बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 1.1
अध्यय 1
ओं
बृहदारण्यकोपनिषद्
ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ओं शान्तिः ! शान्तिः !! शान्तिः !!!
ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यः ।
ऽउषा वा अश्वस्यऽइत्येवमाद्या वाजसनेयिब्राह्मणोपनिषत् ।
तस्या इयमल्पग्रन्था वृत्तिरारभ्यते संसारव्याविवृत्सुभ्यः संसारहेतुनिवृत्तिसाधनब्रह्मात्मैकत्वविद्याप्रतिपत्तये ।
सेयं ब्रह्मविद्या उपनिषच्छब्धवाच्यातत्पराणां सहेतोः संसारस्यात्यन्तावसादनात् ।
उपनिषूवस्यसदेस्तदर्थत्वात् ।
तादर्थ्याद् ग्रन्थो ऽप्युपनिषद् उच्यते ।
सेयं षडध्यायी अरण्ये ऽनूच्यमानत्वादारण्यकम्,बृहत्त्वात्परिमाणतो बृहदारण्यकम् ।
तस्यास्य कर्मकाण्डेन सम्बन्धो ऽभिधीयते ।
सर्वो ऽप्ययं वेदः प्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपाय- प्रकाशनपरः सर्वपुरुषां निसर्गत एव तत्प्राप्तिपरिहारयोरिष्टत्वात् ।
दृष्टविषये चेष्टानिष्टष्टप्राप्तिपरिहारोपाय- ज्ञानस्य प्रत्यक्षानुमानाभ्यामेव सिद्दत्वान्नागमान्वेषणा ।
न चासति जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टानिष्टष्टप्राप्तिपरिहारेच्छा स्यात् स्वभाववादिदर्शनात् ।
तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टष्टप्राप्तिपरिहारोपायविशेषे च शास्त्रं प्रवर्तते ।
"येयं प्रेते विचिकित्सा मानुष्ये ऽस्तीत्येके नायमस्तीति चैके" (क.उ. 1 । 1 । 20) इत्युपक्रम्य"अस्तीत्येवोपलब्धव्यः" (क.उ. 2 । 3 । 13) इत्येवमादिनिर्णयदर्शनात् ।
"यथा च मरणं प्राप्य" (क.उ.2 । 2 । 6) इत्युपक्रम्य"योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम्"(क.उ.2 । 2 । 7) इति च ।
"स्वयञ्ज्योतिः" (बृ.उ. 4 । 3 । 9) इत्युपक्रम्य"तं विद्याकर्मणि समन्वारमेते"( 4 । 4 । 2 ) "पुण्यो वै पुणेन कर्मणा भवति पापः पापेन"( 3 । 2 । 13 ) इति च ।
"ज्ञपयिष्यामि"(बृ.उ.2 । 1 । 15) इत्युपक्रम्य"विज्ञानमयः"(2 । 1 । 16) इति च व्यतिरिक्तात्मास्तित्वम् ।
तत्प्रत्यक्षविषयमेवेति चेन्न, वादिविप्रतिपत्तिदर्शनात् ।
न हि देहान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकायतिका बौद्धाश्च नः प्रतिकूलाः स्युनास्त्यात्मेति वदन्तः ।
न हि घटादौ प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते नास्ति घट इति ।
स्थाण्वादौ पुरुषादिदर्शनान्नेति चेन्न निरूपिते स्थाण्वादौ विप्रतिपत्तिर्भवति ।
वैनाशिकास्त्वहमितिप्रत्यये जायमाने ऽपि देहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते ।
तस्मात्प्रत्यक्षविषयवैलक्षण्यात् प्रत्यक्षान्नात्मास्तित्वसिद्धिः ।
तथानुमानादपि ।
श्रुत्या आत्मास्तित्वे लिङ्गस्य दर्शित्वाल्लिङ्गस्य च प्रत्यक्षविषयत्वान्नेति चेन्न, जन्मान्तरसम्बन्धस्याग्रहणात् ।
आगमेन त्वात्मास्तित्वे ऽवगते वेदप्रदर्शितलौकिकलिङ्गविशेषैश्च तदनुसारिणो मीमांसकास्तार्किकाश्च अहम्प्रत्ययलिङ्गानि च वैदिकान्येव स्वमतिप्रभवाणीति कल्पयन्तो वदन्ति प्रत्यक्षश्चानुमेयश्चात्मेति ।
सर्वथाप्यस्त्यात्मा देहान्तरसम्बन्धीत्येवं प्रतिपत्तुर्देहान्तरगतेष्टानिष्टप्राप्तिपरिहारोपायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्मकाण्डमारब्धम् ।
न त्वात्मन इष्टानिष्टप्राप्तिपरिहारेच्छाकारणमात्मविषयमज्ञानं कर्तृभोक्तृस्वरूपाभिमानलक्षणं तद्विपरीतब्रह्मात्मस्वरूपविज्ञानेनापनीतम् ।
यावद्धि तन्नापनीयते तावदयं कर्मफलरागद्वेषादिस्वाभाविकदोषप्रयुक्तः शास्त्रविहितप्रतिषिद्धातिक्रमेणापि वर्तमानो मनोवाक्कायैर्दृष्टादृष्टानिष्टसाधनानि अधर्मसंज्ञकानि कर्माण्युपचिनोति बाहुल्येन, स्वाभाविकदोषबलीयस्त्वात् ।
ततः स्थावरन्ताधोगतिः ।
कदाचिच्छास्त्रकृतसंस्कारबलीयस्त्वम्, ततो मनआदिभिरिष्टसाधनं बाहुल्येनोपचिनोति धर्माख्यम् ।
तद् द्विविधम्-ज्ञानपूर्वकं केवलञ्च ।
तत्र केवलं पितृलोकादिप्राप्तिफलम् ।
ज्ञानपूर्वकं देवलोकादिब्रह्मलोकान्तप्राप्तिफलम् ।
तथा च शास्त्रम्-"आत्मयाजि श्रेयान्देवयाजिनः"(शत.ब्राह्म.) इत्यादि ।
स्मृतिश्च"द्विविधम् कर्म वैदिकम्"(मनु.12 । 88) इत्याद्या ।
साम्ये च धर्माधर्मयोः मनुष्यत्वप्राप्तिः ।
एवं ब्रह्मान्द्या स्थावरान्ता स्वाभाविकाविद्यादिदोषवती धर्माधर्मसाधनकृता संसारगतिर्नामरूपकर्माश्रया ।
तदेवेदं व्याकृतं साध्यसाधनरूपं जगत्प्रागुत्पत्तेरव्याकृतमासीत् ।
स एष बीजाङ्कुरादिवदविद्याकृतः संसार आत्मनि क्रियाकारकफलाध्यारोपलक्षणो ऽनादिरनन्तो ऽनर्थः, इत्येतस्माद्विरक्तस्याविद्यानिवृत्तये तद्विपरीतब्रह्मविद्याप्रतिपत्त्यर्थोपनिषदारभ्यते ।
अस्य त्वश्वमेधकर्मसम्बन्धिनो विज्ञानस्य प्रयोजनं येपामश्वमेधे न अधिकारस्तेषामस्मादेव विज्ञानात् फलप्राप्तिः ।
ऽविद्यया वा कर्मणा वाऽ "तद्धैतल्लोकजिदेव"(बृ.उ.1 । 3 । 28) इत्येवमादिश्रुतिभ्यः ।
कर्मविषयत्वमेव विज्ञानस्येति चेन्न,"यो ऽश्वमेधेन यजते य उ चैनमेवं वेद"इति विकल्पश्रुतेः ।
विद्याप्रकरणे चाम्नानात् कर्मान्तरे च सम्पादनदर्शनाद् विज्ञानात् तत्फलप्राप्तिरस्तीत्यवगम्यते ।
सर्वेषां च कर्मणां परं कर्माश्वमेधः समष्टिव्यष्टिप्राप्तिफलवत्वात् तस्य चेह ब्रह्मविद्याप्रारम्भ आम्नानं सर्वकर्मणां संसारविषयत्वप्रदर्शनार्थम् ।
तथा च दर्शयिष्यति फलमशनायामृत्युभावम् ।
न नित्यानां संसारविषयफलत्वमिति चेन्न, सर्वकर्मफलोपसंहारश्रुतेः ।
सर्वं हि पत्नीसम्बद्धं कर्म ।
"जया मे स्यात् ........एतावान्वै कामः"(बृ.उ.1 । 4 । 17) इति निसर्गत एव सर्वकर्मणां काम्यत्वं दर्शयित्वा, पुत्रकर्मापरविद्यानां च"मनुष्यलोकः पितृलोको देवलोकः"(बृ.उ.1 । 5 । 16) इति फलं दर्शयित्वा, त्र्यन्नात्मकतां चान्ते उपसंहरिष्यति"त्रयं वा इदं नाम रूपं कर्म"(बृ.उ.1 । 6 । 1) इति ।
सर्वतर्मणां फलं व्याकृतं संसार एवेति ।
इदमेव त्रयं प्रागुत्पत्तेस्तर्ह्यव्याकृतमासीत् ।
तदेव पुनः सर्वप्राणिकर्मवशाद्व्याक्रियते बीजादिव वृक्षः ।
सो ऽयं व्याकृताव्याकृतरूपः संसारो ऽविद्याविषयः;क्रियाकारकफलात्मकतया आत्मरूपत्वेनाध्यारोपितः अविद्ययैव मूर्तामूर्ततद्वासनात्मकः ।
अतो विलक्षणो ऽनामरूपकर्मात्मको ऽद्वयो नित्यशुद्धबुद्धमुक्तस्वभावो ऽपि क्रियाकारकफलभेदादिविपर्ययेणावभासते ।
अतो ऽस्मात्क्रियाकारकफलभेदस्वरूपाद् एतावदिदमिति साध्यसाधनरूपाद्विरक्तस्य कामादिदोषकर्मबीजभूताविद्यानिवृत्तये रज्ज्वामिव सर्पविज्ञानापनयाय ब्रह्मविद्या आरभ्यते ।
तत्र तावदश्वमेधविज्ञानायऽउषा वा अश्वस्यऽइत्यादि ।
तत्राश्वविषयमेव दर्शनमुच्यते प्राधान्यादश्वस्य ।
प्राधान्यं च तन्नामाङ्कितत्वात्क्रतोः प्राजापत्यत्वाच्च ।
स्तर्त् ब्र्हुप् 1,1.1
उषा वा अश्वस्य मेध्यस्य शिरः ।
सूर्यश् चक्षुर् वातः प्राणो व्यात्तम् अग्निर् वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य ।
द्यौः पृष्ठम् अन्तरिक्षम् उदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवो ऽङ्गानि मासाश् चार्धमासाश् च पर्वाण्य् अहोरात्राणि प्रतिष्ठा नक्षत्राण्य् अस्थीनि नभो मांसानि ।
ऊवध्यं सिकताः सिन्धवो गुदा यकृच् च क्लोमानश् च पर्वता ओषधयश् च वनस्पतयश् च लोमानि ।
उद्यन् पूर्वार्धो निम्लोचञ् जघनार्धः ।
यद् विजृम्भते तद् विद्योतते ।
यद् विधूनुते तत् स्तनयति ।
यन् मेहति तद् वर्षति ।
वाग् एवास्य वाक्
ब्र्हुप्भ्_1,1.1 उषा इति, ब्राह्मो मुहूर्त उषाः ।
वैशब्दः स्मरणार्थः प्रसिद्धं कालं स्मारयति ।
शिरः प्राधान्यात् ।
शिरश्च प्रधानं शरीरावयवानाम् ।
अश्वस्य मेध्यस्य मेधार्हस्ययज्ञियस्योपाः शिरः इति सम्बन्धः ।
कर्माङ्गस्य पशोः संस्कर्तव्यत्वात् कालादिदृष्टयः शिर आदिषु क्षिप्यन्ते ।
प्राजापत्यत्वं च प्रजापतिदृष्ट्यध्यारोपणात् ।
काललोकदेवतात्वाध्यारोपणं च प्रजापतित्वकरणं पशोः ।
एवंरूपो हि प्रजापतिः, विष्णत्वादिकरणमिव प्रतिमादौ ।
सूर्यश्चक्षुः शिरसो ऽनन्तरत्वात् सूर्याधिदैवतत्वाच्च ।
वातः प्राणो वायुस्वाभाव्यात् ।
व्यात्तं विवृतं मुखमग्निर्वैश्वानरर्ः ।
वैश्वानर इत्यग्नेर्विशेषणर्म् ।
वैश्वानरो नामाग्निर्विवृतं मुखमित्यर्थो मुखस्याग्निदैवतत्वात् ।
संवत्सर आत्मा, संवत्सरो द्वादशमासस्त्रयोदशमासो वा,आत्माशरीरम् ।
कालावयवानां च संवत्सरः शरीरं चात्मा "मध्यं ह्यषामङ्गानामात्मा"इति श्रुतेः ।
अश्वस्य मेध्यस्येति सर्वत्रानुपङ्गार्थं पुनर्वचनम् ।
द्यौः पृष्ठमूर्ध्वत्वसामान्यात् ।
अन्तरिक्षमुदरं सुषिरत्वसामान्यात् पृथिवी पाजस्यं पादस्यं पाजस्यमिति वर्णव्यत्ययेन, पादासनस्थानमित्यर्थः ।
दिशश्चतस्रो ऽपि पार्श्वे पार्श्वेन दिशां सम्बन्धात् ।
पार्श्वयोर्दिशां च सङ्ख्यावैषम्यादयुक्तमिति चेन्न, सर्वमुखत्वोपपत्तेरश्वस्य पार्श्वाभ्यामेव सर्वदिशां सम्बन्धाददोषः ।
अवान्तरदिश आग्नेय्याद्याः पर्शवः पार्श्वास्थीनि ।
ऋतवो ऽङ्गानि संवत्सरावयवत्वादङ्गसाधर्म्यात् ।
अहोरात्राणि प्रतिष्ठाः ।
बहुवचनात् प्राजापत्यदैवपित्र्यमानुषाणि, प्रतिष्ठाः पादाः प्रतितिष्ठत्येतैरिति ।
अहोरात्रैर्हि कालात्मा प्रतितिष्ठत्यश्वस्य पादैः ।
नक्षत्राण्यस्थीनि शुक्लत्वसामान्यात् ।
नभो नभःस्था मेघा अन्तरीक्षस्योदरत्वोक्तेः, मांसान्युदकरुधिरसेचनसामान्यात् ।
ऊवध्यं उदरस्थमर्धजीर्णमशनं सिकता विश्लिष्टावयवत्वसामान्यात् ।
सिन्धवः स्यन्दनसामान्यन्नद्यो गुदा नाड्यो बहुवचनाच्च ।
यकृच्चक्लोमानश्च हृदयस्याधस्थाद्दक्षिणोत्तरौ मांसखण्डौ ।
क्लोमान इति नित्यं बहुवचनमेकस्मिन्नेव ।
पर्वताः काठिन्यादुच्छ्रितत्वाच्च ।
ओषधयश्च क्षुद्राः स्थावरा वनस्पतयो महान्तो लोमानि केशाश्च यथासम्भवम् ।
उद्यन्नुद्गच्छन्भवति सविता आमध्याह्नादश्वस्य पूर्वार्धो नामेरूर्ध्वमित्यर्थः ।
निम्लोचन्नस्तं यन्नामध्याह्नाज्जघनार्धो ऽपरार्धः पूर्वापरत्वसाधर्म्यात् ।
यद्विजृम्भते गात्राणि विनामयति विक्षिपति तद्विद्योतते विद्योतनं मुखघनविदारणसामान्यात् ।
यद्विधूनुते गात्राणि कम्पयति तत्स्तनयति गर्जनशब्धसामान्यात् ।
यन्मेहति मूत्रं करोत्यश्वस्तद्वर्षति वर्षणं तत् सेचनसामान्यात् ।
वागेव शब्द एवास्याश्वस्य वागिति, नात्र कल्पनेत्यर्थः ॥1॥
अहर्वा इति ।
सावर्णराजतौ महिमाख्यौ ग्रहावश्वस्याग्रतः पृष्ठतश्च स्थाप्येते तद्विषयमिदं दर्शनम्--
स्तर्त् ब्र्हुप् 1,1.2
अहर् वा अश्वं पुरस्तान् महिमान्वजायत ।
तस्य पूर्वे समुद्रे योनिः ।
रात्रिर् एनं पश्चान् महिमान्वजायत ।
तस्यापरे समुद्रे योनिर् ।
एतौ वा अश्वं महिमानाव् अभितः सम्बभूवतुः ।
हयो भूत्वा देवान् अवहद् वाजी गन्धर्वान् अर्वासुरान् अश्वो मनुष्यान् ।
समुद्र एवास्य बन्धुः समुद्रो योनिः
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0