भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 1.2

1.2.1

ब्र्हुप्भ्_1,1.2 अहः सौवर्णो ग्रहो दीप्तिसामान्याद्वै ।
अहरश्वं पुरस्तान्महिमान्वजायतेति कथम्? अश्वस्य प्रजापतित्वात् ।
प्रजापतिर्ह्यादित्यादिलक्षणो ऽह्ना लक्ष्यते ।
अश्वं लक्षयित्वाजायत सौवर्णो महिमा ग्रहो वृक्षमनु विद्योतते विद्युदिति यद्वत् ।
तस्य ग्रहस्य पूर्वे पूर्वः समुद्रे समुद्रो योनिर्विभक्तिव्यत्ययेन ।
योनिरित्यासादनस्थानम् ।
तथा रात्री राजते ग्रहो वर्णसामान्याज्जघन्यत्वसामान्याद्वा ।
एनमश्वं पश्चात्पृष्टतो महिमान्वजायत, तस्यापरे समुद्रे योनिः ।
महिमा महत्त्वात् ।
अश्वस्य हि विभूतिरेषा यत्सौवर्णो राजतश्च ग्रहावुभयतः स्थाप्येते ।
तावेतौ वै महिमानौ महिमाख्यौ ग्रहावश्वमभितः सम्बभूवतुरुक्तलक्षणावेव सम्भूतौ ।
इत्थमसावश्वो महत्वयुक्त इति पुनर्वचनं स्तुत्यर्थम् ।
तथा च हयो भूत्वेत्यादि स्तुत्यर्थमेव ।
हयो हिनोतेर्गतिकर्मणो विशिष्टगतिरित्यर्थः ।
जातविशेषो वा ।
देवानवहद् देवत्वमगमयत्प्रजापतित्वात् ।
देवानां वा वोढाभवत् ।
नतु निन्दैव वाहनत्वम् ।
नैष दोषः, वाहनत्वं स्वाभाविकमश्वस्य ।
स्वाभाविकत्वादुच्छ्रायप्राप्तिर्देवादिसम्बन्धो ऽश्वस्येति स्तुतिरेवैषा ।
तथा वाज्यादयो जातिविशेषाः ।
वाजी भूत्वा गन्धर्वानवहदित्यनुषङ्गः ।
तथार्वा भूत्वासुरान् ।
अश्वो भूत्वा मनुष्यान् ।
समुद्र एवेति परमात्मा बन्धुबन्धनं बध्यते ऽस्मिन्निति ।
समुद्रो योनिः कारणमुत्पत्तिं प्रति ।
एवमसौ शुद्धयोनिः शुद्धस्थितिरिति स्तूयते ।
अप्सु योनिर्वा अश्वः इति श्रुतेः प्रसिद्ध एव वा समुद्रो योनिः ॥2॥
इति प्रथमाध्याये प्रथममश्वमेधब्राह्मणम् ॥1॥
अथाग्नेरश्वमेधोपयोगिकस्योत्पत्तिरुच्यते ।
तद्विषयदर्शनविवक्षयैवोत्पत्तिः स्तुत्यर्था ।
स्तर्त् ब्र्हुप् 1,2.1
नैवेह किं चनाग्र आसीत् ।
मृत्युनैवेदम् आवृतम् आसीद् अशनायया ।
अशनाया हि मृत्युः ।
तन् मनो ऽकुरुतात्मन्वी स्याम् इति ।
सो ऽर्चन्न् अचरत् ।
तस्यार्चत आपो ऽजायन्त ।
अर्चते वै मे कम् अभूद् इति ।
तद् एवार्क्यस्यार्कत्वम् ।
कं ह वा अस्मै भवति य एवम् एतद् अर्क्यस्यार्कत्वं वेद

1.2.2

ब्र्हुप्भ्_1,2.1 नैवेह किञ्चनाग्र आसीत् ।
इह संसारमण्डले किञ्चन किञ्चिदपि नामरूपप्रविभक्तविशेषं नैवासीद् न बभूव अग्रे प्रागुत्पत्तेर्मनादेः ।
किं शून्यमेव स्यात्"नैवेह किञ्चन"इति श्रुतेः ।
न कार्यं कारणं वासीत् ।
उत्पत्तेश्च, उत्पद्यते हि घटः, अतः प्रागुत्पत्तेर्घटस्य नास्तित्वम् ।
ननु कारणस्य न नास्तित्वं मृत्पिण्डादिदर्शनात् ।
यन्नोपलभ्यते तस्यैव नास्तिता ।
अस्तु कार्यस्य न तु कारणस्य, उपलम्पमानत्वात् ।
नः प्रागुत्पत्तेः सर्वानुपलम्भात् ।
अनुपलब्धिश्चेदभावहेतुः सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यं वोपलभ्यते ।
तस्मात्सर्वस्यैवाभावो ऽस्तु ।
नः"मृत्युनैवेदमावृतमासीत्"इति श्रुतेः ।
यदि हि किञ्चिदपि नासीद् येनाव्रियते यच्चाव्रियते तदा नावक्ष्यत्ऽमृत्युनैवेदमावृतम्ऽइति ।
न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति ।
ब्रवीति चऽमृत्युनैवेदमावृतमासीत्ऽइति, तस्माद्येनावृतं कारणेन, यच्चावृतं कार्यं प्रागुत्पत्तेस्तदुभयमासीत्, श्रुतेः प्रामाण्यादनुमेयत्वाच्च ।
अनुमीयते च प्रागुत्पत्तेः कार्यकारणयोरस्तित्वम्;कार्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात्, असति चादर्शनात् ।
जगतो ऽपि प्रागुत्पत्तेः कारणास्तित्वमनुमीयते घटादिकारणास्तित्ववत् ।
घटादिकारणस्याप्यसत्त्वमेव, अनुपमृद्य मृत्पिण्डादिकं घटाद्यनुत्पत्तेरिति चेत्? न;मृदादेः कारणत्वात् ।
मृत्सुवर्णादि हि तत्र कारणं घटरुचकादेः, न पिण्डाकारविशेषः, तदभावे भावात् ।
असत्यपि पिण्डाकारविशेषे मृत्सुवर्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते ।
तस्मान्न पिण्डाकारविशेषे घटरुचकादिकारणम् ।
असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्णादिद्रव्यमेव कारणम्, न तु पिण्डाकारविशेषः ।
सर्वं हि कारणं कार्यमुत्पादयत्पूर्वोत्पन्नस्यात्मकार्यस्य तिरोधानं कुर्वत्कार्यान्तरमुत्पादयति, एकस्मिन्कारणे युगपदनेककार्यविरोधात् ।
न च पूर्वकार्योपममर्दे कारणस्य स्वात्मोपमर्दे भवति ।
तस्मात्पिण्डाद्युपमर्दे कार्योत्पत्तिदर्शनमहेतुः प्रागुत्पत्तेः कारणासत्त्वेः ।
पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तमिति चेत्-पिण्डादिपूर्वकार्योपमर्दे मृदादिकारणं नोपमृद्यते, घटादिकार्यान्तरे ऽप्यनुवर्तते इत्येतदयुक्तम्;पिण्डघटादिव्यतिरेकेण मृदादिकारणस्यानुपलम्भादिति चेत्? न, मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात् ।
सादृश्यादन्वयदर्शनं न कारणानुवृत्तेरिति चेन्न, पिण्डादिगतानां मृदाद्यवयवानामेव घटादौ प्रत्यक्षत्वे ऽनुमानाभासात्सादृश्यादिकल्पनानुपपत्तेः ।
न च प्रत्यक्षानुमानयोर्विरुद्धाव्यभिचारिता,प्रत्यक्षपूर्वकत्वादनुमानस्य सर्वत्रैवानाश्वासप्रसङ्गात् ।
यदि च क्षणिकं सर्वं तदेवेदमिति गम्यमानं तद्बुद्धेरप्यन्यतद्बुद्ध्यपेक्षत्वे तस्या अप्यन्यतद्बुद्ध्यपेक्षत्वमित्यनवस्थायां तत्सदृशमिदमित्यस्या अपि बुद्धेर्मृपात्वात्सर्वत्रानाश्वासतैव ।
तदिदम्बुद्ध्योरपि कर्त्रभावे सम्बन्धानुपपत्तिः ।
सादृश्यात्तत्सम्बन्ध इति चेन्न, तदिदम्बुद्ध्योरितरेतरविषयत्वानुपपत्तेः ।
असति चेतरेतरविषयत्वे सादृश्यग्रहणानुपपत्तिः ।
असत्येव सादृश्ये तद्बुद्धिरिति चेन्न, तदिदम्बुद्ध्योरपि सादृश्यबुद्धिवदसद्विषयत्वप्रसङ्गात् ।
असद्विषयत्वमेव सर्वबुद्धीनामस्त्विति चेन्न, बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात् ।
