भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 1.3

1.3.1

ब्र्हुप्भ्_1,2.7 सो ऽकामयत, कथम्? मेध्यं मेधार्ह यज्ञियं मे ममेदं शरीरं स्यात् ।
किञ्च आत्मन्व्यात्मवांश्चानेन शरीरेण शरीरवान्स्यामिति प्राविवेश ।
यस्मात्तच्छरीरं तद्वियोगाद्गतयशोर्वीर्यं सद् अश्वद् अश्वयत् ततस्तस्मादश्वः समभवत् ।
ततो ऽश्वनामा प्रजापतिरेव साक्षादिति स्तूयते ।
यस्माच्च पुनस्तत्प्रवेशाद्गतयशोवीर्यत्वादमेध्यं सन्मेध्यमभूत्तदेव तस्मादेवाश्वमेधस्याश्वमेधनाम्नः क्रतोरश्वमेधत्वम् अश्वमेधनामलाभः ।
क्रियाकारकफलात्मको हि क्रतुः ।
स च प्रजापतिरेवेति स्तूयते ।
क्रतुनिर्वर्तकस्याश्वस्य पजापतित्वमुक्तम्ऽउषा वा अश्वस्य मेधस्यऽइत्यादिना ।
तस्यैवाश्वस्य मेध्यस्य प्रजापतिस्वरूपस्याग्नेश्च यथोक्तस्य क्रतुफलात्मरूपतया समस्योपासनं विधातव्यमित्यारभ्यते ।
पूर्वत्र क्रियापदस्यविधायकस्याश्रुतत्वात् क्रियापदापेक्षत्वाच्च प्रकरणस्य अयमर्थो ऽवगम्यते ।
एष ह अश्वमेधं क्रतुं वेद य एनमेवं वेद, यः कश्चिदेनमश्वमग्निरूपमर्कं च यथोक्तमेवं वक्ष्यमाणेन समासेन पदर्श्यमानेन विशेषणेन विशिष्टं वेद, स एषो ऽश्वमेधं वेद नान्यः ।
तस्मादेवं वेदितव्य इत्यर्थः ।
कथम्? तत्र पशुविषयमेव तावद्दर्शनमाह ।
तत्र प्रजापतिर्भूयसा यज्ञेन भूयो यजेयेति कामयित्वा आत्मानमेव पशुं मेध्यं कल्पयित्वा तं पशुमनवरुध्यैवोत्सृष्टं पशुमवरोधमकृत्यैव मुक्तप्रग्रहममन्यताचिन्तयत् ।
तं संवत्सरस्य पूर्णस्य परस्तादूर्ध्वमात्मने आत्मार्थमालभत- प्रजापतिदेवताकत्वेनेत्येतत्- आलभतालम्भं कृतवान् ।
पशूनन्यान्ग्राम्यानारण्यांश्च देवताभ्यो यथादैवतं प्रत्यौहत्प्रतिगमितवान् ।
यस्माच्चैवं प्रजापतिरमन्यत तस्मादेवमन्यो ऽप्युक्तेन विधिनात्मानं पशुमश्वं मेध्यं कल्पयित्वा- सर्वदेवत्यो ऽहं प्रोक्ष्यमाण आलभ्यमानस्त्वहं मद्देवत्य एव स्याम्, अन्य इतरे पशवो ग्राम्यारण्या यथादैवतमन्याभ्यो देवताभ्य आलभ्यन्ते मदवयवभूताभ्य एव- इतिविद्यात् ।
अत एवेदानीं सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते याज्ञिकाः ।
ऽएवमेव ह वा अश्वमेधो य एष तपतिऽ- यस्त्वेवं पशुसाधनकः क्रतुः स एष साक्षात्फलभूतो निर्दिश्यत एष ह वा अश्वमेधः ।
को ऽसौ? य एव सविता तपति जगदवभासयति तेजसा ।
तस्यास्य क्रतुफलात्मनः संवत्सरः कालविशेषः, आत्मा शरीरं तन्निर्वर्त्यत्वात्संवत्सरस्य ।
तस्यैव क्रत्वात्मनः, अग्निसाध्यत्वाच्च फलस्य क्रतुत्वरूपेणैव निर्देशः, अयं पार्थिवो ऽग्निरर्कः साधनभूतः ।
तस्य चार्कस्य क्रतौ चित्यस्येमे लोकास्त्रयो ऽयोप्यात्मानः शरीरावयवाः ।
तथा च व्याख्यातंऽतस्य प्राची दिक्ऽइत्यादिना ।
तावग्न्यादित्यावेतौ यथाविशेषितावर्काश्वमेधौ क्रतुफले ।
अर्को यः पार्थिवो ऽग्निः स साक्षात्क्रतुरूपः क्रियात्मकः ।
क्रतोरग्निसाध्यत्वात्तद्रूपेणैव निर्देशः ।
क्रतुसाध्यत्वाच्च फलस्य क्रतुरूपेणैव निर्देश आदित्यो ऽश्वमेध इति ।
तौ साध्यैसाधनौ क्रतुफलभूतावग्न्यादित्यौ, सा उ पुनर्भूय एकैव देवता भवति ।
का सा? मृत्युरेव ।
पूर्वमप्येकैवासीत्क्रियासाधनफलभेदाय विभक्ता ।
तथा चोक्तम्"स त्रेधात्मानं व्यकुरुत" (बृ.उ.1 । 2 । 3) इति ।
सा पुनरपि क्रियानिर्वृत्त्युत्तरकालमेकैव देवता भवति मृत्युरेव फलरूप ।
यः पुनरेवमेनमश्वमेधं मृत्युमेकां देवतां वेद ।
अहमेव मृत्युरस्म्यश्वमेध एका देवता मद्रूपा अश्वाग्निसाधनसाध्येति सो ऽपजयति पुनर्मृत्युं पुनर्मरणं सकृन्मृत्वा पुनर्मरणाय न जायत इत्यर्थः ।
अपजितो ऽपि मृत्युरेनं पुनराप्नुयादित्याशङ्क्याह- नैनं मृत्युराप्नोति ।
कस्मात्? मृत्युरस्य एवंविद आत्मा भवति ।
किञ्च मृत्युरेव फलरूपः सन्ने तासां देवतानामेको भवति ।
तस्यैतत् फलम् ॥7॥
इति प्रथमाध्याये द्वितीयमग्निब्राह्मणम् ॥2॥
द्वया हेत्याद्यस्य कः सम्बन्धः? कर्मणां ज्ञानसहितानां परा गतिरुक्ता मृत्य्वात्मभावो ऽश्वमेधगत्युक्त्या ।
अथेदानीं मृत्य्वात्मभावसाधनभूतयोः कर्मज्ञानयोर्यत उद्भवस्तत्प्रकाशनार्थमुद्गीथब्राह्मणमारभ्यते ।
ननु मृत्य्वात्मभावः पूर्वत्र ज्ञानकर्मणोः फलमुक्तम् ।
उद्गीथज्ञानकर्मणोस्तुमृत्य्वात्मभावातिक्रमणं फलं वक्ष्यति अतो भिन्नविषयत्वात्फलस्य न पूर्वकर्मज्ञानोद्भवप्रकाशनार्थमिति चेत् ।
नायं दोषः;अग्न्यादित्यात्मभावत्वादुद्गीथफलस्य ।
पूर्वत्राप्येतदेव फलमुक्तम्ऽएतासां देवतानामेको भवतिऽइति ।
ननुऽमृत्युमतिक्रान्तःऽइत्यादि विरुद्धम्;न स्वाभाविकपप्मासङ्गविषयत्वादतिक्रमणस्य ।
को ऽसौ स्वाभाविकः पप्मासङ्गो मृत्युः? कुतो वा तस्योद्भवः? केन वा तस्यातिक्रमणम्? कथं वा? इत्येतस्यार्थस्य प्रकाशनायाख्यायिकारभते ।
कथम्-
स्तर्त् ब्र्हुप् 1,3.1
द्वया ह प्राजापत्या देवाश् चासुराश् च ततः कानीयसा एव देवा ज्यायसा असुराः ।
त एषु लोकेष्व् अस्पर्धन्त ।
ते ह देवा ऊचुर् हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति

1.3.2

ब्र्हुप्भ्_1,3.1 द्वया द्विप्रकाराः ।
हेति पूर्ववृत्तावद्योदको निपातः ।
वर्तमान प्रदापतेः पूर्वजन्मनि यद् वृत्तं तदवद्योदयति हशब्देन ।
प्राजापत्याः प्रजापतेर्वृत्तजन्मावस्थस्यापत्यानि प्राजापत्याः ।
के ते? देवाश्चासुराश्च ।
तस्यैव प्रजापतेः प्राणा वागादयः ।
कथं पुनस्तेषां देवासुरत्वम्? उच्यते - शास्त्रजनितज्ञानकर्मभाविता द्योदनाद्देवा भवन्ति ।
त एव स्वाभाविकप्रत्यक्षानुमानजनितदृष्टप्रयोजनकर्मज्ञानभाविता असुराः ।
स्वेष्वेवासुषु रमणात् सुरेभ्यो वा देवोभ्यो ऽन्यत्वात् ।
यस्माच्च दृष्टप्रयोजनज्ञानकर्मभाविता असुराः, ततस्तस्मात्कानीयसाः, कानीयांस एव कानीयसाः, स्वार्थे ऽणि वृद्धिः ।
कनीयांसो ऽल्पा एव देवाः ।
ज्यायसा असुराज्यायानसो ऽसुराः ।
स्वाभाविकी हि कर्मज्ञानप्रवृत्तिर्महत्तरा प्राणानां शास्त्रजनितायाः कर्मज्ञानप्रवृत्तेर्दृष्टप्रयोजनत्वात् ।
अत एव कनीयस्त्वं देवानां शास्त्रजनितप्रवृत्तेरल्पत्वात् ।
अत्यन्तयत्नसाध्या हि सा ।
ते देवाश्चासुराश्च प्रजापतिशरीरस्था एषु लोकेषु निमित्तभूतेषु स्वाभाविकेतरकर्मज्ञानसाध्येषु अस्पर्धन्त स्पर्धा. कृतवन्तः ।
देवानां चासुराणां च वृत्त्युद्भवाभिभवौ स्पर्धा ।
कदाचिच्छास्त्रजनितकर्मज्ञानभावनारूपा वत्तिः प्राणानामुद्भवति ।
यदा चोद्भवति तदा दृष्टप्रयोजना प्रत्यक्षानुमान जनितकर्मज्ञानभावनारूपा तेषामेव प्राणानां वृत्तिरासुर्यभिभूयते ।
स देवानां जयो ऽसुराणां पराजयः ।
कदाचित्तद्विपर्ययेण देवानां वृत्तिरभिभूयत आसुर्या उद्भवः ।
सो ऽसुराणां जयो देवानां पराजयः ।
एवं देवानां जये धर्मभूयस्त्वादुत्कर्ष आ प्रजापतित्वप्राप्तेः ।
असुरजये ऽधर्मभूयस्त्वादपकर्ष आ स्थावरत्वप्राप्तेः ।
उभयसाम्ये मनुष्यत्वप्राप्तिः ।
त एवं कनीयस्त्वादभिभूयमाना असुरैर्देवा बाहुल्यादसुराणां किं कृतवन्तः? इत्युच्यते- ते देवा असुरैरभिभूयमाना ह किलोचुरुक्तवन्तः ।
कथम्? हन्तेदानीम् अस्मिन्यज्ञे ज्योतिष्टोमे, उद्गीथेन उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणेन आत्ययामातिगच्छामः ।
असुरानभिभूय स्वं देवभावं शास्त्रप्रकाशितं प्रतिपत्यामह इत्युक्तवन्तो ऽन्योन्यम् ।
उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणं च ज्ञानकर्मभ्याम् ।
कर्म वक्ष्यमाणं मन्त्रजपलक्षणं विधित्स्यमानं"तदेतानि जपेत्"इति ।
ज्ञानं त्विदमेव निरूप्यमाणम् ।
नन्विदमभ्यारोहजपविशेषोर्ऽथवादौ न ज्ञाननिरूपणपरम् ।
न; ऽय एवं वेदऽइति वचनात् ।
उद्गीथप्रस्तावे पुराकल्पश्रवणादुद्गीथविधिपरमिति चेन्न, अप्रकरणात् ।
उद्गीथस्य चान्यत्र विहितत्वात् ।
विद्याप्रकरत्वाच्चास्य ।
अभ्यारोहजपस्य चानित्यत्वात्, एवं विप्रयोज्यत्वात्;विज्ञानस्य च नित्यवच्छ्रवणात् ।
"तद्धैतल्लोकजिदेव"(बृ. उ.1 । 3 । 28) इति च श्रुतेः;प्राणस्य वागादीनां शुद्ध्यशुद्धिवचनात् ।
न ह्यन्युपास्यते प्राणस्य शुद्धिवचनं वागादीनां च सहोपान्यस्तानामशुद्धिवचनम् ।
वागादिनिन्दया मुख्यप्राणस्तुतिश्चाभिप्रेता उपपद्यते ।
ऽमृत्युमतिक्रान्तो दीप्यतेऽइत्यादि फलवचनं च ।
प्राणस्वरूपापत्तेर्हि फलं तद्यद्वागाद्यग्न्यादिभावः ।
भवतु नाम प्राणस्योपासनम्, न तु विशुद्ध्यादिगुणवत्तेति ।
ननु स्याच्छ्रुतत्वात्;न स्यात्;उपास्यत्वे स्तुत्यर्थत्वोपपत्तेः ।
न;अविपरीतार्थप्रतिपत्तेः श्रेयःप्राप्त्युपपत्तेर्लोकवत् ।
यो ह्यविपरीतमर्थं प्रतिपद्यते लोके स इष्टं प्राप्नोत्यनिष्टाद्वा निवर्तते, न विपरीतार्थप्रतिपत्त्या ।
तथेहापि श्रौतशब्दजनितार्थप्रतिपत्तौ श्रेयःप्राप्तिरुपपन्ना न विपर्यये ।
न चोपासनार्थश्रुतशब्दोत्थविज्ञानविषयस्य अयथार्थत्वे प्रमाणमस्ति ।
न च तद्विज्ञानस्यापवादः श्रूयते ।
ततः श्रेयःप्राप्तिदर्शनाद्यथार्थतां प्रतिपद्यामहे;विपर्यये चानर्थप्राप्तिदर्शनात् ।
यो हि विपर्ययेणार्थं प्रतिपद्यते लोके, पुरुषं स्थाणुरित्यमित्रं मित्रमिति वा, सो ऽनर्थं प्राप्नुवन्दृश्यते ।
आत्मेश्वरदेवतादीनामपि अयथार्थानामेव चेद् ग्रहणं श्रुतितः, अनर्थप्राप्त्यर्थं शास्त्रमिति ध्रुवं प्राप्नुयाल्लोकवदेव, न चैतदिष्टम्;तस्माद्यथाभूतानेव आत्मेश्वरदेवतादीन् ग्राहयत्युपासनार्थं शास्त्रम् ।
नामादौ ब्रह्मदृष्टिदर्शनादयुक्तमिति चेत्स्फुटं नामादेरब्रह्मत्वम्, तत्र ब्रह्मदृष्टिं स्थाण्बादाविव पुरुषदृष्टिं विपरीतां ग्राहयच्छास्त्रं दृश्यते ।
तस्माद्यथार्थमेव शास्त्रतः प्रतिपत्तेः श्रेयः इत्युक्तमिति चेत्? न, प्रतिमावद्भेदप्रतिपत्तेः ।
नामादवब्रह्मणि ब्रह्मदृष्टिं विपरीतां ग्राहयति शास्त्रं स्थाण्बादाविव पुरुषदृष्टिं, इति नैतत्साध्ववोचः ।
कस्म्तात्? भेदेन हि ब्रह्मणो नामादिवस्तुप्रतिपन्नस्य नामादौ विधीयते ब्रह्मदृष्टिः प्रतिमादाविव विष्णुदृष्टिः ।
आलम्बनत्वेन हि नामादिप्रतिपत्तिः प्रतिमादिवदेव, न तु नामाद्येव ब्रह्मेति ।
यथा स्थाणावनिर्ज्ञाते न स्थाणुरिति, पुरुष एवायमिति प्रतिपद्यते विपरीतम्, न तु तथा नामादौ ब्रह्मदृष्टिर्विपरीता ।
ब्रह्मदृष्टिरेव केवला नास्ति ब्रमेति चेत् ।
एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिदृष्टीनां तुल्यता ।
न;ऋगादिषु पृथिव्यादिदृष्टिदर्शनात् ।
विद्यमानपृथिव्यादिवस्तुदृष्टीनामेव ऋगादिविषये क्षेपदर्शनात् ।
तस्मात्तत्सामान्यान्नामादिषु ब्रह्मादिदृष्टीनां विद्यमानब्रह्मादिविषयत्वसिद्धिः ।
एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिबुद्धीनां च सत्यवस्तुविषयत्वसिद्धिः ।
मुख्यापेक्षत्वाच्च गौणत्वस्य ।
पञ्चाग्न्यादिषु चाग्नित्वादेर्गौणत्वाद् मुख्याग्न्यादिसद्भाववन्नामादिषु बह्मत्वस्य गौणत्वान्मुख्यब्रह्मसद्भावोपपत्तिः ।
क्रियार्थैश्चाविशेषाद्विद्यार्थानाम् यथा च दर्शपौर्णमासादिक्रियेदम्फला विशिष्टैतिकर्तव्यताका एवङ्क्रमप्रयुक्ताङ्गा च इत्येतदलौकिकं वस्तु प्रत्यक्षाद्यविषयं तथाभूतं च वेदवाक्यैरेव ज्ञाप्यते ।
तथा, परमात्मेश्वरदेवतादिवस्तु अस्थूलादिधर्मकमशनायाद्यतीतं चेत्येवमादिविशिष्टमिति वेदवाक्यैरेव ज्ञाप्यते, इत्यलौकिकत्वात्तथाभूतमेव भवितुमर्हतीति ।
न च क्रियार्थैर्वाक्यैर्ज्ञानवाक्यानां बुद्ध्युत्पातकत्वे विशेषो ऽस्ति ।
न चानिश्चिता विपर्यस्ता वा परमात्मादिवस्तुविषया बुद्धिरुत्पद्यते ।
अनुष्ठेयाभावादयुक्तमिति चेत् क्रियार्थैर्वाक्यैस्त्र्यंशाभावनानुष्ठेया ज्ञाप्यते ऽलौकिक्यपि ।
न तथा परमात्मेश्वरादिविज्ञाने ऽनुष्ठेयं किञ्चितस्ति ।
अतः क्रियार्थैः साधर्म्यमित्ययुक्तमिति चेत्? न, ज्ञानस्य तथाभूतार्थविषयत्वात् न ह्यनुष्ठेयत्वात्तथात्वम्, किं तर्हि? प्रमाणसमधिगतत्वात् ।
न च तद्विषयाया बुद्धेरनुष्ठेयविषयत्वात्तथार्थत्वम्, किं तर्हि? वेदवाक्यजनितत्वादेव ।
वेदवाक्याधिगतस्य वस्तुनस्तथात्वे सत्यनुष्ठेयत्वविशिष्ठं चेदनुतिष्ठति ।
नो चेदनुष्ठेयत्वविशिष्ठं नानु तिष्ठति ।
अननुष्ठेयत्वे वाक्यप्रमाणत्वानुपपत्तिरिति चेत् ।
न ह्यनुष्ठेये ऽसति पदानां सहतिरुपपद्यते ।
अनुष्ठेयत्वे तु सति तादर्थ्येन पदानि संहन्यन्ते ।

तत्रानुष्ठेयनिष्ठं वाक्यं प्रमाणं भवति इदमनेनैवं कर्तव्यमिति ।
न त्विदमनेनैवमित्येवं प्रकाराणां पदशतानामपि वाक्यत्वमस्तिऽकुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्ऽइत्येवमादीनामन्यतमे ऽसति ।
अतः परमात्मेश्वरादीनामवाक्यप्रमाणत्वम्, पदार्थत्वे च प्रमाणान्तरविषयत्वम् ।
अतो ऽसदेतदिति चेत्? न,ऽअस्ति मेरुर्वर्णचतुष्टयोपेतःऽइत्येवमाद्यननुष्ठेये ऽपि वाक्यदर्शनात् ।
न चऽमेरुर्वर्णचतुष्टयोपेतःऽइत्येवमादिवाक्यश्रवणे मेर्वादावनुष्ठेयत्वबुद्धिरुत्पद्यते ।
तथा अस्तिपदसहितानां परमात्मेश्वरादिप्रतिपादकवाक्यपदानां विशेषण विशेष्यभावेन संहतिः केन वार्यते ।
मेर्वादिज्ञानवत्परमात्मज्ञाने प्रयोजनाभावादयुक्तमिति चेत्? न,"ब्रह्मविदाप्नोति परम्"(तै.उ.2 । 1 । 1) "ब्रह्मविदाप्नोति परम् भिद्यते हृदयग्रन्थिः"(मु.उ.2 । 2 । 8) इति फलश्रवणात्, संसारबीजाविद्यादिदोषनिवृत्तिदर्शनाच्च ।
अनन्यशेषत्वाच्च तज्ज्ञानस्य, जुह्वामिव फलश्रुतेरर्थवादत्वानुपपत्ति ।
प्रतिषिद्धानिष्टफलसम्बन्धश्च वेदादेव विज्ञायते ।
न चानुष्ठेयः सः ।
न च प्रतिषिद्धविषये प्रवृत्तक्रियस्य अकरणादन्यदनुष्ठेयमस्ति ।
अकर्तव्यताज्ञाननिष्ठतैव हि परमार्थतः प्रतिषेधविधीनां स्यात् ।
क्षुधार्तस्य प्रतिषेधज्ञानसंस्कृतस्य अभक्ष्ये ऽभोज्ये वा प्रत्युपस्थिते कलज्जाभिशस्तान्नादौऽइदं भक्ष्यमदो भोज्यम्ऽइति वा ज्ञानमुत्पन्नम्, तद्विषयया प्रतिषेधज्ञानस्मृत्या बाध्यते ।
मृगतृष्णिकायामिव पेयज्ञानं तद्विषययाथात्म्यविज्ञानेन ।
तस्मिन्बाधिते स्नाभाविकनर्थकरीतद्भक्षणभोजनप्रवृत्तिर्न भवति ।
विपरीतज्ञाननिमित्तायाः प्रवृत्तेर्निवृत्तिरेव, न पुनर्यत्नः कार्यस्तदभावे ।
तस्मात् प्रतिषेधविधीनां वस्तुयाथात्म्यज्ञाननिष्ठतैव, न पुरुषव्यापारनिष्ठतागन्धो ऽप्यस्ति ।
तथेहापि परमात्मादियाथात्म्यज्ञानविधीनां तावन्मात्रपर्यवासनतैव स्यात् ।
तथा तद्विज्ञानसंस्कृतस्य तद्विपरीतार्थज्ञाननिमित्तानां प्रवृत्तीनामनर्थार्थत्वेन ज्ञायमानत्वात् परमात्मादियाथात्म्यज्ञानस्मृत्या स्वाभाविके तन्निमित्तविज्ञाने बाधिते ऽभावः स्यात् ।
ननु कलञ्जादिभक्षणादेरनर्थार्थत्ववस्तुयाथात्म्यज्ञानस्मृत्या स्वाभाविके तद्भक्ष्यत्वादिविषयविपरीतज्ञाने निवर्तिते तद्भक्षणाद्यनर्थप्रवृत्त्यभाववदप्रतिषेधविषयत्वाच्छास्त्रविहितप्रवृत्त्यभावो न युक्त इति चेत् ।
न, विपरीतज्ञाननिमित्तत्वानर्थार्थत्वाभ्यां तुल्यत्वात् ।
कलञ्जभक्षणादिप्रवृत्तेः मिथ्याज्ञाननिमित्तत्वम् ।
अनर्थार्थत्वं च यथा, तथा शास्त्रविहितप्रवृत्तीनामपि ।
तस्मात् परमात्मयाथात्म्यविज्ञानवतः शास्त्रविहितप्रवृत्तीनामपि मिथ्याज्ञाननिमित्तत्वेन अनर्थार्थत्वेन च तुल्यत्वात् परमात्मज्ञानेन विपरीतज्ञाने निवर्तिते युक्त एवाभावः ।
ननु तत्र युक्तः, नित्यानां तु केवलशास्त्रनिमित्तत्वात्, अनर्थार्थत्वाभावच्चाभावो न युक्त इति चेत्? न अविद्यारागद्वेषादिदोषवतो विहितत्वात् ।
यथा स्वर्गकामादिदोषवतो दर्शपूर्णमासादीनि काम्यानि कर्माणि विहितानि तथा सर्वानर्थबीजाविद्यादिदोषवतस्तज्जनितेष्टानिष्टप्राप्तिपरिहाररागद्वेषादिदोषवतश्च तत्प्रेरिताविशेषप्रवृत्तेरिष्टानिष्टप्राप्तिपरिहारार्थिनो नित्यानि कर्माणि विधीयन्ते, न केवलं शास्त्रनिमित्तान्येव ।
न चाग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसोमानां कर्मणां स्वतः काम्यनित्यत्वविवेकोस्ति ।
कर्तृगतेन हि स्वर्गादिकामदोषेण कामार्थता ।
तथा अविद्यादिदोषवतः स्वभावप्राप्तेष्टानिष्टप्राप्तिपरिहारार्थिनः तदर्थान्येव नित्यानि इति युक्तम्, तं प्रति विहितत्वात् ।
न परमात्मयाथात्म्यविज्ञानवतः शमोपायव्यतिरेकेण किञ्चित्कर्म विहितमुभलभ्यते ।
कर्मनिमित्तदेवतादिसर्वसाधनविज्ञानोपमर्देन ह्यात्मज्ञानं विधीयते, न चोपमर्दितक्रियाकारकादिविज्ञानस्य कर्मप्रवृत्तिरुपपद्यते ।
विशिष्टक्रियासाधनादिज्ञानपूर्वकत्वात्क्रियाप्रवृत्तेः ।
न हि देशकालाद्यनवच्छिन्नास्थूलद्वयादिब्रह्मपत्ययधारिणः कर्मावसरो ऽस्ति ।
भोजनादिप्रवृत्त्यवसरवत्स्यादिति चेत्? न, अविद्यादिकेवलदोषनिमित्तत्वाद्भोजनादि प्रवृत्तेरावश्यकत्वानुपपत्तेः ।
न तु तथानियतं कदाचित्क्रियते कदाचिन्न क्रियते चेति नित्यं कर्मोपपद्यते ।
केवलदोषनिमित्तत्वात्तु भोजनादिकर्मणो ऽनियतत्वं स्यात् ।
दोषोद्भवाभिभवयोरनियतत्वात् कामानामिव काम्येषु ।
शास्त्रनिमित्तकालाद्यपेक्षत्वाच्च नित्यानामनियतत्वानुपपत्तिः ।
दोषनिमित्तत्वे सत्यपि यथा काम्याग्निहोत्रस्य शास्त्रविहितत्वात् सायंप्रातः कालाद्यपेक्षत्वमेवम् ।
तद्भोजनादिपवृत्तौ नियमवत्स्यादिति चेत्? न, नियमसाक्रियत्वात् क्रियायाश्चप्रयोजकत्वान्नासौ ज्ञानस्यापवादकरः ।
तस्मात् परमात्मायाथात्म्यज्ञानविधेरपि तद्विपरीतस्थूलद्वैतादिज्ञाननिवर्तकत्वात् सामर्थ्यात्सर्वकर्मप्रतिषेधविध्यर्थत्वं सम्पद्यते;कर्मप्रवृत्त्यभावस्य तुल्यत्वाद् यथा प्रतिषेधविषये ।
तस्मात् प्रतिषेधविधिवच्च वस्तुप्रतिपादनं तत्परत्वं च सिद्धं शास्त्रस्य ॥1॥
स्तर्त् ब्र्हुप् 1,3.2
ते ह वाचम् ऊचुस् त्वं न उद्गायेति ।
तथेति तेभ्यो वाग् उदगायत् ।
यो वाचि भोगस् तं देवेभ्य आगायत् ।
यत् कल्याणं वदति तद् आत्मने ।
ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति ।
तम् अभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यद् एवेदम् अप्रतिरूपं वदति ।
स एव स पाप्मा

1.3.3

ब्र्हुप्भ्_1,3.2 ते देवा हैवं विनिश्चित्य, वाचं वागभिमानिनीं देवतामुचुरुक्तवन्तः ।
त्वं नो ऽस्मभ्यमुद्गायौद्गात्रं कर्म कुरुष्व ।
वाग्देवतानिर्वर्त्त्यमौगात्रं कम दृष्टवन्तः, तामेव च देवतां जपमन्त्राभिधायाम्"असतो मा सद्गमय"(बृ.उ.1 । 3 । 28) इति ।
अत्र चोपासनायाः कर्मणश्च कर्तृत्वेन वागादय एव विवक्ष्यन्ते ।
कस्मात्? यस्मात्परमार्थतस्तत् कर्तृकस्तद्विषय एव च सर्वो ज्ञानकर्मसंव्यवहारः ।
वक्ष्यति हि"ध्यायतीव लेलायतीव"इत्यात्मकर्तृकत्वाभावं विस्तरतः षष्टे ।
इहापि चाद्यायान्ते उपसंहरिष्यति अव्याकृतादिक्रियाकारकफलजातम्,"त्रयं वा इदं नाम रूपं कर्म"(1 । 6 । 1) इति अविद्याविषयम् ।
अव्याकृतात्तु यत्परं परमात्माख्यं विद्याविषयम् अनामरूपकर्मात्मकम्"नेति नेति"(2 । 3 । 6) इति इतरप्रत्याख्यानेनोपसंहरिष्यति पृथक् ।
यस्तु वागादिसमाहारोपाधिपरिकल्पितः संसार्यात्मा तं च वागादिसमाहारपक्षपातिनमेव दर्शयिष्यति"एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति"(2 । 4 । 12) इति ।
तस्माद्युक्ता वागादीनामेव ज्ञानकर्मकर्तृत्वफलप्राप्तिविवक्षा ।
तथेति तथास्त्विति देवैरुक्ता वाक्तेभ्यो ऽर्थिभ्योर्ऽथाय उदकायदुद्गानं कृतवती ।
कः पुनरसौ देवेभ्योर्ऽथाय उद्गानकर्मणा वाचा निर्वर्तितः कार्यविशेषः? इत्युच्यते- यो वाची निमित्तभूतायां वागादिसमुदायस्य य उपकारो निष्पद्यते वदनादिव्यापारेण, स एव ।
सर्वेषां ह्यसौ वाग्वदनाभिनिर्वृत्तो भोगः फलम् ।
तं भोगं सा तृषु पवमानेषु कृत्वा अवशिष्टेषु नवसु स्तोत्रेषु वाचनिकमार्त्विज्यं फलं यत्कल्याणं शोभनं वदति वर्णानभिनिर्वर्तयति तद् आत्मने मह्यमेव ।
तद्ध्यसाधारणं वाग्देवतायाः कर्म यत्सम्यग्वर्णानामुच्चारणम् ।
अतस्तदेव विशेष्यते यत्कल्याणं वदतीति ।
यत्तु वदनकार्यं सर्वसंघातोपकारात्मकं तद्याजमानमेव ।
तत्र कल्याणवदनात्मसम्बन्धासङ्गावसरं देवताया रन्ध्रं प्रतिलम्य ते विदुरसुराः, कथम्? अनेनोद्गात्रानो ऽस्मान्स्वाभाविकं ज्ञानं चाभिभूयातीत्य शास्त्रजनितकर्मज्ञानरूपेण ज्योतिषोद्गात्रात्मना अत्येष्वन्त्यतिगमिष्यन्ति ।
इत्येवं विज्ञाय समुद्गातारमभिद्रुत्याभिगम्य स्वेन आसङ्गलक्षणेन पाप्मनाविध्यंस्ताडितवन्तः संयोजितवन्त इत्यर्थः ।
स यः स पाप्मा प्रजापतेः पूर्वजन्मावस्थस्य वाचि क्षिप्तः स एष प्रत्यक्षीक्रियते ।
को ऽसौ? यदेवमप्रतिरूपमननुरूपं शास्त्रप्रतिषिद्धं वदति येन प्रयुक्तो ऽसभ्यबीभत्सानृताद्यनिच्छन्नपि वदति ।
अनेन कार्येणाप्रतिरूपवदनेन अनुगम्यमानः प्रजापतेः कार्यभूतासु प्रजासु वाचि वर्तते ।
स एवाप्रतिरूपवदनेनानुमितः स प्रजापतेर्वाचि गतः पाप्मा, कारणानुविधायि हि कार्यमिति ॥2॥
स्तर्त् ब्र्हुप् 1,3.3-6
अथ ह प्राणम् ऊचुस् त्वं न उद्गायेति ।
तथेति तेभ्यः प्राण उदगायत् ।
यः प्राणे भोगस् तं देवेभ्य आगायत् ।
यत् कल्याणं जिघ्रति तद् आत्मने ।
ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति ।
तम् अभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यद् एवेदम् अप्रतिरूपं जिघ्रति ।
स एव स पाप्मा

1.3.4

अथ ह चक्षुर् ऊचुस् त्वं न उद्गायेति ।
तथेति तेभ्यश् चक्षुर् उदगायत् ।
यश् चक्षुषि भोगस् तं देवेभ्य आगायत् ।
यत् कल्याणं पश्यति तद् आत्मने ।
ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति ।
तम् अभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यद् एवेदम् अप्रतिरूपं पश्यति ।
स एव स पाप्मा

1.3.5

अथ ह श्रोत्रम् ऊचुस् त्वं न उद्गायेति ।
तथेति तेभ्यः श्रोत्रम् उदगायत् ।
यः श्रोत्रे भोगस् तं देवेभ्य आगायत् ।
यत् कल्याणं शृणोति तद् आत्मने ।
ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति ।
तम् अभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यद् एवेदम् अप्रतिरूपं शृणोति ।
स एव स पाप्मा

1.3.6

अथ ह मन ऊचुस् त्वं न उद्गायेति ।
तथेति तेभ्यो मन उदगायत् ।
यो मनसि भोगस् तं देवेभ्य आगायत् ।
यत् कल्याणं संकल्पयति तद् आत्मने ।
ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति ।
तम् अभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यद् एवेदम् अप्रतिरूपं संकल्पयति ।
स एव स पाप्मा ।
एवम् उ खल्व् एता देवताः पाप्मभिर् उपासृजन् ।
एवम् एनाः पाप्मनाविध्यन्

1.3.7

ब्र्हुप्भ्_1,3.3-6 तथैव घ्राणादिदेवता उद्गीथनिर्वर्तत्वाज्जपमन्त्रप्रकाश्या उपास्याश्चेति कमेण परीक्षितवन्तः ।
देवानां चैतन्निश्चितमासीत्- वागादिदेवताः कमेण परीक्ष्यमाणाः कल्याणविषयविशेषात्मसम्बन्धासङ्गहेतोरासुरपाप्मसंसर्गाद् उद्गीथनिर्वर्तनासमर्थाः ।
अतो ऽनभिधेयाः"असतो मा सद्गमय"इत्यनुपास्याश्च, अशुद्धत्वादितराव्यापकत्वाच्चेति ।
एवमु खल्वनुक्ता अप्येतास्त्वगादिदेवताः कल्याणाकल्याणाकार्यदर्शनादेवं वागादिदेव, एनाः पाप्मनाविध्यन्पाप्मना विद्धवन्त इति यदुक्तं तत्पाप्मभिरुपासृजन्पाप्मभिः संसर्गं कृतवन्त इत्येतत् ॥3-6 ॥
वागादिदेवता उपासीना अपि मृत्यतिगमनायाशरणाः सन्तो देवाः क्रमेण-
स्तर्त् ब्र्हुप् 1,3.7
अथ हेमम् आसन्यं प्राणम् ऊचुस् त्वं न उद्गायेति ।
तथेति तेभ्य एष प्राण उदगायत् ।
ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति ।
तम् अभिद्रुत्य पाप्मनाविव्यत्सन् ।
स यथाश्मानम् ऋत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः ।
ततो देवा अभवन्, परासुरा ।
भवत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद

1.3.8

ब्र्हुप्भ्_1,3.7 अथानन्तरं ह इममित्यभिनयप्रदर्शनार्थम् ।
आसन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थं प्राणमूचुस्त्वं न उद्गायेति ।
तथेत्येवं शरणमुपगतेभ्यः स एष प्राणो मुख्य उदगायदित्यादि पूर्ववत् ।
पाप्मनाविव्यत्सन्वेधनं कर्तुमिष्टवन्तस्ते च दोषासंसर्गिणं सन्तं मुख्यं प्राणम् ।
स्वेन आसङ्गदोषेण वागादिषु लब्धप्रसरास्तदभ्यासानुवृत्त्या संस्रक्ष्यमाणा विनेशुर्विनष्टा विध्वस्ताः ।
कथमिव? इति दृष्टान्त उच्यते- स यथा स दृष्टान्तो यथा लोके ऽश्मानं पाषाणमृत्वा गत्वा प्राप्य, लोष्टः पांसुपिण्डः पाषाणचूर्णनायाश्मनि निक्षिप्तः स्वयं विध्वंसेत विस्त्रंसेत विचूर्णीभवेत्, एवं हैव यथायं दृष्टान्त एवमेव, विध्वंसमाना विशेषेण ध्वंसमाना विष्वञ्चो नानागतयो विनेशुर्विनष्टा यतः, ततस्तस्मादासुरविनाशाद्देवत्वप्रतिबन्धभूतेभ्यः स्वाभाविकासङ्गजनितपाप्मभ्यो वियोगाद् असंसर्गधर्मिमुख्यप्राणाश्रयबलाद् देवा वागादयः प्रकृता अभवत् ।
किमभवन्? स्वं देवतारूपमग्न्याद्यात्मकं वक्ष्यमाणम् ।
पूर्वमष्यग्न्याद्यात्मन एव सन्तः स्वाभाविकेन पाप्मना तिरस्कृतविज्ञानाः पिण्डमात्राभिमाना आसन् ।
ते तत्पाप्मवियोगादुज्झित्वा पिण्डमात्राभिमानं शास्त्रसमर्पितवागाद्यग्न्याद्यात्माभिमाना बभूवुरित्यर्थः ।
किञ्च ते प्रतिपक्षभूता असुराः पराभवन्नित्यनुवर्तते ।
पराभूता विनष्टा इत्यर्थः ।
यथा पुराकल्पेन वर्णितः पूर्वयजमानो ऽतिक्रान्तकालिकः एतामेवाख्यायिकारूपां श्रुतिं दृष्ट्वा तेनैव क्रमेण वागादिदेवताः परीक्ष्य, ताश्चापोह्यासङ्गपाप्मास्पददोषवत्त्वेनादोषास्पदं मुख्यं प्राणमात्मत्वेनोपगम्य वागाद्याध्यात्मिकपिण्डमात्रपरिच्छिन्नात्माभिमानं हित्वा वैराजपिण्डाभिमानं वागाद्यग्न्याद्यात्मविषयं वर्तमानप्रजापतित्वं शास्त्रप्रकाशितं प्रतिपन्नः, तथैवायं यजमानस्तेनैव विधिना भवति प्रजापतिस्वरूपेणात्मना ।
परा चास्या प्रजापतित्वप्रतिपक्षभूतः पाप्मा द्विषन्भ्रातृव्यो भवति ।
यतो ऽद्वेष्टापि भवति कश्चिद् भ्रातृव्यो भरतादितुल्यः, यस्त्विन्द्रियविषयासङ्गजनितः पाप्मा भ्रातृव्यो द्वेष्टा च, पारमार्थिकात्मस्वरूपतिरतिरस्करणहेतुत्वात् स च पराभवति विशीर्यते लोष्टवात्प्राणपरिष्वङ्गात् ।
कस्यैतत्फलम्? इत्याह- य एवं वेद ।
यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते पूर्वयजमानवदित्यर्थः ॥7॥
फलमुपसंहृत्याधुनाख्यायिकारूपमेवाश्रित्याह- कस्माच्चहेतोर्वागादीन्मुक्ता मुख्य एव प्राण आत्मत्वेनाश्रयितव्यः? इति तदुपपत्तिनिरूपणाय यस्मादयं वागादीनां पिण्डादीनां च साधारण आत्मा, इत्येतमर्थमाख्यायिकया दर्शयन्त्याह श्रुतिः-
स्तर्त् ब्र्हुप् 1,3.8
ते होचुः -- क्व नु सो ऽभूद् यो न इत्थम् असक्तेति ।
अयम् आस्ये ऽन्तर् इति ।
सो ऽयास्य आङ्गिरसो ऽङ्गानां हि रसः

1.3.9

ब्र्हुप्भ्_1,3.8 ते प्रजापतिप्राणा मुख्येन प्राणेन परिप्रापितदेवस्वरूपा होचुरुक्तवन्तः फलावस्थाः ।
किम्? इत्याह- क्व न्विति वितर्के ।
क्व नु कस्मिन्नु सो ऽभूत् ।
कः? यो नो ऽस्मानित्थमेवमसक्त सञ्जितवान्देवभावमात्मत्वेनोपगमितवान् ।
स्मरन्ति हि लोके केनचिदुपकृता उपकारिणम् ।
लोकवदेव स्मरन्तो विचारयमाणाः कार्यकरणसंघाते आत्मन्येवोपलब्धवन्तः ।
कथम्? अयमास्ये ऽन्तरिति, आस्ये मुखे य आकाशस्तस्मिन्नन्तरयं प्रत्यक्षो वर्तत इति ।
सर्वो हि लोको विचार्याध्यवस्यति, तथा देवाः ।
यस्मादयमन्तराकाशे वागाद्यात्मत्वेन विशेषमनाश्रित्य वर्तमान उपलब्धो देवैः, तस्मात्सप्राणो ऽयास्यो विशेषानाश्रयाच्च असक्त सञ्जितवान्वागादीन् ।
अत एवाङ्गिरस आत्मा कार्यकरणानाम् ।
कथमाङ्गिरसः? प्रसिद्धं ह्येतदङ्गानां कार्यकरणलक्षणानां रसः सार आत्मेत्यर्थः ।
कथं पुनरङ्गरसत्वम्? तदपाये शोषप्राप्तेरिति वक्ष्यामः ।
यस्माच्चायमङ्गरसत्वाद्विशेषामाश्रितत्वाच्च कार्यकरणानां साधारण आत्मा विशुद्धश्च, तस्माद्वागादीनपास्य प्राण एवात्मत्वेनाश्रयितव्य इति वाक्यार्थः ।
आत्मा ह्यात्मत्वेनोपगन्तव्यो ऽविपरीतबोधाच्छ्रेयःप्राप्तेः, विपर्यये स्वानिष्टप्राप्तिदर्शनात् ॥8॥
स्यान्मतं प्राणस्य विशुद्धिरसिद्धेति ।
ननु परिहृतमेतद्वागादीनां कल्याणवदनाद्यासङ्गवत्प्राणस्य आसङ्गास्पदत्वाभावेन ।
वाढम्, किं त्वाङ्गिरसत्वेन वागादीनामात्मत्वोक्त्या वागादिद्वारेण शवसृष्टितत्स्पृष्टेरिवाशुद्धता शङ्क्यते- इत्याह- शुद्ध एव प्रणः ।
कुतः?
स्तर्त् ब्र्हुप् 1,3.9
सा वा एषा देवता दूर् नाम ।
दूरं ह्य् अस्या मृत्युर् ।
दूरं ह वा अस्मान् मृत्युर् भवति य एवं वेद

1.3.10

ब्र्हुप्भ्_1,3.9 सा वा एषा देवता दूर्नाम ।
यं प्राणं प्राप्याश्मानमिव लोष्टवद्विध्वस्ता असुरास्तं परामृशति सेति ।
सैवैषा येयं वर्तमानयजमानशरीरस्था देवैर्निर्धारिता"अयमास्ये ऽन्तः"इति ।
देवता च सा स्यात्, उपासनक्रियायाः कर्मभावेन गुणभूतत्वात् ।
यस्यात्मा दूर्नाम दूरित्येवं ख्याता ।
नामशब्दः ख्यापनपर्यायः ।
तस्मात्प्रसिद्धास्या विशुद्धिदूर्नामत्वात् ।
कुतः पुनर्दूर्नामत्वम्? इत्याह- दूरं दूरेः हि यस्मादस्याः प्राणदेवतायाः मृत्युरासङ्गलक्षणः पाप्मा ।
असंश्लेषधर्मित्वात्प्राणस्य समीपस्थास्यापि दूरता मृत्योस्तस्माद् दूरित्येवं ख्यातिः, एवं प्राणस्य विशुद्धिर्ज्ञापिता ।
विदुषः फलमुच्यते- दूरं ह वा अस्मान्मृत्युर्भवति ।
अस्मादेवंविदः, य एवं वेद तस्मादेवमिति प्रकृतं विशुद्धिगुणोपेतं प्राणमुपास्त इत्यर्थः ।
उपासनं नाम उपास्यार्थवादे यथा देवतादिस्वरूपं श्रुत्या ज्ञाप्यते तथा मनसोपगम्य आसनं चिन्तनं लौकिकप्रत्ययाव्यवधानेन यावत्तद्देवतादिस्वरूपात्माभिमानाभिव्यक्तिरिति लौकिकात्माभिमानवत् ।
"देवो भूत्वा देवानप्येति" (बृ.उ.4 । 1 । 2) "किन्देवतो ऽस्यां प्राच्यां दिश्यसि" (बृ.उ.3 । 9 । 20) इत्येवमादिश्रुतिभ्यः ॥9॥
सा वा एषा देवता दूरं ह वा अस्मान्मृत्युर्भवतीत्युक्तम् ।
कथं पुनरेवंविदो दूरं मृत्युर्भवति? इत्युच्यते- एवंवित्त्वविरोधात् ।
इन्द्रियविषयसंसर्गासङ्गजो हि पाप्मा प्राणात्माभिमानिनो हि विरुध्यते, वागादिविशेषात्माभिमानहेतुत्वात् स्वाभाविकाज्ञानहेतुत्वाच्च ।
शास्त्रजनितो हि प्राणात्माभिमानः ।
तस्मादेवंविदः पाप्मा दूरं भवतीति युक्तं विरोधात् ।
तदेतत्प्रदर्शयति-
स्तर्त् ब्र्हुप् 1,3.10
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युम् अपहत्य यत्रासां दिशाम् अन्तस् तद् गमयां चकार ।
तद् आसां पाप्मनो विन्यदधात् ।
तस्मान् न जनम् इयान् नान्तम् इयान् नेत् पाप्मानं मृत्युम् अन्ववायानीति

1.3.11

ब्र्हुप्भ्_1,3.10 सा वा एषा देवतेत्युक्तार्थम् ।
एतासां वागादीनां देवतानां पाप्मानं मृत्युं स्वाभाविकाज्ञानप्रयुक्तेन्द्रियविषयसंसर्गासङ्गजनितेन हि पाप्मना सर्वो म्रियते, स ह्यतो मृत्युः, तं प्राणात्माभिमानमात्रतयैव प्राणो ऽपहन्तेत्युच्यते ।
विरोधादेव तु पाप्मैवंविदो दूरं गतो भवति ।
किं पुनश्चकार देवतानां पाप्मानं मृत्युमपहत्य? इत्युच्यते- यत्र यस्मिन्नासां प्राच्यादीनां दिशामन्तो ऽवसानं तत्तत्र गमयाञ्चकार गमनं कृतवानित्येतत् ।
ननु नास्ति दिशामन्तः कथमन्तं गमितवान्? इत्युच्यते- श्रौतविज्ञानवज्जनावधिनिमित्तकल्पितत्वाद्दिशां तद्विरोधिजनाव्युषित एव देशो दिशामन्तः, देशान्तो ऽरण्यमिति यद्वदित्यदोषः ।
तत्तत्र गमयित्वा आसां देवतानाम्, पाप्मन इति द्वितीयाबहुवचनम्, विन्यदधाद्विविधं न्यग्भावेनदधात्स्थापितवती प्राणदेवता ।
प्राणात्माभिमानशून्येषु अन्त्यजनेष्विति सामर्थ्यात् ।
इन्द्रियसंसर्गजो हि स इति प्राण्याश्रयतावगम्यते ।
तस्मात्तमन्त्यं जनं नेयान्न गच्छेत्सम्भाषणदर्शनादिभिर्न संसृजेत् ।
तत्संसर्गे पाप्मना संसर्गः कृतः स्यात्पाप्माश्रयो हि सः ।
तज्जननिवासं चान्तं दिगन्तशब्दवाच्यं नेयाज्जनशून्यमपि, जनमपि तद्देशवियुक्तमित्यभिप्रायः ।
नेदिति परिभयार्थे निपातः ।
इत्थं जनसंसर्गे पाप्मानं मृत्युमन्ववायानीति ।
अनु अव अयानीत्यनुगच्छेयमिति, एवं भीतो न जनमन्तं चेयादिति पूर्वेण सम्बन्धः ॥10॥
स्तर्त् ब्र्हुप् 1,3.11
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युम् अपहत्याथैना मृत्युम् अत्यवहत्

1.3.12

ब्र्हुप्भ्_1,3.11 सा वा एषा देवता, तदेतत्प्राणात्मज्ञानकर्मफलं वागादीनामग्न्याद्यात्मत्वमुच्यते ।
अथैना मृत्युमत्यवहत् तस्मादाध्यात्मिकपरिच्छेदकरः पाप्मा मृत्युः प्राणात्मविज्ञानेनपहतस्तस्मात्सप्राणो ऽपहन्ता पाप्मनो मृत्योः ।
तस्मात्स एव प्राण एना वागादिदेवताः प्रकृतं पाप्मानं मृत्युमतीत्य अवहत्प्रापयत्स्वं स्वमपरिच्छिन्नमग्न्यादिदेवातात्मरूपम् ॥11॥
स्तर्त् ब्र्हुप् 1,3.12
सा वै वाचम् एव प्रथमाम् अत्यवहत् ।
सा यदा मृत्युम् अत्यमुच्यत सो ऽग्निर् अभवत् ।
सो ऽयम् अग्निः परेण मृत्युम् अतिक्रान्तो दीप्यते

1.3.13

ब्र्हुप्भ्_1,3.12. स वै वाचमेव प्रथमामत्यवहत् ।
स प्राणो वाचमेव प्रथमां प्रधानामित्येतत् ।
उद्गीथकर्मणीतरकरणापेक्षया साधकतमत्वं प्राधान्यं तस्याः ।
तां प्रथमामत्यवहद्वहनं कृतवान् ।
तस्याः पुनर्मृत्युमतीत्योढायाः किं रूपम्? इत्युच्यते- सा वाग्यदा यस्मिन्काले पाप्मानं मृत्युम् अत्यमुच्यतातीत्यामुच्यत मोचिता स्वयमेव, तदासोग्निरभवत् ।
सा वाक्पूर्वमप्यग्निरेव सती मृत्युवियोगे ऽप्यग्निरेवाभवत् ।
एतावांस्तु विशेषो मृत्युवियोगे ।
सोयमतिक्रान्तो ऽग्निः परेणमृत्युं परस्तान्मृत्योर्दीप्यते ।
प्राङ्मोक्षान्मृत्युप्रतिबद्धो अध्यात्मवागात्मना नेदानीमिव दीप्तिमानासीत्, इदानीं तु मृत्युं परेण दीप्यते मृत्युवियोगात् ॥12॥
स्तर्त् ब्र्हुप् 1,3.13
अथ प्राणम् अत्यवहत् ।
स यदा मृत्युम् अत्यमुच्यत स वायुर् अभवत् ।
सो ऽयं वायुः परेण मृत्युम् अतिक्रान्तः पवते

1.3.14

ब्र्हुप्भ्_1,3.13 तथा प्राणो घ्राणम्- वायुरभवत् ।
स तु पवते मृत्युं परेणातिक्रान्तः ।
सर्वमन्यदुक्तार्थम् ॥13॥
स्तर्त् ब्र्हुप् 1,3.14
अथ चक्षुर् अत्यवहत् ।
तद् यदा मृत्युम् अत्यमुच्यत स आदित्यो ऽभवत् ।
सो ऽसाव् आदित्यः परेण मृत्युम् अतिक्रान्तस् तपति

1.3.15

ब्र्हुप्भ्_1,3.14 तथा चक्षुरादित्यो ऽभवत्स तु तपति ॥14॥
स्तर्त् ब्र्हुप् 1,3.15
अथ श्रोत्रम् अत्यवहत् ।
तद् यदा मृत्युम् अत्यमुच्यत ता दिशो ऽभवन् ।
ता इमा दिशः परेण मृत्युम् अतिक्रान्ताः

1.3.16

ब्र्हुप्भ्_1,3.15 तथा श्रोत्रं दिशो ऽभवत् ।
दिशः प्राच्यादिविभागेनावस्थिताः ॥15॥
स्तर्त् ब्र्हुप् 1,3.16
अथ मनो ऽत्यवहत् ।
तद् यदा मृत्युम् अत्यमुच्यत स चन्द्रमा अभवत् ।
सो ऽसौ चन्द्रः परेण मृत्युम् अतिक्रान्तो भाति ।
एवं ह वा एनम् एषा देवता मृत्युम् अतिवहति य एवं वेद

1.3.17

ब्र्हुप्भ्_1,3.16 मनश्चन्द्रमा भाति ।
यथा पूर्वयजमानं वागाद्यग्न्यादिभावेन मृत्युमत्यवहत्, एवमेनं वर्तमानयजमानमपि ह वा एषा प्राणदेवता मृत्युमतिवहति वागाद्यग्न्यादिभावेन ।
एवं यो वागादिपञ्चकविशिष्टं प्राणं वेद ।
"तं यथा यथोपासते तदेव भवति"इति श्रुतेः ॥16॥
स्तर्त् ब्र्हुप् 1,3.17
अथात्मने ऽन्नाद्यम् आगायत् ।
यद् धि किञ्चान्नम् अद्यते ऽनेनैव तद् अद्यते ।
इह प्रतितिष्ठति

1.3.18

ब्र्हुप्भ्_1,3.17 यथा वागादिभिरात्मार्थमागानं कृतं तथा मुख्यो ऽपि प्राणः सर्वप्राणसाधारणं प्राजापत्यफलमागानं कृत्वा त्रिषु पमानेषु, अथानन्तरं शिष्टेषु नवसु, स्तोत्रेषु, आत्मने आत्मार्थमन्नाद्यमन्नं च तदाद्यं चान्नाद्यमागायत् ।
कर्तुः कामसंयोगो वाचनिक इत्युक्तम् ।
कथं पुनस्तदन्नाद्यं प्राणेनात्मार्थमागीतमिति गम्यते? इत्यत्र हेतुमाह- यत्किञ्चेति सामान्यान्नमात्रपरामर्शार्थः ।
हीति हेतौ ।
यस्माल्लोके प्राणिभिर्यद्किञ्चिदन्नमद्यतेभक्ष्यते तदनेनैव ।
अन इति प्राणस्याख्या प्रसिद्धा अनः शब्दः सान्तः शकटवाची, यस्त्वन्यः स्वरान्तः स प्राणपर्यायः ।
प्राणेनैव तदद्यत इत्यर्थः ।
किञ्च न केवलं प्राणेनाद्यत एवान्नाद्यम्, तस्मिञ्छरीराकारपरिणते ऽन्नाद्य इह प्रतितिष्ठति प्राणः ।
तस्मात्प्राणेनात्मनः प्रतिष्ठार्थमागीतमन्नाद्यम् ।
यदपि प्राणेनान्नादनं तदपि प्रतिष्ठार्थमेवेति न वागादिष्विव कल्याणसङ्गजपात्मसम्भवः प्राणे ऽस्ति ॥17॥
नन्ववधारणमयुक्तं प्राणेनैव तदद्यत इति, वागादीनामपि अन्ननिमित्तोपकारदर्शनात् ।
नैष दोषः, प्राणद्वारत्वात्तदुपकारस्य ।
कथं प्राणद्वारको ऽन्नकृतौ वागादीनामुपकार इत्येतमर्थं प्रदर्शयन्नाह-
स्तर्त् ब्र्हुप् 1,3.18
ते देवा अब्रुवन् ।
एतावद् वा इदं सर्वं यद् अन्नम् ।
तद् आत्मन आगासीः ।
अनु नो ऽस्मिन्न् अन्न आभजस्वेति ।
ते वै माभिसंविशतेति ।
तथेति तं समन्तं परिण्यविशन्त ।
तस्माद् यद् अनेनान्नम् अत्ति तेनैतास् तृप्यन्ति ।
एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्य् अन्नादो ऽधिपतिर् य एवं वेद ।
य उ हैवंविदं स्वेषु प्रतिर् बुभूषति न हैवालं भार्येभ्यो भवति ।
अथ य एवैतम् अनुभवति यो वैतम् अनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति

1.3.19

ब्र्हुप्भ्_1,3.18 ते वागादयो देवाः, स्वविषयद्योतनाद्देवाः, अब्रुवन्नुक्तवन्तो मुख्यं प्राणम् इदमेतावन्नातो ऽधिकमस्ति ।
वा इति स्मरणार्थः ।
इदं तत्सर्वमेतावदेव, किम्? यदन्नं प्राणस्थितिकरमद्यते लोके तत्सर्वमात्मन आत्मार्थमागासीः आगीतवानसि आगानेनात्मसात्कृतमित्यर्थः ।
वयं चान्नमन्तरेण स्थातुं नोत्सामहे ।
अतो ऽनु पश्चान्नोस्मानस्मिन्नन्ने आत्मार्थे तवान्ने आभजस्व आभाजयस्व ।
णिचो ऽश्रवणं छान्दसम् ।
अस्मांश्चान्नभागिनः कुरु ।
इतर आह- ते यूयं यद्यन्नार्थिनो वै, मा मामभिसंविशत समन्ततो मामाभिमुख्येन निविशत ।
इत्येवमुक्तवति प्राणे तथेत्येवमिति, तं प्राणं परिवेष्ट्य निविष्टवन्त इत्यर्थः ।
तथा निविष्टानां प्राणानुज्ञया तेषां प्राणे नैवाद्यमानं प्राणस्थितिकरं सदन्नं तृप्तिकरं भवति न स्वातन्त्र्येण ।
तस्माद्युक्तमेवावधारणम् अनेनैव तदद्यत इति ।
तदेव चाह- तस्माद्यस्मात्प्राणाश्रयतयैव प्राणानुज्ञयाभिसन्निविष्टा वागादिदेवताः तस्माद्यदन्नमनेन प्राणेनात्ति लोकस्तेनान्नेनैता वागाद्यास्तृप्यन्ति ।
वागाद्याश्रयं प्राणं यो वेद वागादयश्च पञ्च प्राणाश्रया इति तमप्येवमेवं ह वै स्वा ज्ञातस्य अभिसंविशन्ति वागादय इव प्राणम् ।
ज्ञातीनामाश्रयणीयो भवतीत्यभिप्रायः ।
अभिसन्निविष्टानां च स्वानां प्राणवदेव वागादीनां स्वान्नेन भर्ता भवति ।
तथा श्रेष्ठः पुरो ऽग्रत एता गन्ता भवति वागादीनामिव प्राणः ।
तथान्नादो ऽनामयावीत्यर्थः ।
अधिपतिरधिष्ठाय च पालयिता स्वतन्त्रः पतिः प्राणवदेव वागादीनाम् ।
य एवं प्राणं वेद तस्यैतद्यथोक्तं फलं भवति ।
किञ्च य उ हैवंविधं प्राणविदं प्रति स्वेषु ज्ञातीनां मध्ये प्रतिः प्रतिकूलो बुभूर्षति प्रतिस्पर्धी भवितुमिच्छति, सोसुरा इव, प्राणप्रतिस्पर्धिनो न हैवालं न पर्याप्तो भार्येभ्यो भरणीयेभ्यो भवति भर्तुमित्यर्थः ।
अथ पुनर्य एवं ज्ञातीनां मध्ये एवंविदं वागादय इव प्राणम् अनु अनुगतो भवति, यो वैतमेवंविदमन्वेवानुवर्तयन्नेव आत्मीयान्भार्यान् बुभूर्षति भर्तुमिच्छति, यथैव वागादयः प्राणानुवृत्त्यात्मबुभूर्षव आसन् ।
स हैवालं पर्याप्तो भार्येभ्यो भरणीयेभ्यो भवति भर्तुं नेतरः स्वतन्त्रः ।
सर्वमेतत्प्राणगुणविज्ञानफलमुक्तम् ॥18॥
कार्यकरणानामात्मत्वप्रतिपादनाय प्राणस्याङ्गिरसत्वमुपन्यस्तं सो ऽयास्य आङ्गिरस इति ।
अस्माद्धेतोरयमाङ्गिरस इत्याङ्गिरसत्वे हेतुर्नोक्तः ।
तद्धेतुसिद्ध्यर्थमारभ्यते, तद्धेतुसिद्ध्यायत्तं हि कार्याणात्मत्व प्राणस्य ।
अनन्तरं च वागादीनां प्राणाधीनतोक्ता सा च कथमुपपादनीया? इत्याह-
स्तर्त् ब्र्हुप् 1,3.19
सो ऽयास्य आङ्गिरसो ऽङ्गानां हि रसः ।
प्राणो वा अङ्गानां रसः ।
प्राणो हि वा अङ्गानां रसः ।
तस्माद् यस्मात् कस्माच्चाङ्गात् प्राण उत्क्रामति तद् एव तच् छुष्यति ।
एष हि वा अङ्गानां रसः

1.3.20

ब्र्हुप्भ्_1,3.19 सो ऽयास्य आङ्गिरस इत्यादि यथोपन्यस्तमेवोपादीयते उत्तरार्थम्ऽप्राणो वा अङ्गानां रसःऽइत्येवमन्तं वाक्यं यथाव्याख्यार्थमेव पुनः स्मारयति ।
कथम्? ऽप्राणो वा अङ्गानां रसःऽइति ।
ऽप्राणो हिऽ-हिशब्दः प्रसिद्धौ- अङ्गानां रसः ।
प्रसिद्धमेतत्प्राणस्याङ्गरसत्वं न वागादीनाम् ।
तस्माद्युक्तं प्राणो वा इति स्मारणम् ।
कथं पुनः प्रसिद्धत्वम्? इत्यत आह ।
तस्माच्छब्द उपसंहारार्थ उपरित्वेन सम्बध्यते ।
यस्माद्यतो ऽवयवात्कस्मादनुक्तविशेषात्, यस्मात्कस्माद्यतः कुतश्चिच्च अङ्गाच्छरीरावयवादविशेषितात्प्राण उत्क्रामत्यपसर्पति तदेव तत्रैव तदङ्गं शुष्यति नीरसं भवति शोषमुपैति ।
तस्मादेष हि वा अङ्गानां रसः इत्युपसंहारः ।
अतः कार्यकरणानामात्मा प्राण इत्येतत्सिद्धम् ।
आत्मापाये हि शेषो मरणं स्यात्तस्मात्तेन जीवन्ति प्राणिनः सर्वे ।
तस्मादपास्य वागादीन्प्राण एवोपास्य इति समुदायार्थः ॥19॥
न केवलं कार्यकरणयोरेवात्मा प्राणो रूपकर्मभूतयोः ।
किं तर्हि? ऋग्यजुःसाम्नां नामभूतानामात्मेति सर्वात्मकतया प्राणं स्तुवन्महीकरोत्युपास्यत्वाय-
स्तर्त् ब्र्हुप् 1,3.20
एष उ एव बृहस्पतिः ।
वाग् वै बृहती ।
तस्या एष पतिस् तस्माद् उ बृहस्पतिः

1.3.21

ब्र्हुप्भ्_1,3.20 एष उ एव प्रकृत आङ्गिरसो बृहस्पतिः ।
कथं बृहस्पतिः? इत्युच्यते- वाग्वै बृहती बृहतीच्छन्दः षट्त्रिंशदक्षरा ।
अनुष्टुप्च वाक् ।
कथम्? "वाग्वा अनुष्टुप्"(नृसि.पू.1 । 1) इति श्रुतेः ।
सा च वागनुष्टुब्बृहत्यां छन्दस्यन्तर्भवति ।
अतो युक्तं वाग्वै बृहतीति प्रसिद्धवद्वक्तुम् ।
बृहत्यां च सर्वा ऋचो ऽन्तर्भवन्ति प्राणसंस्तुतत्वात् ।
"प्राणो बृहती प्राण ऋच इत्येव विद्यात्"इति श्रुत्यन्तरात् ।
वागात्मत्वाच्चर्चा प्राणे ऽन्तर्भावः ।
तत्कथम्? इत्याह- तस्या वाचो बृहत्या ऋच एष प्राणः पतिः ।
तस्या निर्वर्तकत्वात् ।
कौष्ठ्याग्निप्रेरितमारुतनिर्वर्त्या हि ऋक् ।
पालनाद्वा वाचः पतिः ।
प्राणेन हि पाल्यते वाक् ।
अप्राणस्य शब्दोच्चारणसामर्थ्याभावात् ।
तस्मा बृहस्पतिरृचां प्राण आत्मेत्यर्थः ॥20॥
तथा यजुषाम् ।
कथम्?
स्तर्त् ब्र्हुप् 1,3.21
एष उ एव ब्रह्मणस्पतिः ।
वाग् वै ब्रह्म ।
तस्या एष पतिस् तस्माद् उ ब्रह्मणस्पतिः

1.3.22

ब्र्हुप्भ्_1,3.21 एष उ एव ब्रह्मणस्पतिः ।
वाग्वै ब्रह्म, ब्रह्म यजुः, तच्च वाग्विशेष एव ।
तस्या वाचो यजुषो ब्रह्मण एष पतिस्तस्मादु ब्रह्मणस्पतिः पूर्ववत् ।
कथं पुनरेतदवगम्यते बृहतीब्रह्मणोरृग्यजुष्ट्वं न पुनरन्यार्थत्वम्? इत्युच्यते- वाचो ऽन्ते सामसामानाधिकरण्यनिर्देशात्"वाग्वै साम"(1 । 3 । 22) इति ।
तथा चऽवाग्वै बृहतीऽ ऽवाग्वै ब्रह्मऽइति च वाक्समानाधिकरणयोरृग्यजुष्ट्वं युक्तम् ।
परिशेषाच्च- साम्नि अभिहिते ऋग्यजुषी एव परिशिष्टे ।
वाग्विशेषत्वाच्च- वाग्विशेषो हि ऋग्यजुषी ।
तस्मात् तयोर्वाचा समानाधिकरणता युक्ता ।
अविशेषप्रसङ्गाच्च- सामोद्गीथ इति च स्पष्टं विशेषाभिधानत्वम्, तथा बृहतीब्रह्मशब्दयोरपि विशेषाभिधानत्वं युक्तम् ।
अन्यथा अनिर्धारित विशेषयोरानर्थक्यापत्तेश्च विशेषाभिधानस्य वाङ्मात्रत्वे चोभयत्र पौनरुक्त्यात् ।
ऋग्यजुःसामोद्गीथशब्दानां च श्रुतिष्वेवङ्क्रमदर्शनात् ॥21॥
स्तर्त् ब्र्हुप् 1,3.22
एष उ एव साम ।
वाग् वै सामैष सा चामश् चेति तत् साम्नः सामत्वम् ।
यद् व् एव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस् त्रिभिर् लोकैः समो ऽनेन सर्वेण तस्माद् व् एव साम ।
अश्नुते साम्नः सायुज्यं सलोकताम् ।
य एवम् एतत् साम वेद

1.3.23

ब्र्हुप्भ्_1,3.22 एष उ एव साम ।
कथम्? इत्याह वाग्वै सा यत्किञ्चित्स्त्रीशब्दाभिधेयं सा वाक् ।
सर्वस्त्रीशब्दाभिधेयवस्तुविषयो ऽमः शब्दः ।
"केन मे पैंस्नानि नामान्याप्नोषीति, प्राणेनेति ब्रूयात्केन मे स्त्रीनामानीति वाचा"(कौषी.उ 1 । 7) इति श्रुत्यन्तरात् वाक्प्राणाभिधानभूतो ऽयं सामशब्दः, तथा प्राणनिर्वर्त्यस्वरादिसमुदायमात्रं गितिः सामशब्देनाभिधीयते;अतो न प्राणवाग्व्यतिरेकेण सामनामास्ति किञ्चित्, स्वरवर्णादेश्च प्राणनिर्वर्त्यत्वात्प्राणतन्त्रत्वाच्च ।
एष उ एव प्राणः साम ।
यस्मात्साम सामेति वाक्प्राणात्मकम्- सा चामश्चेति, तत्तस्मात्साम्नो गीतिरूपभ्य स्वरादिसमुदायस्य सामत्वं तत्प्रगीतं भुवि ।
यद् उ एव समस्तुल्यः सर्वेण वक्ष्यमाणेन प्रकारेण, तस्माद्वा सामेत्यनेन सम्बन्धः ।
वाशब्दः सामशब्दलाभनिमित्तप्रकारान्तरनिर्देशसामर्थ्यलभ्यः ।
केन पुनः प्रकारेण प्राणस्य तुल्यत्वम्? इत्युच्यते- समः प्लुषिणा पुत्तिकाशरीरेण समो मशकेन मशकशरीरेण, समो नागेन हस्तिशरीरेण, सम एभिस्त्रिभिर्लोकैस्त्रैलोक्यशरीरेण प्राजापत्येन, समो ऽनेन जगद्रूपेण हैरण्यगर्भेण ।
पुत्तिकादिशरीरेषु गोत्वादिवत्कार्त्स्न्येन परिसमाप्त इति समत्वं प्राणस्य;न पुनः शरीरमात्रपरिमाणेनैव, अमूर्तत्वात्सर्वगतत्वाच्च ।
न च घटप्रासादादिप्रदीपवत्संकोचविकासितया शरीरे तावन्मात्रं समत्वम् ।
"त एते सर्व एव समाः सर्वे ऽनन्ताः"(बृह.उ.1 । 5 । 13) इति श्रुतेः ।
सर्वगतस्य तु शरीरपरिमाणवृत्तिलाभो न विरुध्यते ।
एवं समत्वात्सामाख्यं प्राणं वेद यःश्रतिप्रकाशितमहच्वं तस्पैतत्फलम्-अश्नुते व्याप्नोति साम्नः प्राणस्य सायुज्यं सयुग्भावं समानदेहेन्द्रियाभिमानत्वम्, सालोक्यं समानलोफतां वा भावनाविशेषतः, य एवमेतद्यथोक्तं साम प्राणं वेद-आ प्राणात्माभिमानाभिव्यक्तेरुपास्ते इत्यर्थः ॥22॥
स्तर्त् ब्र्हुप् 1,3.23
एष उ वा उद्गीथः ।
प्राणो वा उत् प्राणेन हीदं सर्वम् उत्तब्धम् ।
वाग् एव गीथा ।
उच् च गीथा चेति ।
स उद्गीथः

1.3.24

ब्र्हुप्भ्_1,3.23 एष उ वा उद्गीथः ।
उद्गीथो नाम सामावयवो भक्तिविशेषो नोद्गानम्, सामाधिकारात् ।
कथमुद्गीथः प्राणः? प्राणो वा उत्प्राणेन हि यस्मादिदं सर्वं जगदुत्तब्धमूर्ध्वं स्तब्धमुत्तम्भितं विधृतमित्यर्थः ।
उत्तब्धार्थावद्योतको ऽयमुच्छब्दः प्राणगुणाभिधायकः, तस्मादुत्प्राणः ।
वागेव गीथाशब्दविशेषत्वादुद्गीथभक्तेः ।
गायतेः शब्दार्थत्वात्सा वागेव ।
न ह्युद्गीथभक्तेःशब्दव्यतिरेकेण किञ्चिद्रूपमुत्प्रेक्ष्यते ।
तस्माद्युक्तमवधारणं वागेव गीथेति ।
उच्च प्राणो गीथा च प्राणतन्त्रा वागित्युभयमेकेन शब्देनाभिधीयते स उद्गीथः ॥23॥
स्तर्त् ब्र्हुप् 1,3.24
तद् धापि ब्रह्मदत्तश् चैकितानेयो राजानं भक्षयन्न् उवाच ।
अयं त्यस्य राजा मूर्धानं विपातयताद् यद् इतो ऽयास्य आङ्गिरसो ऽन्येनोदगायद् इति ।
वाचा च ह्य् एव स प्राणेन चोदगायद् इति

1.3.25

ब्र्हुप्भ्_1,3.24 तद्धापि तत्तत्रैतस्मिन्नुक्तेर्ऽथे हाप्याख्यायिकापि श्रूतये हस्म ।
ब्रह्मदत्तो नामतः चिकितानस्यापत्यं चैकितानस्तदपत्यं युवा चैकितानेयः, राजानं यज्ञे सोमं भक्षयन्नुवाच ।
किम्? अयं चमसस्थो मयाभक्ष्यमाणो राजा त्यस्य तस्य ममानृतवादिनो मूर्धानं शिरो विपातयताद्विस्पष्टं पातयतु ।
तोरयं तातङ्ङादेशः आशिपि लोट्, विपातयतादिति ।
यद्यहमनृतवादी स्यामित्यर्थः ।
कथं पुनरनृतवादित्वप्राप्तिः? इत्युच्यते-यद्यदीतो ऽस्मात्प्रकृतात् प्राणाद्वाक्संयुक्तात्, अयास्यः-मुख्यप्राणाभिधायकेन अयास्याङ्गिरसशब्देनाभिधीयते विश्वसृजां पूर्वर्षीणां सत्रे उद्रातासो ऽन्येन देवतान्तरेण वाक्प्राणव्यतिरिक्तेनोदगायदुद्गानं कृतवान्, ततो ऽहमनृतवादी स्याम्, तस्य मम देवता विपरीतप्रतिपत्तुर्मूर्धानं विपातयतु, इत्येवं शपथं चकारेति विज्ञाने प्रत्ययदार्ढ्यकर्तव्यतां दर्शयति ।
तमिममाख्यायिकानिर्धारितमर्थं स्वेन वचसोपसंहरति श्रुतिः-वाचा च प्राणप्रधानया प्राणेन च स्वस्यात्मभूतेन सो ऽयास्य आङ्गिरस उद्गातोदगायदित्येषोर्ऽथो निर्धारितः शपथेन ॥24॥
स्तर्त् ब्र्हुप् 1,3.25
तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् ।
तस्य वै स्वर एव स्वम् ।
तस्माद् आर्त्विज्यं करिष्यन् वाचि स्वरम् इच्छेत ।
तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् ।
तस्माद् यज्ञे स्वरवन्तं दिदृक्षन्त एव ।
अथो यस्य स्वं भवति ।
भवति हास्य स्वं य एवम् एतत् साम्नः स्वं वेद

1.3.26

ब्र्हुप्भ्_1,3.25 तस्येति प्रकृतं प्राणमभिसम्वध्नाति ।
हैतस्येति मुख्यं व्यपदिशत्यभिनयेन ।
साम्नः सामशब्दवाच्यस्यप्राणस्ययःस्वं धनं वेद, तस्य ह किं स्यात्? भवति हास्यस्वम् ।
फलेन प्रलोभ्याभिमुखीकृत्य शुश्रूषवे आह-तस्य वै साम्नः स्वर एव स्वम् ।
स्वर इति कण्ठगतं माधुर्यं तदेवास्य स्वं विभूषणम् ।
तेन हि भूषितमृद्धिमल्लक्ष्यतौद्गानम् ।
यस्मादेवं तस्मादार्त्विज्यं ऋत्विक्कर्मोद्गानं करिष्यन्वाचि विषये वाचि वागाश्रितं स्वरमिच्छेत इच्छेत् साम्नो धनवत्तां स्वरेण चिकीर्षुरुद्गाता ।
इदं तु प्रासङ्गिकंविधीयते;साम्नः सौस्वर्येण स्वरवच्वप्रत्ययेकर्तव्ये इच्छामात्रेण सौस्वर्यं न भवतीति दन्तधावनतैलपानादि सामर्थ्यात्कर्तव्यमित्यर्थः ।
तथैवं संस्कृतया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् ।
तस्माद्यस्मात्साम्नः स्वभूतः स्वरस्तेन स्वेन भूषितं साम अतो यज्ञे स्वरवन्तमुद्गातारं दिदृक्षन्त एव द्रष्टुमिच्छन्त एव धनिनामव लौकिकाः ।
प्रसिद्धं हि लोके ऽथो अपि यस्य स्वं धनं भवति तं धनिनं दिदृक्षन्ते इति सिद्धस्य गुणविज्ञानफलसम्बन्धस्य उपसंहारः क्रियते- भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेदेति ॥25॥
अथान्यो गुणः सुवर्णवत्तालक्षणो विधीयते ।
असावपि सौस्वर्यमेव ।
एतावान्विशेषः- पूर्वं कण्ठगतमाधुर्यमिदं तु लाक्षणिकं सुवर्णशब्दवाच्यम् ।
स्तर्त् ब्र्हुप् 1,3.26
तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् ।
तस्य वै स्वर एव सुवर्णम् ।
भवति हास्य सुवर्णं य एवम् एतत् साम्नः सुवर्णं वेद

1.3.27

ब्र्हुप्भ्_1,3.26 तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् ।
सुवर्ण शब्दसामान्यात्स्वरसुवर्णयोः लोकिकमेव सुवर्णं गुणविज्ञानफलं भवतीत्यर्थः ।
तस्य वै स्वर एव सुवर्णम् ।
भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेदेति पूर्ववत्सर्वम् ॥26॥
तथा प्रतिष्ठागुणं विधित्सन्नाह-
स्तर्त् ब्र्हुप् 1,3.27
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति ।
तस्य वै वाग् एव प्रतिष्ठा ।
वाचि हि खल्व् एष एतत् प्राणः प्रतिष्ठितो गीयते ।
अन्न इत्य् उ हैक आहुः

1.3.28

ब्र्हुप्भ्_1,3.27 तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद ।
प्रतितिष्ठत्यस्यामिति प्रतिष्ठा वाक्तां प्रतिष्ठां साम्नो गुणं यो वेद स प्रतितिष्ठति ह ।
"तं यथा यथोपासते"इति श्रुतेस्तद्गुणत्वं युक्तम् ।
पूर्ववत्फलेन प्रतिलोभिताय का प्रतिलोभिताय का प्रतिष्ठेति शुश्रूपवे आह- तस्य वै साम्नो वागेव, वागिति जिह्वामूलीयादीनां स्थानानामाख्या, सैव प्रतिष्ठा, तदाह- वाचि हि जिह्वामूलीयादिषुहि यस्मात्प्रतिष्ठितः सन्नेष प्राण एतद्गानं गीयते गीतिभावमापद्यते तस्मात्साम्नः प्रतिष्ठा वाक् ।
अन्ने प्रतिष्ठितो गीयत इत्यु हैके ऽन्ये आहुः ।
इह प्रतितिष्ठतीति युक्तम् ।
अनिन्दितत्वादेकीयपक्षस्य विकल्पेन प्रतिष्ठागुणविज्ञानं कुर्याद् वाग्वा पतिष्ठान्नं वेति ॥27॥
एवं प्राणविज्ञानवतो जपकर्म विधित्स्यते ।
यद्विज्ञानवतो जपकर्मण्यधिकारस्तद्विज्ञानमुक्तम् ।
स्तर्त् ब्र्हुप् 1,3.28
अथातः पवमानानाम् एवाभ्यारोहः ।
स वै खलु प्रस्तोता साम प्रस्तौति ।
स यत्र प्रस्तुयात् तद् एतानि जपेत् ।
असतो मा सद् गमय, तमसो मा ज्योतिर् गमय, मृत्योर् मामृतं गमयेति ।
स यद् आहासतो मा सद् गमयेति ।
मृत्युर् वा असत् सद् अमृतं मृत्योर् मामृतं गमयामृतं मा कुर्व् इत्य् एवैतद् आह ।
तमसो मा ज्योतिर् गमयेति ।
मृत्युर् वै तमो ज्योतिर् अमृतं मृत्योर् मामृतं गमयामृतं मा कुर्व् इत्य् एवैतद् आह ।
मृत्योर् मामृतं गमयेति ।
नात्र तिरोहितम् इवास्ति ।
अथ यानीतराणि स्तोत्राणि तेष्व् आत्मने ऽन्नाद्यम् आगायेत् ।
तस्माद् उ तेषु वरं वृणीत ।
यं कामं कामयेत् तम् ।
स एष एवंविद् उद्गातात्मने वा यजमानाय वा यं कामं कामयते तम् आगायति ।
तद् धैतल् लोकजिद् एव ।
न हैवालोक्यताया आशास्ति य एवम् एतत् साम वेद

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc