बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 1.6
ब्र्हुप्भ्_1,5.23 अथैतस्यैवार्थस्य प्रकाशक एष श्लोको मन्त्रो भवति ।
यतश्च यस्माद्वायोरुदेत्युद्गच्छति सूर्यः, अध्यात्मं च चक्षुरात्मना प्राणाद् अस्तं च यत्र वायौ प्राणे च गच्छत्यपरसंध्यासमये स्वापसमये च पुरुषस्य, तं देवास्तं धर्मं देवाश्चक्रिरे धृतवन्तो वागादयो ऽग्न्यादयश्च प्राणव्रतं च पुरा विचार्य ।
स एवाद्येदानीं श्वो ऽपि भविष्यत्यपि काले ऽनुवर्त्यते ऽनुवर्तिष्यते च देवैरित्यभिप्रायः ।
तत्रेमं मन्त्रं संक्षेपतो व्याचष्ट ब्राह्मणम् - प्राणाद्वा एष सूर्य उदेति प्राणे ऽस्तमेति ।
तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इत्यस्य कोर्ऽथः? इत्युच्यते - यद्वै एते व्रतममुर्हि अमुष्मिन्काले वागादयो ऽग्न्यादयश्च प्राणव्रतं वायुव्रतं चाध्रियन्त, तदेवाद्यापि कुर्वन्त्यनुवर्तते ऽनुवर्तिष्यन्ते च ।
व्रतं तैरभग्नमेव ।
यत्तु वागादिव्रतमग्न्यादिव्रतं च तद्भग्नमेव, तेषामस्तमनकाले स्वापकाले च वायौ प्राणे च निम्सुक्तिदर्शनात् ।
अथैतदन्यत्रोक्तम्"यदा वै पुरषः स्वपिति प्राणं तर्हि वागप्येति प्राणं मनः प्राणं चक्षुःप्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्यध्यात्ममथाधिदैवतं यदा वा अग्निरनुगच्छति वायुं तर्ह्यनूद्वाति यदादित्यो ऽस्तमेति वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते"इति ।
यस्मादे एतदेव व्रतं वागादिष्वग्न्यादिषु चानुगतं यदेतद्वायोश्च प्राणस्य च परिस्पन्दात्मकत्वं सर्वेदेवैरुवर्त्यमानं व्रतम् तस्मादन्यो ऽप्योकमेव व्रतं चरेत् ।
किं तत? प्राण्यात्प्राणनव्यापारं कुर्यादपान्यादपाननध्यापारं च;न हि प्राणापानव्यापारस्य प्राणनापाननलक्षणस्योपरमो ऽस्ति ।
तस्मात्तदेवैकं व्रतं चरेद्धित्वेन्द्रियान्तरव्यापारं नेन्मा मां पाप्मा मृत्युः श्रमरूप्याप्नुवदाप्नुयात् ।
नेच्छब्दः परिभये -ऽयद्यहमस्माद् व्रतात्प्रच्युतः स्याम्, ग्रस्त एवाहं मृत्युनाऽइत्येवं त्रस्तो धारयेत्प्राणव्रतमित्यभिप्रायः ।
यदि कदाचिद् उ चरेत्प्रारभेत प्राणव्रतम्, समापिपयिषेत्समापयितुमिच्छेत्;यदि ह्यस्माद् व्रतादुपरमेत्प्राणः परिभूतः स्याद्देवाश्च;तस्मात्समापयेदेव ।
तेन उ तेनानेन व्रतेन प्राणात्मप्रतिपत्त्या सर्वभूतेषु - वागादयो ऽग्न्यादयश्च मदात्मका एव, अहं प्राण आत्मा सर्वपरिस्पन्दकृत् - एवं तेनानेन व्रतधारणेन एतस्या एव प्राणदेवतायाः सायुज्यं सयुग्भावमेकात्मत्वं सलोकतां समानलोकतां वा एकस्थानत्वम् - विज्ञानमान्द्योपेक्षमेतत् - जयति प्राप्नोतीत् ॥23॥
इति बृहदारण्यकोपनिषद्भाष्ये प्रथमाध्याये पञ्चमं सप्तान्नब्रह्मणम् ॥5॥
यदेतदविद्याविषयत्वेन प्रस्तुतं साध्यसाधनलक्षणं व्याकृतं जगत् प्राणात्मप्राप्त्यन्तोत्कर्षवदपि फलम्, या चैतस्य व्याकरणात्प्रागवस्था अव्याकृतशब्दवाच्या वृक्षबीजवत्सर्वमेतत् ।
स्तर्त् ब्र्हुप् 1,6.1
त्रयं वा इदं नाम रूपं कर्म ।
तेषां नाम्नां वाग् इत्य् एतद् एषाम् उक्थम् ।
अतो हि सर्वाणि नामान्य् उत्तिष्ठन्ति ।
एतद् एषां साम ।
एतद् धि सर्वैर् नामभिः समम् ।
एतद् एषां ब्रह्म ।
एतद् धि सर्वाणि नामानि बिभर्ति
ब्र्हुप्भ्_1,6.1 त्रयम्;किं तत्त्रयम्? इत्युच्यते ।
नाम रूपं कर्म चेत्यनात्मैव ।
नात्मा यत्साक्षादपरोक्षाद्ब्रह्म ।
तस्मादस्माद्विरज्येतेत्येवमर्थस्त्रयं वा इत्याद्यारम्भः न ह्यस्मादनात्मनो ऽव्यावृत्तिचित्तस्य आत्मानमेव लोकमहं ब्रह्मास्मीत्युपासितुं बुद्धिः प्रवर्तते ।
बाह्यप्रत्यगात्मप्रवृत्त्योर्विरोधात् ।
तथा च काठके -"पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्" (क.उ.2 । 1 । 1) इत्यादि ।
कथं पुनरस्य व्याकृताव्याकृतस्य क्रियाकारकफलात्मनः संसारस्य नामरूपकर्मात्मकतैव? न पुनरात्मत्वम्? इत्येतत्सम्भावयितुं शक्यत इति;अत्रोच्यते - तेषां नाम्नां यथोपन्यस्तानां वागिति शब्दसामान्यमुच्यते ।
"यः कश्च शब्दो वागेव सा"(1 । 5 । 3) इत्युक्तत्वाद्वादित्येतस्य शब्दस्य योर्ऽथः शब्दस्य शब्दसामान्यमात्रम् एतदेतेषां नामविशेषाणामुक्थं कारणमुपादानम्, सैन्धवलवणकणानामिव सैन्धवाचलः ।
तदाह - अतो ह्यस्मान्नामसामान्यात्सर्वाणि नामानि यज्ञदत्तो देवदत्त इत्येवमादिप्रविभागान्युत्तिष्ठन्त्युत्पद्यन्ते प्रविभज्यन्ते, लवणाचलादिव लवणकणाः;कार्यं च कारणेनाव्यतिरिक्तम् ।
तथा विशेषाणां च सामान्ये ऽन्तर्भावात् ।
कथं सामान्यविशेषभाव इति एतच्छब्द सामान्यमेषां नामविशेषाणां साम ।
समत्वात्साम, सामान्यमित्यर्थः, एतद्धि यस्मात्सर्वैर्नामभिरात्मविशेषैः समम् ।
किञ्च आत्मलाभाविशेषाच्च नामविशेषाणाम् ।
यस्य च यस्मादात्मलाभो भवति स तेनाप्रविभक्तो दृष्टः, यथा घटादीनां मृदा ।
कथं नामविशेषाणामात्मलाभो वाच इत्युच्यते यत एतदेषां वाक्छब्दवाच्यं वस्तु ब्रह्म आत्मा, ततो ह्यात्मलाभो नाम्नाम्, शब्दव्यतिरिक्तस्वरूपानुपपत्तेः ।
तत्प्रतिपादयति - यतश्छब्दसामान्यं हि यस्माच्छब्दविशेषान्सर्वाणि नामानि बिभर्ति धारयति स्वरूपप्रदानेन ।
एवं कार्यकारणत्वोपपत्तेः सामान्यविशेषोपपत्तेरात्मप्रदानोपपत्तश्च नामविशेषाणां शब्दमात्रता सिद्धा ।
एवमुत्तरयोरपि सर्वं योज्यं यथोक्तम् ॥1॥
स्तर्त् ब्र्हुप् 1,6.2
अथ रूपाणां चक्षुर् इत्य् एतद् एषाम् उक्थम् ।
अतो हि सर्वाणि रूपाण्य् उत्तिष्ठन्ति ।
एतद् एषां साम ।
एतद् धि सर्वै रूपैः समम् ।
एतद् एषां ब्रह्म ।
एतद् धि सर्वाणि रूपाणि बिभर्ति
ब्र्हुप्भ्_1,6.2 अथेदानीं रूपाणां सितासितप्रभृतीनां चक्षुरिति चक्षुर्विषयसामान्यं चक्षुःशब्दाभिधेयं रूपसामान्यं प्रकाश्यमात्रमभिधीयते ।
अतो हि सर्वाणि रूपाण्यित्तिष्ठन्ति, एतदेषां साम, एतद्धि सर्वै रूपेः समम्, एतदेषां ब्रह्म, एतद्धि सर्वाणि रूपाणि बिभर्ति ॥2॥
स्तर्त् ब्र्हुप् 1,6.3
अथ कर्मणाम् आत्मेत्य् एतद् एषाम् उक्थम् ।
अतो हि सर्वाणि कर्माण्य् उत्तिष्ठन्ति ।
एतद् एषां साम ।
एतद् धि सर्वैः कर्मभिः समम् ।
एतद् एषां ब्रह्म ।
एतद् धि सर्वाणि कर्माणि बिभर्ति ।
तद् एतत् त्रयं सद् एकम् अयम् आत्मा ।
आत्मो एकः सन्न् एतत् त्रयम् ।
तद् एतद् अमृतं सत्येन छन्नम् ।
प्राणो वा अमृतम् ।
नामरूपे सत्यम् ।
ताभ्याम् अयं प्राणश् छन्नः
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0