तदप्यस्त्विति चेन्न, सर्वबुद्धीनां मृषात्वे ऽसत्यबुद्ध्यनुपपत्तेः ।
तस्मादसदेतत्सादृश्यात्तद्बुद्धिरिति ।
अतः सिद्धः प्राक्कार्योत्पत्तेः कारणसद्भावः ।
कार्यस्य चाभिव्यक्तिलिङ्गत्वात् ।
कार्यस्य च सद्भावः प्रागुत्पत्तेः सिद्धः ।
कथमभिव्यक्तिलिङ्गत्वादभिव्यक्तिलिङ्गमस्येति ।
अभिव्यक्तिः साक्षाद्विज्ञानालम्बनत्वप्राप्तिः ।
यद्वि लोके प्रावृतं तम आदिना घटादिवस्तु तदालोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत्प्राक्सद्भावं न व्यभिचरति ।
तथेदमपि जगत्प्रागुत्पत्तेरित्यवगच्छामः ।
न ह्यविद्यमानो घट उदिते ऽप्यादित्ये उपलभ्यते ।
न ते ऽविद्यमानत्वाभावादुपलभ्येतैवेति चेत् ।
न हि तव घटादिकार्यं कदाचिदप्यविद्यमानमित्युदिते आदित्ये उपलभ्येतैव मृत्पिण्डे ऽसन्निहिते तमाद्यावरणे चासति विद्यमानत्वादिति चेत्? न, द्विविधत्वादावरणस्य ।
घटादिकार्यस्य द्विविधं ह्यावरणं मृदादारविभक्तस्य तमःकुड्यादि प्राङ्मृदो ऽभिव्यक्तेर्मृदाद्यवयवानां पिण्डादिकार्यान्तररूपेण संस्थानम् ।
तस्मात्प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्यस्य आवृतत्वादनुपलब्धिः ।
नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्तु अभिव्याक्ततिरोभावयोर्द्विविधत्वापेक्षः ।
पिण्डकपालादेरावरणवैलक्षण्यादयुक्तमिति चेत्? तमःकुड्यादि हि घटाद्यावरणं घटादिभिन्नदेशं दृष्टं न तथा घटादिभिन्नदेशे दृष्टे पिण्डकपाले ।
तस्मात् पिण्डकपालसंस्थानयोर्विद्यमानस्यैव घटस्यावृतत्वाद् अनुपलब्धिरित्ययुक्तम् आवरणधर्मवैलक्षण्यादिति चेत्? न क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात् ।
घटादिकार्ये कपालचूर्णाद्यवयवानामन्तर्भावादनावरणत्वमिति चेन्न, विभक्तानां कार्यान्तरत्वादावरणत्वोपपत्तेः ।
आवरणाभाव एव यत्नः कर्तव्य इति चेत्? पिण्डकपालावस्थयोर्विद्यमानमेव घटादिकार्यमावृतत्वान्नोभलभ्यत इति चेद् घटादिकार्यार्थिना तदावरणविनाश एव यत्नः कर्तव्यो न घटाद्युत्पत्तौ? न चैतदस्ति, तस्मादयुक्तं विद्यमानस्यैवावृतत्वादनुपलब्धिरिति चेत्? न अनियमात् ।
न हि विनाशमात्रप्रयत्नादेव घटाद्यभिव्यक्तिर्नियता ।
तमाद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रयत्नदर्शनात् ।
सो ऽपि तमोनाशायैवेति चेत्? दीपाद्युत्पत्तावपि यः प्रयत्नः सो ऽपि तमस्तिरस्करणाय तस्मिन्नष्टे घटः स्वयमेवोपलभ्यते ।
न हि किञ्चिदाधीयते इति चेत्? न, प्रकाशवतो घटस्योपलभ्यमानत्वात् ।
यथा प्रकाशविशिष्टो घट उपलभ्यते न तथा प्राक्प्रदीपकरणात् ।
तस्मान्न तमस्तिरस्कारायैव प्रदीपकरणं किं तर्हि? प्रकाशवत्त्वय ।
प्रकाशवत्त्वेनैवोपलभ्यमानत्वात् ।
क्वचिदावरणविनाशे ऽपि यत्नः स्यात्, यथा कुड्यादिविनाशे ।
तस्मान्न नियमो ऽस्त्यभिव्यक्तर्थिनावरणविनाश एव यत्नः कार्य इति ।
नियमात्मर्थवत्त्वाच्च ।
कारणे वर्तमानं कार्यं कार्यान्तराणामावरणमित्यवोचाम ।
तत्र यदि पूर्वाभिव्यक्तस्य कार्यस्यपिण्डस्यव्यवहितस्य वा कपालस्य विनाश एव यत्नः क्रियेत, तदा विदलचूर्णाद्यपि कार्यं जायेत ।
तेनाप्यावृतो घटो नोपलभ्यत इति पुनः प्रयत्नान्तरपेक्षैव ।
तस्माद् घटाद्यभिव्यक्त्यर्थिनो नियत एव कारकव्यापारोर्ऽथवान् ।
तस्मात्प्रागुत्पत्तेरपि तदेव कार्यम् ।
अतितानागतप्रत्ययभेदाच्च ।
अतीतो घटो ऽनागतो घट इत्येतयोश्च प्रत्ययोर्वर्तमानघटप्रत्ययवन्न निर्विषयत्वं युक्तम्;अनागतार्थिप्रवृत्तेश्च ।
न ह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा ।
योगिनां चातीतानागतज्ञानस्य सत्यत्वात् ।

असंश्चेद्भविष्यद्घट ऐश्वरम्भविष्यद्घटविषयं प्रत्यक्षज्ञानं मिथ्या स्यात् न च प्रत्यक्षमुपचर्यते ।
घटसद्भावेह्यनुमानमवोचाम ।
विप्रतिषेधाच्च ।
यदि घटो भविष्यतीति कुलालादिषु व्याप्रियमाणेषु घटार्थं प्रमाणेन निश्चितं येन च कालेन घटस्य सम्बन्धो भविष्यतीत्युच्यते, तस्मिन्नेव काले घटो ऽसन्निति विप्रतिषिद्धमभिधीयते ।
भविष्यनघटो ऽसन्निति, न भविष्यतीत्यर्थः ।
अयं घटो न वर्तत इति यद्वत् ।
अथ प्रागुत्पत्तेर्घटो ऽसन्नित्युच्येत, घटार्थ प्रवृत्तेषु कुलालादिषु तत्र यथा व्यापाररूपेण वर्तमानास्तावत्कुलालादयः, तथा घटो न वर्तत इत्यसच्छब्दस्यार्थश्चेन्न विरुध्यते ।
कस्मात्? स्वेन हि भविष्यद्रूपेण घटो वर्तते ।
न हि पिण्डस्य वर्तमानता कपालस्य वा घटस्य भवति ।
न च तयोर्भविष्यत्ता घटस्य ।
तस्मात्कुलालादिव्यापारवर्तमानतायां प्रागुत्पत्तेर्घटो ऽसन्निति न विरुध्यते ।
यदि घटस्य यत्स्वं भविष्यत्ताकार्यरूपं तत्प्रतिपिध्येत, तत्प्रतिपेधे विरोधः स्यात् ।
न तु तद्भवान्प्रतिषेधति ।
न च सर्वेषां क्रियावतां कारकाणामेकैव वर्तमानता भविष्यत्त्वं वा ।
अपि च चतुर्विधानामभावानां घटस्येतरेतराभावो घटादन्यो दृष्टो यथा घटाभावः पटादिरेव न घटस्वरूपमेव ।
न च घटाभावः सन्पटो ऽभावात्मकः, किं तर्हि? भावरूप एव ।
एवं घटस्य प्राक्प्रध्वंसात्यन्ताभावनामपि घटादन्यत्वं स्यात् ।
घटेन व्यपदिश्यमानत्वाद् घटस्येतरेतराभाववत् ।
तथैव भावात्मकताभावानाम् ।
एवं च सति घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागुत्पत्तेर्नास्ति ।
अथ घटस्य प्रागभाव इति घटस्य यत्स्वरूपं तदेवोच्येत घटस्येतिव्यपदेशानुपपत्तिः ।
अथ कल्पयित्वा व्यपदिश्येत शिलापुत्रकस्य शरीरमिति यद्वत्, तथापि घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशो न घटस्वरूपस्यैव ।
अथार्थान्तरं घटाद् घटस्याभाव इति, उक्तोत्तरमेतत् ।
किञ्चान्यत्प्रागुत्पत्तेः शशविषाणवदभावभूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः, द्विनिष्ठत्वात्सम्बन्धस्य अयुतसिद्धानामदोष इति चेन्न, भावाभावयोरयुतसिद्धत्वानुपपत्तेः ।
भावाभूतयोर्हि युतसिद्धतायुतसिद्धता वा स्यान्न तु भावाभावयोरभावयोर्वा ।
तस्मात्सदेव कार्यं प्रागुत्पत्तेरिति सिद्धम् ।
किंल्लक्षणेन मृत्युनावृतमित्यत आह-अशनायया अशितुमिच्छा अशनाया सैव? मृत्योर्लक्षणं तया लक्षितेन मृत्युनाशनायया ।
कथमशनाया मृत्युः? इत्युच्यते-- अशनाया हि मृत्युः ।
हिशब्देन प्रसिद्धं हेतुमवद्योतयति ।
यो ह्यशितुमिच्छति सो ऽशनायानन्तरमेव हन्ति जन्तून्, तेनासावशनायया लक्ष्यते मृत्युरित्यशनाया हीत्याह ।
बुद्ध्यात्मनो ऽशनाया धर्म इति स एष बुद्ध्यवस्थो हिरण्यगर्भो मृत्युरित्युच्यते ।
तेन मृत्युनेदं कार्यमावृतमासीत् ।
यथा पिण्डावस्थया मृदा घण्टादय आवृताः स्युरिति तद्वत् ।
तन्मनो ऽकुरुत ।
तदिति मनसो निर्देशः ।
स प्रकृतो मृत्युर्वक्ष्यमाणकार्यसिसृक्षया तत्कार्यालोचनक्षमं मनःशब्दवाच्यं संकल्पादिलक्षणमन्तःकरणमकुरुत कृतवान् ।
केनाभिप्रायेण मनो ऽकरोत्? इत्युच्यते-आत्मन्वी आत्मवान् स्यां भवेयम् ।
अहमनेनात्मना मनसा मनस्वी स्यामित्यभिप्रायः ।
स प्रजापतिरभिव्यक्तेन मनसा समनस्कः सन्नर्चन्नर्चयन्पूजयन् आत्मानमेव कृतार्थो ऽस्मीत्यचरच्चरणमकरोत् ।
तस्य प्रजापतेरर्चतः पूजयत आपो रसात्मिकाः पूजाङ्गभूता अजायन्तोत्पन्नाः ।
अत्राकाशप्रभृतीनां त्रयाणामुत्पत्त्यनन्तरमिति वक्तव्यम्, श्रुत्यन्तरसामर्थ्याद्विकल्पासम्भवाच्च सृष्टिक्रमस्य ।
अर्चते पूजां कुर्वते वै मे मह्यं कमुदकमभूदित्येवममन्यत यस्मान्मृत्युः, तदेव तस्मादेव हेतोरर्कस्य अग्नेरश्वमेधक्रत्वौपयोगिकस्यार्कत्वम् अर्कत्वे हेतुरित्यर्थः ।
अग्नेरर्कनामनिर्वचनमेतेत् ।
अर्चनात्सुखहेतुपूजाकरणाद् अप्सम्बन्धाच्च अग्नेरेतद्गौणं नामार्क इति ।
य एवं यथोक्तमर्कस्यार्कत्वं वेद जानाति कमुदकं सुखं वा नामसामान्यात् ।
ह वा इत्यवतारणार्थौ ।
भवत्येवेति ।
अस्मै एवंविदे एवंविदर्थं भवति ॥1॥
कः पुनरसावर्कः? इत्युच्यते-
स्तर्त् ब्र्हुप् 1,2.2
आपो वा अर्कः ।
तद् यद् अपां शर आसीत् तत् समहन्यत ।
सा पृथिव्य् अभवत् ।
तस्याम् अश्राम्यत् ।
तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः

1.2.3

ब्र्हुप्भ्_1,2.2 आपो वै या अर्चनाङ्गभूतास्ता एवार्को ऽग्नेरर्कस्य हेतुत्वात् ।
अप्सु चाग्निः प्रतिषिठित इति ।
न पुनः साक्षादेवार्कस्ताः, तासामप्रकरणात्, अग्नेश्च प्रकरणम् ।
वक्ष्यति चऽअयमग्निरर्कःऽ(बृह.उ.1 । 2 । 7) इति ।
तत्तत्र यदपां शर इव शरो दध्न इव मण्डभूतमासीत्तत्समहन्यत सङ्गातमापद्यत तेजसा बाह्यान्तःपच्यमानम् ।
लिङ्गव्यत्ययेन वा यो ऽषां शरः समहन्यतेति ।
सा पृथिव्यभवत्स संघातो येयं पृथिवी साभवत् ।
ताभ्यो ऽद्भयो अण्डमभिनिर्वृत्तमित्यर्थः ।
तस्यां पृथिव्यामुत्पादितायां स मृत्यु प्रजापतिरश्राम्यच्छ्रमयुक्तो बभूव ।
सर्वो हि लोकः कार्य कृत्वा श्राम्यति ।
प्रजापतश्चतन्महत्कार्यं यत्पृथिवीसर्गः ।
किं तस्य श्रान्तस्य? इत्युच्यते तस्य श्रान्तस्य तप्तस्य खिन्नस्य तेजोरसस्तेज एव रसस्तेजोरसो रसः सारो निरवर्तत प्रजापतिशरीरान्निष्क्रान्त इत्यर्थः ।
को ऽसौ निष्क्रान्त? अग्निः ।
सो ऽण्डस्यान्तर्विराट् प्रजापतिः प्रथमजः कार्यकरणसंघातवान् जातः ।
स वै शरीरि प्रथमः इति स्मरणात् ॥2॥
स्तर्त् ब्र्हुप् 1,2.3
स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् ।
स एष प्राणस् त्रेधाविहितः ।
तस्य प्राची दिक् शिरो ऽसौ चासौ चेर्मौ ।
अथास्य प्रतीची दिक् पुच्छम् असौ चासौ च सक्थ्यौ ।
दक्षिणा चोदीची च पार्श्वे ।
द्यौः पृष्ठम् अन्तरिक्षम् उदरम् इयम् उरः ।
स एषो ऽप्सु प्रतिष्ठितः ।
यत्र क्व चैति तद् एव प्रतितिष्ठत्य् एवं विद्वान्

1.2.4

ब्र्हुप्भ्_1,2.3 स च जातः प्रजापतिस्त्रेधा त्रिप्रकारमात्मानं स्वयमेव कार्यकरणसंघातं व्यकुरुत व्यभजदित्येतत् ।
कथं त्रेधा? इत्याह आदित्यं तृतीयमग्निवाय्वपेक्षया त्रयाणां पूरणम् अकुरुतेत्यनुवर्तते ।
तथाग्न्यादित्यापेक्षया वायुं तृतीयम् ।
तथा वाय्वादित्यापेक्षयाग्निं तृतीयमिति द्रष्टव्यम् ।
सामर्थ्यस्य तुल्यत्वात्त्रयाणां संख्यापूरणत्वे ।
स एष प्राणः सर्वभूतानामात्माप्य् अग्निवाय्वादित्यरूपेण विशेषतः स्वेनैव मृत्य्वात्मना त्रेधा विहितो विभक्तो न विराट् स्वरूपोपमर्दनेन ।
तस्यास्य प्रथमजस्याग्नेरश्वमेधोपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्य अश्वस्येव दर्शनमुच्यते ।
सर्वा हि पूर्वोक्तोत्पत्तिरस्य स्तुत्यर्थेत्यवोचामैत्थमसौ शुद्धजन्मेति ।
तस्य प्राची दिक्शिरो विशिष्टत्वसामान्यात् ।
असौ चासौ चैशान्याग्नेय्यौ ईर्मौ बाहू ।
ईरयतेर्गतिकर्मणः ।
अथास्याग्नेः प्रतीची दिक्पुच्छं जघन्योभागः, प्राङ्मुखस्य प्रत्यग्दिक्सम्बन्धाद् ।
असौ चासौ च वायव्यनैरृत्यौ सक्थ्यौसक्थिनी पृष्ठकोणत्वसामान्यात् ।
दक्षिणा चोदीची च पार्शे उभयदिक्सम्बन्धसामान्यात् ।
द्यौः पृष्ठमन्तरिक्षमुदरमिति पूर्ववत् ।
इयमुरः अधोभागसामान्यात् ।
स एषो ऽग्नि प्रजापतिरूपो लोकाद्यात्मको ऽग्निरप्सु प्रतिष्ठितः"एवमिमे लोका अप्स्वन्तः"इति श्रुतेः ।
यत्र क्क च यस्मिन्कस्मिंश्चिदेति गच्छति तदेव तत्रैव प्रतितिष्ठति स्थितिं लभते ।
को ऽसौ? एवं यथोक्तमप्सु प्रतिष्ठितत्वमग्नेविद्वान्विजानन् गुणफलमेतत् ॥3॥
यो ऽसौ मृत्युः सो ऽबादिक्रमेणात्मनात्मानम् अण्डस्यान्तः कार्यकरणसंघातवन्तं विराजमग्निमसृजत, त्रेधा चात्मानमकुरुतेत्युक्तम् ।
स किंव्यापारः सन्नसृजत? इत्युच्यते-
स्तर्त् ब्र्हुप् 1,2.4
सो ऽकामयत -- द्वितीयो म आत्मा जायेतेति ।
स मनसा वाचं मिथुनं समभवद् अशनाया मृत्युः ।
तद् यद् रेत आसीत् स संवत्सरो ऽभवत् ।
न ह पुरा ततः संवत्सर आस ।
तम् एतावन्तं कालम् अबिभर् यावान्त् संवत्सरः ।
तम् एतावतः कालस्य परस्ताद् असृजत ।
तं जातम् अभिव्याददात् ।
स भाण् अकरोत् ।
सैव वाग् अभवत्

1.2.5

ब्र्हुप्भ्_1,2.4 स मृत्युरकामयत कामितवान् ।
किम्? द्वितीयो मे ममात्मा शरीरं येनाहं शरीरी स्यां स जायेतोत्पद्येत इत्येवमेतदकामयत ।
स एवं कामयित्वा मनसा पूर्वोत्पन्नेन वाचं लक्षणां मिथुनं द्वन्द्वभावं समभवत्सम्भवनं कृतवान्मनसा त्रयीमालोचितवान् ।
त्रयीविहितं सृष्टिक्रमं मनसान्वालोचयदित्यर्थः ।
को ऽसौ? अशनायया लक्षितो मृत्युः ।
अशनाया मृत्युरित्युक्तम् ।
तमेव परामृशत्यन्यत्र प्रसङ्गो मा भूदिति ।
तद्यद्रेत आसीत्-तत्तत्र मिथुने यद्रेत आसीत्, प्रथमशरीरिणः प्रजापतेरुत्पत्तौ कारणं रेतो बीजं ज्ञानकर्मरूपम्,त्रय्यालोचनायां यद्दृष्टवानासीज्जन्मान्तरकृतम्;तद्भावभावितो ऽपः सृष्ट्वा तेन रेतसा बीजेनाप्स्वनुप्रविश्य अण्डरूपेण गर्भीभूतः स संवत्सरो ऽभवत्, संवत्सरकालनिर्माता संवत्सरः प्रजापतिरभवत् ।
न ह, पुरा पूर्वम्, ततस्तस्मात्संवत्सरकालनिर्मातुः प्रजापतेः, संवत्सरः कालो नाम नास न बभूव ह ।
तं संवत्सरकालनिर्मातारमन्तर्गर्भप्रजापतिम्, यावानिह प्रसिद्धः काल एतावन्तमेतावत्संवत्सरपरिमाणं कालमबिभः भृतवान्मृत्युः ।
यावान्संवत्सर इह प्रसिद्धः, ततः परस्तात्किं कृतवान्? तमेतावतः कालस्य संवत्सरमात्रस्य परस्ताद् ऊर्ध्वमसृजत सृष्टवान्, अण्डमभिनदित्यर्थः तमेवं कुमारं जातमग्निं प्रथमशरीरिणम्, अशनायवत्त्वान्मृत्युरभिव्याददान्मुखविदारणं कृतवानत्तुम्;स च कुमारो भीतः स्वाभाविक्याविद्यया युक्तो भाणित्येवं शब्दमकरोत् ।
सैव वागभवत्, वाक्-शब्दो ऽभवत् ॥4॥
स्तर्त् ब्र्हुप् 1,2.5
स ऐक्षत यदि वा इमम् अभिमंस्ये कनीयो ऽन्नं करिष्य इति ।
स तया वाचा तेनात्मनेदं सर्वम् असृजत यद् इदं किञ्च -- ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् ।
स यद्-यद् एवासृजत तत्तद् अत्तुम् अध्रियत ।
सर्वं वा अत्तीति तद् अदितेर् अदितित्वम् ।
सर्वस्यात्ता भवति सर्वम् अस्यान्नं भवति य एवम् एतद् अदितेर् अदितित्वं वेद

1.2.6

ब्र्हुप्भ्_1,2.5 स ऐक्षत-स एवं भीतं कृतरवं कुमारं दृष्ट्वा मृत्युरैक्षतेक्षितवान् अशनायावानपि-यदा कदाचिद्वा इमं कुमारमपिमंस्ये-अभिपूर्वोमन्यतिर्हिंसार्थः-हिंसिष्य इत्यर्थः;कनीयो ऽन्नं करिष्ये कनीयो ऽल्पमन्नं करिष्य इति ।
एवमीक्षित्वा तद्भक्षणादुपरराम बहु ह्यन्नं कर्तव्यं दीर्घकालभक्षणाय नः कनीयः ।
तद्भक्षणे हि कनीयो ऽन्नं स्याद्बीजभक्षण इव सस्याभावः ।
स एवम्प्रयोजनमन्नबाहुल्यमालोच्य तय्यैव त्रय्या वाचा पूर्वोक्तया तेनैव चात्मना मनसा मिथुनीभावमालोचनमुपगम्योपगम्येदं सर्वं स्थावरं जङ्गमं चासृजत यदिदं किञ्चयत्किञ्चेदम् ।
किं तत्? ऋचो यजूंषि सामानि छन्दांसि च सप्तगायत्र्यादीदीनि स्तोत्रशस्त्रादिकर्माङ्गभूतांस्त्रिविधान् मन्त्रान्गायत्र्यादिच्छन्दोविशिष्टान् यज्ञांश्च तत्साध्यान्प्रजास्तत्कर्त्रीः पशूंश्च ग्राम्यानारण्यान्कर्मसाधनभूतान् ।
ननु त्रय्या मिथुनीभूतयासृजतेत्युक्तम्, ऋगादीनेह कथमसृजतेति? नैष दोषः, मनसस्त्वव्यक्तो ऽयं मिथुनीभावस्त्रय्या, बाह्यस्तु ऋगादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्तीभावः सर्ग इति ।
स प्रजापतिरेवमन्नवृद्धिं बुद्ध्वा यद्यदेव क्रियासाधनं फलं वा किञ्चिदसृजत तत्तदत्तुं भक्षयितुमध्रियत धृतवान्मनः ।
सर्वं कृत्स्नं वै यस्मादत्तीति तत्तस्माददितेरदितिनाम्नो मृत्योरदितित्वं प्रसिद्धम् ।
तथा च मन्त्रः-"अदितिर्द्यैरदितिरन्तरिक्षमदितिर्माता स पिता"(यजुः.सं.25 । 23) इत्यादिः ।
सर्वस्यैतस्य जगतो ऽन्नभूतस्यात्ता सर्वात्मनैवभवत्यन्यथा विरोधात् ।
न हि कश्चित्सर्वस्यैको ऽत्ता दृश्यतेतस्मात्सर्वात्मा भवतीत्यर्थः ।
सर्वमस्यान्नं भवति;अत एव सर्वात्मनो ह्यत्तुः सर्वमन्नं भवतीत्युपपद्यते ।
य एवमेतद्यथोक्तमदितेर्मृत्योः प्रजापतेः सर्वस्य अदनाददितित्वं वेद तस्यैतत् फलम् ॥5॥
स्तर्त् ब्र्हुप् 1,2.6
सो ऽकामयत -- भूयसा यज्ञेन भूयो यजेयेति ।
सो ऽश्राम्यत् ।
स तपो ऽतप्यत ।
तस्य श्रान्तस्य तप्तस्य यशो वीर्यम् उदक्रामत् ।
प्राणा वै यशो वीर्यम् ।
तत् प्राणेषूत्क्रान्तेषु शरीरं श्वयितुम् अध्रियत ।
तस्य शरीर एव मन आसीत्

1.2.7

ब्र्हुप्भ्_1,2.6 सो ऽकामयतेत्यश्वाश्वमेधयोर्निर्वचनार्थमिदमाह- भूयसा महता यज्ञेन भूयः पुनरपि यज्ञेयेति ।
जन्मान्तरकरणापेक्षया भूयः- शब्दः ।
स प्रजापतिः जन्मान्तरे ऽश्वमेधेनायजत ।
स तद्भावभावित एव कल्पादौ व्यावर्तत ।
सो ऽश्वमेधक्रियाकारकफलात्मत्वेन निर्वृत्तः सन्नकामयत भूयसा यज्ञेन भूयो यजेयेति ।
एवं महत्कार्यं कामयित्वा लोकवदश्राम्यत् ।
स तपो ऽतप्यत ।
तस्य श्रान्तस्य तप्तस्येति पूर्ववत्, यशो वीर्यमुदक्रामदिति ।
स्वयमेव पदार्थमाह- प्राणाश्चक्षुरादयो वै यशो यशोहेतुत्वात् तेषु हि यत्सुख्यातिर्भवति, तथा वीर्यं बलमस्मिञ्शरीरे ।
तदेवं प्राणलक्षणं यशो वीर्यमुदक्रामदुत्क्रान्तवत् ।
तदेवं यशोवीर्यभूतेषु प्राणेषूत्क्रान्तेषु शरीरान्निष्क्रान्तेषु तच्छरीरं प्रजापतेः श्वयितुमुच्छूनभावं गन्तुमध्रियतामेध्यं चाभवत् तस्य प्रजापतेः शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन आसीद्यथा कस्यचित्प्रिये विषये दूरं गतस्यापि मनो भवति तद्वत् ॥6॥
स तस्मिन्नेव शरीरे गतमनाः सन्किमकरोत्? इत्युच्यते-
स्तर्त् ब्र्हुप् 1,2.7
सो ऽकामयत -- मेध्यं म इदं स्याद् आत्मन्व्य् अनेन स्याम् इति ।
ततो ऽश्वः समभवत् ।
यद् अश्वत् तन् मेध्यम् अभूद् इति तद् एवाश्वमेधस्याश्वमेधत्वम् ।
एष ह वा अश्वमेधं वेद य एनम् एवं वेद ।
तम् अनवरुध्यैवामन्यत ।
तं संवत्सरस्य परस्ताद् आत्मन आलभत ।
पशून् देवताभ्यः प्रत्यौहत् ।
तस्मात् सर्वदेवत्यं प्रोक्षितं प्राजापत्यम् आलभन्ते ।
एष वा अश्वमेधो य एष तपति ।
तस्य संवत्सर आत्मा ।
अयम् अग्निर् अर्कः ।
तस्येमे लोका आत्मानः ।
ताव् एताव् अर्काश्वमेधौ ।
सो पुनर् एकैव देवता भवति मृत्युर् एव ।
अप पुनर्मृत्युं जयति ।
नैनं मृत्युर् आप्नोति ।
मृत्युर् अस्यात्मा भवति ।
सर्वम् आयुर् एति ।
एतासां देवतानाम् एको भवति

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc