अतृषितस्येव पाने ।
तस्माज्ज्ञानकर्मफलोत्कर्षोपवर्णनमुत्तरार्थम् ।
तथा च वक्ष्यति-"तदेतत्पदनीयमस्य"(बृ.उ.1 । 4 । 7) "तदेतत्प्रेयः पुत्रात्" (बृ.उ.1 । 4 । 8) इत्यादि ।
स्तर्त् ब्र्हुप् 1,4.1
आत्मैवेदम् अग्र आसीत् पुरुषविधः ।
सो ऽनुवीक्ष्य नान्यद् आत्मनो ऽपश्यत् ।
सो ऽहम् अस्मीत्य् अग्रे व्याहरत् ।
ततो ऽहंनामाभवत् ।
तस्माद् अप्य् एतर्ह्य् आमन्त्रितो ऽहम् अयम् इत्य् एवाग्र उक्त्वाथान्यन् नाम प्रब्रूते यद् अस्य भवति ।
स यत् पूर्वो ऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुषः ।
ओषति ह वै स तं यो ऽस्मात् पूर्वो बुभूषति य एवं वेद
ब्र्हुप्भ्_1,4.1 आत्मैवात्मेति प्रजापतिः प्रथमो ऽण्डजः शरीर्यभिधीयते ।
वैदिकज्ञानकर्मफलभूतः स एव किम्? इदं शरीरभेदजातं तेन प्रजापतिशरीरेणाविभक्तम् ।
आत्मैवासीदग्रे प्राक्शरीरान्तरोत्पत्तेः ।
स च पुरुषविधः पुरुषप्रकारः शिरःप्राण्यादिलक्षणो विराट् ।
स एव प्रथमः सम्भूतो ऽनुवीक्ष्यान्वालोचनं कृत्वा, को ऽहं किंलक्षणो वास्मीति, नान्यद्वस्त्वन्तरम्, आत्मनः प्राणपिण्डात्मकार्यकरणरूपान्न अपश्यन्न ददर्श ।
केवलं त्वात्मानमेव सर्वात्मानमपश्यत् ।
तथा पूर्वजन्मश्रौतविज्ञानसंस्कृतः, सो ऽहं प्रजापतिः सर्वात्माहमस्मीत्यग्रे व्याहरद्व्याहृतवान् ।
ततस्तस्माद्यतः पूर्वज्ञानसंस्काराद् आत्मानमेवाहमित्यभ्यधादग्रे तस्मादहंनामाभवत् ।
तस्योपनिषदमिति श्रुतिप्रदर्शितमेव नाम वक्ष्यति ।
तस्माद्यस्मात्कारणे प्रजापतावेवं वृत्तं तस्मात्, तत्कार्यभूतेषु प्राणिषु एतर्ह्येतस्मिन्नपि काल आमन्त्रितः कस्त्वमित्युक्तः सन्नहमयमित्येवाग्र उक्त्वा कारणात्माभिधानेन आत्मानमभिधायाग्रे पुनर्विशेषनामजिज्ञासवे ऽथानन्तरं विशेषपिण्डाभिधानं देवदत्तो यज्ञदत्तो वेति प्रबूते कथयति यन्नामास्य विशेषपिण्डस्य मातापितृकृतं भवति तत्कथयति ।
स च प्रजापतिरतिक्रान्तजन्मनि सम्यक्कर्मज्ञानभावनानुष्ठानैः साधकावस्थायां यद्यस्मात्कर्मज्ञानभावनानुष्ठानैः प्रजापतित्वं प्रतिपित्सूनां पूर्वः प्रथमः सन् अस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्सर्वस्माद् आदौ औषददहत् ।
किम्? आसङ्गाज्ञानलक्षणान्सर्वान्पाप्मनः प्रजापतित्व प्रतिबन्धकारणभूतान् ।
यस्मादेवं तस्मात्पुरुषः, पूर्वमौषदिति पुरुषः ।
यथायं प्रजापतिरोषित्वा प्रतिवन्धकान्पाप्मनः सर्वान्पुरुषः प्रजापतिरभवत्, एवमन्यो ऽपि ज्ञानकर्मभावनानुष्ठानवह्निना केवलं ज्ञानबलाद्वौषति भस्मीकरोति ह वै स तम्;कम्? यो ऽस्माद्विदुषः पूर्वः प्रथमः प्रजापतिर्बुभूषति भवितुमिच्छति तमित्यर्थः ।
तं दर्शयति य एवं वेदेति ।
सामर्थ्याज्ज्ञानभावनाप्रकर्षवान् ।
नन्वनर्थाय प्राजापत्यप्रतिपिप्सा, एवंविदा चेद्दह्यते ।
नैष दोषः, ज्ञानभावनोत्कर्षाभावात्प्रथमं प्रजापतित्वप्रतिपत्त्य भावमात्रत्वाद्दाहस्य ।
उत्कृष्टसाधनः प्रथमं प्रजापतित्वं प्राप्नुवन् न्यूनसाधनो न प्राप्नोतीति, स तं दहतीत्युच्यते ।
न पुनः प्रत्यक्षमुत्कृष्टसाधनेन इतरो दह्यते ।
यथा लोके आजिसृतां यः प्रथममाजिमुपसर्पति तेनेतरे दग्धा इवापहृतसामर्थ्या भवन्ति तद्वत् ॥1॥
यदिदं तुष्टूषितं कर्मकाण्डविहितज्ञानकर्मफलं प्राजापत्यलक्षणं नैव तत्संसारविषयमत्यक्रामदितीममर्थ प्रदर्शयिष्यन्नाह-
स्तर्त् ब्र्हुप् 1,4.2
सो ऽबिभेत् तस्माद् एकाकी बिभेति ।
स हायम् ईक्षां चक्रे, यन् मद् अन्यन् नास्ति कस्मान् नु बिभेमीति ।
तत एवास्य भयं वीयाय ।
कस्माद् ध्य् अभेष्यत् ।
द्वितीयाद् वै भयं भवति
ब्र्हुप्भ्_1,4.2 सो ऽबिभेत्स प्रजापतिर्योयं प्रथमः शरीरि पुरुषविधो व्याख्यातः ।
सो ऽबिभेद्भीतवानस्मदादिवदेवेत्याह ।
यस्मादयं पुरुषविधः शरीरकरणवान् आत्मनाशविपरीतदर्शनवत्वाद् अबिभेत्, तस्मात्तत्सामान्यादद्यत्वे ऽप्येकाकी बिभेति ।
किञ्चास्मदादिवदेव भयहेतुविपरीतदर्शनापनोदकारणं यथाभूतात्मदर्शनम् ।
सो ऽयं प्रजापतिरीक्षामीक्षणं चक्रे कृतवान् ह ।
कथम्? इत्याह- यद्यस्मान्मत्तोन्यदात्मव्यतिरेकेण वस्त्वन्तरं प्रतिद्वन्दीभूतं नास्ति, तस्मिन्नात्मविनाशहेत्वभावे कस्मान्नु बिभेमीति ।
तत एव यथाभूतात्मदर्शनादस्य प्रजापतेर्भयं वीयाय विस्पष्टमपगतवत् ।
तस्य प्रजापतेर्यद्भयं तत्केवलाविद्यानिमित्तमेव परमार्थदर्शने ऽनुपपन्नमित्याह- कस्माद्ध्यभेष्यत् किमित्यसौ भीतवान्परमार्थनिरूपणायां भयमनुपपन्नमेवेत्यभिप्रायः ।
यस्माद् द्वितीयद्वस्त्वन्तरद्धि भयं भवति ।
द्वितीयं च वस्त्वन्तरमविद्याप्रत्युपस्थापितमेव;न ह्यदृश्यमानं द्वितीयं भयजन्मनो हेतुः"तत्र को मोहः कः शोकः एकत्वमनुपश्यतः"(ईशा.7) इति मन्त्रवर्णात् ।
यच्चैकत्वदर्शनेन भयमपनुनोद तद्युक्तम् ।
कस्मात्? द्वितीयाद्वस्त्वन्तराद्वै भयं भवति, तदेकत्वदर्शनेन द्वितीयदर्शनमपनीतमिति नास्ति यतः ।
अत्र चोदयन्ति- कुतः प्रजापतेरेकत्वदर्शनं जातम्? को वास्मै उपदिदेश? अथानुपदिष्टमेव प्रादुरभूत्, अस्मदादेरपि तथा प्रसङ्गः ।
अथ जन्मान्तरकृतसंस्कारहेतुकम्, एकत्वदर्शनानर्थक्यप्रसङ्गः ।
यथाप्रजापतेरतिक्रान्तजन्मावस्थस्य एकत्वदर्शनं विद्यमानमप्यविद्याबन्धकारणं नापनिन्ये, यतः अविद्यासंयुक्त एवायं जातो ऽबिभेत्, एवं सर्वेषामेकत्वदर्शनानर्थक्यं प्राप्नोति ।
अन्त्यमेव निवर्तकमिति चेन्न, पूर्ववत्पुनः प्रसङ्गेनानैकान्त्यात् ।
तस्मादनर्थकमेवैकत्वदर्शनमिति ।
नैष दोषः, उत्कृष्टहेतूद्भवत्वाल्लोकवत् ।
यथा पुण्यकर्मोद्भवैर्विविक्तैः कार्यकरणैः संयुक्ते जन्मनि सति प्रज्ञामेधास्मृतिवैशारद्यं दृष्टम्, तथा प्रजापतेः धर्मज्ञानवैराग्यैश्वर्यविपरीतहेतुसर्वपाप्मदाहात् विशुद्धैः कार्यकरणै संयुक्तमुत्कृष्टं जन्म तदुद्भवं चानुपदिष्टमेव युक्तमेकत्वदर्शनं प्रजापतेः ।
तथा च स्मृतिः-"ज्ञानमग्रतिधं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मस्य सहसिद्धं चतुष्टयम् ॥
"इति ।
सहसिद्धत्वे भयानुपपत्तिरिति चेत् ।
न ह्यादित्येन सह तम उदेति ।
न, अन्यानुपदिष्टार्थत्वात्सह सिद्धवाक्यस्य ।
श्रद्धातात्पर्यप्रणिपातादीनाम् अहेतुत्वमिति चेत् स्यान्मतम्"श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः"(गीता 4 । 39) "तद्विद्धि प्रणिपातेन"(गीता 4 । 34) इत्येवमादीनां श्रुतिस्मृतिविहितानां ज्ञानहेतूनामहेतुत्वम्, प्रजापतिरिव जन्मान्तरकृतधर्महेतुत्वे ज्ञानस्येति चेत्? न;निमित्तविकल्पसमुच्चयगुणवदगुणवत्त्वभेदोपपत्तेः ।
लोके हि नैमित्तिकानां कार्याणां निमित्तभेदो ऽनेकधा विकल्पते ।
तथा निमित्तसमुच्चयः ।
तेषां च विकल्पितानां समुच्चितानां च पुनर्गुणवदगुणवत्त्वकृतो भेदो भवति ।
तद्यथा- रूपज्ञान एव तावन्नैमित्तिके कार्ये- तमसि विनालोकेन चक्षूरूपसन्निकर्षो नक्तञ्चराणां रूपज्ञाने निमित्तं भवति ।
मन एव केवलं रूपज्ञाननिमित्तं योगीनाम् ।
अस्माकं तु सन्निकर्षालोकाभ्यां सह तथादित्यचन्द्राद्यालोकभेदैः समुच्चिता निमित्तभेदा भवन्ति ।
तथा आलोकविशेषगुणवदगुणवत्त्वेन भेदाः स्युः ।
एवमेव आत्मैकत्वज्ञाने ऽपि क्वचिज्जन्मान्तरकृतं कार्म निमित्तं भवति, यथा प्रजापतेः ।
क्वचित्तपो निमित्तम्,"तपसा विजिज्ञासस्व"(छा.उ.3 । 2 । 1) इति श्रुतेः ।
क्वचित्"आचार्यवान्पुरुषो वेद"(छा.उ.6 । 14 । 2) "श्रद्धावांल्लभते ज्ञानम्"(गीता.4 । 39) "तद्विद्धि प्रणिपातेन"(गीता.4 । 34) "आचार्याद्धैव"(छा.उ.4 । 1 । 3) "द्रष्टव्यः श्रोतव्यः"(बृ.उ.2 । 4 । 5) इत्यादि श्रुतिस्मृतिभ्य एकान्तज्ञानलाभनिमित्तत्वं श्रद्धाप्रभृतीनाम् अधर्मादिनिमित्तवियोगहेतुत्वात् ।
वेदान्तश्रवणमनननिदिध्यासनानां च साक्षाज्ज्ञेयविषयत्वात् ।
पापादिप्रतिबन्धक्षये चात्ममनसोर्भूतार्थज्ञाननिमित्तस्वाभाव्यात् ।
तस्मादहेतुत्वं न जातु ज्ञानस्य श्रद्धाप्रणिपातादीनामिति ॥2॥
इतश्च संसारविषय एव प्राजापतित्वम्, यतः ।
स्तर्त् ब्र्हुप् 1,4.3
स वै नैव रेमे ।
तस्माद् एकाकी न रमते ।
स द्वितीयम् ऐच्छत् ।
स हैतावान् आस यथा स्त्रीपुमांसौ सम्परिष्वक्तौ ।
स इमम् एवात्मानं द्वेधापातयत् ।
ततः पतिश् च पत्नी चाभवताम् ।
तस्माद् इदम् अर्धबृगलम् इव स्व इति ह स्माह याज्ञवल्क्यः ।
तस्माद् अयम् आकाशः स्त्रिया पूर्यत एव ।
तां समभवत् ।
ततो मनुष्या अजायन्त
ब्र्हुप्भ्_1,4.3 स प्रापतिर्वै नैव रेमे रतिं नान्वभवत्, अरत्याविष्टो ऽभूदित्यर्थः, अस्मादादिदेव यतः, इदानीमपि तस्मादेकाकित्वादिधर्मवत्त्वादेकाकी न रमते रतिं नानुभवति ।
रतिर्नामेष्टार्थसंयोगजा क्रीडा, तत्प्रसंगिन इष्टवियोगान्मनस्याकुलीभावो ऽरतिरित्युच्यते ।
स तस्या अरतेरपनोदाय द्वितीयम् अरत्यपघातसमर्थं स्त्रीवस्त्वैच्छद्गृद्धिमकरोत् ।
तस्य चैवं स्त्रीविषयं गृध्यतः स्त्रिया परिष्वक्तस्येवात्मनो भावो बभूव ।
स तेन सत्येप्सुत्वाद् एतावानेतत्परिमाण आस बभूव ह ।
किंपरिमाणः? इत्याह- यथा लोके स्त्रीपुमांसौ अरत्यपनोदाय सम्परिष्वक्तौ यत्परिमाणौ स्यातां तथा तत्परिमाणौ बभूवेत्यर्थः ।
स तथा तत्परिमाणमेव इयमात्मानं द्वेधा द्विप्रकारमपातयत्पातितवान् इयमेवेत्यवधारणं मूलकारणाद्विराजो विशेषणार्थम् ।
न क्षीरस्य सर्वोपमर्देन दधिभावापत्तिवद्विराट् सर्वोपमर्देनैतावानास;किं तर्हि? आत्मना व्यवस्थितस्यैव विराजः सत्यसंकल्पत्वादात्मव्यतिरिक्तं स्त्रीपुंसपरिष्वक्तपरिसाणं शरीरान्तरं बभूव ।
स एव च विराट् तथाभूतः स हैतावानासेति सामानाधिकरण्यात् ।
ततस्तस्मात्पातनात्पतितश्च पत्नी चाभवतामिति दम्पत्योर्निर्वचनं लौकिकयोः ।
अत एव तस्मात्, यस्मादात्मन एवार्धः पृथग्भूतोयेयं स्त्री, तस्मादिदं शरीरमानोर्ऽधबृगलमर्धं च तद् बृगलं विदलं च तदर्धबृगलम् अर्धविदलमेवेत्यर्थः ।
प्राक्स्त्र्युद्वहनात्कस्यार्धबृगलम्? इत्युच्यते- स्व आत्मन इति ।
एवमाह स्मोक्तवान्किल याज्ञवल्क्यः, यज्ञस्य वल्को वक्ता यज्ञवल्कस्तस्यापत्यं याज्ञवल्क्यो दैवरातिरित्यर्थः ।
ब्रह्मणो वापत्यम् ।
यस्मादयं पुरुषार्ध आकाशः स्त्र्यर्धशून्यः पुनरुद्वहनात्तस्मात्पूर्यते स्त्र्यर्धेन, पुनः सम्पुटीकरणेनेव विदलार्धः ।
तां स प्रजापतिर्मन्वाख्यः शतरूपाख्यामात्मनो दुहितरं पत्नीत्वेन कल्पितां समभवन्मैथुनमुपगतवान् ।
ततस्तस्मात्तदुपगमनाद् मनुष्या अजायन्तोत्पन्नाः ॥3॥
स्तर्त् ब्र्हुप् 1,4.4
सो हेयम् ईक्षां चक्रे -- कथं नु मात्मन एव जनयित्वा सम्भवति ।
हन्त तिरो ऽसानीति ।
सा गौर् अभवद् वृषभ इतरः ।
तां सम् एवाभवत् ।
ततो गावो ऽजायन्त ।
वडवेतराभवद् अश्ववृष इतरः ।
गर्दभीतरा गर्दभ इतरः ।
तां सम् एवाभवत् ।
तत एकशफम् अजायत ।
अजेतराभवद् बस्त इतरः ।
अविर् इतरा मेष इतरः ।
तां सम् एवाभवत् ।
ततो ऽजावयो ऽजायन्त ।
एवम् एव यद् इदं किञ्च मिथुनम् आ पिपीलिकाभ्यस् तत् सर्वम् असृजत
ब्र्हुप्भ्_1,4.4 सा शतरूपा उ ह इयं सेयं दुहितृगमने स्मार्तं प्रतिषेधमनुस्मरन्तीक्षाञ्चके ।
कथं न्विदमकृत्यं यन्मा मामात्मन एव जनयित्वोत्पाद्य सम्भवत्युपगच्छति ।
यद्यप्ययं निर्घृणो ऽहं हन्तेदानीं तिरो ऽसानि जात्यन्तरेण तिरस्कृता भवानि ।
इत्येवमीक्षित्वासौ गौरभवत् ।
उत्पाद्यप्राणिकर्मभिश्चोद्यमानायाः पुनः पुनः सैवमतिः शतरूपाया मनोश्चाभवत् ।
ततश्च ऋषभ इतरः ।
तां समेवाभदित्यादि पूर्ववत् ।
ततो गावो ऽजायन्त ।
तथा बडवेतराभवदश्ववृष इतरः ।
तथा गर्दभीतरा गर्दभ इतरः ।
तत्र बडवाश्ववृषादीनां सङ्गमात्तत एकशफमेकग्वुरम् अश्वाश्वतरगर्दभाख्यं त्रयमजायत ।
तथा अजेतराभवद्वस्तश्छाग इतरः, तथा अविरितरा मेष इतरः, तां समेवाभवत् ।
तां तामिति वीप्सा ।
तामजां तामविञ्चेतिसमभवदेवेत्यर्थः ।
ततो ऽजाश्वावयश्चाजावयो ऽजायन्त ।
एवमेव यदिदं किञ्च यत्किंञ्चेदं मिथुनं स्रीपुंसलक्षणं द्वन्दम्, आ पिपीलिकाभ्यः पिपीलिकाभिः सहानेनैवन्यायेन तत्सर्वमसृजत जगत्सृष्टवान् ॥4॥
स्तर्त् ब्र्हुप् 1,4.5
सो ऽवेद् अहं वाव सृष्टिर् अस्म्य् अहं हीदं सर्वम् असृक्षीति ।
ततः सृष्टिर् अभवत् ।
सृष्ट्यां हास्यैतस्यां भवति य एवं वेद
ब्र्हुप्भ्_1,4.5 स प्रजापतिः सर्वमिदं जगत्सृष्ट्वा अवेत् ।
कथम्? अहं वावाहमेव सृष्टिः, सृज्यते इति सृष्टं जगदुच्यते सृष्टिरिति ।
यन्मयासृष्टं जगन्मदभेदत्वादहमेवास्मि न मत्तो व्यतिरिच्यते ।
कुत एतत्? अहं हि यस्मादिदं सर्वं जगदसृक्षि सृष्टवानस्मि तस्मादित्यर्थः ।
यस्मात्सृष्टिशब्देन आत्मानमेवाभ्यधात्प्रजापतिः, ततस्तस्मात्सृष्टिरभवत् सृष्टिनामाभवत् ।
सृष्ट्यां जगति, हास्य प्रजापतेगेतस्यामेतस्मिञ्जगति, स प्रजापतिवत्स्रष्टा भवति स्वात्मनो ऽनन्यभूतस्य जगतः, कः? य एवं प्रजापतिवद्यथोक्तं स्वात्मनो ऽनन्यभूतं जगत्साध्यात्मादिभूताधिदैवं जगदहमस्मीति वेद ॥5॥
स्तर्त् ब्र्हुप् 1,4.6
अथेत्य् अभ्यमन्थत् ।
स मुखाच् च योनेर् हस्ताभ्यां चाग्निम् असृजत ।
तस्माद् एतद् उभयम् अलोमकम् अन्तरतः ।
अलोमका हि योनिर् अन्तरतः ।
तद् यद् इदम् आहुर् अमुं यजामुं यजेत्य् एकैकं देवम् एतस्यैव सा विसृष्टिः ।
एष उ ह्य् एव सर्वे देवाः ।
अथ यत् किञ्चेदम् आर्द्रं तद् रेतसो ऽसृजत ।
तद् उ सोम ।
एतावद् वा इदं सर्वम् अन्नं चैवान्नादश् च ।
सोम एवान्नम् अग्निर् अन्नादः ।
सैषा ब्रह्मणो ऽतिसृष्टिः ।
यच् छ्रेयसो देवान् असृजताथ यन् मर्त्यः सन्न् अमृतान् असृजत तस्माद् अतिसृष्टिर् ।
अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद
ब्र्हुप्भ्_1,4.6 एवं स प्रजापतिर्जगदिदं मिथुनात्मकं सृष्टा ब्रह्मणादिवर्णनियन्वर्देवताः सिसृक्षुरादौ, अयेति शब्दद्वयमभिनयप्रदर्शनार्थम्, अनेन प्रकारेण मुखे हस्तौ प्रक्षित्याभ्यमन्यदाभिमुख्येन मन्यनपकरोत् ।
स मुखहस्ताभ्यां मथित्वा मुखाच्च योनेर्हस्ताभ्यां च योनिभ्यामग्निं ब्राह्मणजातेरनुग्रहकर्तारमसृजत सृष्टवान् ।
यस्माद्दाहकस्याग्नेर्योनिरेतदुभयं हस्तौ मुखं च, तस्माद्भय मप्येतदलोमकं लोमविवर्जितम् ।
किं सर्वमेव? न, अन्तरतो ऽभ्यन्तरतः;अस्ति हि योन्या सामान्यमुभयस्यास्य ।
किम्? अलोमका हि योनिरन्तरतः स्त्रीणाम् ।
तथा ब्राह्मणो ऽपि मुखादेव जझे प्रजापतेः ।
तस्मादेकयोनित्वाज्जयेष्ठेनेवानुजो ऽनुगृह्यते अग्निना ब्राह्मणः ।
तस्माद्ब्राह्मणो ऽग्निदेवत्यो मुखवीर्यश्चेति श्रुतिस्मृतिसिद्धम् ।
तथा बलाश्रयाभ्यां बाहुभ्यां बलभिदादिकं क्षन्नियजातिनियन्तरां क्षन्नियं च ।
तस्मादैन्द्रं क्षत्रं बाहुवीर्यं चेति श्रुतौ स्मृतौ चावगतम् ।
तथोरुत ईहा चेष्टा तदाश्रयाद्वस्वादिलक्षणं विशो नियन्तारं विशं च ।
तस्मात्कृष्यादिपरो वस्वादिदेवत्यश्च वैश्यः ।
तथा पूषणं पृथ्वीदैवतं शूद्रं च पद्भ्यां परिचरणक्षममसृजतेति श्रुतिस्मृतिप्रसिद्धेः ।
तत्र क्षत्रादिदेवतासर्गमिहानुक्तं वक्ष्यमाणममप्युक्तवदुपसंहरति सृष्टिसाकल्यानुकीर्त्यै ।
यथेयं श्रुतिर्व्यवस्थिता तथा प्रजापतिरेव सर्वे देवा इति निश्चितोर्ऽथः ।
स्रष्टुरनन्यत्वात्सृष्टानाम् ।
प्रजापतिनैव तु सृष्टत्वाद् देवानाम् ।
अथैवं प्रकरणार्थे व्यवस्थिते तत्स्तुत्यभिप्रायेणाविद्वन्मतान्तरनिन्दोपन्यासः, अन्यनिन्दान्यस्तुतये ।
तत्तत्र कर्मप्रकरणे केवलयाज्ञिका यागकाले यदिदं वच आहुः -ऽअमुमग्निं यजासुमिन्द्रं यजऽइत्यादि - नामशस्त्रस्तोत्रकर्मादिभिन्नत्वाद्भिन्नमेवाग्न्यादिदेवमेवैकं मन्यमाना आहुरित्यभिप्रायः ।
तन्न तथा विद्यात्, यस्मादेतस्यैव प्रजापतेः सा विसृष्टिर्देवभेदः सर्व एष उ ह्येव प्रजापतिरेव प्राणः सर्वे देवाः ।
अत्र विप्रतिपद्यन्ते - पर एव हिरण्यगर्भे इत्येके ।
संसारीत्यपरे ।
परं एव तु मन्त्रवर्णात् ।
"इन्द्रं मित्रं वरुणमग्निमाहुः"इति श्रुतेः ।
"एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः"(ऐ.उ.5 । 3) इति च श्रुतेः ।
स्मृतेश्च -"एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्"(मनु.12 । 123) इति"यो ऽसावतीन्द्रियो ऽग्राह्यः सूक्ष्मो ऽव्यक्तः सनातनः ।
सर्वभूतमयो ऽचिन्त्यः स एव स्वयमुद्बभौ" ।
(मनु.1 । 7) इति ।
संसार्येव वा स्यात् ।
"सर्वैन्पाप्मन औपत्"(बृ.उ.1 । 4 । 1) इति श्रुतेः ।
न ह्यसंसारिणः पाप्मदाहप्रसङ्गो ऽस्ति ।
भयारतिसंयोगश्रवणात् ।
"अथ यन्मर्त्यः सन्नमृतानसृजत"(बृ.उ.1 । 4 । 6) इति च ।
"हिरण्यगर्भं पश्यति जायमानम्"(श्वे.उ.4 । 12) इति च मन्त्रवर्णात् ।
स्मृतेश्च कर्मविपाकप्रक्रियायाम् -"ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ।
उत्तमां सात्विकीमेतां गतिमाहुर्मनीषिणः"(मनु.12 । 50) इति ।
अथैवं विरुद्धार्थानुपपत्तेः प्रामाण्यव्याघात इति चेत्? न, कल्पनान्तरोपपत्तेरविरोधात् ।
उपाधिविशेषसम्बन्धाद्विशेषकल्पनान्तरमुपपद्यते ।
"आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति"(क.उ.1 । 2 । 21) इत्येवमादिश्रुतिभ्य उपाधिवशात्संसारित्वं न परमार्थतः ।
स्वतो ऽसंसार्येव ।
एवमेकत्वं नानात्वं च हिरण्यगर्भस्य ।
तथा सर्वजीवानाम्, तत्त्वमसि (छा.उ.6 । 8 -16) इति श्रुतेः ।
हिरण्यगर्भस्तु उपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति श्रुतिस्मृतिवादाः प्रवृत्ताः ।
संसारित्वं तु क्वचिदेव दर्शयन्ति ।
जीवानां उपाधिगताशुद्धिबाहुल्यात्संसारित्वमेव प्रायशो ऽभिलप्यते ।
व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः ।
तार्किकैस्तु परित्यक्तागमबलैरस्ति नास्ति कर्ताकर्तेत्यादि विरुद्धं बहु तर्कपद्भिराकुलीकृतः शास्त्रार्थः, तेनार्थनिश्चयो दुर्लभः ।
ये तु केवलशास्त्रानुसारिणः शान्तदर्पास्तेषां प्रत्यक्षविषय इव निश्चितः शास्त्रार्थे देवतादिविषयः ।
तत्र प्रजापतेरेकस्य देवस्यात्राद्यलक्षणो भेदो विवक्षित इति तत्राग्निरुक्तो ऽत्ता, आद्यः सोम इदानीमुच्यते - अथ यत्किञ्चेदं लोक आर्द्रं द्रवात्मकं तद्रेतस आत्मानो बीजादसृजत;रेतस आपः (ऐ.उ.1 । 4) इति श्रुतेः ।
द्रवात्मकश्च सोमः ।
तस्माद्यदार्द्रं प्रजापतिना रेतसः सृष्टं तदु सोम एव ।
एतावद्वै एतावदेव नातो ऽधिकमिदं सर्वम् ।
किं तत्? अन्नं चैव सोमो द्रवात्मकत्वादाप्यायकम् ।
अन्नादश्चाग्निरौष्ण्याद् रूक्षत्वाच्च ।
तत्रैवध्रियते, सोम एवान्नं यदद्यते तदेव सोम इत्यर्थः ।
य एवात्ता स एवाग्निः अर्थबलाद्ध्यवधारणम् ।
अग्निरपि क्वचिद् हूयमानः सोमपक्षस्यैव ।
सोमो ऽपीज्यमानो ऽग्निरेवात्तृत्वात् ।
एवमग्नीषोमात्मकं जगदात्मत्वेन पश्यन्त केनचिद्दोषेण लिप्यते, प्रजापतिश्च भवति ।
सैषा ब्रह्मणः प्रजापतेरतिसृष्टिरात्मनो ऽप्यतिशया ।
का सा इत्याह - यच्छ्रेयसः प्रशस्यतरानात्मनः सकाशाद्यस्मादसृजत देवांस्तस्माद्देवसृष्टिरतिसृष्टिः ।
कथं पुनरात्मनो ऽतिशया सृष्टिः इत्यत आह - अथ यद्यस्मान्मर्त्यः सन्मरणधर्मा सन्नमृतानमरणधर्मिणो देवान् कर्मज्ञानवह्निना सर्वानात्मनः पाप्मन ओषित्वासृजत, तस्मादेतामतिसृष्टिं प्रजापतेरात्मभूतां यो वेद स एतस्यामतिसृष्ट्यां प्रजापतिरिव भवति प्रजापतिवदेव स्रष्टा भवति ॥6॥
सर्वं वैदिकं साधनं ज्ञानकर्मलक्षणं कर्त्राद्यनेककारकापेक्षं प्रजापतित्वफलावसानं साध्यमेतावदेव यदेतद्व्याकृतं जगत्संसारः ।
अथैतस्यैव साध्यसाधनलक्षणस्य व्याकृतस्य जगतो व्याकरणात्प्राग्बीजावस्था या तां निर्दिदिज्ञत्यङ्कुरादिकार्यानुमितामिव वृक्षस्य, कर्मबीजो ऽविद्याक्षेत्रो ह्यसौ संसारवृक्षः समूल उद्धर्तव्य इति ।
तदुद्धरणे हि पुरुषार्थपरिसमाप्तिः ।
तथा चोक्तम् -"ऊर्ध्वमूलो ऽवाक्शाखः"इति काठके ।
गीतासु च"ऊर्ध्वमूलमधः शाखम्"इति ।
पुराणे च"ब्रह्मवृक्षः सनातनः"इति ।
स्तर्त् ब्र्हुप् 1,4.7
तद् धेदं तर्ह्य् अव्याकृतम् आसीत् ।
तन् नामरूपाभ्याम् एव व्याक्रियतासौ नामायम् इदंरूप इति ।
तद् इदम् अप्य् एतर्हि नामरूपाभ्याम् एव व्याक्रियत असौ नामायम् इदंरूप इति ।
स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधाने ऽवहितः स्याद् विश्वम्भरो वा विश्वम्भरकुलाये ।
तं न पश्यन्ति ।
अकृत्स्नो हि सः प्राणन्न् एव प्राणो नाम भवति ।
वदन् वाक् पश्यंश् चक्षुः शृण्वञ् छ्रोत्रं मन्वानो मनः ।
तान्य् अस्यैतानि कर्मनामान्य् एव ।
स यो ऽत एकैकम् उपास्ते न स वेद ।
अकृत्स्नो ह्य् एषो ऽत एकैकेन भवति ।
आत्मेत्य् एवोपासीत ।
अत्र ह्य् एते सर्व एकं भवन्ति ।
तद् एतत् पदनीयम् अस्य सर्वस्य यद् अयम् आत्मा ।
अनेन ह्य् एतत् सर्वं वेद ।
यथा ह वै पदेनानुविन्देद् एवं कीर्तिं श्लोकं विन्दते य एवं वेद
ब्र्हुप्भ्_1,4.7 तद्वेदं तदिति बीजावस्थं जगत्प्रागुत्पत्तेस्तर्हि तस्मिन्काले;परोक्षत्वासर्वनाम्नाप्रत्यक्षाभिधानेनाभिधीयते, भूतकालसम्बन्धित्वादव्याकृतभाविनो जगतः;सुखग्रहणार्थमैतिह्यप्रयोगो ह शब्दः ।
एवं ह तदा आसीदित्युच्यमाने सुखं तां परोक्षामपि जगतो बीजावस्थां प्रतिपद्यते, युधिष्ठिरो ह किल राजासीदित्युक्ते यद्वत् ।
इदमिति व्याकृतनामरूपात्मकं साध्यसाधनलक्षणं यथावर्णितमभिधीयते ।
तदिदंशब्दयोः परोक्षप्रत्यक्षावस्थजगद्वाचकयोः सामानाधिकरण्यादेकत्वमेव परोक्षप्रतयक्षावस्थस्य जगतो ऽवगम्यते ।
तदेवेदमिदमेव च तदव्याकृतमासीदिति ।
अथैवं सति नासत उत्पत्तिर्न सतो विनाशः कार्यस्येत्यवधृतं भवति ।
तदेवम्भूतं जगदव्याकृतं सन्नामरूपाभ्यामेव नाम्ना रूपेणैव च व्याक्रियत ।
व्याक्रियतेति कर्मकर्तृप्रयोगात्तत्स्वयमेवात्मैव व्याक्रियत, वि आ अक्रियत, विस्पष्टं नामरूपविशेषावधारणमर्यादं व्यक्तीभावमापद्यत सामर्थ्यादाक्षिप्तनियन्तृकर्तृसाधनक्रियानिमित्तम् ।
असौनामेति सर्वनाम्नाविशेषाभिधानेन नाममात्रं व्यपदिशति ।
देवदत्तो यज्ञदत्त इति वा नामास्य इत्यसौनामायम् ।
तथेदमिति शुक्लकृष्णादीनामविशेषः ।
इदं शुक्लमिदं कृष्णं वा रूपमस्येतीदं रूपः ।
तदिदमव्याकृतं वस्तु एतर्ह्येतस्मिन्नपि काले नामरूपाभ्यामेव व्याक्रियते असौनामायमिदं रूप इति ।
यदर्थः सर्वशास्त्रारम्भः. यस्मिन्नविद्यया स्वाभाविक्या कर्तृक्रियाफलाध्यारोपणा कृता;यः कारणं सर्वस्य जगतः यदात्मके नामरूपे सलिलादिव स्वच्छान्मलमिव फेनमव्याकृते व्याक्रियेते, यश्च ताभ्यां नामरूपाभ्यां विलक्षणः स्वतो नित्यशुद्धबुद्धमुक्तस्वभावः स एषो ऽव्याकृते आत्मभूते नामरूपे व्याकुर्वन्ब्रह्मादिस्तम्बपर्यन्तेषु देहेष्विह कर्मफलाश्रयेष्वशनायादिमत्सु प्रविष्टः ।
ननु अव्याकृतं स्वयमेव व्याक्रियतेत्युक्तम्, कथमिदमिदानीम् उच्यते, पर एव तु आत्माव्याकृतं व्याकुर्वन्निह प्रविष्ट इति ।
नैष दोषः, परस्याप्यात्मनो ऽव्याकृतजगदात्मत्वेन विवक्षितत्वात् ।
आक्षिप्तनियन्तृकर्तृक्रिया निमित्तं हि जगदव्याकृतं व्याक्रियतेत्यवोचाम ।
इदंशब्दसामानाधिकरण्याच्चाव्याकृतशब्दस्य ।
यथेदं जगन्नियन्त्राद्यनेककारकनिमित्तादिविशेषवद्व्याकृतम्, तथा अपरित्यक्तान्यतमविशेषवदेव तदव्याकृतम् ।
व्याकृताव्याकृतमात्रं तु विशेषः ।
दृष्टश्च लोके विवक्षातः शब्दप्रयोगो ग्राम आगतो ग्रामः शून्य इति ।
कदाचिद् ग्रामशब्देन निवासमात्रविवक्षायां ग्रामः शून्य इति शब्दप्रयोगो भवति, कदाचिन्निवासिजनविवक्षायां ग्राम आगत इति, कदाचिदुभयविवक्षायामपि ग्रामशब्दप्रयोगो भवति, ग्रामं च न प्रविशेदिति यथा ।
तद्वदिहापि जगदिदं व्याकृतमव्याकृतं चेत्यभेदविवक्षायाम् आत्मानात्मनोर्भवति व्यपदेशः ।
तथेदं जगदुत्पत्तिविनाशात्मकमिति केवलजगद्वयपदेशः ।
तथा महानज आत्मा (बृ.उ.4 । 4 । 22) अस्थूलो ऽनणुः स एष नेति नेति (बृ.उ.3 । 9 । 26) इत्यादि केवलात्मव्यपदेशः ।
ननु परेण व्याकर्त्रा व्याकृतं सर्वतो व्याप्तं सर्वदा जगत्, स कथमिह प्रविष्टः परिकल्प्यते? अप्रविष्टो हि देशः परिच्छिन्नेन प्रवेष्टुं शक्यते, यथा पुरुषेण ग्रामादिः ।
नाकाशेन किञ्चिन्नित्यप्रविष्टत्वात् ।
पाषाणसर्पादिवद्धर्मान्तरेणेति चेत् ।
अथापि स्यात्, न पर आत्मा स्वेनैव रूपेण प्रविवेश, किं तर्हि? तत्स्थ एव धर्मान्तरेणोपजायते, तेन प्रविष्ट इत्युपचर्यते ।
यथा पाषाणे सहजो ऽन्तःस्थः सर्पो नालिकेरे वा तोयम् ।
न,"तत्सृष्ट्वा तदेवानुप्राविशत्"इति श्रुतेः ।
यः स्रष्टा स भावान्तरमनापन्न एव कार्यं सृष्ट्वा पश्चात्प्राविशदिति हि श्रूयते ।
यथा भुक्त्वा गच्छतीति भुजिगमिक्रिययोः पूर्वापरकालयोरितरेतरविच्छेदो ऽविशिष्टश्च कर्ता तद्वदिहापि स्यात् ।
न तु तत्स्थस्यैव भावान्तरोपजनन एतत्सम्भवति ।
न च स्थानान्तरेण वियुज्य स्थानान्तर संयोगलक्षणःप्रवेशो निरवयवस्यापरिच्छिन्नस्य दृष्टः ।
सावयव एव प्रवेशश्रवणादिति चेत् न;ठदिव्यो ह्यमूर्तः पुरुषः" (मु.उ.2 । 1 । 2) निष्कलं निष्क्रियम् (श्वे.उ.6 । 19) इत्यादिश्रुतिभ्यः सर्वव्यपदेश्यधर्म विशेषप्रतिषेधश्रुतिभ्यश्च ।
प्रतिबिम्बप्रवेशवदिति चेत्? न, वस्त्वन्तरेण विप्रकर्षानुपपत्तेः ।
द्रव्ये गुणप्रवेशवदिति चेत्? न, अनाश्रितत्वात् ।
नित्यपरतन्त्रस्यैवाश्रितस्य गुणस्य द्रव्ये प्रवेश उपचर्यते ।
न तु ब्रह्मणः स्वातन्त्र्यश्रवणात्तथा प्रवेश उपपद्यते ।
फले बीजवदिति चेत्? न;सावयवत्ववृद्धिक्षयोत्पत्तिविनाशादिधर्मवत्त्वप्रसङ्गात् ।
न चैवं धर्मवत्त्वं ब्रह्मणः अजो ऽजरः इत्यादि श्रुतिन्यायविरोधात् ।
तस्मादन्य एव संसारी परिच्छिन्न इह प्रविष्ट इति चेत्? न;"सेयं दैवतैक्षत"(छा.उ.6 । 3 । 2) इत्यारभ्य टनामरूपे व्याकरवाणि"(6 । 2 । 3) इति तस्या एव प्रवेशव्याकरणकर्तृत्वश्रुतेः ।
तथाऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ(तै.उ.2 । 6 । 1) ऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत"(ऐ.उ.3 । 12) ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते""त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि"(श्वे.उ.4 । 3) "पुरश्चक्रे द्विपदः"(बृ.उ.2 । 5 । 18) "रूपं रूपम्"(क.उ.2 । 2 । 9) इति त मन्त्रवर्णान्न परादन्यस्य प्रवेशः ।
प्रविष्टानामितरेतरभेदात्परानेकत्वमिति चेत् न,"एको देवो बहुधा सन्निविष्टः" "एकःसन्बहुधा विचचार" "त्वमेको ऽसि बहूननुप्रविष्टः" "एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा"(श्वे.उ.6 । 11) इत्यादि श्रुतिभ्यः ।
प्रवेश उपपद्यते नोपपद्यत इति तिष्ठतु तावत् ।
प्रविष्टानां संसारित्वात्तदनन्यत्वान्न परस्य संसारित्वमिति चेत्? न, अशनायाद्यत्ययश्रुतेः ।
सुखित्वदुःखित्वादिदर्शनान्नेति चेन्न,"न लिप्यते लोकदुःखेन बाह्यः"(क.उ.2 । 2 । 11) इति श्रुतेः ।
प्रत्यक्षादिविरोधादयुक्तमिति चेत्?
न, उपाध्याश्रयजनितविशेषविषयत्वात्प्रक्षादेः ।
"न दृष्टेर्द्रष्टारं पश्येः"(बृ.उ.3 । 4 । 2) "विज्ञातारमरे केन विजानीयात्"(बृ.उ.4 । 5 । 19) "अविज्ञातं विज्ञातृ"(बृ.उ.3 । 8 । 11) इत्यादि श्रुतिभ्यो नात्मविषयं विज्ञानम् ।
किं तर्हि? बुद्ध्याद्युपाध्यात्मप्रतिच्छायाविषयमेव सुखितो ऽहं दुःखितो ऽहमित्येवमादि प्रत्यक्षविज्ञानम् ।
अयमहमिति विषयेण विषयिणः सामानाधिकरण्योपचारात्,"नान्यदतो ऽस्ति द्रष्ट्रृ"(बृ.उ.3 । 8 । 11) इत्यन्यात्मप्रतिषेधाच्च, देहावयवविशेष्यत्वाच्च सुखदुःखयोर्विषयधर्मत्वम् ।
"आत्मानस्तु कामाय"(बृ.उ.2 । 4 । 5) इत्यात्मार्थः त्वश्रुतेरयुक्त इति चेन्न,"यत्र वा अन्यदिव स्यात्"इत्यविद्याविषयात्मार्थत्वाभ्युपगमात् तत्केन कं पश्येत् (बृ.उ.4 । 5 । 15) नेह नानास्ति किञ्चन (बृ.उ.4 । 4 । 19) तत्र को मोहः कः शोकः एकत्वमनुपश्यतः (ईशा.7) इत्यादिना विद्याविषये तत्प्रतिषेधाच्च नात्मधर्मत्वम् ।
तार्किकसमयविरोधादयुक्तमिति चेत् न;युक्त्याप्यात्मनो दुःखित्वानुपपत्तेः ।
न हि दुःखेन प्रत्यक्षविषयेण आत्मनो विशेष्यत्वम् प्रत्यक्षाविषयत्वात् ।
आकाशस्य शब्दगुणवत्त्ववदात्मनो दुःखित्वमिति चेन्न, एकप्रत्ययविषयत्वानुपपत्तेः ।
न हि सुखग्राहकेण प्रत्यक्षविषयेण प्रत्ययेन नित्यानुमेयस्यात्मनो विषयीकरणामुपपद्यते तस्य च विषयीकरणे आत्मन एकत्वाद्विषय्यभावप्रसङ्गः ।
एकस्यैव विषयविषयित्वं दीपवदिति चेत्? न;युगपदसम्भवात्,आत्मन्यंशानुपपत्तेश्च ।
एतेन विज्ञानस्य ग्राह्यग्राहकत्वं प्रत्युक्तम् ।
प्रत्यक्षानुमानविषययोश्च दुःखात्मनोर्गुणगुणित्वे नानुमानम् ।
दुःखस्य नित्यमेव प्रत्यक्षविषयत्वात्, रूपादिसामानाधिकरण्याच्च ।
मनःसंयोगजत्वे ऽप्यात्मनि दुःखस्य सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात् ।
न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन्नपयन्वा दृष्टः क्वचित् ।
न च निरवयवं विक्रियमाणं दृष्टं क्वचिदनित्यगुणाश्रयं वा नित्यम् ।
न चाकाश आगमवादिभिर्नित्यतयाभ्युपगम्यते, न चान्यो दृष्टान्तो ऽस्ति ।
विक्रियमाणमपि तत्प्रत्ययानिवृत्तेर्नित्यमेवेति चेत्? न, द्रव्यस्य अवयवान्यथात्वव्यतिरेकेण विक्रियानुपपत्तेः ।
सावयवत्वे ऽपि नित्यत्वमिति चेन्न;सावयवस्यावयवसंयोगपूर्वकत्वे सति विभागोपपत्तेः ।
वज्रादिष्वदर्शनान्नेति चेन्न, अनुमेयत्वात्संयोगपूर्वत्वस्य ।
तस्मान्नात्मानो दुःखाद्यनित्यगुणाश्रयत्वोपपत्तिः ।
परस्यादुःखित्वे ऽन्यस्य च दुःखिनो ऽभावे दुःखोपशमनाय शास्त्रारम्भानर्थक्यमिति चेत्? न, अविद्याध्यारोपितदुःखित्वभ्रमापोहार्थत्वात्, आत्मनि प्रकृतसङ्ख्यापूरणभ्रमापोहवत् ।
कल्पितदुःख्यात्माभ्युपगमाच्च ।
जलसूर्यादिप्रतिबिम्बवदात्मग्रवेशश्च प्रतिबिम्बवद्व्याकृते कार्य उपलभ्यत्वात् ।
प्रागुत्पत्तेरनुपलब्ध आत्मा पश्चात्कार्ये च सृष्ट व्याकृते बुद्धेरन्तरुपलभ्यमानः सूर्यादिप्रतिबिम्बवज्जलादौ कार्यं सृष्ट्वा प्रविष्ट इव लक्ष्यमाणो निर्दिश्यते स एष इह प्रविष्टः (बृ.उ.1 । 4 । 7) ताः सृष्ट्वा तदेवानुप्राविशत स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत (ऐ.उ.3 । 12) सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य (छा.उ.6 । 2 । 3) इत्येवमादिभिः ।
न तु सर्वगतस्य निरवयवस्य दिग्देशकालान्तरापक्रमणप्राप्तिलक्षणः प्रवेशः कदाचिदप्युपपद्यते ।
न च परादात्मनो ऽन्यो ऽस्ति द्रष्टा नान्यदतो ऽस्ति द्रष्टृ नान्यदतो ऽस्तिश्रोतृ (बृ.उ.3 । 8 । 11) इत्यादि श्रुतेरित्यवोचाम ।
उपलब्ध्यर्थत्वाच्च सृष्टिप्रवेशस्थित्यप्ययवाक्यानाम्, उपलब्धेः पुरुषार्थत्वश्रवणात् ।
आत्मानमेवावेत् (बृ.उ.1 । 4 । 10) तस्मात्तत्सर्वमभवत् (बृ.उ.1 । 4 । 10) बह्मविदाप्नोति परम् (तै.उ.2 । 1 । 1) स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति (मु.उ.3 । 2 । 9) आचार्यवान्पुरुषो वेद (छा.उ.6 । 14 । 2) तस्य तावदेव चिरम् (छा.उ.6 । 14 । 2) इत्यादि श्रुतिभ्यः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् (गीता 18 । 55) तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः इत्यादि स्मृतिभ्यश्च ।
भेददर्शनापवादाच्च सृष्ट्यादि वाक्यानाम् आत्मैकत्वदर्शनार्थपरत्वोपपत्तिः ।
तस्मात्कार्यस्थस्य उपलभ्यत्वमेव प्रवेश इत्युपचर्यते ।
आनखाग्रेभ्यो नखाग्रमर्यादम् आत्मनश्चैतन्यमुपलभ्यते ।
तत्र कथमिव प्रविष्टः? इत्याह - यथा लोके क्षुराधाने क्षुरो धीयते ऽस्मिन्निति क्षुरधानं तस्मिन्नापितोपस्कराधाने, क्षुरो ऽन्तःस्थ उपलभ्यते, अवहितः प्रवेशितः स्याद् यथा वा विश्वम्भरो ऽग्निः, विश्वस्य भरणाद्विश्वम्भरः कुलाये नीडे ऽग्निः, काष्ठादावहितः स्यादित्यनुवर्तते ।
तत्र हि स मथ्यमान उपलभ्यते ।
यथा च क्षुरः क्षुरधान एकदेशे ऽवस्थितो यथा चाग्निः काष्ठादौ सर्वतो व्याप्यावस्थितः, एवं सामान्यतो विशेषतश्च देहं संव्याप्यावस्थित आत्मा ।
तत्र हि स प्राणनादिक्रियावान् दर्शनादिक्रियावांश्चोपलभ्यते ।
तस्मात्तत्रैवं प्रविष्ठं तमात्मानं प्राणनादिक्रियाविशिष्टं न पश्यन्ति नोपलभन्ते ।
नन्वप्राप्तप्रतिषेधो ऽयं तं न पश्यन्तीति, दर्शनस्याप्रकृतत्वात् ।
नैष दोषः, सृष्ट्यादिवाक्यानाम् आत्मैकत्वप्रतिपत्त्यर्थपरत्वात्प्रकृतमेव तस्य दर्शनम् ।
रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रति चक्षणाय (बृ.उ.2 । 5 । 19) इति मन्त्रवर्णात् ।
तत्र प्राणनादिक्रियाविशिष्टस्यादर्शने हेतुमाह - अकृत्स्नो ऽसमस्तो हि यस्मात्स प्राणनादिक्रियाविशिष्टः ।
कुतः पुनरकृत्स्नत्वम् इत्युच्यते - प्राणान्नेव प्राणनक्रियामेव कुर्वन्प्राणो नाम प्राणसमाख्यः प्राणाभिधानो भवति ।
प्राणनक्रियाकर्तृत्वाद्धि प्राणः प्राणतीत्युच्यते नान्यां क्रियां कुर्वन् ।
यथा लावकः पाचक इति ।
तस्मात्क्रियान्तरविशिष्टस्य अनुपसंहारादकृत्स्नो हि सः ।
तथा वदन्वदनक्रियां कुर्वन्वक्तीति वाक्, पश्यंश्चक्षुश्चष्ट इति चक्षुर्द्रष्टा, शृण्वञ्शृणोतीति श्रोत्रम् ।
प्राणान्नेव प्राणः वदन्वाक् इत्याभ्यां क्रियाशक्त्युद्भवः प्रदर्शितो भवति ।
पश्यंश्चक्षुः शृण्वञ्श्रोत्रम् इत्याभ्यां विज्ञानशक्त्युद्भवः प्रदर्श्यते, नामरूपविषयत्वाद्विज्ञानशक्तेः ।
श्रोत्रचक्षुषी विज्ञानस्य साधने, विज्ञानं तु नामरूपसाधनम् ।
न हि नामरूपव्यतिरिक्तं विज्ञेयमस्ति ।
तयोश्चोपलम्भे करणं चक्षुःश्रोत्रे ।
क्रिया च नामरूपसाध्या प्राणसमवायिनी, तस्याः प्राणाश्रयाया अभिव्यक्तो वाक्करणम् ।
तथा पाणिपादपायूपश्थाख्यानि ।
सर्वेषामुपलक्षणार्था वाक् ।
एतदेव हि सर्वं व्याकृतम् ।
त्रयं वा इदं नाम रूपं कर्म (बृ.उ.1 । 6 । 1) इति हि वक्ष्यति ।
मन्वानो मनो मनुत इति ।
ज्ञानशक्तिविकासानां साधारणं करणं मनो मनुते ऽनेनेति ।
पुरुषस्तु कर्ता सन्मन्वानो मन इत्युच्यते ।
तान्येतानि प्राणादीन्यस्यात्मनः कर्मनामानि, कर्मजानि नामानि कर्मनामान्येव, न तु वस्तुमात्रविषयाणि ।
अतो न कृत्स्नात्मवस्त्ववद्योतकानि ।
एवं ह्यसावात्मा प्राणनादिक्रियया तत्तत्क्रियाजनितप्राणादिनामरूपाभ्यां व्याक्रियमाणो ऽवद्योत्यमानो ऽपि ।
स यो ऽतो ऽस्मात्प्राणनादिक्रियासमुदायाद् एकैकं प्राणं चक्षुरिति वा विशिष्टम् अनुपसंहृतेतरविशिष्टक्रियात्मकं मनसा अयमात्मेत्युपास्ते चिन्तयति, न स वेद नस जानाति ब्रह्म ।
कस्मात् अकृत्स्नो ऽसमाप्तो हि यस्मादेष आत्मा अस्मात्प्राणनादिसमुदायात् ।
अतः प्रविभक्त एकैकेन विशेषणेन विशिष्ट इतरधर्मान्तरानुपसंहाराद्भवति ।
यावदयमेवं वेद पश्यति शृणोमि स्पृशामीति वा स्वभावप्रवृत्तिविशिष्टं वेद तावदञ्जसा कृत्स्नमात्मानं न वेद ।
कथं पुनः पश्यन्वेद? इत्याह - आत्मेत्येव, आत्मेति प्राणादीनि विशेषणानि यान्युक्तानि तानि यस्य स आप्नुवंस्तान्यात्मा इत्युच्यते ।
न तथा कृत्स्नविशेषोलसंहारी सन्कृत्स्नो भवति ।
वस्तुमात्ररूपेण हि प्राणाद्युपाधिविशेषक्रियाजनितानि विशेषणानि व्याप्नोति ।
तथा च वक्ष्यति - ध्यायतीव लेलायतीव (बृ.उ.4 । 3 । 7) इति ।
तस्मादात्मेत्येवोपासीत ।
एवं कृत्स्नो ह्यसौ स्वेन वस्तुरूपेण गृह्यमाणो भवति ।
कस्मात्कृत्स्नः? इत्याशङ्क्याह - अत्रास्मिन्नात्मनि हि यस्मान्निरुपाधिकजलसूर्यप्रतिबिम्बभेदा इवादित्वे प्राणाद्युपाधिकृता विशेषाः प्राणादिकर्मजनामाभिधेया यद्योक्ता ह्येते एकमभिन्नतां भवन्ति प्रतिपद्यन्ते ।
आत्मेत्येवोपासीत इति नापूर्वविधिः ।
पक्षे प्राप्तत्वात् यत्साक्षादपरोक्षाद्ब्रह्म (बृ.उ.3 । 4 । 1) कतम आत्मेति - यो ऽयं विज्ञानमयः (बृ.उ.4 । 3 । 7) इत्येवमाद्यात्मप्रतिपादनपराभिः श्रुतिभिरात्मविषयं विज्ञानमुत्पादितम् ।
तत्रात्मस्वरूपविज्ञानेनैव तद्विषयानात्माभिमानबुद्धिः कारकादिक्रियाफलाध्यारोपणात्मिका अविद्या निवर्तिता ।
तस्यां निवर्तितायां कामादिदोषानुपपत्तेः आनात्मचिन्तानुपपत्तिः ।
तस्मात्तदुपासनमस्मिन्पक्षे न विधातव्यम्, प्राप्तत्वात् ।
तिष्ठसु तावत्पाक्षिक्यात्मोपासनप्राप्तिर्नित्या वेति, अपूर्वविधिः स्यात्;ज्ञानोपासनयोरेकत्वे सत्यप्राप्तत्वात् ।
न स वेद इति विज्ञानं प्रस्तुत्य आत्मेत्येवोपासीत इत्यभिधानाद्वेदोपासनशब्दयोरेकार्थतावगम्यते ।
अनेन ह्येतत्त्सर्वं वेद आत्मानमेवावेत् (बृ.उ.1 । 4 । 10) इत्यादिश्रुतिभ्यश्च विज्ञानमुपासनम् ।
तस्य चाप्राप्तत्वाद्विध्यर्हत्वम् ।
न च स्वरूपान्वाख्याने पुरुषप्रवृत्तिरुपपद्यते, तस्मादपूर्वविधिरेवायम् ।
कर्मविधिसामान्याच्च ।
यथा यजेत जुहुयात् इत्यादयः कर्मविधयः, न तैरस्य आत्मेत्येवोपासीत (1 । 4 । 7) आत्मा वा अरे द्रष्टव्यः (2 । 4 । 5) इत्याद्यात्मोपासनविधेर्विशेषो ऽवगम्यते ।
मानसक्रियात्वाच्च विज्ञानस्य तथा यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन् इत्याद्या मानसी क्रिया विधीयते, तथा आत्मेत्येवोपासीत (1 । 4 । 7) मन्तव्यो निदिध्यासितव्यः (2 । 4 । 5) इत्याद्या क्रियैव विधीयते ज्ञानात्मिका ।
तथावोचाम वेदोपासनशब्दयोरेकार्थत्वमिति ।
भावानांशत्रयोपपत्तेश्च - यथा हि यजेत इत्यस्यां भावनायाम् केन कथम् इति भाव्याद्याकाङ्क्षापनयकारणमंशत्रयमवगम्यते, तथा उपासीत इत्यस्यामपि भावनायां विधीयमानायाम् किमुपासीत? केनोपासीत? इत्यस्यामाकाङ्क्षायाम् आत्मानमुपासीत मनसा त्यागब्रह्मचर्यशमदमोपरमतितिक्षादीतिकर्तव्यतासंयुक्तः इत्यादीशास्त्रेणैव समर्थ्यते ऽशत्रयम् ।
यथा च कृत्स्नस्य दर्शपूर्णमासादिप्रकरणस्य दर्शपूर्णमासादिविध्युद्देशत्वेनोपयोगः एवमौपनिषदाम् आत्मोपासनप्रकरणस्य आत्मोपासनप्रकरणस्य आत्मोपासनविध्युद्देशत्वेनैवोपयोगः ।
नेति नेति (2 । 3 । 6) अस्थूलम् (3 । 8 । 8) एकमेवाद्वितीयम् (छा.उ.6 । 2 । 1) अशनायाद्यतीतः इत्येवमादिवाक्यानाम् उपास्यात्मस्वरूपविशेषसमर्पणेनोपयोगःष फलं च मोक्षो ऽविद्यानिवृत्तिर्वा ।
अपरे वर्णयन्ति उपासनेनात्मविषयं विशिष्टं विज्ञानान्तरं भावयेत्, तेनात्मा ज्ञायते, अविद्यानिवर्तकं च तदेव, नात्मविषयं वेदवाक्यजनितं विज्ञानमिति ।
एतस्मिन्नर्थे वचनान्यपि - विज्ञाय प्रज्ञां कुर्वीत (बृ.उ.4 । 4 । 21) द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (2 । 4 । 5) सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः (छा.उ.4) इत्यादीनि ।
न, अर्थान्तराभावात् ।
न च आत्मेत्येवोपासीत इत्यपूर्वविधिः;कस्मात्? आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेण मानसस्य बाह्यस्य वाभावात् ।
तत्र हि विधेः साफल्यं यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते ।
यथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इत्येवमादौ ।
न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासामुष्ठानम्, तच्चाधिकाराद्यपेक्षानुभावि ।
न तु नेति नेति (2 । 3 । 6) इत्याद्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासादिवत्पुरुषव्यापारः सम्भवति ।
सर्वव्यापारोपशमहेतुत्वात् तद्वाक्यजनितविज्ञानस्य ।
न ह्युदासीनविज्ञानं प्रवृत्तिजनकम्, अब्रह्मानात्मविज्ञाननिवर्तकत्वाच्च एकमेवाद्वितीयम् (छा.उ.6 । 2 । 1) तत्त्वमसि (छा.उ.6 । 8 -16) इत्येवमादिवाक्यानाम् ।
न च तन्निवृत्तौ प्रवृत्तिरुपपद्यते;विरोधात् ।
वाक्यजनितविज्ञानमात्रान्नाब्रह्मानात्मविज्ञाननिवृत्तिरिति चेत् न;तत्त्वमसि (छा.उ.6 । 8 -16) नेति नेति (बृ.उ.2 । 3 । 6) आत्मैवेदम् (छा.उ.7 । 25 । 2) एकमेवाद्वितीयम् (छा.उ.6 । 2 । 1) ब्रह्मैवेदममृतम् (मु.उ.2 । 2 । 11) नान्यदतो ऽस्ति द्रष्टः (बृ.उ.3 । 8 । 11) तदेव ब्रह्म त्वं विद्धि (के.उ.1 । 4) इत्यादिवाक्यानां तद्वादित्वात् ।
द्रष्टव्यविधेर्विषयसमर्पकाण्येतानीति चेत्? न, अर्थान्तराभावादित्युक्तोत्तरत्वात् ।
आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैः तत्त्वमसि इत्यादिभिः श्रवणकाल एव तद्दर्शनस्य कृतत्वाद् द्रष्टव्यविधेर्नानुष्ठानान्तरं कर्तव्यमित्युक्तोत्तरमेतत् ।
आत्मस्वरूपान्वाख्यानमात्रेण आत्मविज्ञाने विधिमन्तरेण न प्रवर्तत इति चेत्? न, आत्मवादिवाक्यश्रवणेन आत्मविज्ञानस्य जनितत्वात् - किं भो कृतस्य करणम्? तच्छ्रवणे ऽपि न प्रवर्तत इति चेन्न, अनवस्थाप्रसङ्गात् ।
यथा आत्मवादिवाक्यार्थश्रवणे विधिमन्तरेण न प्रवर्तते तथा विधिवाक्यार्थश्रवणे ऽपि विधिमन्तरेण न प्रवर्तिष्यत इति विध्यन्तरापेक्षा ।
तथा तदर्थश्रवणे ऽपीत्यनवस्था प्रसज्येत ।
वाक्यजनितात्मज्ञानस्मृतिसंततेः श्रवणविज्ञानमात्रादर्थान्तरत्वमिति चेत्? न, अर्थप्राप्तत्वात् ।
यदैवात्मप्रतिपादकवाक्यश्रवणाद् आत्मविषयं विज्ञानमुत्पद्यते, तदैव तदुन्पद्यगानं तद्विषयं विज्ञानमुत्पद्यते, तदैव तदुन्पद्यगानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते ।
आत्मविषयमिथ्याज्ञाननिवृत्तौ च तत्प्रभवाः स्मृतयो न भवन्ति स्वाभाविक्यो ऽनात्मवस्तुभेदविषयाः ।
अनर्थत्वावगतेश्च, आत्मावगतौ हि सत्यामन्यद्वस्त्वनर्थत्वेनामगम्यते, अनित्यदुःखाशुद्ध्यादिबहुदोषवत्त्वाद् आत्मवस्तुनश्च तद्विलक्षणत्वात् ।
तस्मादनात्मविज्ञानस्मृतीनाम् आत्मावगतेरभावप्राप्तिः ।
पारिशेष्यादात्मैकत्वविज्ञानस्मृतिसन्ततेरर्थत एव भावान्न विधेयत्वम्, शोकमोहभयायासादिदुःखदोषनिवर्तकत्वाच्च तत्स्मृतेः ।
विपरीतज्ञानप्रभवो हि शोकमोहादिदोषः ।
तथा च तत्र को मोहः (ईश.7) विद्वांम बिभेति कुतश्चन (तै.उ.2 । 9 । 1) अभयं वै जनक प्रप्तो ऽसि (बृ.उ.4 । 2 । 4) भिद्यते हृदयग्रन्थिः (मु.उ.2 । 2 । 8) इत्यादिश्रुतयः ।
निरोधस्तर्ह्यर्थान्तरमिति चेत् ।
अथापि स्याच्चित्तवृत्तिनिरोधस्य वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात्, तन्त्रान्तरेषु च कर्तव्यतयावगतत्वाद्विधेयत्वमिति चेत्? न;मोक्षसाधनत्वेनानवगमात् ।
न हि वेदान्तेषु ब्रह्मात्मविज्ञानाद् अन्यत्परमपुरुषार्थसाधनत्वेनामगम्यते ।
"आत्मानमेवावेत्"(बृ.उ.1 । 4 । 10) "तस्मात्तत्सर्वमभवत्"(1 । 4 । 10) "ब्रह्मविदाप्नोति परम्"(तै.उ.2 । 1 । 1 । ) "स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति"(मु.उ.3 । 2 । 9) "आचार्यवान्पुरुषो वेद"(छा.उ.6 । 14 । 2) "तस्य तावदेव चिरम्"(6 । 14 । 2) "अभयं हि वै ब्रह्म भवति एवं वेद"(बृ.उ.4 । 4 । 25) इत्येवमादिश्रुतिशतेभ्यः ।
अनन्यसाधनत्वाच्च निरोधस्य ।
न ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति ।
अभ्युपगम्येदमुक्तम्, न तु ब्रह्मविज्ञानव्यतिरेकेण अन्यन्मोक्षसाधनमवगम्यते ।
आकाङ्क्षाभावाच्च भावनाभावः;यदुक्तं यजेतेत्यादौ किं केन कथम् इति भावनाकाङ्क्षायां फलसाधनेतिकर्तव्यताभिराकाङ्क्षापनयनं यथा, तद्वदिहाप्यात्मविज्ञानविधावप्युपपद्यत इति;तदसत्,"एकमेवाद्वितीयम्"(छा.उ.6 । 2 । 1) "तत्त्वमसि"(छा.उ.6 । 8 -16)"नेति नेति"(बृ.उ.2 । 3 । 6) "अनन्तरमबाह्यम्"(बृ.उ.2 । 5 । 19) "अयमात्मा ब्रह्म"(2 । 5 । 19) इत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङ्क्षाविनिवृत्तेः ।
न च वाक्यार्थविज्ञाने विधिप्रयुक्तः प्रवर्तते विध्यन्तरप्रयुक्तौ चानवस्थादोषमवोचाम ।
न च एकमेवाद्वितीयं ब्रह्म इत्यादिवाक्येषु विधिरवगम्यते ।
आत्मस्वरूपान्वाख्यानेनैवावसितत्वात् ।
वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमिति चेत् ।
अथापि स्याद्यथा सो ऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् इत्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यम्, एवमात्मार्थवाक्यानामपीति चेत्? न;विशेषात् ।
न वाक्यस्य वस्त्वन्वाख्यानं क्रियान्वाख्यानं वा प्रामाण्याप्रामाण्यकारणम्, किं तर्हि? निश्चितफलवद्विज्ञानोत्पादकत्वम् ।
तद्यत्रास्ति तत्प्रमाणं वाक्यम्, यत्र नास्ति तदप्रमाणम् ।
किंञ्च भो पृच्छामस्त्वाम् आत्मस्वरूपान्वाख्यानपरेषु वाक्येषु फलवन्निश्चितं च विज्ञानमुत्पद्यते, न वा? उत्पद्यते चेत्कथमप्रामाण्यमिति? किं वा न पश्यसि अविद्याशोकमोहभयादिसंसारबीजदोषनिवृत्तिं विज्ञानफलम् ।
न शृणोपि वा किम् तत्र को मोहः कः शोक एकत्वमनुपश्यतः (ईशा.7) मन्त्रविदेवास्मि नात्मवित्सो ऽहं भगयः शोचामि तं मा भगवाञ्छोकस्य पारं शोचामि तारयतु (छा.उ.7 । 1 । 3) इत्येवमाद्युपनिषद्वाक्यशतानि? एवं विद्यते किं सो ऽरोदीदित्यादिषु निश्चितं फलवच्च विज्ञानम् ।
न चेद्विद्यते ऽस्त्वप्रामाण्यम् ।
तदप्रामाण्ये फलवन्निश्चितविज्ञानोत्पादकस्य किमित्यप्रामाण्यं स्यात्? तदप्रामाण्ये त दर्शपूर्णमासादिवाक्येषु को विश्रम्भः ।
ननु दर्शपूर्णमासादिवाक्यानां पुरुषप्रवृत्तिविज्ञानोत्पादकत्वात् प्रामाण्यम् ।
आत्मविज्ञानवाक्येषु तन्नास्तीति ।
सत्यमेवम्, नैष दोषः ।
प्रामाणयकारणोपपत्तेः ।
प्रामाण्यकारणं च यथोक्तमेव, नान्यत् ।
अलङ्कारश्चायम्, यत्सर्वप्रवृत्तिबीजविरोधफलवदविज्ञानोत्पादकत्वम् आत्मप्रतिपादकवाक्यानां नाप्रामाण्यकारणम् ।
यत्तूक्तम् विज्ञाय प्रज्ञां कुर्वीत (बृ.उ.4 । 4 । 21) इत्यादिवचनानां वाक्यार्थविज्ञानव्यतिरेकेण उपासनार्थत्वमिति, सत्यमेतत्, किन्तु नापूर्वविध्यर्थता, पक्षे प्राप्तस्य नियमार्थतैव ।
कथं पुनरुपासनस्य पक्षप्राप्तिः? यावता पारिशेष्यादात्मविज्ञानस्मृतिसन्ततिः नित्यैवेत्यभिहितम् बाढम्, यद्यप्येवम्;शरीरारम्भा कस्य कर्मणो नियतफलत्वात्, सम्यग्ज्ञानप्राप्तावप्यवश्यम्भाविनी प्रवृत्तिर्वाङ्मनःकायानाम्, लब्धवृत्तेः कर्मणो बलीयस्त्वात् मुक्तेष्वादिप्रवृत्तिवत् ।
तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम् ।
तस्मात्त्यागवैराग्यादिसाधनबलावलम्बेन आत्मविज्ञानस्मृतिसन्ततिर्नियन्तव्या भवति, न त्वपूर्वा कर्तव्या;प्राप्तत्वाद् इत्यवेचाम ।
तस्मात् प्राप्तविज्ञानस्मृतिसन्ताननियमविध्यर्थानि विज्ञाय प्रज्ञां कुर्वीत इत्यादि वाक्यानि, अन्यार्थासम्भवात् ।
नन्वनात्मोपासनमिदम्, इतिशब्दप्रयोगात्;यथा प्रियमित्येतदुपासीत इत्यादौ न प्रियादिगुणा एवोपास्याः, किं तर्हि? प्रियादिगुणवत्प्राणाद्येवोपास्यम्;तथेहापि इति परात्मशब्दप्रयोगाद् आत्मगुणवदनात्मवस्तूपास्यमिति गम्यते ।
आत्मोपास्यत्ववाक्यवैलक्षण्याच्च परेण च वक्ष्यति - आत्मानमेव लोकमुपासीत (1 । 4 । 15) इति ।
तत्र च वाक्ये आत्मैवोपास्यत्वेनाभिप्रेतो द्वितीयाश्रवणादात्मानमेवेति ।
इह तु न द्वितीया श्रूयते ।
इतिपरश्चात्मशब्दः आत्मेन्येवोपासीत इति ।
अतो नात्मोपास्य आत्मगुणश्चान्य इति त्ववगम्यते ।
न;वाक्यशेष आत्मन उपास्यत्वेनावगमात् ।
अस्यैव वाक्यस्य शेषे आत्मैवोपास्यत्वेनावगम्यते - तदेतत्पदनीयमस्य सर्वस्य यदयमात्मा (बृ.उ.1 । 4 । 7) अन्तरतरं यदयमात्मा (बृ.उ.1 । 4 । 8) आत्मानमेवावेत् (1 । 4 । 10) इति ।
प्रविष्टस्य दर्शनप्रतिषेधादनुपास्यत्वमिति चेत् ।
यस्यात्मनः प्रवेश उक्तः तस्यैव दर्शनं वार्यते तं न पश्यन्ति (4 । 3 । 23) इति प्रकृतोपादानात् ।
तस्मादात्मनो ऽनुपास्यत्वमेवेत् चेत्? न, अकृत्स्नत्वदोषात् ।
दर्शनप्रतिषेधो ऽकृत्स्नत्वदोषाभिप्रायेण नात्मोपास्यत्वंप्रतिषेधाय ।
प्राणनादिक्रियाविशिष्टत्वेन विशेषणात् ।
आत्मनश्चेदुपास्यत्वमनभिपेतं प्राणनाद्येकैकक्रियाविशिष्टस्यात्मनो ऽकृत्स्नत्ववचनमनर्थकं स्यात् अकृत्स्नो ह्येषो ऽत एकैकेन भवति (1 । 4 । 7) इति अतो ऽनेकैकविशिष्टस्त्वात्मा कृत्स्नत्वादुपास्य एवेति सिद्धम् ।
यस्त्वात्मशब्दस्य इतिपरः प्रयोगः, आत्मशब्दप्रत्ययोः आत्मतत्त्वस्य परमार्थतो ऽविषयत्वज्ञानार्थम्, अन्यथा आत्मानमुपासीतेत्येवमवक्ष्यत् ।
तथा चार्थादात्मनि शब्दप्रत्ययावनुज्ञातौ स्याताम्;तच्चानिष्टम्, नेति नेति (2 । 3 । 6) विज्ञातारमरेकेन विजानीयात् (2 । 4 । 14) अविज्ञातं विज्ञातृ (3 । 8 । 12) यतो वाचो निवर्तन्ते अप्राप्य मनसा सह (तै.उ.2 । 4 । 1) इत्यादिश्रुतिभ्यः ।
यत्तु आत्मानमेव लोकमुपासीत (1 । 4 । 15) इति तदनात्मोपासनप्रसङ्गनिवृत्तिपरत्वान्न वाक्यान्तरम् ।
अनिर्ज्ञातत्वसामान्यादात्मा ज्ञातव्यो ऽनात्मा च ।
तत्र कस्मादात्मोपासने एव यत्न आस्थीयते आत्मेत्येवोपासीत इति नेतरविज्ञान इति? अत्रोच्यते - तदेतदेव प्रकृतं पदनीयं गमनीयं नान्यत् ।
अस्य सर्वस्येति निर्धारणार्था षष्ठी ।
अस्मिन्सर्वस्मिन्नित्यर्थः ।
यदयमात्मा यदेतदात्मतत्त्वम् ।
किं न विज्ञातव्यमेवान्यत्? न;किं तर्हि? ज्ञातव्यत्वे ऽपि न पृथग्ज्ञानान्तरमपेक्षत आत्मज्ञानात् ।
कस्मात्? अनेनात्मना ज्ञातेन हि यस्मादेतत्सर्वमनात्मजातम् अन्यद्यत्तत्सर्वं समस्तं वेद जानाति ।
नन्वन्यज्ञानेनान्यन्न ज्ञायत इति ।
अस्य परिहारं दुन्दुभ्यादिग्रन्थेन वक्ष्यामः ।
कथं पुनरेतत् पदनीयमित्युच्यते - यथा ह वै लोके पदेन, गवादिखुराङ्कितो देशः पदमित्युच्यते तेन पदेन, नष्टं विवित्सितं पशुं पदेनान्वेषमाणो ऽनुविन्देल्लभेत ।
एवमात्मनि लब्धे सर्वमनुलभत इत्यर्थः ।
नन्वात्मनि ज्ञाते सर्वमन्यज्ज्ञायत इति ज्ञाने प्रकृते, कथं लाभो ऽप्रकृत उच्यत इति? न;ज्ञानलाभयोरेकार्थत्वस्य विवक्षितत्वात् ।
आत्मनो ह्यलाभो ऽज्ञानमेव, तस्माज्ज्ञानमेवात्मनो लाभः, नानात्मलाभवदप्राप्तप्राप्तिलक्षण आत्मलाभः, लब्धृलब्धव्ययर्भेदाभावात् ।
यत्र ह्यात्मनो ऽनात्मा लब्धा, लब्धव्यो ऽनात्मा ।
स चाप्राप्त उत्पाद्यादिक्रियाव्यवहितः कारकविशेषोपादानेन क्रियाविशेषमुत्पाद्य लब्धव्यः ।
स त्वप्राप्तप्राप्तिलक्षणो ऽनित्यः, मिथ्याज्ञानजनितकामक्रियाप्रभवत्वात्, स्वप्ने पुत्रादिलाभवत् ।
अयं तु तद्विपरीत आत्मा ।
आत्मत्वादेव नोत्पाद्यादिक्रियाव्यवहितः ।
नित्यलब्धस्वरूपत्वे ऽपि सत्यविद्यामात्रं व्यवधानम् ।
यथा गृह्यमाणाया अपि शुक्तिकाया विपर्ययेण रजताभासाया अग्रहणं विपरीतज्ञानव्यवधानमात्रम्, तथा ग्रहणं ज्ञानमात्रमेव, विपरीतज्ञानव्यवधानापोहार्थत्वाज्ज्ञानस्य ।
एवमिहाप्यात्मनो ऽलाभो ऽविद्यामात्रव्यवधानम् ।
तस्माद्विद्यया तदपोहनमात्रमेव लाभो नान्यः कदाचिदप्युपपद्यते ।
तस्मादात्मलाभे ज्ञानादर्थान्तरसाधनस्य आनर्थक्यं वक्ष्यामः ।
तस्मान्निराशङ्कमेव ज्ञानलाभयोरेकार्थत्वं विवक्षन्नाह - ज्ञानं प्रकृत्य, अनुविन्देदिति ।
विन्दतेर्लाभार्थत्वात् ।
गुणविज्ञानफलमिदमुच्यते - यथायमात्मात्मा नामरूपानुप्रवेशेन ख्यातिं गत आत्मेत्यादिनामरूपाभ्यां प्राणादिसंहतिं च श्लोकं प्राप्तवानित्येवं यो वेद,स कीर्तिं ख्यातिं श्लोकं च सङ्घातमिष्टैः सह विन्दते लभते ।
यद्वा यथोक्तं वस्तु यो वेद मुमुक्षूणामपेक्षितं कीर्तिशब्दितमैक्यज्ञानं तत्फलं श्लोकशब्दितां मुक्तिमाप्नोतीति मुख्यमेव फलम् ॥7॥
कुतश्चात्मतत्त्वमेव ज्ञेयमनाहत्यान्यदित्याह -
स्तर्त् ब्र्हुप् 1,4.8
तद् एतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयो ऽन्यस्मात् सर्वस्माद् अन्तरतरं यद् अयम् आत्मा ।
स यो ऽन्यम् आत्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् ।
आत्मानम् एव प्रियम् उपासीत ।
स य आत्मानम् एव प्रियम् उपास्ते न हास्य प्रियं प्रमायुकं भवति
ब्र्हुप्भ्_1,4.8 तदेतदात्मतत्त्वं प्रेयः प्रियतरं पुत्रात् ।
पुत्रो हि लोके प्रियः प्रसिद्धस्तस्मादपि प्रियतरमिति निरतिशयप्रियत्वं दर्शयति ।
तथा वित्ताद्धिरण्यरत्नादेः, तथा अन्यस्याद्यल्लोके प्रियत्वेन प्रसिद्धं तस्मात्सर्वस्मादित्यर्थः ।
तत्कस्मादात्मतत्त्वमेव प्रियतरं न प्राणादि? इत्युच्यते - अन्तरतरं बाह्यात्पुत्रवित्तादेः प्राणपिण्डसमुदायो ह्यन्तरो ऽभ्यन्तरः सन्निकृष्ट आत्मनः ।
तस्मादप्यन्तरादन्तरतरं यदयमात्मा यदेतदात्मतत्त्वम् ।
यो हि लोके निरतिशयप्रियः स सर्वप्रयत्नेन लब्धव्यो भवति ।
तथायमात्मा सर्वलौकिकप्रियेभ्यः प्रियतमः ।
तस्मात्तल्लाभे महान्यत्न आस्थेन इत्यर्थः, कर्त्तव्यताप्राप्तमप्यन्यप्रियलाभे यत्नमुज्झित्वा ।
कस्मात्पुनः आत्मानात्मप्रिययोरन्यतरप्रियहानेन इतरप्रियोपादानप्राप्तौ आत्मप्रियोपादानेनैवेतरहानं क्रियते न विपर्ययः? इत्युच्यते - स यः कश्चिदन्यमनात्मममममविशेषं पुत्रादिकं प्रियतरमात्मानः साकाशाद् ब्रूवाणं ब्रूयादात्मप्रियवादी ।
किम्? प्रियं तवाभिमतं पुत्रादिलक्षणं रोत्स्यत्यावरणं प्राणसंरोधं प्राप्स्यति ।
विनङ्क्ष्यतीति ।
स कस्मादेवं ब्रवीति? यस्मादीश्वरः समर्थः पर्याप्तो ऽसावेवं वक्तुं ह यस्मात्तस्मात्तथैव स्याद्यत्तेनोक्तं प्राणसंरोधं प्राप्स्यति ।
यथाभूतवादी हि सः, तस्मात्स ईश्वरो वक्तुम् ।
ईश्वरशब्दः क्षिप्रवाचीति केचित् ।
भवेद्यदि प्रसिद्धिः स्यात् ।
तस्मादुज्झित्वान्यत्प्रियमात्मानमेव प्रियमुपासीत ।
स य आत्मानमेव प्रियमुपास्ते, आत्मैव प्रियो नान्यो ऽस्तीति प्रतिपद्यते ऽन्यल्लौकिकं प्रियमप्यप्रियमेवेति निश्चित्य उपास्ते चिन्तयति, न हास्यैवंविदः प्रियं प्रमायुकं प्रमरणशीलं भवति ।
नित्यानुवादमात्रमेतत्, आत्मविदो ऽन्यस्य प्रियस्याप्रियस्य चाभावात् ।
आत्मप्रियग्रहणस्तुत्यर्थं वा प्रियगुणफलविधानार्थं मन्दात्मदर्शिनः ।
ताच्छील्यप्रत्ययोपादानात् ॥8॥
सूत्रिता ब्रह्मविद्या आत्मेत्येवोपासीत इति यदर्थोपनिषत्कृतस्नापि ।
तस्यैतस्य सूत्रस्य व्याचिख्यासुः प्रयोजनाभिधित्सयोपोज्जिघांसति ।
स्तर्त् ब्र्हुप् 1,4.9
तद् आहुर् यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते ।
किम् उ तद् ब्रह्मावेद् यस्मात् तत् सर्वम् अभवद् इति
ब्र्हुप्भ्_1,4.9 तदिति वक्ष्यमाणमनन्तरवाक्ये ऽवद्योत्यं वस्त्वाहुः ।
ब्राह्मणा ब्रह्म विविदिषवो जन्मजरामरणप्रबन्धचक्रभ्रमणकृतायासदुःखोदकापारमहोदधिप्लवभूतं गुरुमासाद्य तत्तीरमुत्तितीर्षवो धर्माधर्मसाधनतत्फललक्षणात् साध्यसाधनरूपान्निर्विण्णाः तद्विलक्षणनित्यनिरतिशयश्रेयः प्रतिपित्सवः ।
किमाहुरित्याह - यद्ब्रह्मविद्यया ब्रह्म परमात्मा तया ब्रह्मविद्यया, सर्वं निरवशेषं भविष्यन्तो भविष्याम इत्येवं मनुष्या यन्मन्यन्ते ।
मनुष्यग्रहणं विशेषतो ऽधिकारज्ञापनार्थम् ।
मनुष्या एव हि विशेषतो ऽभ्युदयनिःश्रेयससाधने ऽधिकृता इत्यभिप्रायः ।
यथा कर्मविषये फलप्राप्तिं ध्रुवां कर्मभ्यो मन्यन्ते, तथा ब्रह्मविद्याया सर्वात्मभावफलप्राप्तिं ध्रुवामेव मन्यन्ते ।
वेदप्रामाण्यस्योभयत्राविशेषात् ।
तत्र विप्रतिषिद्धं वस्तु लक्ष्यते ऽतः पृच्छामः - किमु तद्ब्रह्म यस्य विज्ञानात्सर्वं भविष्यन्तो मनुष्या मन्यन्ते? तत्किमवेद्यस्माद्विज्ञानात्तद्ब्रह्म सर्वमभवत्? ब्रह्म च सर्वमिति श्रूयते ।
तद्यद्यविज्ञाय किञ्चित्सर्वमभवत्तथान्येषामप्यस्तु, किं ब्रह्मविद्यया? अथ विज्ञाय सर्वमभवत्, विज्ञानसाध्यत्वात्कर्मफलेन तुल्यमेवेत्यनित्यत्वप्रसङ्गः सर्वभावस्य ब्रह्मविद्याफलस्य ।
अनवस्थादोषश्चतदप्यन्यद्विज्ञाय सरेवमभवत्ततः पूर्वमप्यन्यद्विज्ञायेति ।
न तावदविज्ञाय सर्वमभवत्, शास्त्रार्थवैरूप्यदोषात् ।
फलानित्यत्वदोषस्तर्हि? नैको ऽपि दोषोर्ऽथविशेषोपपत्तेः ॥9॥
यदि किमपि विज्ञायैव तद्ब्रह्म सर्वमभवत्पृच्छामः - किमु तद्ब्रह्मावेत्? यस्मात्तत्सर्वमभवदिति ।
एवं चोदिते सर्वदोषानागन्धितं प्रतिवचनमाह-
स्तर्त् ब्र्हुप् 1,4.10
ब्रह्म वा इदम् अग्र आसीत् ।
तद् आत्मानम् एवावेत् ।
अहं ब्रह्मास्मीति ।
तस्मात् तत् सर्वम् अभवत् ।
तद् यो यो देवानां प्रत्यबुध्यत स एव तद् अभवत् ।
तथर्षीनाम् ।
तथा मनुष्याणाम् ।
तद् धैतत् पश्यन्न् ऋषिर् वामदेवः प्रतिपेदे ऽहं मनुर् अभवं सूर्यश् चेति ।
तद् इदम् अप्य् एतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति ।
तस्य ह न देवाश् चनाभूत्या ईशते ।
आत्मा ह्य् एषां स भवति ।
अथ यो ऽन्यां देवताम् उपास्ते ऽन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद ।
यथा पशुर् एवं स देवानाम् ।
यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युर् एवम् एकैकः पुरुषो देवान् भुनक्ति ।
एकस्मिन्न् एव पशाव् आदीयमाने ऽप्रियं भवति किम् उ बहुषु ।
तस्माद् एषां तन् न प्रियं यद् एतन् मनुष्या विद्युः
ब्र्हुप्भ्_1,4.10 ब्रह्मापरम्, सर्वभावस्य साध्यत्वोपपत्तेः ।
न हि परस्य ब्रह्मणः सर्वभावापत्तिर्विज्ञानसाध्या ।
विज्ञानसाध्यां च सर्वभावापत्तिर्विज्ञानसाध्या ।
विज्ञानसाध्यां च सर्वभावापत्तिमाह -ऽतस्मात्तत्सर्वमभवत्ऽइति ।
तदस्माद्ब्रह्म वा इदमग्र आसीदित्यपरं ब्रह्मेह भवितुमर्हति ।
मनुष्याधिकाराद्वा तद्भावी ब्राह्मणः स्यात् ।
ऽसर्वं भविष्यन्तो मनुष्या मन्यन्तेऽइति हि मनुष्याः प्रकृताः, तेषां चाभ्युदयनिःश्रेयससाधने विशेषतो ऽधिकार इत्युक्तम्, न परस्य ब्रह्मणो नाप्यपरस्य प्रजापतेः ।
अतो द्वैतैकत्वापरब्रह्मविद्यया कर्मसहितया अपरब्रह्मभावमुपसम्पन्नो भोज्यादपावृत्तः सर्वप्राप्त्योच्छिन्नकामकर्मबन्धनः परब्रह्मभावी ब्रह्मविद्याहेतोर्ब्रह्मेत्यभिधीयते ।
दृष्टश्च लोके भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगः - यथाऽओदनं पचतिऽइति, शास्त्रे च -ऽपरिव्राजकः सर्वभूताभयदक्षिणाम्ऽइत्यादि, तथेहेति केचित् - ब्रह्म ब्रह्मभावी पुरुषो ब्राह्मणः - इति व्याचक्षते ।
तन्न, सर्वभावापत्तेरनित्यत्वदोषात् ।
न हि सो ऽस्ति लोके परमार्थतो यो निमित्तवशाद्भावान्तरमापद्यते नित्यश्चेति ।
तथा ब्रह्मविज्ञाननिमित्तकृता चेत्सर्वभावापत्तिः, नित्या चेति विरुद्धम् ।
अनित्यत्वे च कर्मफलतुल्यतेत्युक्तो दोषः ।
अविद्याकृतासर्वत्वनिवृत्तिं चेत्सर्वभावापत्तिं ब्रह्मविद्याफलं मन्यसे, ब्रह्मभाविपुरुषकल्पना व्यर्था स्यात्;प्राग्ब्रह्मविज्ञानादपि सर्वो जन्तुब्रह्मत्वान्नित्यमेव सर्वभावापन्नः परमार्थतः, अविद्यया त्वब्रह्मत्वमसर्वत्वं चाध्यारोपितम् यथा शुक्तिकायां रजतम्, व्योम्नि वा तलमलवत्त्वादि, तथेह ब्रह्मण्यध्योरोपितमविद्यया अब्रह्मत्वमसर्वत्वं च ब्रह्मविद्यया निवर्त्यत इति मन्यसे यदि, तदा युक्तम् यत्परमार्थत आसीत्परं ब्रह्म, ब्रह्मशब्दस्य मुख्यार्थभूतम्ऽब्रह्म वा इदमग्र आसीत्ऽइत्यस्मिन्वाक्ये उच्यते इति वक्तुम्;यथाभूतार्थवादित्वाद्वेदस्य ।
न त्वियं कल्पना युक्ता, ब्रह्मशब्दार्थविपरीतो ब्रह्मभावी पुरुषो ब्रह्मेत्युच्यत इति श्रुतहान्यश्रुतकल्पनाया अन्याय्यत्वान्महत्तरे प्रयोजनान्तरे ऽसति ।
अविद्याकृतव्यतिरेकेणाब्रह्मत्वमसर्वत्वं च विद्यत एवेति चेन्न, तस्य ब्रह्मविद्ययापोहानुपपत्तेः ।
न हि क्वचित्साक्षाद्वस्तुधर्मस्यापोढ्री दृष्टा कर्त्री वा ब्रह्मविद्या ।
अविद्यायास्तु सर्वत्रैव निवर्तिका दृश्यते ।
तथेहाप्यब्रह्मत्वमसर्वत्वं चाविद्याकृतमेव निवर्त्यतां ब्रह्मविद्यया ।
न तु पारमार्थिकं वस्तु कर्तुं निवर्तयितुं वार्हति ब्रह्मविद्या ।
तस्माद्व्यर्थैव श्रुतहान्यश्रुतकल्पना ।
ब्रह्मण्यविद्यानुपपत्तिरिति चेत्? न, ब्रह्मणि विद्याविधानात् ।
न हि शुक्तिकायां रजताध्यारोपणे ऽसति शुक्तिकात्वं ज्ञाप्यते चक्षुर्गोचरापन्नायाम् - इयं शुक्तिका न रजतम्, इति ।
तथा"सदेवेदं सर्वम्" "ब्रह्मैवेदं सर्वम्" "आत्मैवेदं सर्वम्" "नेदं द्वैतमस्त्यब्रह्म"इति ब्रह्मण्येकत्वविज्ञानं न विधातव्यं ब्रह्मण्यविद्याध्यारोपणायामसत्याम् ।
न ब्रूमः - शुक्तिकायामिव ब्रह्मण्यतद्धर्माध्यारोपणा नास्तीति, किं तर्हि? न ब्रह्म स्वात्मन्यतद्धर्माध्यारोपनिमित्तम्, अविद्याकर्तृ चेति ।
भवत्वेवं नाविद्याकर्तृ भ्रान्तं च ब्रह्म ।
किंन्तु नैवाब्रह्माविद्याकर्ता चेतनो भ्रान्तो ऽन्य इष्यते ।
"नान्यो ऽतो ऽस्ति विज्ञाता" (बृ.उ.3 । 7 । 23) "नान्यदतो ऽस्ति विज्ञातृ"(3 । 8 । 11) "तत्त्वमसि"(छा.उ.6 । 8 -13)"आत्मानमेवावेत् ।
अहं ब्रह्मास्मि"(बृ.उ.1 । 4 । 10) "अन्यो ऽसावन्यो ऽहमस्मीति न स वेद"(1 । 4 । 10) इत्यादिश्रुतिभ्यः ।
स्मृतिभ्यश्च -"समं सर्वेषु भूतेषु"(गीता 13 । 27) "अहमात्मागुडाकेश"(गीता 10 । 20) "शुनि चैव श्वपाके च"(गीता 5 । 18) "यस्तु सर्वाणि भूतानि"इत्यादिभ्यः ।
"यस्मिन्सर्वाणि भूतानि" (ईशा.उ.7) इति च मन्त्रवर्णात् ।
नन्वेवं शास्त्रोपदेशानर्थक्यमिति ।
बाढमेवम् अवगते ऽस्त्वेवानर्थक्यम् ।
अवगमनर्थक्यमिति चेत्? न, अनवगमनिवृत्तेर्दृष्टत्वात् ।
तन्निवृत्तेरप्यनुपपत्तिरेकत्व इति चेत्? न दृष्टविरोधात् ।
दृश्यते ह्येकत्वविज्ञानादेवानवगमनिवृत्तिः, दृश्यमानमप्यनुपपन्नमिति ब्रुवतो दृष्टविरोधः स्यात्;न च दृष्टविरोधः केनचिदप्यभ्युपगम्यते ।
न च दृष्टे ऽनुपपन्नं नाम, दृष्टत्वादेव ।
दर्शनानुपपत्तिरिति चेत्तत्राप्येषैव युक्तिः ।
"पुण्यं वै पुण्येन कर्मणा भवति"(बृ.उ.3 । 2 । 13) "तं विद्याकर्मणी समन्वारभेते" (4 । 4 । 2) इत्येवमादिश्रुतिस्मृतिन्यायेभ्यः परस्माद्विलक्षणो ऽन्यः संसार्यवगम्यते ।
तद्विलक्षणश्च परः"स एष नेति नेति"(बृ.उ.3 । 9 । 23) "अशनायाद्यत्येति" "य आत्मापहतपाप्मा विजरो विमृत्युः"(छा.उ.8 । 7 । 1) "एतस्य वा अक्षरस्य प्रशासने"(बृ.उ.3 । 8 । 9) इत्यादिश्रुतिभ्यः ।
कणादाक्षपादादितर्कशास्त्रेषु च संसारविलक्षण ईश्वर उपपत्तितः साध्यते ।
संसारदुःखापनयार्थित्वप्रवृत्तिदर्शनात्स्फुटमन्यत्वमीश्वरात्संसारिणो ऽवगम्यते ।
"अवाक्यनादरः"(छा.उ.3 । 14 । 2) "न मे पार्थास्ति" (गीता3 । 22) इति श्रुतिभ्यः ।
"सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः"(छा.उ.8 । 7 । 1) "तं विदित्वा न लिप्यते"(बृ.उ.4 । 4 । 23) "ब्रह्मविदाप्नोति परम्"(तै.उ.2 । 1 । 1) "एकधैवानुद्रष्टव्यमेतत्"(बृ.उ.4 । 4 । 20) "यो वा एतदक्षरं गार्ग्यविदित्वा"(3 । 8 । 10) "तमेव धीरो विज्ञाय"(4 । 4 । 21) "प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते" (मु.उ.2 । 2 । 4) इत्यादिकर्मकर्तृनिर्देशाच्च ।
मुमुक्षोश्च गतिमार्गविशेषदेशोपदेशात् ।
असति भेदे कस्य कुतो गतिः स्यात्? तदभावे च दक्षिणोत्तरमार्गविशेषानुपपत्तिः, गन्तव्यदेशानुपपत्तिश्चेति ।
भिन्नस्य तु परस्मादात्मनः सर्वमेतदुपपन्नम् ।
कर्मज्ञानसाधनोपदेशाच्च - भिन्नश्चेद्ब्रह्मणः संसारी स्यात्, युक्तस्तं प्रत्यभ्युदयनिःश्रेयसाधनयोः कर्मज्ञानयोरुपदेशो नेश्वरस्याप्तकामत्वात् ।
तस्माद्युक्तं ब्रह्मेति ब्रह्मभावी पुरुष उच्यत इति चेत्? न, ब्रह्मोपदेशानर्थक्यप्रसङ्गात् ।
संसारी चेद् - ब्रह्मभाव्यब्रह्म सन् विदित्वात्मानमेवाहं ब्रह्मास्मीति सर्वमभवत्तस्य संसार्यात्मविज्ञानादेव सर्वात्मभावस्य फलस्य सिद्धत्वात्परब्रह्मोपदेशस्य ध्रुवमानर्थक्यं प्राप्तम् ।
तद्विज्ञानस्य क्वचित्पुरुषार्थसाधने ऽविनियागात्संसारिण एवाहं ब्रह्मास्मीति ब्रह्मत्वसम्पादनार्थ उपदेश इति चेत् ।
अनिर्ज्ञाते हि ब्रह्मस्वरूपे किं सम्पादयेदहं ब्रह्मास्मीति ।
निर्ज्ञातलक्षणे हि ब्रह्मणि शक्या सम्पत्कर्तुम् ।
न; "अयमात्मा ब्रह्म"(बृ.उ.2 । 5 । 19) चत्साक्षादपरोक्षाद्ब्रह्म (3 । 4 । 1) य आत्मा (छा.उ.8 । 7 । 1) तत्सत्यं स आत्मा (छा.उ.6 । 8 । 7) ब्रह्मविदाप्नोति परम् (तै.उ.2 । 1 । 1 । ) इति प्रकृत्य तस्माद्वा एतस्मादात्मनः (2 । 1 । 1) इति सहस्रशो ब्रह्मात्मशब्दयोः सामानाधिकरण्यादेकार्थत्वमेवेत्यवगम्यते ।
अन्यस्य ह्यन्यत्वे सम्पत्क्रियते नैकत्वे ।
इदं सर्वं यदयमात्मा (बृ.उ.2 । 4 । 6) इति च प्रकृतस्यैव द्रष्टव्यस्यात्मन एकत्वं दर्शयति ।
तस्मान्नात्मनो ब्रह्मत्वसम्पदुपपत्तिः ।
न चाप्यन्यत्प्रयोजनं ब्रह्मोपदेशस्य गम्यते, ब्रह्म वेद ब्रह्मैव भवति (मु.उ.3 । 2 । 9) अभयं वै जनक प्राप्तो ऽसि (बृ.उ.4 । 2 । 4) अभयं हि वै ब्रह्म भवति (4 । 4 । 25) इति च तदापत्तिश्रवणात् ।
सम्पत्तिश्चेत्तदापत्तिर्न स्यात् ।
न ह्यन्यस्याम्यभाव उपपद्यते ।
वचनात् सम्पत्तेरपि तद्भावापत्तिः स्यादिति चेत्? न, सम्पत्तेः प्रत्ययमात्रत्वात् ।
विज्ञानस्य च मिथ्याज्ञाननिवर्तकत्वव्यतिरेकेणाकारकत्वमित्यवोचाम ।
न च वचनं वस्तुनः सामर्थ्यजनकम् ।
ज्ञापकं हि शास्त्रं न कारकमिति स्थितिः ।
स एष इह प्रविष्टः (बृ.उ.1 । 4 । 7) इत्यादिवाक्येषु च परस्यैव प्रवेश इति स्थितम् ।
तस्माद्ब्रह्मेति न ब्रह्मभाविपुरुषकल्पना साध्वी ।
इष्टार्थबाधनाच्च ।
सैन्धवधनवदनन्तरमबाह्यमेकरसं ब्रह्मेति विज्ञानं सर्वस्यामुपनिषदि प्रतिपिपादयिषितोर्ऽथः ।
काण्डद्वये ऽप्यन्ते ऽवधारणादवगम्यते इत्यनुशासनम् एतावदरे खल्वमृतत्वम् इति. तथा सर्वशाखोपनिषत्सु च ब्रह्मैकत्वविज्ञानं निश्चितोर्ऽथः ।
तत्र यदि संसारी ब्रह्मणो ऽन्य आत्मानमेवावेदिति कल्प्येत, इष्टस्यार्थस्य नाधनं स्यात् ।
तथा च शास्त्रमुपक्रमोपसंहारयोर्विरोधादसमञ्जसं कल्पितं स्यात् ।
व्यपदेशानुपपत्तेश्च ।
यदि च आत्मानमेवावेत् इति संसारी कल्प्येत, ब्रह्मविद्या इति व्यपदेशो न स्यात् ।
आत्मानमेवावेदिति संसारिण एव वेद्यत्वोपपत्तेः ।
आत्मेति वेदितुरन्यदुच्यत इति चेन्न, अहं ब्रह्मास्मीति विशेषणात् ।
अन्यश्चेद्वेद्यः स्यादयमसाविति वा विशेष्येत न त्वहमस्मीति ।
अहमस्मीति विशेषणादात्मानमेवावेदिति चावधारणान्निश्चितमात्मैव ब्रह्मेत्यवगम्यते ।
तथा च सत्युपपन्नो ब्रह्मविद्याव्यपदेशो नान्यथा ।
संसारिविद्या ह्यन्यथा स्यात् ।
न च ब्रह्मत्वाब्रह्मत्वे ह्येकस्योपपन्ने परमार्थतः, तमःप्रकाशाविव भानोर्विरुद्धत्वात् ।
न चोभयनिमित्तत्वे ब्रह्मविद्येति निश्चितो व्यपदेशो युक्तं तत्त्वज्ञानविवक्षायाम्, श्रोतुः संशयो हि तथा स्यात् ।
निश्चितं च ज्ञानं पुरुषार्थसाधनमिष्यते"यस्य स्याद्द्धा न विचिकित्सास्ति" (छा.उ.3 । 14 । 4) "संशयात्मा विनश्यति"(गीता 4 । 40) इति श्रुतिस्मृतिभ्याम् ।
अतो न संशयितो वाक्यार्थो वाच्यः परहितार्थिना ।
ब्रह्मणि साधकत्वकल्पना अस्मदादिष्विव अपेशलाऽतदात्मानमेवावेत्तस्मात्तत्सर्वमभवत्ऽइति - इति चेत्? न, शास्त्रोपालम्भात् ।
न ह्यस्मात्कल्पनेयम्, शास्त्रकृता तु;तस्माच्छास्त्रस्यायमुपालम्भः ।
न च ब्रह्मण इष्टं चिकीर्षुणा शास्त्राथविपरीतकल्पना स्वार्थपरित्यागः कार्यः ।
न चैतावत्येवाक्षमा युक्ता भवतः ।
सर्वं हि नानात्वं ब्रह्मणि कल्पितमेव"एकधैवानुद्रष्टव्यम्"(बृ.उ.4 । 4 । 20) "नेह नानास्ति किञ्चन" (4 । 4 । 19) "यत्र हि द्वैतमिव भवति" (2 । 4 । 14) "एकमेवाद्वितीयम्"(छा.उ.6 । 2 । 1) इत्यादिवाक्यशतेभ्यः ।
सर्वो हि लोकव्यवहारो ब्रह्मण्येव कल्पितो न परमार्थः सन्, इत्यत्यल्पमिदमुच्यतेऽइयमेव कल्पना अपेशलाऽइति ।
तस्माद् यत्प्रविष्टं स्रष्ट्रृ ब्रह्म तद्ब्रह्म ।
वैशब्दो ऽवधारणार्थः ।
इदं शरीरस्थं यद् गृह्यते, अग्रे प्राक्प्रतिबोधादपि ब्रह्मैवासीत्, सर्वं चेदम् ।
किन्त्वप्रतिबोधात् अब्रह्मास्म्यसर्वं च इत्यात्मन्यध्यारोपात्ऽकर्ताहे क्रियावान्फलानां च भोक्ता सुखी दुःखो संसारीऽइति चाध्यारोपयति ।
परमार्थतस्तु ब्रह्मैव तद्विलक्षणं सर्वं च ।
तत्कथञ्चिदाचार्येण दयालुना प्रतिबोधितम्ऽनासि संसारीऽइत्यात्मानमेवावेत्स्वाभाविकम् ।
अविद्याध्यारोपितविशेषवर्जितमिति एव शब्दस्यार्थः ।
ब्रूहि को ऽसावात्मा स्वाभाविकः, यमात्मानं विदितवद्ब्रह्म ।
ननु न स्मरस्यात्मानम्, दर्शितो ह्यसौ, य इह प्रविश्य प्राणित्यपानिति व्यानित्युदानिति समानितीति ।
ननुऽअसौ गौः, असावश्वःऽइत्येवमसौ व्यपदिश्यते भवता नात्मानं प्रत्यक्षं दर्शयसि ।
एवं तर्हि द्रष्टा श्रोता मन्ता विज्ञाता, स आत्मेति ।
नन्वत्रापि दर्शनादिक्रियाकर्तुः स्वरूपं न प्रत्यक्षं दर्शयसि ।
न हि गमिरेव गन्तुः स्वरूपं छिदिर्वा छेत्तुः ।
एवं तर्हि दृष्टेर्द्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता, स आत्मेति ।
नन्वत्र को विशेषो द्रष्टरि? यदि दृष्टर्द्रष्टा. यदि वा घटस्य द्रष्टा, सर्वथापि द्रष्टैव ।
द्रष्टव्य एव तु भवान्विशेषमाह दृष्टेर्द्रष्टेति द्रष्टा तु यदि दृष्टेः, यदि वा घटस्य, द्रष्टा द्रष्टैव ।
न, विशेषोपपत्तेः ।
अस्त्यत्र विशेषः दृष्टेर्द्रष्टा स दृष्टिम्, न कदाचिदपि दृष्टिर्न दृश्यते द्रष्टा;तत्र द्रष्टुर्दृष्ट्या नित्यया भवितव्यम्, अनित्या चेद् द्रष्टुर्दृष्टिः, तत्र दृश्या या दृष्टिः सा कदाचिन्न दृश्येतापि, यथानित्यया दृष्ट्या घटादि वस्तु ।
न च तद्वद् दृष्टेर्द्रष्टा कदाचिदपि न पश्यति दृष्टिम् ।
किं द्वे दृष्टी द्रष्टुः - नित्या अदृश्या, अन्या अनित्या दृश्येति? बाढम्;प्रसिद्धा तावदनित्या दृष्टिः, अन्धानन्धत्वदर्शनात् ।
नित्यैव चेत्सर्वो ऽनन्ध एव स्यात् ।
द्रष्टस्तु नित्या दृष्टिः"न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते" -इति श्रुतेः ।
अनुमानाच्च - अन्धस्यापि घटाद्याभासविषया स्वप्ने दृष्टिरुपलभ्यते, सा तर्हीतरदृष्टिनाशे न पश्यति, सा द्रष्टुर्दृष्टिः ।
तयाविपरिलुप्तया नित्यया दृष्ट्या स्वरूपभूतया स्वयञ्ज्योतिःसमाख्यथेतामनित्यां दृष्टिं स्वप्नवुद्धान्तयोर्वासनाप्रत्ययरूपां नित्यमेव पश्यन्दृष्टेर्द्रष्टा भवति ।
एवश्च सति दृष्टिरेव स्वरूपमस्याग्न्यौष्ण्यवत्, न काणादानामिव दृष्टिव्यतिरिक्तो ऽन्यश्चेतनो द्रष्टा ।
तद्ब्रह्म आत्मानमेव नित्यदृग्रूपमध्यारोपितानित्यदृष्ट्यादिवर्जितमेवावेद्विदितवत् ।
ननु विप्रतिषिद्धं"न विज्ञातेविज्ञातारं विजानीयाः"(बृ.उ.3 । 4 । 2) इति श्रुतेः, विज्ञातुर्विज्ञानम् ।
न, एवं विज्ञानान्न विप्रतिषेधः ।
एवं दृष्टेर्द्रष्टेति विज्ञायत एव ।
अन्यज्ञानानपेक्षत्वाच्च - न च द्रष्टुर्नित्यैव दृष्टिरित्येवं विज्ञाते द्रष्ट्रिविषयां दृष्टिमन्यामाकाङ्क्षते ।
निवर्तते हि द्रष्टुविषयदृष्ट्याकाङ्क्षा तदसम्भवादेव ।
न ह्यविद्यमाने विषय आकाङ्क्षा कस्यचिदुपजायते ।
न च दृश्या दृष्टिर्द्रष्टारं विषयीकर्तुमुत्सहते, यतस्तामाकाङ्क्षेत ।
न च स्वरूपविषयाखाङ्क्षास्वस्यैव ।
तस्मादज्ञानाध्यारोपणनिवृत्तिरेवऽअत्मानमेवावेत् इत्युक्तम्,नात्मनो विषयीकरणम्ऽ ।
तत्कथमवेत्? इत्याह - अहं दृष्टेर्द्रष्टा आत्मा ब्रह्मास्मि भवामीति ब्रह्मेति - यत्साक्षादपरोक्षात्सर्वान्तर आत्मा अशनायाद्यतीतो नेति नेत्यस्थूलमनण्वित्येवमादि लक्षणम्, तदेवाहमस्मि, नान्यः संसारी, यथा भवानाहेति ।
तस्मादेवं विज्ञानात्तद्ब्रह्म सर्वमभवत् ।
तस्माद्युक्तमेव मनुष्या मन्यन्ते यद्ब्रह्मविद्यया सर्वं भविष्याम इति ।
यत्पृष्टम्,ऽकिमु तद्ब्रह्मावेद् यस्मात्तत्सर्वमभवत्ऽइति, तन्निर्णीतम् -ऽब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्ऽइति ।
तत्तत्र यो यो देवानां मध्ये प्रत्यबुध्यत प्रतिबुद्ध्वानात्मानं यथोक्तेन आत्मा तद्ब्रह्माभवत् ।
तथर्पीणां तथा मनुष्याणां च मध्ये ।
देवानामित्यादि लोकदृष्ट्यपेक्षया न ब्रह्मत्वबुद्ध्योच्यते ।
ऽपुरः पुरुष आविशत्ऽइति सर्वत्र ब्रह्मैवानुप्रविष्टमित्याद्युच्यते ।
परमार्थतस्तु तत्र तत्र ब्रह्मैवाग्र आसीत्प्राक्प्रतिबोधाद् देवादिशरीरेश्वन्यथैव विभाव्यमानम् ।
तदात्मानमेवावेत्तथैव च सर्वमभवत् ।
अस्या ब्रह्मविद्यायाः सर्वभावापत्तिः फलमित्येतस्यार्थस्य द्रढिम्ने मन्त्रानुदाहरति श्रुतिः ।
कथम्? तद् ब्रह्म एतदात्मानमेवऽअहमस्मिऽइति पश्यन्नेतस्मादेव ब्रह्मणो दर्शनादृष्टिर्वामदेवाख्यः प्रतिपेदे ह प्रतिपन्नवान्किल ।
स एतस्मिन्मन्त्रान्ददर्श -ऽअहं मनुरभवं सूर्यश्चऽइत्यादीन् ।
तदेतद्ब्रह्म पश्यन् इति ब्रह्मविद्या परामृश्यते ।
ऽअहं मनुरभवं सुर्यश्चऽइत्यादिना सर्वभावापत्तिं ब्रह्मविद्याफलं परामृशति ।
पश्यन्सर्वात्मभावं फलं प्रतिपेद इत्यस्मात्प्रयोगाद् ब्रह्मविद्यासहायसाधनसाध्यं मोक्षं दर्शयति;भुञ्जानस्तृप्यतीति यद्वत् ।
सेयं ब्रह्मविद्यया सर्वभावापत्तिरासीन्महतां देवादीनां वीर्यातिशयात् ।
नेदानीमैदंयुगीनानां विशेषतो मनुष्याणाम्, अल्पवीर्यत्वादिति स्यात्कस्यचिद्बुद्धिः, तदुत्थापनायाह- तदिदं प्रकृतं ब्रह्म यत्सर्वभूतानुप्रविष्टं दृष्टिक्रियादिलिङ्गम्, एतर्ह्येतस्मिन्नपि वर्तमानकाले यः कश्चिद्व्यावृत्तबाह्यौत्सुक्य आत्मानमेवैवं वेदऽअहं ब्रह्मास्मिऽइति अपोह्योपाधिजनितभ्रान्तिविज्ञानाध्यारोपितान्विशेषान् संसारधर्मानागन्धितमनन्तरमबाह्यं ब्रह्येवाहमस्मि केवलमिति-सो ऽविद्याकृतासर्वत्वनिवृत्तेर्ब्रहाविझानादिदं सर्व भवति ।
न हि महावीर्येषु वामढेवादिषु हीनवीर्येषु वा वार्तमानिकेषु मनुष्येषुब्रह्यणो विशेषस्तद्विझानस्य वास्ति ।
वार्तमानिकेषु पुरुषेषु तु बह्यविद्याफले अनैकान्तिकता शड्क्यत इत्यत आह-तस्य ह ब्रह्यविझातुर्यथोत्केन विधिना देवा महावीर्याश्च नापि अभूतत्य.अभवनाय ब्रह्यासर्वमावस्य, नेशते न पर्याप्ताः, किमुतान्ये ।
ब्रह्याविद्याफलप्राप्यौ विध्नकरणे देवादय ईशत इति का शड्का? इत्युच्यते-देवादीन्प्रति ऋणवत्त्वान्मर्त्यानाम् ।
"ब्रह्यचर्येण ऋपिभ्यो यझेन देवभ्यः प्रजया पितृभ्यः"इति हि जायमानमेवर्णवन्तं पुरुषं दर्शयति श्रुतिः ।
पशुनिदर्शनाच्च"अथो ऽयं वा"(बृ.उ. 1 । 4 । 16) इत्याद्लोकश्रुतेश्चात्मनो वृत्तिपरिपिपालयिषयाधमर्णानिवं देवाः परतन्त्रान्मनुष्यान्प्रत्यमृतत्वप्राप्तिं प्रति विध्नं कुर्युरिति न्याय्यैवैषा शड्का ।
स्वपशून्स्वशरीराणीव च रक्षन्ति देवाः ।
महत्तरां हि वृत्तिं कर्माधीनां दर्शय्ष्यति देवादीनां बहुपशुसमतयैकैकस्य पुरुषस्य ।
"तस्मान्देपां तन्न प्रियं यदेतन्मनुध्या विद्याः"(1 । 4 । 10) इति हहि वक्ष्यति ।
"यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति"(1 । 4 । 16) इति च ।
ब्रह्याविश्वे पारार्थ्यनिवृत्तेर्न स्वलोकत्वं पशुत्वञ्चेत्यमिप्रायो ऽप्रियारिष्टिवचनाभ्यामवगम्यते ।
तस्माद्ब्रह्याविदो ब्रह्यविद्याफलर्प्राप्त प्रति कुर्युरेव विध्नं देवाः, प्रभाववन्तश्च हि ते ।
नन्वेवं सत्यन्यास्वपि कर्मफलप्राप्तिपुदेवानां विध्नकरणंपेयपानसमम् ।
हन्त तर्ह्याविस्रम्भो ऽभ्युदयनिःश्रेयससाधना. नुष्ठानेषु ।
तथेश्वरस्याचिन्तय. शक्तित्वाद्विध्नकरणे प्रभुत्वम् ।
तथा कालकर्ममन्त्रौषधितपसाम् ।
एषां हि फलसम्पत्तिविपत्तिहेतुत्वं शास्त्रे लोके च प्रसिद्वम् ।
अतो ऽप्यनाश्वासः शास्त्रार्थानुष्ठाने ।
न;सर्वपदार्थानां नियतनिमित्तोपादानात्, जगद्वैचित्र्यदर्शनाच्च ।
स्वभावपक्षे च तदुभयानुपपत्तेः ।
ऽसुखदुःखादि फलनिमित्तं कर्मऽइत्येतस्मिन्पक्षे स्थिते वेदस्मृतिन्यायलोकपरिगृहीते, देवेश्वरकालास्तावन्न कर्मफलविपर्यासकर्तारः, कर्मणां काङ्क्षितकारकत्वात् ।
कर्म हि शुभाशुभं पुरुषाणां देवकालेश्वरादिकारकमनपेक्ष्य नात्मानं प्रति लभते, लब्धात्मकमपि फलदाने ऽसमर्थम्, क्रियाया हि कारकाद्यनेकनिमित्तोपादानस्वाभाव्यात् ।
तस्मात्क्रियानुगुणा हि देवेश्वरादय इति कर्मसु तावन्न फलप्राप्तिं प्रत्यविस्रम्भः ।
कर्मणामप्येषां वशानिगत्वं क्वचित्, स्वसामर्थ्यस्याप्रणोद्यत्वात् ।
कर्मकालदैवद्रव्यादिस्वभावानां गुणप्रधानभावस्त्वनियतो दुर्विज्ञेयश्चेति तत्कृतो मोहो लोकस्य - कर्मैव कारकं नान्यत्फलप्राप्ताविति केचितं;दैवमेवेत्यपरे;काल इत्येके;द्रव्यादिस्वभाव इति केचित्;सर्व एते संहता एवेत्यपरे ।
तत्र कर्मणः प्राधान्यमङ्गीकृत्य वेदस्मृतिवादाः -"पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन"(बृ.उ.3 । 2 । 13) इत्यादयः ।
यद्यप्येषां स्वविषये कस्यचित्प्राधान्योद्भव इतरेषां तत्कालीनप्राधान्यशक्तिस्तम्भः, तथापि न कर्मणः फलप्राप्तिं प्रत्यनैकान्तिकत्वम्, शास्त्रन्यायनिर्धारितत्वात्कर्मप्राधान्यस्य ।
न;अविद्यापगममात्रत्वाद् ब्रह्मप्राप्तिफलस्य - यदुक्तं ब्रह्मप्राप्तिफलं प्रति देवा विघ्नं कुर्युरिति, तत्र न देवानां विघ्नकरणे सामर्थ्यम्;कस्मात्? विद्याकालानन्तरितत्वाद् ब्रह्मप्राप्तिफलस्य ।
कथम्? यथा लोके द्रष्टुश्चक्षुष आलोकेन संयोगो यत्कालः, तत्काल एव रूपाभिव्यक्तिः ।
एवमात्मविषयं विज्ञानं यत्कालम्, तत्काल एव तद्विषयज्ञानतिरोभावः स्यात् ।
अतो ब्रह्मविद्यायां सत्यामविद्याकार्यानुपपत्तेः प्रदीप इव तमःकार्यस्य, केन कस्य विघ्नं कुर्युर्देवाः - यत्रात्मत्वमेव देवानां ब्रह्मविदः ।
तदेतदाह - आत्मा स्वरूपं ध्येयं यत्तत्सर्वशास्त्रैर्विज्ञेयं ब्रह्म, हि यस्मात्, एषां देवानाम्, सब्रह्मविद्भवति ।
ब्रह्मविद्यासमकालमेवाविद्यामात्रव्यवधानापगमाच्छुक्तिकाया इव रजताभासायाः शुक्तिकात्वमित्यवोचाम ।
अतो नात्मनः प्रतिकूलत्वे देवानां प्रयत्नः सम्भवति ।
यस्य ह्यनात्मभूतं फलं देशकालनिमित्तान्तरितम्, तत्रानात्मविषये सफलः प्रयत्नो विघ्नाचरणाय देवानाम् ।
न त्विह विद्यासमकाल आत्मभूते देशकालनिमित्तानन्तरिते, अवसरानुपपत्तेः ।
एवं तर्हि विद्याप्रत्ययसन्तत्यभावाद् विपरीतप्रत्ययतत्कार्ययोश्च दर्शनाद् अन्त्य एवात्मप्रत्ययो ऽविद्यानिवर्तको न तु पूर्व इति ।
न;प्रथमेनानैकान्तिकत्वात् ।
यदि हि प्रथम आत्मविषयः प्रत्ययो ऽविद्यां न निवर्तयति, तथान्त्यो ऽपि, तुल्यविषयत्वात् ।
एवं तर्हि सन्ततो ऽविद्यानिवर्तको न विच्छिन्न इति ।
न, जीवनादौ सति सन्तत्यनुपपत्तेः ।
न हि जीवनादिहेतुके प्रत्यये सति विद्याप्रत्ययसन्ततिरुपपद्यते, विरोधात् ।
अथ जीवनादिप्रत्ययतिरस्करणेनैव आमरणान्ताद्विद्यासन्ततिरिति चेन्न, प्रत्ययेयत्तासमन्तानानवधारणाच्छास्त्रार्थानवधारणदोषात् ।
इयतां प्रत्ययानां सन्ततिरविद्याया निवर्तिकेत्यनवधारणाच्छास्त्रार्थो नावध्रियेत, तच्चानिष्टम् ।
सन्ततिमात्रत्वे ऽवधारित एवेति चेत्? न, आद्यन्तयोरविशेषात् ।
प्रथमा विद्याप्रत्ययसन्ततिर्मरणकालान्ता वेति विशेषाभावात्, आद्यन्तयोः प्रत्ययोः पूर्वोक्तौ दोषौ प्रसज्येयाताम् ।
एवं तर्ह्यनिवर्तक एवेति चेत्? न,"तस्मात्तत्सर्वमभवत्"(बृ.उ.1 । 4 । 10) इति श्रुतेः ।
"भिद्यते हृदयग्रन्थिः"(मु.उ.2 । 2 । 8) "तत्र को मोहः" (ईशा.7) इत्यादि श्रुतिभ्यश्च ।
अर्थवाद इति चेत्? न, सर्वशाखोपनिषदः ।
प्रत्यक्षप्रमितात्मविषयत्वादस्त्येवेति चेत्? न, उक्तपरिहारत्वात् ।
अविद्याशोकमोहभयादिदोषनिवृत्तेः प्रत्यक्षत्वादिति चोक्तः परिहारः ।
तस्मादाद्यो ऽन्त्यः सन्ततो ऽसन्ततश्चेत्यचोद्यमेतत् ।
अविद्यादिदोषनिवृत्तिफलावसानत्वाद्विधायाः ।
य एवाविद्यादिदोषनिवृत्तिफलकृत्प्रत्यय आद्यो ऽन्त्यः सन्ततो ऽसन्ततो वा स एव विद्येत्यभ्युपगमान्न चोद्यस्यावतारगन्धो ऽप्यस्ति ।
यत्तूक्तं विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादिति, न;तच्छेषस्थितिहेतुत्वात् ।
येन कर्मणा शरीरमारब्धं तद्विपरीतप्रत्ययदोषनिमित्तत्वात्तस्य तथाभूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सावर्थ्यमिति, यावच्छरीरपातः तावत्फलोपभोगाङ्गतया विपरीतप्रत्ययं रागादिदोषं च तावन्मात्रमाक्षिपत्येव, मुक्तेषुवत्प्रवृत्तफलत्वात्तद्धेतुकस्य कर्मणः ।
तेन न तस्य निवर्तुका विद्या, अविरोधात् ।
किं तर्हि स्वाश्रयादेव स्वात्मविरोध्यविद्याकार्यं यदुत्पित्सु तन्निरुणाद्धि, अनागतत्वात् ।
अतीतं हीतरत् ।
किञ्च, न च विपरीतप्रत्ययो विद्यावत उत्पद्यते, निर्विषयत्वात् ।
अनवधृतविषयविशेषस्वरूपं हि सामान्यमात्रमाश्रित्य विपरीतप्रत्यय उत्पद्यमान उत्पद्यते, यथा शुक्तिकायां रजतमिति ।
स च विषयविशेषावधारणवतो ऽशेषविपरीतप्रत्ययाश्रयस्योपमर्दितत्वान्न पूर्ववत्सम्भवति, शुक्तिकादौ सम्यक्प्रत्ययात्पत्तौ पुनग्दर्शनात् ।
क्वचित्तु विद्यायाः पूर्वोत्पन्नविपरीतप्रत्ययजनितसंस्कारेभ्यो विपरीतप्रत्ययावभासाः स्मृतयो जायमानाविपरीतप्रत्ययभ्रान्तिमकस्मात्कुर्वन्ति;यथा विज्ञातदिग्विभागस्याप्यकस्माद्दिग्विपर्ययविभ्रमः ।
सम्यग्ज्ञानवतो ऽपि चेत्पूर्ववद्विपरीतप्रत्यय उत्पद्यते, सम्यग्ज्ञाने ऽप्यविस्रम्भाच्छास्त्रार्थविज्ञानादौ प्रवृत्तिरसमञ्जसा स्यात्सर्वं च प्रमाणमप्रमाणं सम्पद्येत प्रमाणाप्रमाणयोर्विशेषानुपपत्तेः ।
एतेनऽसम्यग्ज्ञानानन्तरमेव शरीरपाताभावः कस्मात्? ऽइत्येतत् परिहृतम् ।
ज्ञानोत्पत्तेः प्रागूर्ध्वं तत्कालजन्मान्तरसञ्चितानां विनाशः सिद्धो भवति फलप्राप्तिविघ्ननिषेधश्रुतेरेव ।
"क्षीयन्ते चास्य कर्माणि"(मु.उ.2 । 2 । 8) "तस्य तावदेव चिरम्"(छा.उ.6 । 14 । 2) "सर्वे पाप्मानः प्रद्रूयन्ते"(छा.उ.5 । 24 । 3) "तं विदित्वा न लिप्यते कर्मणा पापकेन"(बृ.उ.4 । 4 । 23) "एतमु हैवैते न तरतः"(4 । 4 । 22) "नैनं कृताकृते तपतः"(4 । 4 । 22) "एतं ह वाव न तपति"(तै.उ.2 । 9 । 1) "न बिभेति कुतश्चन"(तै.उ.2 । 9 । 1) इत्यादि श्रुतिभ्यश्च ।
"ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते"(गीता 4 । 37) इत्यादिस्मृतिभ्यश्च ।
यत्तु ऋणैः प्रतिबध्यत इति, तन्न, अविद्यावद्विपयत्वात् ।
अविद्यावान्हि ऋणी, तस्य कर्तृत्वाद्युपपत्तेः ।
ऽयत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्ऽ(4 । 3 । 31) इति हि वक्ष्यति ।
अनन्यत्सद्वस्त्वात्माख्यं यत्राविद्यायां सत्यामन्यदिवस्यात्तिमिरकृतद्वितीयचन्द्रवत्, तत्राविद्याकृतानेककारकापेक्षं दर्शनादिकर्म तत्कृतं फलं च दर्शयति,"तत्रान्यो ऽन्यत्पश्येत्"इत्यादिना ।
यत्र पुनर्विद्यायां सत्यामविद्याकृतानेकत्वभ्रमप्रहाणम्,"तत्केन कं पश्येत्"(4 । 5 । 15) इति कर्मासम्भवं दर्शयति ।
तस्मादविद्यावद्विषय एव ऋणित्वम्, कर्मसम्भवात्;नेतरत्र ।
एतच्चोत्तरत्र व्याचिख्यासिष्यमाणैरेववाक्यैर्विस्तरेण प्रदर्शयिष्यामः ।
तद्यथेहैव तावत् - अथ यः कश्चिदब्रह्मविद् अन्यामात्मानो व्यतिरिक्तां यां काञ्चिद्देवताम्, उपास्ते स्तुतिनमस्कारयागबल्युपहारप्रणिधानादिना उप आस्ते - अन्यो ऽसावनात्मा मत्तः पृथक्, अन्यो ऽहमस्म्यधिकृतः, मयास्मै ऋणिवत्प्रतिकर्तव्यम् - इत्येवम्प्रत्ययो वेद विजानाति तत्त्वम् ।
न स केवलमेवंभूतो ऽविद्वानविद्यादोषवानेव, किं तर्हि? यथा पशुर्गवादिर्वाहनदोहनाद्युपकारैरुपभुज्यते, एवं स इज्याद्यनेकोपकारैरुपभोक्तव्यत्वादेकैकेन देवादीनाम्, अतः पशुरिव सर्वार्थेषु कर्मस्वधिकृत इत्यर्थः ।
एतस्य ह्यविदुषो वर्णाश्रमादिप्रविभागवतो ऽधिकृतस्य कर्मणो विद्यासहितस्य केवलस्य च शास्त्रोक्तस्य कार्यं मनुष्यत्वादिको ब्रह्मान्त उत्कर्षः ।
शास्त्रोक्तविपरीतस्य च स्वाभाविकस्य कार्यं मनुष्यत्वादिक एव स्थावरान्तो ऽपकर्षः ।
यथा चैतत्तथा"अथ त्रयो वाव लोकाः" (1 । 5 । 16) इत्यादिना वक्ष्यामः कृत्स्नेनैवाध्यायशेषेण ।
विद्ययाश्च कार्यं सर्वात्मभावापत्तिरित्येतत्सङ्क्षेपतो दर्शितम् ।
सर्वाहीयमुपनिषद् विद्याविद्याविभागप्रदर्शनेनैवोपक्षीणा ।
यथा चैषोर्ऽथः कृत्स्नस्य शास्त्रस्य तथा प्रदर्शयिष्यामः ।
यस्मादेवम्, तस्मादविद्यावन्तं पुरुषं प्रति देवा ईशत एव विघ्नं कर्तुमनुग्रहं चेत्येतद्दर्शयति - यथा ह वै लोके बहवो गो-अश्वादयः पशवो मनुष्यं स्वामिनमात्मनो ऽधिष्ठातारं भुञ्ज्युः पालयेयुरेवं बहुपशुस्थानीय एकैको ऽविद्वान्पुरुषो देवान् - देवानिति पित्राद्युपलक्षणार्थम् - भुनक्ति पालयतीति ।
इम इन्द्रादयो ऽन्ये मत्तो ममेशितारो भृत्य इवाहमेषां स्तुतिनमस्कारेज्यादिनाराधनं कृत्वाभ्युदयं निःश्रेयसं च तत्प्रत्तंफलं प्राप्स्यामीत्येवमभिसन्धिः ।
तत्र लोके बहुपशुमतो यथैकस्मिन्नेव पशावादीयमाने व्याघ्रादिनापहियमाणे महदप्रियं भवति, तथा बहुपशुस्थानीय एकस्मिन्पुरुषे पशुभावाद् व्युत्तिष्ठत्यप्रियं भवतीति, किं चित्रं देवानां बहुपश्वपहरण इव कुटुंबिनः ।
तस्मादेषां देवानां तन्न प्रियम्, किं तत्? यदेतद्ब्रह्मात्मतत्त्वं कथञ्चन मनुष्या विद्युर्विजानीयुः तथा च स्मरणमनुगीतासु भगवतो व्यासस्य - "क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।
न चैतदिष्टं देवानां मर्यैरुपरि वर्तनम् ॥
" अतो देवाः पशूनिव व्याघ्रादिभ्यो ब्रह्मविज्ञानाद्विघ्नमाचिकीर्षन्ति;अस्मदुपभोग्यत्वान्माव्युत्तिष्ठेयुरिति ।
यं तु मुमोचयिषन्ति तं श्रद्धादिभिर्योक्ष्यन्ति विपरीतमश्रद्धादिभिः ।
तस्मान्मुमुक्षुर्देवाराधनपरः श्रद्धाभक्तिपरः प्रणयो ऽप्रमादी स्याद्विद्याप्राप्तिं अति विद्यां प्रतीति वा काक्वैतत्प्रदर्शितं भवति देवाप्रियवाक्येन ॥10॥
स्तर्त् ब्र्हुप् 1,4.11
ब्रह्म वा इदम् अग्र आसीद् एकम् एव ।
तद् एकं सन् न व्यभवत् ।
तच् छ्रेयो रूपम् अत्यसृजत क्षत्रं, यान्य् एतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युर् ईशान इति ।
तस्मात् क्षत्रात् परं नास्ति ।
तस्माद् ब्राह्मणः क्षत्रियं अधस्ताद् उपास्ते राजसूये ।
क्षत्र एव तद् यशो दधाति ।
सैषा क्षत्रस्य योनिर् यद् ब्रह्म ।
तस्माद् यद्य् अपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् ।
य उ एनं हिनस्ति स्वां स योनिम् ऋच्छति ।
स पापीयान् भवति यथा श्रेयांसं हिंसित्वा
ब्र्हुप्भ्_1,4.11 सूत्रितः शास्रार्थः"आत्मेत्येवोपासीत"इति ।
तस्य च व्याचिख्यासितस्यसार्थवादेन"तदाहुर्यद्ब्रह्मविद्यया" इत्यादिना सम्बन्धप्रयोजने अभिहिते ।
अविद्यायाश्चसंसाराधिकारकारणत्वमुक्तम्"अथ यो ऽन्यां देवतामुपास्ते"इत्यादिना ।
तत्राविद्वानृणी पशवद्देवादिकर्मकर्तव्यतया परतन्त्र इत्युक्तम् ।
किं पुनर्देवादिकर्मव्यत्वेनिमित्तम्? वर्णा आश्रमाश्च ।
तत्र के वर्णाः? इत्यतैदमारभ्यते ।
यन्निमित्तसम्बद्धेषु कर्मस्वयं परतन्त्र एवाधिकृतः संसारीति ।
एतस्यैवार्थस्य प्रदर्शनायाग्निसर्गानन्तरमिन्द्रादिसर्गो नोक्तः ।
अग्नेस्तु सर्गः प्रजापतेः सृष्टिपरिपूरणाय प्रदर्शितः ।
अयं च इन्द्रादिसर्गस्तत्रैव द्रष्टव्यस्तच्छेषत्वात् ।
इह तु स एवामिधीयते ऽविदुषः कर्माधिकारहेतुप्रदर्शनाय- ब्रह्म वा इदमग्र आसीद्यदग्निं सृष्ट्वा अग्निरूपापन्नं ब्रह्म ।
ब्राह्मणजात्यमिमानाद् ब्रह्मेत्यभिधीयते ।
वै इदं क्षत्रादिज्जातं ब्रह्मैवाभिन्नमासीदेकमेव ।
नासीत्क्षत्रादिभेदः ।
तद्ब्रह्मैकं क्षत्रादिपरिपालयित्रादिशून्यं सदं न व्यभवत्- न विभूतवत्, कर्मणे नालमासीदित्यर्थः ।
ततस्तद्ब्रह्मऽब्राह्मणो ऽस्मि ममेत्थं कर्तव्यम्ऽइति ब्राह्मणजातिनिमित्तं कर्म चिकीर्षु-आत्मनः कर्मकर्तृत्वविभूत्यै श्रेयोरूपं प्रशस्तरूपम् अत्यसृजतातिशयेनासृजत-सृष्टवत् ।
किं पुनस्तद्यत्सृष्टम्? क्षत्रं क्षत्रियजातिः, तद्व्यक्तिभेदेन प्रदर्शयति-यान्येतानि प्रसिद्धानि लोके देवत्रा देवेषु क्षत्राणीति ।
जात्याख्यायां पक्षे बहुवचनस्मरणाद् व्यक्तिबहुत्वाद्वा भेदोपचारेण बहुवचनम् ।
कानि पुनस्तानि? इत्याहतत्राभिपिक्ता एव विशेषतो निर्दिश्यन्ते-इन्द्रो देवानां राजा, वरुणो यादसाम्, सोमो ब्राह्मणानाम्, रुद्रः पशूनाम्, पर्जन्यो विद्युदादीनाम्, यमः पितॄणाम्, मृत्युरोगादीनाम्, ईशानोभासाम्-इत्येवमादीनि देवेषुक्षत्राणि ।
तदनु, इन्द्रादिक्षत्रदेवताधिष्ठितानि पुरूरवःप्रभृतीनि सृष्टान्येव द्रष्टव्यानि ।
तदर्थ एव हि देवक्षत्रसर्गः प्रस्तुतः ।
यस्माद्ब्रह्मणातिशयेन सृष्टं क्षत्रं तस्मात्क्षत्रात्परं नास्ति ब्राह्मणजातेरपि नियन्सृ ।
तस्माद्ब्राह्मणः कारणभातो ऽपि क्षत्रियस्य क्षत्रियमधस्ताद्व्यवस्थितः सन्नुपरिस्थितमुपास्ते ।
क्क? राजसूये ।
क्षत्र एव तदात्मीयं यशः ख्यातिरूपं ब्रह्मेति दधाति स्थापयति ।
राजसूयाभिषिक्तेनासन्द्यां स्थितेन राज्ञा आमन्त्रितो ब्रह्मन्निति ऋत्विक्पुनस्तं प्रत्याह"त्वं राजन्ब्रह्मासि"इति ।
तदेतदभिधीयते -"क्षत्र एव तद्यशो दधाति"इति ।
सैषा प्रकृता क्षत्रस्य योनिरेव यद्ब्रह्म ।
तस्माद्यद्यति राजा परमतां राजसूयाभिषेकगुणं गच्छत्याप्नोति ब्रह्मैव ब्राह्मणजातिमेध, अन्ततो ऽन्ते कर्मपरिसमाप्तावुपनिक्षयत्याश्रयति स्वां योनिम्, पुरोहितं पुरो निधत्त इत्यर्थः ।
यस्तु पुनर्बलाभिमानात्स्वां योनिं ब्राह्मणजातिं ब्राह्मणं य उ एनं हिनस्ति हिंसति न्यग्भावेन पश्यति, स्वामात्मायामेव स योनिमृच्छति-स्वं प्रसवं विच्छिनत्ति विनाशयति-स्वं प्रसवं विच्छिनत्ति विनाशयति ।
स एतत्कृत्वा पापीयान्पापतरो भवति ।
पूर्वमपि क्षत्रियः पाप एव क्रूरत्वादात्मप्रसवहिंसया सुतराम् ।
यथा लोके श्रेयांसं प्रशस्ततरं हिंसित्वा परिभूय पापतरो भवति तद्वत् ॥11॥
क्षत्रे सृष्टे ऽपि-
स्तर्त् ब्र्हुप् 1,4.12
स नैव व्यभवत् ।
स विशम् असृजत ।
यान्य् एतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति
ब्र्हुप्भ्_1,4.12 स नैव व्यभवत्, कर्मणे ब्रह्म तथा नव्यभवत्, वित्तोपार्जयितुरभावात् ।
स विशमसृजत कर्मसाधनवित्तोपार्जनाय ।
कः पुनरसौ विट्? यान्येतानि देवजातानि-स्वार्थे निष्ठा, य एते देवजातिभेदा इत्यर्थः;गणशो गणं गणम्, आख्यायन्ते कथ्यन्ते ।
गणप्राया हि विशः, प्रायेण संहता हि वित्तोपार्जने समर्थाः न एकैकशः ।
वसवः अष्टसङ्ख्यो गणः, तथैकादश रुद्राः, द्वादशादित्याः, विश्वेदेवास्रयोदश विश्वाया अपत्यानि, सर्वे वा देवाः, मरुतः सप्त सप्त गणाः ॥12॥
स्तर्त् ब्र्हुप् 1,4.13
स नैव व्यभवत् ।
स शौद्रं वर्णम् असृजत पूषणम् ।
इयं वै पूषा ।
इयं हीदं सर्वं पुष्यति यद् इदं किञ्च
ब्र्हुप्भ्_1,4.13 स परिचारकभावात्पुनरपि नैव व्यभवत्, स शौद्रं वर्णमसृजत- शूद्र एव शौद्रः, स्वार्थे ऽणि वृद्धिः ।
कः पुनरसौ शौद्रो वर्णो यः सृष्टः? पूषणम्- पुण्यतीति पूषा कः पुनरसौ पूषा? इति विशेषतस्तन्निर्दिशति- इयं पृथिवी पूपा ।
स्वयमेव निर्वचनमाह- इयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥13॥
स्तर्त् ब्र्हुप् 1,4.14
स नैव व्यभवत् ।
तच् छ्रेयो रूपम् अत्यसृजत धर्मम् ।
तद् एतत् क्षत्रस्य क्षत्रं यद् धर्मः ।
तस्माद् धर्मात् परं नास्ति ।
अथो अबलीयान् बलीयांसम् आशंसते धर्मेण ।
यथा राज्ञैवम् ।
यो वै स धर्मः सत्यं वै तत् ।
तस्मात् सत्यं वदन्तम् आहुर् धर्मं वदतीति ।
धर्मं वा वदन्तं सत्यं वदतीति ।
एतद् ध्य् एवैतद् उभयं भवति
ब्र्हुप्भ्_1,4.14 स चतुरः सृष्ट्वापि वर्णान्नैव व्यभवत्, उग्रत्वात्क्षत्रस्यानियताशङ्कया ।
तच्छ्रेयोरूपमत्यसृजत, किं तत्? धर्मम्;तदेतच्छ्रेयोरूपं सृष्टं क्षत्रस्य क्षत्रं क्षत्रस्यापि नियन्तृ, उग्रादप्युग्रम्, यद्धर्मो यो धर्मः;तस्मात्क्षत्रस्यापि नियन्तृत्वाद्धर्मात्परं नास्ति;तेन हि नियम्यन्ते सर्वे ।
तत्कथम्? इत्युच्यते- अथो अप्यबलीयान्दुर्बलतरो बलीयांसमात्मनो बलवत्तरमप्याशंसते कामयते जेतुं धर्मेण बलेन;यथा लोके राज्ञा सर्वबलवत्तमेनापि कुटुम्बिकः; एवम्;तस्मात्सिद्धं धर्मस्य सर्वबलवत्तरत्वात्सर्वनियन्तृत्वम् ।
यो वै स धर्मो व्यवहारलक्षणो लौकिकैर्व्यवह्रियमाणः सत्यं वै तत्;सत्यमिति यथास्त्रार्थता;स एवानुष्ठीयमानो धर्मनामा भवति, शास्त्रार्थत्वेन ज्ञायमानस्तु सत्यं भवति ।
यस्मादेवं तस्मात्सत्यं यथाशास्त्रं वदन्तं व्यवहारकाल आहुः समीपस्था उभयविवेकज्ञाः- धर्म वदतीति, प्रसिद्धं लौकिकं न्यायं वदतीति ।
तथा विपर्ययेण धर्म वा लौकिकं व्यवहारं वदन्तमाहुः- सत्यं वदति, शास्त्रादनपेतं वदतीति ।
एतद्यदुक्तमुभयं ज्ञायमानमनुष्ठीयमानं चैतद्धर्म एव भवति ।
तस्मात्स धर्मो ज्ञानानुष्टानलक्षणः शास्त्रज्ञाननितरांश्च सर्वानेव नियमयति ।
तस्मात्स क्षत्रस्यापि क्षत्रम् ।
अतस्तदभिमानो ऽविद्वांस्तद्विशेषानुष्ठानाय ब्रह्मक्षत्रविट्शूद्रनिमित्तविशेषमभिमन्यते ।
तानि च निसर्गत एव कर्माधिकारनिमित्तानि ॥14॥
स्तर्त् ब्र्हुप् 1,4.15
तद् एतद् ब्रह्म क्षत्रं विट् शूद्रः ।
तद् अग्निनैव देवेषु ब्रह्माभवद् ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः ।
तस्माद् अग्नाव् एव देवेषु लोकम् इच्छन्ते ब्राह्मणे मनुष्येषु ।
एताभ्यां हि रूपाभ्यां ब्रह्माभवत् ।
अथ यो ह वा अस्माल् लोकात् स्वं लोकम् अदृष्ट्वा प्रैति स एनम् अविदितो न भुनक्ति यथा वेदो वाननूक्तो ऽन्यद् वा कर्माकृतम् ।
यदि ह वा अप्य् अनेवंविन् महत्पुण्यं कर्म करोति तद् धास्यान्ततः क्षीयत एव ।
आत्मानम् एव लोकम् उपासीत ।
स य आत्मानम् एव लोकम् उपास्ते न हास्य कर्म क्षीयते ।
अस्माद् ध्य् एवात्मनो यद्यत् कामयते तत्तत् सृजते
ब्र्हुप्भ्_1,4.15 तदेतच्चातुर्वर्ण्यं सृष्टम् - ब्रह्म क्षत्रं विट्शूद्र इति;उत्तरार्थं उपसंहारः यत्तत्स्रष्टृ ब्रह्म, तदग्निनैवनान्येन रूपेण देवेषु ब्रह्म, ब्राह्मणजातिरभवत् ।
ब्राह्मणा ब्राह्मणस्वरूपेण मनुष्येषु ब्रह्माभवत्, इतरेषु वर्णेषु विकारान्तरं प्राप्य, क्षत्रियेण क्षत्रियो ऽभवदिन्द्रादिदेवताधिष्ठितः, वैश्येन वैश्यः, शूद्रेण शूद्रः ।
यस्मात्क्षत्रादिषु विकारापन्नम्, अग्नौ ब्राह्मण ए चाविकृतं स्रष्टृ ब्रह्म, तस्मादग्नावेव देवेषु देवानां मध्ये लोकं कर्मफलम्, इच्छन्त्यग्निसम्बद्धं कर्म कृत्वेत्यर्थः ।
तदर्थमेव हि तद्ब्रह्म कर्माधिकरणत्वेनाग्निरूपेण व्यवस्थितम् ।
तस्मात् तस्मिन्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्त इत्येतदुपपन्नम् ।
ब्रह्मणे मनुष्येषु - मनुष्याणां पुनर्मध्ये कर्मफलेच्छायां नाग्न्यादिनिमित्तक्रियापेक्षा, किं तर्हि? जातिमात्रस्वरूपप्रतिलम्भेनैव पुरुषार्थसिद्धिः ।
यत्र नु देवाधीना पुरुषार्थसिद्धिः, तत्रैवाग्न्यादिसम्बद्धक्रियापेक्षा ।
स्मृतेश्च - "जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥
" (मनु.2 । 87) इति ।
पारिव्राज्यदर्शनाच्च ।
तस्माद्ब्रह्मणत्व एव मनुष्येषु लोकं कर्मफलमिच्छन्ति ।
यस्मादेताभ्यां हि ब्राह्मणाग्निरूपाभ्यां कर्मकर्त्रधिकरणरूपाभ्यां यत्स्रष्टृ ब्रह्म साक्षादभवत् ।
अत्र तु परमात्मलोकमग्नौ ब्राह्मणे चेच्छन्तीति केचित् ।
तदसत्, अविद्याधिकारे कर्माधिकारार्थं वर्णविभागस्य प्रस्तुतत्वात्, परेण च विशेषणात्;यदि ह्यत्र लोकशब्देन पर एवात्मोच्येत, परेण विशेषणमनर्थकं स्यात्ऽस्वं लोकमदृष्ट्वाऽइति ।
स्वलोकव्यतिरिक्तश्चेदग्न्यधीनतया प्रार्थ्यमानः प्रकृतो लोकः, ततः स्वम्, इति युक्तं विशेषणम्, प्रकृतपरलोकनिवृत्त्यर्थत्वात्;स्वत्वेन चाव्यभिचारात्परमात्मलोकस्य, अविद्याकृतानां च स्वत्वव्यभिचारात् ।
ब्रवीति च कर्मकृतानां व्यभिचारम्-ऽक्षीयत एवऽइति ।
ब्रह्मणा सृष्टा वर्णाः कर्मार्थम्;तच्च कर्म धर्माख्यं सर्वानेव कर्तव्यतया नियन्तृ पुरुषार्थसाधनं व ।
तस्मात्तेनैव चेत्कर्मणा स्वो लोकः परमात्माख्यो ऽविदितो ऽपि प्राप्यते, किं तस्यैव पदनीयत्वेन क्रियत इत्यत आह-अथेति पूर्वपक्षविनिवृत्त्यर्थः;यः कश्चित्, ह वै अस्मात्संसारिकामकर्महेतुकादग्न्यधीनकर्माभिमानतया वा ब्राह्मणजातिमात्रकर्माभिमानतया वा आगन्तुकादस्वभूताल्लोकात्, स्वं लोकमात्माख्यम् आत्मत्वेनाव्यभिचारित्वात्, अदृष्टा -ऽअहं ब्रह्मास्मिऽइति, प्रैति म्रियते;स यद्यपि स्वो लोकः, अविदितो ऽविद्यया व्यवहितो ऽस्व इवाज्ञातः एनम् - सङ्ख्यापूरण इव लौकिक आत्मानम् न भुनक्ति न पालयति शोकमोहभयादिदोषापनयेन ।
यथा च लोके वेदो ऽननुक्तो ऽनधीतः कर्माद्यवबोधकत्वेन न भुनक्ति, अन्यद्वा लौकिकं कृष्यादि कर्माकृतं स्वात्मनानभिव्यञ्जितम् आत्मीयफलप्रदानेन न भुनक्ति, एवमात्मा स्वो लोकः स्वेनैव नित्यात्मस्वरूपेणानभिव्यञ्जितो ऽविद्यादि प्रहाणेन न भुनक्त्येव ।
ननु किं स्वलोकदर्शननिमित्तपरिपालनेन? कर्मणः फलप्राप्तिध्रौव्यात्, इष्टफलनिमित्तस्य च कर्मणो बाहुल्यात्, तन्निमित्तं पालनमक्षयं भविष्यति ।
तन्न, कृतस्य क्षयवत्त्वात्;इत्येतदाह - यदिह वै संसारे ऽद्भुतवत्कश्चिन्महात्मापि, अनेवंवित्-स्वं लोकं यथोक्तेन विधिना अविद्वान्, महद्बहु अश्वमेधादि पुण्यं कर्म इष्टफलमेव नैरन्तर्येण करोति,ऽअनेनैवानन्त्यं मम भविष्यतिऽइति, तत्कर्म हास्याविद्यावतो ऽविद्याजनितकामहेतुत्वात् स्वप्नदर्शनविभ्रमोद्भूतविभूतिवदन्ततो ऽन्ते फलोपभोगस्य क्षीयत एव ।
तत्कारणयोरविद्याकामयोश्चलत्वात्, कृतक्षयघ्नौव्योपपत्तिः ।
तस्मान्न पुण्यकर्मफलपालनानन्त्याशा अस्त्येव ।
अत आत्मानमेव स्वं लोकम् -ऽआत्मानम्ऽइतिऽस्वं लोकम्ऽइत्यस्मिन्नर्थे, स्वं लोकमिति प्रकृतत्वात्, इह च स्वशब्दस्याप्रयोगात् - उपासीत ।
स य आत्मानमेव लोकमुपास्ते, तस्य किम्? इत्युच्यते - न हास्य कर्म क्षीयते;कर्माभावादेव, इति नित्यानुवादः ।
यथाविदुषः कर्मक्षयलक्षणं संसारदुःखं सन्ततमेव,न तथा तदस्य विद्यत इत्यर्थः ।
"मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन"इति यद्वत् ।
स्वात्मलोकोपासकस्य विदुषो विद्यासंयोगात्कर्मैव न क्षीयत इत्यपरे वर्षयन्ति ।
लोकशब्दार्थं च कर्मसमवायिनं द्विधा परिकल्पयन्ति किल एको व्याकृतावस्था कर्माश्रयो लोको हैरण्यगर्भाख्यः, तं कर्मसमवायिनं लोकं व्याकृतं परिच्छिन्नं य उपास्ते, तस्य किल परिच्छिन्नं य उपास्ते, तस्य किल परिच्छिन्नकर्मात्मदर्शिनः कर्म क्षीयते ।
तमेव कर्मसमवायिनं लोकमव्याकृतावस्थं कारणरूपमापाद्य यस्तूपास्ते, तस्यापरिच्छिन्नकर्मात्मदर्शित्वात्तस्य यस्तूपास्ते, तस्यापरिच्छिन्नकर्मात्मदर्शित्वात्तस्य कर्म न क्षीयत इति ।
भवतीयं शोभना कल्पना न तु श्रौती ।
स्वलोकशब्देन प्रकृतस्य परमात्मनो ऽभिहितत्वात् ।
स्वं लोकमिति प्रस्तुत्य स्वशब्दं विहायात्मशब्दप्रक्षेपेण पुनस्तस्यैव प्रतिनिर्देशादात्मानमेव लोकमुपासीतेति ।
तत्र कर्मसमवायिलोककल्पनाया अनवसर एव ।
परेण च केवलविद्याविषयेण विशेषणात् -"किं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकः"(बृ.उ.4 । 4 । 22) इथि ।
पुत्रकर्मापरविद्याकृतेभ्यो हि लोकेभ्यो विशिनष्टिऽअयमात्मा नो लोकःऽइति ।
"न हास्य केनचन कर्मणा लोको मीयत एषो ऽस्य परमो लोकः"इति च ।
तैः सविशेषणैरस्यैकवाक्यता युक्ता, इहापि स्वं लोकमिति विशेषणदर्शनात् ।
अस्मात्कामयत इत्ययुक्तमिति चेत् - इह स्वो लोकः परमात्मा, तदुपासनात्स एव भवतीति स्थिते, यद्यत्कामयते तत्तदस्मादात्मनः सृजत इथि तदात्मप्राप्तिव्यतिरेकेण फलवचनमयुक्तमिति चेत्, न;स्वलोकोपासनस्तुतिपरत्वत् स्वस्मादेव लोकात्सर्वमिष्टं सम्पद्यत इत्यर्थः;नान्यदतः प्रार्थनीयमाप्तकामत्वात्,"आत्मतः प्राण आत्मत आशा" (छा.उ.7 । 23 । 1) इत्यादि श्रुत्यन्तरे यथा ।
सर्वात्मभावप्रदर्शनार्थो वा पूर्ववत् ।
यदि हि पर एवात्मा सम्पद्यते तदा युक्तः अस्माद्ध्येवात्मनः इत्यात्मशब्दप्रयोगः, स्वस्मादेव प्रकृतादात्मनो लोकादित्येवमर्थः ।
अन्यथाऽअव्याकृतावस्थात्कर्मणो लोकात्ऽइति सविशेषणमवक्ष्यात् प्रकृतपरमात्मलोकव्यावृत्तये व्याकृतावस्थाव्यावृत्तये च ।
न ह्यस्मिन्प्रकृते विशेषिते ऽश्रुतान्तरालावस्थाप्रतिपत्तुं शक्यते ॥15॥
अथो अयं वा आत्मा ।
अत्राविद्वान् वर्णाश्रमाद्यभिमानो धर्मेण नियम्यमानो देवादिकर्मकर्तव्यतया पशुवत्परतन्त्र इत्युक्तम् ।
कानि पुनस्तानि कर्माणि यत्कर्तव्यतया पशुवत्परतन्त्रो भवति? के वा ते देवादयो येषां कर्मभिः पशुवदुपकरोति? इति तदुभयं प्रपञ्चयति-
स्तर्त् ब्र्हुप् 1,4.16
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः ।
स यज् जुहोति यद् यजते तेन देवानां लोकः ।
अथ यद् अनुब्रूते तेन ऋषीणाम् ।
अथ यत् पितृभ्यो निपृणाति यत् प्रजाम् इच्छते तेन पितॄणाम् ।
अथ यन् मनुष्यान् वासयते यद् एभ्यो ऽशनं ददाति तेन मनुष्याणाम् ।
अथ यत् पशुभ्यस् तृणोदकं विन्दति तेन पशूनाम् ।
यद् अस्य गृहेषु श्वापदा वयांस्य् आ पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः ।
यथा ह वै स्वाय लोकायारिष्टिम् इच्छेत् ।
एवं हैवंविदे सर्वदा सर्वाणि भूतान्य् अरिष्टिम् इच्छन्ति ।
तद् वा एतद् विदितं मीमांसितम्
ब्र्हुप्भ्_1,4.16 अथो इत्ययं वाक्योपन्यासार्थः ।
अयं यः प्रकृतो गृही कर्माधिकृतो ऽविद्वाञ्छरीरेन्द्रियसङ्घातादिविशिष्टः पिण्ड आत्मेत्युच्यते;सर्वेषां वर्णाश्रमादिविहितैः कर्मभिरुपकारित्वात् ।
कैः पुनः कर्मविशेषैरुपकुर्वन् केषां भूतविशेषाणां लोकः? इत्युच्यते - स गृही यज्जुहोति यद्यजते, यागो देवतामुद्दिश्य स्वत्वपरित्यागः, स एव परित्यागः, स एव आसेचनाधिको होमः तेन होमयागलक्षणेन कर्मणावश्यकर्तव्यत्वेन देवानां पशुवत्परतन्त्रत्वेन प्रतिबद्ध इति लोकः ।
अथ यदनुब्रूते स्वाध्यायमधीते ऽहरहस्तेन ऋषीणां लोकः ।
अथ यत्पितृभ्यो निपृणाति प्रयच्छति पिण्डोदकादि, यच्च प्रजामिच्छति प्रजार्थमुद्यमं करोति - इच्छा चोत्पत्त्युपलक्षणार्था - प्रजां चोत्पादयतीत्यर्थः, तेन कर्मणावश्यकर्तव्यत्वेन पितृणां भोग्यत्वेन परतन्त्रो लोकः ।
अथ यन्मनुष्यान्वासयते गृहे, यच्च तेभ्यो वसद्भ्यो ऽवसद्भ्यो वा अर्थिभ्यो ऽशनं ददाति, तेन मनुष्याणाम्;अथ यत्पशुभ्यस्तृणोदकं विन्दति लम्भयति, तेन पशूनाम्;यदस्य गृहेषु श्वापदा वयांसि च पिपीलिकाभिः सह कणबलिभाण्डक्षालनाद्युपजीवन्ति, तेन तेषां लोकः ।
यस्मादयमेतानि कर्माणि कुर्वन्नुपकरोति देवादिभ्यः, तस्माद्यथा ह वै लोके स्वाप्य लोकाय स्वस्मै देहायारिष्टमविनाशं स्वत्वभावाप्रच्युतिमिच्छेत् स्वत्वभावप्रच्युतिभयात्पोषणरक्षणादिभिः सर्वतः परिपालयेत्, एवं हैवंविदेऽसर्वभूतभोग्यो ऽहमनेन प्रकारेण मया अवश्यमृणिवत्प्रतिकर्तव्यम्ऽइत्येवमात्मानं परिकल्पितवते सर्वाणि भूतानि देवादीनि यथोक्तानि अरिष्टिमविनाशमिच्छन्ति स्वत्वाप्रच्युत्यै सर्वतः संरक्षन्ति कुटुम्बिन इव पशून् -"तस्मादेषां तन्न प्रियम्"इत्युक्तम् ।
तद्वा एतत्तदेतद्यथोक्तानां कर्मणाम् ऋणवदवश्यकर्तव्यत्वं पञ्चमहायज्ञप्रकरणे विदितं कर्तव्यतया मीमांसितं विचारितं चावदानप्रकरणे ॥16॥
ब्रह्म विद्वांश्चेत्तस्मात्पशुभावात्कर्तव्यताबन्धनरूपात्प्रतिमुच्यते, केनायं कारितः कर्मवन्धनाधिकारे ऽवश इव प्रवर्तते, न पुनस्तद्विमोक्ष्णोपाये विद्याधिकार इति ननूक्तं देवा रक्षन्तीति ।
बाढम्, कर्माधिकारस्वगोचरारूढानेव ते ऽपि रक्षन्ति, अन्यथाकृताभ्यागमकृतनाशप्रसङ्गात् ।
न तु सामान्यं पुरुषमात्रं विशिष्टाधिकारानारूढम्;तस्माद्भवितव्यं तेन, येन प्रेरितो ऽवश एव बहिर्मुखो भवति स्वस्माल्लोकात् ।
नन्वविद्यासा, अविद्यावानिहि बहिर्मुखीभूतः प्रवर्तते ।
सापि नैव प्रवर्तिका;वस्तुस्वरूपावर्णात्मिका हि सा;प्रवर्तकबीजत्वं तु प्रतिपद्यते ऽन्धत्वमिव गर्तादिपतनप्रवृत्तिहेतुः ।
एवं तर्ह्युच्यतां किं तद् यत्प्रवृत्तिहेतुरिति? तदिहाभिधीयते - एषणा कामः सः ,ऽस्वाभाविक्यामविद्यायां वर्तमाना बालाः पराचः कामाननुयन्तिऽइति काठकश्रुतौ, स्मृतौ च -"काम एष क्रोध एषः"(गीता 3 । 37) इत्यादि, मानवे च सर्वा प्रवृत्तिः कामहेतुक्येवेति ।
स एषोर्ऽथः सविस्तरः प्रदर्श्यत इह आ अध्यायपरिसमाप्तेः -
स्तर्त् ब्र्हुप् 1,4.17
आत्मैवेदम् अग्र आसीद् एक एव ।
सो ऽकामयत जाया मे स्याद् अथ प्रजायेय ।
अथ वित्तं मे स्याद् अथ कर्म कुर्वीयेति ।
एतावान् वै कामः ।
नेच्छंश् चनातो भूयो विन्देत् ।
तस्माद् अप्य् एतर्ह्य् एकाकी कामयते -- जाया मे स्याद् अथ प्रजायेयाथ वित्तं मे स्याद् अथ कर्म कुर्वीयेति ।
स यावद् अप्य् एतेषाम् एकैकं न प्राप्नोत्य् अकृत्स्न एव तावन् मन्यते ।
तस्यो कृत्स्नता ।
मन एवास्यात्मा ।
वाग् जाया ।
प्राणः प्रजा ।
चक्षुर् मानुषं वित्तम् ।
चक्षुषा हि तद् विन्दते ।
श्रोत्रं दैवम् ।
श्रोत्रेण हि तच् छृणोति ।
आत्मैवास्य कर्म ।
आत्मना हि कर्म करोति ।
स एष पाङ्क्तो यज्ञः ।
पाङ्क्तः पशुः ।
पाङ्क्तः पुरुषः ।
पाङ्क्तम् इदं सर्वं यद् इदं किञ्च ।
तद् इदं सर्वम् आप्नोति य एवं वेद
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0