युक्तिदीपिका · श्लोक 42-67
यथा हि चित्रस्य कुड्यमृते ऽवस्थानं नास्ति, स्थाणुपुरुषादिभ्यो वा विना च्छायायाः तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् । तस्मादुपपन्नमेतत् सविशेषः संसारः ।
आह, यदि सविशेषः संसारबीजदेशगमने शरीरमुपलभ्येत । न त्वेवम् । तस्मादयुक्तमेतत् ।
उच्यते- न, विशेषितत्वात् । सूक्ष्मं तच्छरीरमिति विशेषितम् । ततो नास्याहेतुकमग्रहणमिति ।
आह, सूक्ष्मशरीरयोगात्पूर्वेश्वरत्वप्रसंगः । तस्मादयुक्तं तन्निमित्तमस्याग्रहणमिति ।
उच्यते- न अनेकान्तात् । तद्यथा क्षुद्रजन्तूनां सूक्ष्मशरीरं लघिमा च, न चैषामीश्वरत्वमेवं सर्वप्राणिनां स्यात् । अथ मतमगृह्यमाणेन सम्बन्धात् स्थूलस्यापि शरीरस्याग्रहणं प्रेताञ्जनसिद्धमाल्यादिवत् । तदप्यनुपपन्नम् । अनेकान्तात् । तद्यथा करणैरगृह्यमाणैः शरीरस्य सम्बन्धः । न चाग्रहणम्, पिशाचादिभिर्वा तथैतदपि स्यात् । किंच अन्तःकरणानुविधाने चैश्वर्याभिमानात् । यस्य चाध्यवसायमनुविदधत्यणिमादीनि तस्यैश्वर्यमभिप्रेतम् । न तु यस्य स्वभावसिद्धानि । अन्यथा तु पिपीलिकादीनामप्याकाशगमनादैश्वर्यं स्यात् ।
आह, न, शरीरानुपपत्तिप्रसंगात् । सूक्ष्मशरीरोत्पत्तौ तर्हि चरितार्थयोः शरीरान्तरसामर्थ्यं विरुध्यते । तस्मादयुक्तम् सविशेषः संसारः ।
उच्यते- न अनभ्युपगमात् । न धर्माधर्मनिमित्तं वैवर्तं शरीरम्, किं तर्हि आधिकारिकमित्यदोषः । न चानेकशरीरत्वमभ्युपगम्यते । तस्मात्पक्षान्तरोपालम्भो ऽयम् । किं च कृत्स्नाशयपरिणामाप्रतिज्ञानात् । कृत्स्नस्याशयस्य परिणामं जानन्नेवमुपालभ्यः स्यादेकदेशस्तु नो विपरिणामी । तस्मान्न किंचिदेतत् । निमित्तावशेषादाशयैकदेशाभिव्यक्तिरयुक्तेति चेत्, स्यान्मतम्- इह निमित्तानामल्पबहुत्वविशेषादाशयाभिव्यक्तिविशेषो दृष्टः । तद्यथा वाय्वादिक्रोधादिषु । प्रायणकालश्चायं फलाभिव्यक्तौ निमित्तम् । अविशिष्टश्चासौ । तस्मादाशयैकदेशपरिणामो ऽनुपपन्न इति । एतच्चायुक्तम् । कस्मात् ? नैमित्तिकत्वात् । पूर्वकृतस्य कर्मणः फलभोगपरिसमाप्तिः, साम्प्रतस्य च फलोपभोगार्थविपरिणामः प्रायणस्य निमित्तम् । न तु प्रायणो विपरिणमस्येति । किंच शरीरान्तराभावश्च । कृत्स्नस्याशयस्याभिव्यक्तिमिच्छतः शरीरान्तराभावो निमित्तान्तराभावात्प्राप्नोति । तत्र कृतेनेति चेत् न, कललाद्यवस्थानाशे तदसम्भवात् । तत्र कृताभ्यां हि बीजावेशः करणस्य निष्पादितो यावत्कललाद्यस्थायामेव तच्छरीरं विनष्टमिति तत्र कृताशयस्यासम्भवाच्छरीरान्तरानुपपत्तिप्रसंगः । किं च स्थावराणां च शरीरान्तरासम्भवः । आशयस्य स्थावरशरीरारम्भे चरितार्थत्वात्स्थावरशरीरेण चाशयोपादानसम्भवात्तस्य संसाराभावः प्राप्तः । तस्मादुपपन्नमेतत्पुरुषार्थमादिसर्गोत्पन्नं सूक्ष्मशरीरं संसरति । यावच्च स पुरुषार्थो न परिसमाप्यते तावत्तिष्ठत इति ॥ 41 ॥
कारिका 42
आह, यदि पुरुषार्था लिङ्गस्योत्पत्तिरभ्युपगम्यते तत्समनन्तरमेवानेन पुरुषार्थो ऽवसाययितव्यो न पुनर्देवमानुषतिर्यग्भावेन पुनः पुनराजञ्जवीभावो ऽनुष्ठातव्य इति ।
उच्यते-
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम्
यद्यपि पुरुषार्थसिद्ध्यर्थं लिङ्गमुत्पद्यते, तथापि सत्त्वरजस्तमसां त्रयाणामपि प्राधान्याद्रजस्तमोभ्यामभिभूते सत्त्वे तत्प्रेरितं निमित्तनैमित्तिकशरीरेन्द्रियविषयोपभोगनिर्वर्तकं शृणोति । तद्यथा अग्निहोत्रं जुहुयात्स्वर्गकामो, यमराज्यमग्निष्टोमेनाभिजयतीति । तत्र फलेच्छया योनीः प्राणादींश्च सम्मुखीकृत्य क्रियामारभते । गुणवृत्तवैचित्र्याच्च प्रयत्नवानपि मनोवाग्देहैर्मलिनमपि कर्म करोति । ततश्च प्रकृतेर्विभुत्वयोगात्तेन तेन निमित्तेनोपस्थापितं देवमनुष्यतिर्यक्प्रेतादिशरीरमेकस्वभावमपि सन्नटवद्व्यवतिष्ठते लिङ्गमाकृतिविशेषोपादानत्यागसाम्यतः । विभुत्वं गुणानां त्रयाणामपि साम्यादितरेतराभिभवो दृष्टः । तस्माद्भावनिमित्तः संसारः । तन्निमित्तानुपादानान्मोक्षः ॥ 42 ॥
कारिका 43
आह, भावा इति तत्र भवताभिधीयते, न चास्य शब्दस्यार्थं प्रतिपद्यामहे । तस्माद्वक्तव्यमिदं के पुनरमी भावा इति ?
उच्यते- धर्माद्या भावाः । धर्मो ज्ञानं वैराग्यमैश्वर्यमधर्मो ऽज्ञानमवैराग्यमनैश्वर्यमित्येते भावाः ।
तत्राचार्याणां विप्रतिपत्तिः । पञ्चाधिकरणस्य तावद्द्विविधं ज्ञानं प्राकृतिकं वैकृतिकं च । प्राकृतिकं त्रिविधं- तत्त्वसमकालं सांसिद्धिकमाभिष्यन्दिकं च । तत्र तत्त्वसमकालं संहतश्च महांस्तत्त्वात्मना महति प्रत्ययो भवति । उत्पन्नकार्यकारणस्य तु सांसिद्धिकमाभिष्यन्दिकं च भवति । सांसिद्धिकं यत्संहतव्यूहसमकालं निष्पद्यते, यथा परमर्षेर्ज्ञानम् । आभिष्यन्दिकं च संसिद्धकार्यकरणस्य कारणान्तरेणोत्पद्यते । वैकृतं तु द्विविधं स्ववैकृतं परवैकृतं च । स्ववैकृतं तारकम् । परवैकृतं सिद्ध्यन्तराणि । आह च
तत्त्वसमं वैवर्तम् तत्राभिष्यन्दिकं द्वितीयं स्यात् ।
वैकृतमतस्तृतीयं षाट्कौशिकमेतदाखातम् ॥
अत्र तु सत्त्वैः सहोत्पत्त्यविशेषात्सांसिद्धिकमभेदेनाह-
वैकृतमपि च द्विविधं स्ववैकृतं तत्र तारकं भवति ।
स्यात्सप्तविधं परवैकृतं स्वतारादि निर्दिष्टम् ॥
इति यथा ज्ञानमेवं धर्मादयो ऽपीति ।
विन्ध्यवासिनस्तु नास्ति तत्त्वसमं सांसिद्धिकं च । किं तर्हि सिद्धिरूपमेव । तत्र परमर्षेरपि सर्गसंघातव्यूहोत्तरकालमेव ज्ञानं निष्पद्यते यस्माद् गुरुमुखाभिप्रतिपत्तेः प्रतिपत्स्यत इत्यपीत्याह- सिद्धं निमित्तं नैमित्तिकस्यानुग्रहं कुरुते, नापूर्वमुत्पादयतीति । निमित्तनैमित्तिकभावाच्चैवमुपपद्यते । तत्र परमर्षेः पटुरूहः अन्येषां क्लिष्ट इत्ययं विशेषः । सर्वेषामेव तु तारकाद्यविशिष्टमाचार्य आह- त्रिविधा भावाः सांसिद्धिकाः प्राकृतिका वैकृतिकाश्चेति । तत्र सांसिद्धिकग्रहणात्तत्त्वसमकालं प्रत्याचष्टे, नैव तदस्तीति । कथम् ? यदि हि तथा स्यात्तत्त्वान्तरानुत्पत्तिसंघातो व्यूहश्चानर्थकः स्यात् । महत्युत्पन्नं ज्ञानं तत्रैवोपलब्धमिति कः संघातार्थः ? तथा चर्षेरूहो नोपपद्यते, प्रतिबन्धाभावात् । न ह्यस्य कार्यकारणव्यूहसमकालज्ञानोत्पत्तौ कश्चित्प्रतिबन्धो ऽस्ति । अपरिवृतखलत्वाद्यतः कालान्तरं प्रतीक्षते । तस्मादस्य सहैव कार्यकारणाभ्यां ज्ञानमभिनिष्पद्यते प्रदीपप्रकाशादित्यतः सांसिद्धिकम् । अन्येषां तु सत्त्वस्यापटुत्वात्कालान्तरेण प्रकृत्यभिष्यन्दाद् द्रागिति भवति । कृष्णसर्पदर्शनवत् । तत्प्राकृतम् । वैकृतं तु द्विविधं पूर्ववत् । यथा च परमर्षेर्ज्ञानं सांसिद्धिकमेवं माहात्म्यशरीरस्यैश्वर्यं, भृग्वादीनां धर्मः, सनकादीनां वैराग्यम् । अधर्मो यक्षरक्षःप्रभृतीनाम् । अनैश्वर्यं षट्सिद्धिक्षयकालोत्पन्नानां मनुष्याणां तिरश्चाञ्च । रागो ऽज्ञानं परमर्षिवर्ज्यानाम् । प्राकृतास्तु तद्यथा वैराग्यं भगवदासुरेः । तस्य हि परमर्षिसम्भावनादुत्पन्नो धर्मः, अशुद्धिं प्रतिद्वन्द्विभावादपजगाम । तस्यामपहतायां प्रकृतेः शुद्धिस्रोतः प्रवृत्तं येनानुगृहीतो दुःखत्रयाभिघातादुत्पन्नजिज्ञासः प्रव्रजितः । तथा महेश्वरसम्पर्कान्नन्दिन ऐश्वर्यम् । नहुषस्यागस्त्यसम्पर्काद्धर्म इत्यादि । वैकृतास्तु भावा अस्मदादीनाम् । एवं त्रिविधभावपरिग्रहात्त्वाचार्यस्य न सर्वं स्वतः पतञ्जलिवत्, न सर्वं परतः पञ्चाधिकरणवत्
। किन्तर्हि महती स्वभावातिवृत्तिः प्रकृतितो ऽल्पा स्वतो विकृतितः ।
एवम्
सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टाः करणाश्रयिणः
यथा चैते तथा
कार्याश्रयिणश्च कललाद्याः
त्रिविधा एवेति कललादिग्रहणेन शरीराण्याह । तेषामाकृतिवैश्वरूप्यं चतुर्दशविधे संसारे त्रिविधम् । तत्र सांसिद्धिकस्तावत् वैवर्त्तानां ग्रहनक्षत्रतारादीनाम् । जातिकृतश्च विशेषः हंसानां शौक्ल्यम्, तित्तिरमयूरादीनां चित्रच्छदत्वमिति । प्राकृतं यथामाहात्म्यं शरीराभिमानात् तस्य ह्यभिमानो भवति- हन्ताहं पुत्रान्स्रक्ष्ये ये मे कर्म करिष्यन्ति । ये मां परं च ज्ञास्यन्ति । स यादृक्सर्गमभिध्यायति तादृक्प्रधानादुत्पद्यते । तद्यथा महेश्वरस्य रुद्रकोटिसृष्टाविति । वैकृतास्तु कललाद्याः । यथा भिषग्वेदे ऽभिहितम्- क्षीरं पीत्वा गर्भिणी गौरं पुत्रं जनयतीति । एते भावा व्याख्याताः । एषां वैश्वरूप्याल्लिङ्गस्य गतिविशेषः संसारो भवतीति ॥ 43 ॥
कारिका 44
आह, कस्य पुनर्भावस्यानुष्ठानात्को गमनविशेषो लिङ्गस्य निष्पद्यत इति ?
उच्यते-
धर्मेण गमनमूर्ध्वम्
उक्तो धर्मः । तदनुष्ठानादष्टविकल्पायां देवभूमावुत्पत्तिर्भवति ।
गमनमधस्ताद् भवत्यधर्मेण ।
अधर्मो ऽप्युक्तः । तदनुष्ठानापञ्चविकल्पायां तिर्यग्भूमावुत्पत्तिर्भवति ।
आह, एकभूमिविशेषानुपपत्तिः, गतिविशेषात् । यदि भावानां भूमिविशेषनिमित्तत्वं नियम्यते तेनैकस्यां भूमौ हीनमध्यमोत्कृष्टत्वं जात्याकृतिस्वभावानुग्रहोपघातानां न प्राप्नोति ।
उच्यते- न तर्ह्यनेन भूमिविशेषो नियम्यते, किं तर्हि ऊर्ध्वशब्द उत्कृष्टवचनः । धर्मेण देवेषु मानवेषु तिर्यक्षु चोर्ध्वगमनमुत्कृष्टं जन्म भवति । तथाधर्मादधोगमनमपकृष्टं जन्म भवति ।
ज्ञानेन चापवर्गः
चशब्दो ऽवधारणार्थः । ज्ञानेनैवापवर्गः, न भावान्तरेणेति । यदुक्तमन्यैराचार्यैः- वैराग्यात्पुरुषकैवल्यं ज्ञानवैराग्याभ्यां चेति तत्प्रतिषिद्धं भवति ।
आह, यदि पुनर्वैराग्यात्पुरुषकैवल्यमभ्युपगम्यते क एवं सति दोषः स्यात् ?
उच्यते- न शक्यमेवं प्रतिपत्तुम् । कस्मात् ? संसारनिमित्ताप्रतिपक्षत्वात् । यदि रागनिमित्तः प्रधानपुरुषसंयोगः स्यात् प्राप्तमिदं तत्प्रतिपक्षेण वैराग्येण वियोगो भविष्यतीति । न त्वेवम् । कुतः ? संयोगकृते कार्यकरणसर्गे निष्पत्तेः । कार्यकरणव्यूहोत्तरकालं हि रागो भवति । तस्मान्नासौ कार्यकरणनिष्पत्तेर्निमित्तमिति शक्यमाश्रयितुम् । यस्य तु ज्ञानान्मोक्ष इति पक्षः, तस्य प्रतिपक्षादज्ञानाद्बन्ध इति प्राप्तमस्ति, न चासौ प्रागपि कार्यकरणनिष्पत्तेः । तस्मान्न वैराग्यान्मोक्षः । अतएव न ज्ञानवैराग्याभ्यां मोक्षो ऽस्ति । उभयनिमित्तासम्भवात् । तस्मात्सूक्तं ज्ञानेनैवापवर्गः ।
विपर्ययादिष्यते बन्धः
ज्ञानविपर्ययो ऽज्ञानम् । तस्माद् बन्धस्त्रिविधो भवति प्रकृतिबन्धो दक्षिणाबन्धो वैकारिकबन्धश्चेति ॥ 44 ॥
कारिका 45
आह, कस्माद् भावात्प्रकृतिबन्धो भवति ?
उच्यते-
वैराग्यात् प्रकृतिलयः
वैराग्यादष्टसु प्रकृतिषु लयं गच्छति, असावुच्यते प्रकृतिबन्ध इति ।
आह, यदि वैराग्यात्प्रकृतिलयः प्राप्तो यदेतत्प्रकृतौ वैराग्यमाञ्जसम् । अन्या प्रकृतिस्त्रिगुणा, कारणभूता, कार्यभूता, कार्यकारणभूता, अकार्यकारणभूता अचेतना परतन्त्रा चेति । अन्यः पुरुषो निर्गुणो, न कार्यं, न कारणं, न कार्यकारणं, तद्विपरीतः चेतनः स्वतन्त्रश्चेति ततो ऽपि प्रकृतौ लयः ततश्चानिर्मोक्षप्रसंग इति ।
उच्यते- विपर्ययादिति वर्तते । तदिहाभिसम्भन्त्स्यामः । ततश्च विपरीतं यदेव वैराग्यं तुष्टिकाण्डानुपतितं प्रकृत्यादिषु परत्वाभिमानः तत एव प्रकृतिलयो भवति नान्यस्मात् । अथवात्रापि यत्तत्प्रकृतावन्यत्वज्ञानं तत एव मोक्षो न वैराग्यात् । कुतः ? भवबीजाप्रतिपक्षत्वादिति ह्युक्तम् । आम्भसिकस्य च मोक्षप्रसंगात् । तुल्या ह्यस्य नानात्वसंविद्, आसंगदोषनिवृत्तेः । न चैतदिष्टम् । तस्माद्युक्तमेतत् वैराग्यात्प्रकृतिलय इति ।
आह, अथ दक्षिणाबन्धः कुतः ?
उच्यते-
संसारो भवति राजसाद् रागात् ।
यो ऽयं दृष्टानुश्रविकविषयाभिलाषः स रागः । तत्र दृष्टविषयरागात्तत्प्राप्तिनिर्वर्तकं कर्म करोति । ततश्च तत्रोपपद्यते । आनुश्रविकविषयाभिलाषादग्निहोत्रादिषु प्रवर्तते । ततश्च स्वर्गादिषूपपत्तिर्भवति । असौ दक्षिणाबन्धः । दृष्टानुश्रविकविषयाभिलाषद्वारेण तन्निर्वर्तके कर्मणि प्रवर्तमानो गुणवृत्तिवैचित्र्यादनिष्टफलनिर्वर्तकमपि कर्म करोति । एवं मानुष्ये गत्यन्तरे योपपत्तिः सर्वासौ रागात् ।
आह, राजसंग्रहणानर्थक्यम् तत्पूर्वकत्वाद्रागस्य । रजोनिमित्त एव हि रागः । तत्र संसारो रागादित्येव वक्तव्यम्, राजसग्रहणमनर्थकमिति ।
उच्यते- न, विषयविशेषणत्वात् । विषये यो रागः स संसारहेतुरित्यस्यार्थस्य ज्ञापनार्थमिदमुच्यते । अन्यथा यो यतेः सात्त्विको यमनियमध्यानाद्यनुष्ठानानुरागः प्रवचनरागो वा सो ऽपि संसाराय स्यात् ।
ऐश्वर्यादविघातः
यदष्टगुणमैश्वर्यमणिमादि प्रागुपदिष्टं तस्मात्स्वे स्वे विषये ऽविघात उत्पद्यते । तदभिरतिर्वैकारिको बन्धः ।
आह, यदि त्रिभिस्त्रिभिर्निमित्तैर्वैराग्यादिभिस्त्रिविधो बन्धो निर्वर्त्यते यदुक्तमज्ञानाद् बन्ध इति तदयुक्तम् । भावान्तरं ह्यज्ञानमतः फलान्तरेण भवितव्यमिति ।
उच्यते- न, मूलकारणत्वात् । ज्ञानवर्जितानां हि भावानां यत्फलं तत्राज्ञानं मूलम् । तन्निमित्तत्वात्सर्वेषाम् । न हि ज्ञानिवैराग्यमलं प्रकृतिलयाय । तथेतराणि परमर्ष्यादावदृष्टत्वाद् विचित्रं कार्यमेकस्मात्कारणादयुक्तमिति वैराग्यादीन्यसाधारणानि पृथक् कल्प्यन्ते, साधारणं त्वज्ञानमतो न कश्चिद्दोषः ।
विपर्ययात्तद्विपर्यासः
अनैश्वर्यात्तु अणिमादेरष्टविधादविघातविपर्ययो विघातो भवति । तदेवमेतदष्टविधं धर्मादिविधानमुपादायाष्टविधं नैमित्तिकमुपपद्यते । एवमेष तत्त्वसर्गो भावसर्गश्च व्याख्यातः । एतच्च व्यक्तस्य रूपं प्रवृत्तिश्च परिकल्प्यते । फलमिदानीं वक्ष्यामः ॥ 45 ॥
॥ इति युक्तिदीपिकायामष्टममाह्निकं तृतीयं च प्रकरणम् ॥
कारिका 46
आह, किं पुनस्तत्फलमिति ?
उच्यते- यः खलु
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
तत्फलमिति वाक्यशेषः । एष इति वक्ष्यमाणस्य सम्मुखीकरणार्थमुच्यते । प्रत्ययसर्ग इति प्रत्ययः पदार्थो लक्षणमिति पर्यायाः, प्रत्ययानां सर्गः प्रत्ययसर्गः पदार्थसर्गो लक्षणसर्ग इत्यर्थः । अथवा प्रत्ययो बुद्धिर्निश्चयो ऽध्यवसाय इति पर्यायाः । तस्य सर्गो ऽयमतः प्रत्ययसर्गः प्रत्ययकार्यं प्रत्ययव्यापार इत्यर्थः । अथवा प्रत्ययपूर्वकः सर्गः प्रत्ययसर्गः । बुद्धिपूर्वक इत्युक्तः । कथम् ? एवं हि शास्त्रम्- "महदादिविशेषान्तः सर्गो बुद्धिपूर्वकत्वात् । उत्पन्नकार्यकरणस्तु माहात्म्यशरीर एकाकिनमात्मानमवेक्ष्याभिदध्यौ हन्ताहं पुत्रान्स्रक्ष्ये ये मे कर्म करिष्यन्ति । ये मां परं चापरं च ज्ञास्यन्ति । तस्याभिध्यायतः पञ्च मुख्यस्रोतसो देवाः प्रादुर्बभूवुः । तेषूत्पन्नेषु न तुष्टिं लेभे । ततो ऽन्ये तिर्यक्स्रोतसो ऽष्टाविंशतिः प्रजज्ञे । तेष्वप्यस्य मतिर्नैव तस्थे । अथापरे नवोर्ध्वस्रोतसो देवाः प्रादुर्बभूवुः । तेष्वप्युत्पन्नेषु नैव कृतार्थमात्मानं मेने । ततो ऽन्ये ऽष्टावर्वाक्स्रोतस उत्पेदुः । एवं तस्माद् ब्रह्मणो ऽभिध्यानादुत्पन्नस्तस्मात्प्रत्ययसर्गः । स विपर्ययाख्यः अशक्त्याख्यः तुष्ट्याख्यः सिद्ध्याख्यश्चेति ।" तत्राश्रेयसः श्रेयस्त्वेनाभिधानं विपर्ययः । वैकल्यादसामर्थ्यमशक्तिः । चिकीर्षितादूनेन निर्वृतिस्तुष्टिः । यथेष्टस्य साधनं सिद्धिः । तद्यथा धर्मार्थप्रवृत्तो ऽग्निष्टोमादीन्परित्यज्य संकरं कुर्वीत सो ऽस्य विपर्ययः । साधनवैकल्यादसामर्थ्यमशक्तिः । आधानमात्रसन्तोषस्तुष्टिः । कृत्स्नस्य क्रियातिशेषस्यानुष्ठानं सिद्धिः । एवमर्थादिषु योज्यम् । यश्चायं चतुर्विधः फलविशेषो विपर्ययादिराख्यातः ।
गुणवैषम्यविमर्दात् तस्य भेदास्तु पञ्चाशत्
गुणानां वैषम्यं गुणवैषम्यम् । गुणवैषम्यं प्राधान्यगुणभावयोग इत्यर्थः । गुणवैषम्याद्विमर्दो गुणवैषम्यविमर्दः, प्रत्ययपर्यायेण सत्त्वरजस्तमसामितरेतरभावः । तन्निमित्ता एषां प्रत्ययाणां पञ्चाशद्भेदा भवन्ति ॥ 46 ॥
कारिका 47
कथमित्युच्यते-
पञ्च विपर्ययभेदा भवन्ति
तमो मोहो महामोहस्तामिस्रो ऽन्धतामिस्र इति । तत्राश्रेयसि प्रवृत्तस्य प्रत्ययावरे श्रेयो ऽभिमाने आद्यो विपर्ययस्तम इत्यभिधीयते । भौतिकेष्वाकारेषु शिरःपाण्यादिष्वात्मग्रहो यो ऽयं व्यूढोरस्कः सितदशनस्ताम्राक्षः प्रलम्बबाहुः सो ऽहमिति । तथा श्रवणस्पर्शनरसनघ्राणवचनादानविहरणोत्सर्गानन्दसंकल्पाभिमानाध्यवसायलक्षणासु करणवृत्तिष्वहं श्रोता द्रष्टा चेत्येवमादिराद्यकालप्रवृत्तो ग्रहः सर्वस्मादवरो मोह इत्युच्यते । कथं पुनरयमवरः इत्युच्यते पूर्वं शरीरेन्द्रियव्यतिरिक्तमुपलब्धुमिच्छन्सौक्ष्म्यात्तत्तदनधिगमे भूताकारमभूतं प्रमाणं परपरिकल्पितं वानुमन्येत, स्वयं वा परिकल्पयेदिति न मार्गाद् दूरापगतमेतत् । अयं तु प्रत्यक्षादिगतोत्पत्तिस्थितिविनाशेष्वनेकरूपकेषु कार्यकरणेष्वहमिति अभिमन्यते, तस्मात्पूर्वस्यादवरः । बाह्ये तु विषये ममेदमित्यभिनिवेशः पूर्वस्मादवर इत्युच्यते । पूर्वः शरीरिणो ऽप्रत्यक्षत्वात्करणवृत्त्यविशेषाद् वात्मवृत्तेः कार्यकरणे कुर्यादात्मबुद्धिमिति शक्यमेतद् भिन्ननिमित्ताकारदेशस्वभावप्रयोजनानुग्रहोपघातोत्पत्तिस्थितिविनाशांश्च मातृपितृपुत्रभ्रातृपुत्रदारगोहिरायवसनाच्छादनादीनयमकस्मादात्मत्वेन पश्यति, तस्मात्पूर्वस्मादवरः । क्रोधश्चतुर्थो विपर्ययः पूर्वस्मादवरः तामिस्र इत्यभिधीयते । कथं पुनरयं पूर्वस्मादवर इति ? उच्यते- पूर्वो ऽभिनिवेशप्रतिषेधमभ्यनुजानाति । यदास्य बाह्यद्रव्यवियोगे कश्चित्कुशलसंसृष्ट एवं ब्रवीति संसारस्य ___ बुद्धाववस्थाप्य विमृश्यतां यावदयं कालो यदि कश्चित्प्रियेणावियुक्तपूर्वः । तस्मादागमापायिषु बाह्येषु द्रव्येषु विदुषा नाभिनिवेशः कार्य इति, तदा प्रत्याह सत्यमेवमेतदिति । सन्निकृष्टस्तु वियोगकाल इति न बुद्धिरवस्थापयितुं शक्यते । क्रोधाविष्टस्तु स्वविकल्पितग्राहविपरीतबुद्धिरशक्यो दण्डेनापिनिवर्तयितुम् । तस्मात्पूर्वस्मादवरः । मरणविषादः पञ्चमो विपर्ययः पूर्वस्मादवरो ऽन्धतामिस्त्र इत्यभिधीयते । कथं पुनरयं पूर्वस्मादवर इत्युच्यते- पूर्वो ऽभिनिवेशात्प्रतिषिध्यमानः प्रतीकारमन्ततो
जिह्वाक्षिनिरीक्षतो (?) नापि तावदारभते । न तु ब्रह्मादौ स्तम्बपर्यन्ते संसारे स्वनिमित्तनियततमपातस्य विनाशस्य केनचित्प्रतीकारः कृतः । तस्मादपरिहार्यं मरणमनुशोचत्पूर्वस्मादवर इति । एते पञ्च विपर्ययभेदा भवन्ति ।
अशक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा
भवतीत्यनुवर्तते । तत्र बाह्यकरणवैकल्यं सह मनसैकादशप्रकारम् । सप्तदशविधं बुद्धिवैकल्यम् । एते ऽशक्तिभेदाः ।
तुष्टिर्नवधाष्टधा सिद्धिः
एवं चतुर्विधस्य प्रत्ययसर्गस्य गुणवैषम्यविमर्देन पञ्चाशद्भेदा भवन्ति ॥ 47 ॥
कारिका 48
विस्तरेण तु पदार्थशतसहस्रमानन्त्यं वा लक्षणानाम् ।
कथमित्युच्यते यस्मात्-
भेदस्तमसो ऽष्टविधः
य एते पञ्च विपर्ययभेदा व्याख्याताः तेषु तमसो ऽष्टविधो भेदः । कथम् ? परविज्ञानमाश्रित्य प्रवृत्तस्याष्टासु प्रकृतिष्वपरासु पराभिमानग्रहात् ।
मोहस्य च
किम् ? अष्टविधो भेद इति । चशब्दात्कार्यकरणसामर्थ्ये ऽष्टविधे ऽणिमादावहमिति प्रत्ययः ।
दशविधो महामोहः ।
मातृपितृभ्रातृस्वसृपत्नीपुत्रदुहितृगुरुमित्रोपकारिलक्षणे दशविधे कुटुम्बे यो ऽयं ममेत्यभिनिवेशः । दृष्टानुश्रविकेषु वा शब्दादिष्वित्यपरे । स दशविधो महामोहः परिसंख्यायते ।
तामिस्रो ऽष्टादशधा
अष्टविधे कार्यकरणसामर्थ्ये दशविधे च कुटुम्बे विषयेषु वा यः प्रतिहन्यमानस्यावेशः ।
तथा भवत्यन्धतामिस्रः
तथेति सामान्यातिदेशार्थः । अन्धतामिस्रो ऽष्टादशधैवेति । कथम् ? असावप्यष्टविधात्कार्यकरणसामर्थ्याद्दशविधाच्च कुटुम्बात्प्रत्यवसानस्य विषादः ।
एवमेते पञ्च विपर्ययभेदाः स्वलक्षणतो विषयविशेषा लक्षिताः । तत्रापि चाष्टासु प्रकृतिषु सत्त्वरजस्तमसां संहतविविक्तपरिणतव्यस्तसमस्तानां परत्वाभिमानभेदादेकैका प्रकृतिः पञ्चदशभेदा । अत एव ते ऽष्टौ पञ्चदश विंशं शतं च भवन्ति । यथा मोक्षे प्रवृत्तस्य एवं धर्मकामेष्वपि । एकः पदार्थो विस्तरेण परिसंख्यायमानो ऽनन्तभेदः सम्पद्यते । निदर्शनमात्रमेतदाचार्येण कृतम् । एवमशक्त्यादिष्वपि लक्षणान्तरेषु योज्यम् । सेयमविद्या पञ्चपर्वा सप्रपञ्चा व्याख्याता । तदनन्तरोद्दिष्टानशक्तिभेदान्वक्ष्यामः ॥ 48 ॥
कारिका 49
आह, अतिव्यासाभिहितमिदमिति नास्माकं बुद्धाववतिष्ठते । तस्माद्विपर्ययोक्तं भेदाभिधानं परित्यज्य वक्तव्यम् कथमशक्तिरष्टाविंशतिभेदेति ?
उच्यते-
एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
इन्द्रियाणां वधा इन्द्रियवधाः । स्वसंस्कारविषययोगात्प्रकर्षापन्नेन तमसा ग्रहणरूपस्य सत्त्वस्याभिभवात्स्वविषयेष्वप्रवृत्तयः । तद्यथा
बाधिर्यमान्ध्यमघ्रत्वं मूकता जडता च या ।
उन्मादकौष्ठ्यकौण्यानि क्लैब्योदावर्तपङ्गुताः ॥
तत्र बाधिर्यं श्रोत्रस्य, आन्ध्यं चक्षुषः, अघ्रत्वं नासिकायाः, मूकता वाचः, जडता रसनस्य, उन्मादो मनसः, कौष्ठ्यं त्वचः, कौण्यं पाणेः, क्लैब्यमुपस्थस्य, उदावर्तः पायोः, पङ्गुता पादयोरित्येवमिन्द्रियवधा एकादश ।
अन्ये तु
सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम्
तत्र तुष्टयः प्रकृत्याद्या वक्ष्यमाणाः, तासां द्विविधो विपर्ययः । अव्युत्पन्नस्य योगधर्मेण तस्यां भूमावप्रवृत्तिः, व्युत्पन्नस्य चोत्तरभूम्यपरिज्ञानात्पूर्वस्यां भूमावक्षेमरूपेण ग्रहणम् । आत्मविदो वा सर्वासु भूमिषु । तेषु यत्पूर्वं तदशक्तिभावाभिप्रेतम् । यन्मध्यमं तदापेक्षिकम् । कथम् ? तन्मात्रभूम्यवस्थो हि योग्यस्मितादिभूम्यनवजयात्तुष्टो महाभूतातिक्रमात्सिद्धः । तथा विजितास्मितारूपो महदाद्यवस्थापेक्षया तुष्टः, पूर्वभूम्यपेक्षया सिद्धः । एवं महदवस्थः प्रधानापेक्षया पूर्वापेक्षया च । प्रधानावस्थः पुरुषापेक्षया पूर्वापेक्षया च । गुणपुरुषान्तरज्ञस्तु सिद्ध एव । तस्मादव्युत्पन्नस्याम्भःप्रभृतिषु नवानम्भःप्रभृतयो बुद्धिवधाः । तारकादिविपर्ययेणाष्टावतारकादयः । एषा खल्वशक्तिरष्टाविंशतिभेदा ।
तुष्टिस्तु सन्निहितविषयसन्तोषाच्चिकीर्षितादर्थादूनेन निवृत्तिः सामान्यत एकैव, प्रत्यर्थमनन्ता, शतेन तुष्टः सहस्रेणेति । शास्त्रे तु बाह्याध्यात्मिकानां सुखदुःखमोहानां प्राप्तिष्वपगमेषु वाचाव्यवस्थ्यलक्षणा उपायनवत्वान्नव तुष्टयो भवन्ति ॥ 49 ॥
कारिका 50
तासाम्
आध्यात्मिक्यश्चतस्रः । प्रकृत्युपादानकालभाग्याख्याः ।
आध्यात्मिकी इति शरीरशरीरिणोर्विशेषमुपलिप्समानेन योगिना यदनात्मन्यात्मबुद्धिरवस्थाप्यते सा खल्वाध्यात्मिकी सिद्धिः तुष्टिः सन्तोषः क्षेम इत्यर्थः ।
तासां प्रकृत्याख्या । यदा वीतावीतैः प्रधानमधिगम्य तत्पूर्वकत्वं च महदादीनां विकाराणामानन्त्याच्च प्रधानात्मनः कृत्स्नस्य महदादिभावेन विपरिणामासम्भवादेकदेशस्याप्रकृतिविकारभूतस्य भोक्तृत्वमकर्तृत्वं चाध्यवस्य सङ्गद्वेषनिवृत्तिं लभते, साद्या तुष्टिरम्भ इत्यभिधीयते । कस्मात् ? अमितं हि प्रधानतत्त्वं भाति जगद्बीजभूतत्वान्महदादिभावपरिणामेन न्यूनस्यैकदेशस्यात्मन एवापूरात् । तद्व्यतिरेकेण चान्यस्यैकदेशस्योभयधर्मिणो भोक्तृभूतस्य सद्भावात्संप्रक्षालने ऽपि चापसंहृतम्, वैश्वरूप्यस्यानुच्छेदात् । तथा च शास्त्रमाह- अम्भ इति गुणलिङ्गसन्निचयमेवाधिकुरुते । गुणाश्च सत्त्वरजस्तमांसि । लिङ्गं च महदादि अत्र सन्निहितं भवति । तदिदं प्रधानममितं भात्यमितमुपलभ्यत इत्यम्भः । स खल्वयं योगी प्रधानलक्षणां भूमिमवजित्य तन्महिम्ना च तदशून्यं दृष्ट्वा व्यतिरिक्तस्य पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति । भिन्ने च देहे प्रकृतौ लयं गच्छति, ततश्च पुनरावर्तते । तस्यां च तुष्टावन्ये सप्त महदादिकारणिनो ऽवरुद्धा द्रष्टव्याः । तत्र यथा प्राधानिकस्य पुरुषे नास्ति विज्ञानं एवमितरेषामुत्तरेषु तत्त्वेषु । महत्कारणिनः प्रधाने ऽस्मिताकारणिनो महति, तन्मात्रकारणिनो ऽहंकारे । तदेकदेशाश्चैषां भोक्तारः पूर्ववत् । अत्रापि च सत्त्वादीनां संहतविविक्तपरिणतव्यस्तसमस्तानां भेदादविद्यावच्छेदानन्त्यमवसेयम् ।
आह, तुष्ट्यविद्ययोरभेदः लक्षणैकत्वात् । अष्टासु प्रकृतिष्वात्मबुद्धिस्तुष्टिः । तदेव च तम इत्यविद्याकाण्डे निर्दिष्टम् । तस्मात्पदार्थसंकर इति ।
उच्यते- न, प्रत्ययविशेषात् । तमःप्रधानपुरुषोपदेशे सति प्रत्ययनिर्दिधारयिषया तयोः प्रधानमेव ज्यायो न पुरुष इत्यभिनिविशेत । तुष्टिस्तु किं परमित्याश्रित्य प्रवृत्तः प्रधानज्ञानमात्रे सन्तोषात्पदार्थान्तरं विज्ञातुमेव नाद्रियते । किं च प्रहाणविशेषात् । निरूढमूलो ह्यनात्मनि आत्मग्रहो ज्ञानोत्तरकालभावनया प्रहातव्यः । तमोबहुलत्वात्तम इत्यभिधीयते । पेलवस्तु सत्त्वबहुलो दर्शनप्रणयस्तुष्टिः । किंच तत्त्वाभिजयात् । विजितभूमिकस्य हि योगिनस्तन्माहात्म्यवशीकृतत्वाद् भूम्यन्तरे प्रवृत्तिस्तुष्टिः । इतरस्य त्वभिनिवेशमात्रमेवेत्यनयोर्विशेषः । तस्मान्न पदार्थसंकर इति व्याख्याता प्रकृत्याख्या तुष्टिः ।
यदा तु सत्यपि प्रकृतिसामर्थ्ये नानपेक्ष्य यथास्वमुपादानं भावानामुत्पत्तिः सम्भवति प्रकृत्यविशेषे सर्वकालमुत्पत्तिप्रसंगात्, प्रकृतिकृत्यमेवेदं विश्वमित्यभ्युपगच्छतस्तदविशेषाद् गोः पुरुषादुत्पत्तिप्रसंगः, पुरुषस्य वा महिषात् । किं च जात्यभेदप्रसंगात् । प्रकृतिकृत्यमिदं विश्वमित्यभ्युपगच्छतो जातिभेदो न स्यात्, तदविशेषात् । दृष्टं तूपादानाज्जात्यनुविधानं भावानाम् । तस्मात्तदेव कारणत्वेन परिकल्पयितुं न्याय्यम् । उपादानैकदेश एव च कार्यकारणविधात्मा भोक्तेत्येतस्माद् दर्शनात्सङ्गद्वेषनिवृत्तिं लभते, सा द्वितीया तुष्टिः सलिलमित्यभिधीयते । कथं पुनरेतत्सलिलम् ? सत्युपादाने विकारो लीयत इति । तथा च कृत्वा शास्रमाह "सलिलं सलिलमिति वैकारिकोपनिपातमेवाधिकुरुते, सति तस्मिंल्लीयते जगदिति" । स खल्वयं योगी पार्थिवानवजित्य तन्महिम्ना जगदशून्यं दृष्ट्वा पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति । भिन्ने च देहे पृथिव्यादिषु लीयते । ततश्च पुनरावर्तते ।
यदा च सत्युपादानसामर्थ्ये न तावतैव भावानां प्रादुर्भावः किं तर्हि सन्निहितसाधनानामपि कालं प्रत्यपेक्षा भवति- कालविशेषाद्बीजादङ्कुरो जायते, अङ्कुरान्नालं, नालात्काण्डम्, काण्डात्प्रसव इत्यादि । अन्यथा तूपादानानां सन्निधानमात्रात्क्षणेनैवामीषामवस्थाविशेषाणामभिव्यक्तिः स्यात् । किंच कालविपर्ययेणोत्पत्तिप्रसंगात् । न चैतदिष्टम् । किं च तदनभिधानात् । दृश्यन्ते च प्राणिनां कालानुरूपाः स्वाभावाहारविहारव्यवस्थाः । तस्मादसावेव कारणम् । तदेकदेशश्चाप्रकृतिविकारभूतो भोक्तेत्येतस्माद्दर्शनात्संगद्वेषनिवृत्तिं लभते, सा तृतीया तुष्टिरोघ इत्यभिधीयते । कथं पुनरयं काल ओघ इत्युच्यते ? सलिलौघवत्सर्वाभ्यावहनात् । तद्यथा सलिलौघस्तृणं काष्ठमश्मानं प्राणिनं वा स्वमूर्तिसंसृष्टं सर्वमेवाभ्यावहति, एवमयं कालो गर्भाद्बाल्यं, बाल्यात्कौमारं, कौमाराद्यौवनं, यौवनात्स्थाविर्यम्, स्थाविर्यान्मरणं, तथा बीजान्मूलं मूलादङ्कुरमिति वहति । तथा चाह
यामेव प्रथमां रात्रिं गर्भे भवति पूरुषः ।
संप्रस्थितस्तां भवति स गच्छन्न निवर्तते ॥
तस्मादोघसामान्यादोघः कालः । स खल्वयं योगी कालमवजित्य पदार्थान्तराभावं मन्यमानस्तामेव भूमिं कैवल्यमिति मन्यते । देहभेदे च कालमनुप्रविशति । ततश्च पुनरावर्तते ।
यदा तु सत्यपि कालसामर्थ्ये भावानामुत्पत्तिः भाग्यानपेक्षते । कस्मात् ? तत्सन्निधाने ऽप्यप्रादुर्भावात् । सत्यपि साधनसामर्थ्ये कालविशेषे च कस्यचिदुत्पत्तिर्भवति कस्यचिन्नेति । तस्मादस्ति कारणान्तरं यदपेक्ष्य भावानामुत्पत्तिरनुत्पत्तिश्च । किं चाभ्युत्थानानुपपत्तिप्रसंगात् । कालमात्रात्फलं भवतीत्येतदिच्छतः शास्त्रोक्तेषु क्रियाविशेषेष्वभिषेचनव्रतोपवासाग्निहोत्रादिष्वभ्युत्थानं न स्यात् । कस्मात् ? आनर्थक्यात् । अस्ति च, तस्मान्न कालनिमित्ता भावानामुत्पत्तिः । किं च तदनुविधानात् । दृश्यन्ते खल्वपि प्रकृत्युपादानकालाविशेषे ऽपि भाग्यविशेषात्फलविशेषाः । तस्मात्तत्संकार एव कारणम् । तदेकदेशश्चाप्रकृतिविकारभूतो भोक्तेत्येतस्माद्दर्शनात्संगद्वेषनिवृत्तिं लभते । सा चतुर्थी तुष्टिर्वृष्टिरित्यभिधीयते । कथं पुनर्वृष्टिरित्युच्यते । सर्वसत्त्वाप्यायनात् । यथा हि शीर्णानामपि तृणलतादीनां वृष्टिं प्राप्य पुनराप्यायनं भवति, एवमेव सर्वेषां प्राणिनां भाग्यविपरिणामात्पुनराप्यायनं भवति । तस्माद्वृष्टिसाम्याद् भाग्याख्या तुष्टिर्वृष्टिरित्यभिधीयते । शास्त्रमप्याह- "वृष्टिर्वृष्टिरिति श्रिय एवोपनिपातमधिकुरुते । सा हि वृष्टिवत्सर्वमाप्यायतीति ।" स खल्वयं योगी भाग्यान्यवजित्य तन्महिम्ना जगदशून्यं दृष्ट्वा पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति । स तस्यामेव देहभेदे लीयते । ततश्च पुनरावर्तत इति ।
आह, कालभाग्ययोरप्रतिपत्तिः, समाख्यापरिज्ञानात् । प्रकृत्यात्मकस्य तावद्योगिनो ऽष्टौ प्रकृतयो विषय इत्युक्तं पुरस्तात् । उपादानात्मकस्य च पृथिव्यादीनि महाभूतानि । कालभाग्ययोस्तु न तथोक्तम् । तस्माद्वक्तव्यं कस्य तत्त्वस्यैषा समाख्येति ?
उच्यते- न, उक्तत्वात् । प्रागेवैतदपदिष्टं न कालो नाम कश्चित्पदार्थो ऽस्ति । किं तर्हि क्रियासु कालसंज्ञा । ताश्च करणवृत्तिरिति । प्रतिपादितम् । न चान्या वृत्तिर्वृत्तिमतः । तस्मात्कारणचैतन्यप्रतिज्ञः कालात्मक इति । भाग्यसंज्ञा तु धर्माधर्मयोः । तौ च बुद्धिधर्माविति प्रागपदिष्टम् । तस्माद्भाग्यवादी बुद्धिचैतनिक इति ।
आह, न तुष्ट्यन्तरत्वात् । प्रकृतित्वान्महान्पूर्वं प्रकृत्याख्यायां तुष्टाववरुद्धः । तस्येदानीं तुष्ट्यन्तरत्वेन परिकल्पनं नातिसमञ्जसमिति ।
उच्यते- महांस्तर्हि पूर्वतुष्टिविषयभावादपकृष्यत इति । कार्यकरणवृत्तिक्रियारूपां वृत्तिमद्द्योत्यां परिकल्प्य तस्यां कालत्वमयमाह । महतश्च रूपं धर्मादिकं महतो ऽर्थान्तरं भाग्यमिति भाग्यवान् । अथवा बाह्य एवायं कालः कर्मकारणं निर्दिश्यते । तत्र चान्ये ऽपि स्वमतिपरिकल्पितपदार्थान्तरात्मभावग्रहा एवेति साङ्ख्याः प्रवादिनः प्रतिक्षिप्ता बोद्धव्या इति ।
अपर आह, प्रकृतिचैतनिकः प्रधानभावाशाद्युपादानकालभाग्यवादिनो महदहङ्कारतन्मात्रवादिन इति । तदेतदपसिद्धत्वादयुक्तम् । न हि महदहङ्कारतन्मात्रलक्षणाः प्रकृतय उपादानकालभाग्यभावेन प्रसिद्धाः । तस्मादिदमप्ययुक्तम् । एवमेता आध्यात्मिक्यश्चतस्रस्तुष्टयः ।
बाह्या विषयोपरमात् पञ्च च नव तुष्टयो ऽभिहिताः
चशब्दो ऽवधारणार्थः । अव्युत्पन्नात्मविचारस्य योगिनो विषयदोषदर्शनमात्रात्संगदोषनिवृत्तिर्बाह्या तुष्टिः । तत्र यदार्जनदोषमवगच्छति न तावत्सर्वस्याभिजातिरस्तीति अर्थिनावश्यं विषयार्जने वर्तितव्यम् । तेषामस्वाभाविकत्वात्क्वचिदेवावस्थितिरित्युक्तं प्राक् । किं च सप्रत्यनीकत्वात् । स्वाभाविकमवस्थानं विषयाणामपरिकल्प्यापि यदा प्रतिग्रहादिभिरर्जनं प्रत्याद्रियते तदप्ययुक्तम् । कुतः ? सप्रत्यनीकत्वात् । एवमपि नास्ति कश्चिदप्रत्यनीक विषयोपार्जनाय इति तद्विघाते ऽवश्यं प्रयतितव्यम् । स च यदि प्रतियतमानः प्रत्यनीकिविघातं कुर्यात्परोपघातेनात्मानुग्रहानुष्ठानाच्छास्त्रविरोधः । यस्मादाह-
न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः ।
एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते ॥
पुनरप्याह-
प्राणिनामुपघातेन यो ऽर्थः समुपजायते ।
सो ऽनपेक्षैः प्रहातव्यो लोकान्तरविघातकृत् ॥
तस्मात्संघातमात्रत्वात्सत्त्वादीनां घटादिवत् ।
आब्रह्मणः परिज्ञाय देहानामनवस्थितिम् ॥
सत्यं सद्भिरादीप्तं तृणोल्काचपलं सुखम् ।
सुदृढैर्न निपातव्यं दुःखैर्देहान्तरोद्भवैः ॥
अथ पुनरयं प्रत्यनीकैर्विहन्यते, ततो ऽस्य विषयाभावः । सुखार्थं च प्रवृत्तस्य भूयिष्ठं दुःखमेवेत्येतस्माद्दर्शनान्माध्यस्थ्यं लभते, सा पञ्चमी तुष्टिः सुतारमित्यभिधीयते । कथं पुनः सुतारमित्युच्यते ? सुखमनेनोपायेन तरन्ति विषयसंकटमिति सुतारम् ।
यदा तु योगी पूर्वदोषाधिगमे ऽभिजात्या वा यत्नार्जितविषयत्वे सति रक्षादोषमुपन्यस्यति । कथम् ? भोक्तृभोग्यभावाव्यतिरेकात् सर्वप्राणिसाधारणा विषयाः, तस्मात्तेषां रक्षा विधेया । तस्यां च प्रवर्तमानो यदि परमुपरुन्ध्यात् तदा पूर्वोक्तदोषः, अथात्मानं, विषयाभावः । रात्रिन्दिवं च तदेकाग्रमनसः सुखार्थं प्रवृतस्य भूयिष्ठं दुःखमेवेत्येतस्माद्दर्शनान्माध्यस्थ्यं लभते । सा षष्ठी तुष्टिः सुपारमित्यभिधीयते । कथं पुनः सुपारमित्युच्यते ? सुखमनेन पारं विषयार्णवस्य प्रयान्तीति ।
यदा तु सति पूर्वदोषे, सति वा ग्रामनगरनिगमसन्निवेशाद्युपायानुष्ठानाद्वा कृतविषयरक्षो योगी क्षयदोषमुपन्यस्यति । कथम् ?
येन द्रव्येण मोहाद्वरन्तुमिच्छन्ति देहिनः ।
तदेवैषां विनाशित्वाद् भवत्यरतिकारणम् ॥
यत्नोपात्ताः सुगुप्ताश्च विषया विषयैषिणाम् ।
पश्यतामेव नश्यन्ति बुद्बुदाः सलिले यथा ॥
न तदस्ति जगत्यस्मिन्भूतं स्थावरजङ्गमम् ।
प्रत्यक्षतो ऽनुमानाद्वा विनाशो यस्य नेक्ष्यते ॥
तस्माद्विनाशिष्वासक्तानां पुत्रदारगृहादिषु ।
ममेति बुद्धिं यत्नेन बुद्धिमान्विनिवर्तयेत् ॥
इति एतस्माद्दर्शनान्माध्यस्थ्यं लभते, सा सप्तमी तुष्टिः सुनेत्रमित्युच्यते ।
कथं पुनः सुनेत्रमित्युच्यते ?
सुखमनेनात्मानं कैवल्यावस्थां नयन्तीति सुनेत्रम् ।
यदा तु सत्सु पूर्वदोषेषु प्रसङ्गदोषमुपन्यस्यति । कथम् ? प्राप्तविषयाणामिन्द्रियाणां तदभिलाषान्निवृतिस्तत्सुखम् । विषयजिघृक्षया च दुःखम् । प्राप्तिरप्येषामनुपशान्तये तदुपभोगकौशलाय च । यस्मादाह-
यदा प्रबन्धाद्विषयी विषयानुपसेवते ।
तदास्येतस्त्वभिप्रायः सुतरां संप्रवर्तते ॥
अतो ऽपि येन पुरुषः शमयेद् वडवानलम् ।
नेन्द्रियाण्युपभोगेन विषयेभ्यो निवर्तयेत् ॥
तस्माद्विषयसम्पर्कमसमर्थं निवर्तने ।
इन्द्रियाणां परिज्ञाय निरासङ्गमतिश्चरेत् ॥
इत्येतस्माद् दर्शनान्माध्यस्थ्यं लभते साष्टमी तुष्टिः सुमारीचमित्युच्यते । कथं सुमारीचमित्युच्यते ? अर्चतेः पूजार्थस्य शोभनमर्चितं विषयसंगनिवृत्तस्य योगिनो ऽवस्थानं भवति ।
यदा तु पूर्वदोषेषु हिंसादोषमुपन्यस्यति । कथम् ? अनुपहत्यान्यभूतानि विषयभोगानुपपत्तेः । उपभोगो हि नाम मनोज्ञाभ्यवहारः, स्त्रीसेवा, हयगजनरादिभिर्यानमित्येवमादि । तत्र मनोज्ञाभ्यवहारचिकीर्षुषा तदङ्गानां गो ऽजाविबलीवर्दस्त्रीपुरुषादीनामवश्यमुपघातः कार्यः । अनुपघाते वा विषयानुपपत्तिप्रसंगः । स्त्रियमासेवमानेनान्यासां स्त्रीणां मातृपितृभ्रातृप्रभृतीनां च, अन्यथा तदभावो हयादीनाम् । तस्मादुपभोगार्थिनावश्यमन्योपघातः कार्यो निहितदण्डेन वा विषयोपभोगस्त्याज्य इति । आह च
यथा यथा हि विषयो वृद्धिं गृह्णाति देहिनाम् ।
अपघातस्तदङ्गानां तथैवास्य विवर्धते ॥
तस्मादनिच्छन्नन्येषां प्राणिनां देहपीडनम् ।
सन्तोषेणैव वर्तेत त्यक्तसर्वपरिच्छदः ॥
सत्यवाचः प्रशान्तस्य सर्वभूतान्यनिच्छतः ।
भावान्धकारान्तज्ञानमचिरेण प्रवर्तते ॥
इत्येतस्माद्दर्शनान्माध्यस्थ्यं लभते, सा नवमी तुष्टिरुत्तमाभयमित्यपदिश्यते । कथम् ? उत्तमं हि प्राणिनां सर्वेभ्यो हिंसाभयमिति तदपगमादुत्तमाभयमिति ।
आह, अर्जनरक्षणलक्षणयोरपि तुष्ट्योः परोपघातदोषाः, अपदिष्टो ऽस्यामपि च । तत्र कथमनयोर्विशेषः प्रतिपत्तव्य इति ?
उच्यते न, विषयभेदात् । तत्र येषामर्जनरक्षणे प्रत्याद्रियते विषयी तदर्थिना प्रत्यनीकानामवश्यमभिघातो ऽनुष्ठातव्य इत्यादावुक्तम् । इह तु येषामेवार्जनरक्षणे तदनुपघातेनाशक्यो विषयोपभोग इत्येतद्विवक्षितम् । तस्मादसंकीर्णमेतदित्येवमम्भःप्रभृतयो नव विषयेभ्यः संगद्वेषनिवृत्तिहेतवो व्याख्याताः । ते ज्ञानविरहितानां योगिनां तुष्टिशब्दवाच्यतां लभन्ते । ज्ञानिनां तु वैराग्यपर्वसंज्ञिता स्वासु स्वासु तत्त्वभूमिषु सिद्धा एवेति ॥ 50 ॥
कारिका 51
आह- प्रागपदिष्टमष्टधा सिद्धिरिति तदिदानीमभिधीयतामिति । उच्यते-
ऊहः शब्दो ऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानञ्च सिद्धयो ऽष्टौ
तत्रोहो नाम यदा प्रत्यक्षानुमानागमव्यतिरेकेणाभिप्रेतमर्थं विचारणाबलेनैव प्रतिपद्यते, साद्या सिद्धिः तारकमित्यपदिश्यते- तारयति संसारार्णवादिति तारकम् । यदा तु स्वयं प्रतिपत्तौ प्रतिहन्यमानो गुरूपदेशात् प्रतिपद्यते सा द्वितीया सिद्धिः सुतारमित्यपदिश्यते । कथम् ? सुखमनेनद्यत्वे ऽपि भवसङ्कटात् तरन्तीति । यदा त्वन्योपदेशादप्यसमर्थः प्रतिपत्तुमध्ययनेन साधयति सा तृतीया सिद्धिः तारयन्तमित्यपदिश्यते । तदेतत् तारणक्रियाया अद्यत्वे ऽपि अव्यावृतत्वात् महाविषयत्वात् तारयन्तमित्यपदिश्यते । त एते त्रयः साधनोपायैराब्राह्मणः प्राणिनो ऽभिप्रेतमर्थं प्राप्नुवन्ति । आह च- "साक्षात्कृतधर्माण ऋषयो बभूवुः, ते ऽपरेभ्यो ऽसाक्षात्कृतधर्मेभ्य उपदेशेन मन्त्रान् सम्प्राहुरुपदेशाय ग्लायन्तो ऽपरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदञ्च वेदाङ्गानि चेति" । बिल्मं भासनम्- सम्यक् प्रतिभासाय विशिष्टः संकेत उक्तः । एषां तु साधनोपायानां प्रत्यनीकप्रतिषेधाय दुःखविघातत्रयम् । दुःखानि त्रीणि- आध्यात्मिकादीनि ।
तत्र चाध्यात्मिकानां वातादीनां सिद्धिप्रत्यनीकानामायुर्वेदक्रियानुष्ठानेन विघातं कृत्वा पूर्वेषां त्रयाणामन्यतमेन साधयति सा चतुर्थी सिद्धिः प्रमोदमित्यभिधीयते । कथम् ? निवृत्तरोगा हि प्राणिनः प्रमोदन्त इति कृत्वा । यदा त्वाधिभौतिकानां मानुषादिनिमित्तानां सिद्धिप्रत्यनीकानां सामादिना यतिधर्मानुगुणेन वोपायेन पूर्वेषां त्रयाणामन्यतमेन साधयति, सा पञ्चमी सिद्धिः प्रमुदितमित्यभिधीयते । कथम् ? अनुद्विग्नो हि प्रमुदित इति कृत्वा । यदा तु शीतादीन्याधिदैविकानि द्वन्द्वानि सिद्धिप्रत्यनीकानि स्वधर्मानुरोधेन प्रतिहत्य पूर्वेषां त्रयाणामन्यतमेन साधयति, सा षष्ठी सिद्धिर्मोदनाममित्यभिधीयते । कथम् ? द्वन्द्वानुपहता हि प्राणिनो मोदन्त इति कृत्वा । सुहृत्प्राप्तिः- यदा तु कृशलं संस्पृष्टं सन्मित्रमाश्रित्य सन्देहनिवृत्तिं लभते, सा रम्यकमिति सप्तमी सिद्धिरपदिश्यते । रम्यो हि लोके सन्मित्रसम्पर्कः, तस्य संज्ञायां रम्यमेव रम्यकम् । दानम्- यदा तु दौर्भाग्यं दानेनातीत्य पूर्वेषां त्रयाणामन्यतमेन साधयति साष्टामी सिद्धिः सदाप्रमुदितमित्यभिधीयते । सुभगो हि सदाप्रमुदितो भवति, तस्माद्दौर्भाग्यनिवृत्तिः सदाप्रमुदितम् । इत्येवमेताः सिद्धयो ऽष्टौ व्याख्याताः । एतासां संश्रयेणाभिप्रेतमर्थं यतः संसाधयन्तीत्यतः पूर्वाचार्यागतं मार्गमारुरुक्षुस्तत्प्रवणः स्यादिति ।
आह, कः पुनरत्र हेतुर्येन पुरुषार्थत्वाविशेषे सति गुणानां सर्वसिद्धिनिमित्तं त्वनुभवतीति ?
उच्यते- यस्मात्
सिद्धेः पूर्वो ऽङ्कुशस्त्रिविधः
साध्यप्रतिपत्तिसामर्थ्यसामान्यमङ्गीकृत्याह सिद्धेरिति । पूर्वो विपर्ययाशक्तितुष्टिलक्षणः अंकुश इवांकुशः, निवर्तनसामान्यात् । नित्यप्रवृत्तस्यापि प्रधानात्सिद्धिस्रोतसो विपर्ययाशक्तितुष्टिप्रतिबन्धात्सर्वप्राणिष्वप्रवृत्तिर्भवति । विपर्ययात्तावत्स्थावरेषु । ते हि मुख्याः स्रोतसो विपर्ययात्मानः । अशक्तेस्तिर्यक्षु । ते हि तिर्यक्स्रोतसो ऽशक्त्यात्मानः । तुष्टिर्देवेषु । ते ह्यूर्ध्वस्रोतसस्तुष्ट्यात्मानः । मानुषास्त्वर्वाक्स्रोतसः संसिद्ध्यात्मानः । तस्मात्त एव तारकादिषु प्रवर्तन्ते । सत्त्वरजस्तमसां चाङ्गाङ्गिभावनियमाद्विपर्ययाशक्तितुष्टिभिः प्रतिहन्यत इति न सर्वेषां सर्वदा सिद्धिर्भवति । अत एतदुक्तं सिद्धेः पूर्वो ऽङ्कुशास्त्रिविध इति ।
यथा च सिद्द्धेः विपर्ययाशक्तितुष्टयः प्रतिपक्षाः, एवं सिद्धिरपि विपर्ययादीनाम् । सा ह्युत्पन्ना सर्वानेतान्निवर्तयति । कथम् ? अविपरीतज्ञानं विपर्ययमतीतानागतवर्तमानेषु सन्निकृष्टेषु विप्रकृष्टेषु इन्द्रियग्राह्येष्वतीन्द्रियेषु चाप्रतिघातादशक्तिं पुरुषस्य प्रकृतिविकारव्यतिरिक्तस्य दर्शनात्सर्वासु भूमिषु तुष्टिम् । एवमेतानि स्रोतांसि प्राणादयः कर्मयोनयश्च व्याख्याताः । एतेषां मार्गे ऽवस्थापनात्परां सिद्धिकैवल्यलक्षणामचिरेण प्राप्नोति । आह च
योनीनां सप्रमाणानां सम्यङ्मार्गे नियोजनात् ।
स्रोतसां च विशुद्धत्वान्निरासङ्गमतिश्चरेत् ॥ इति ॥
॥ 51 ॥
॥ इति युक्तिदीपिकायां नवममाह्निकम् ॥
कारिका 52
एवं यत्पूर्वमपदिष्टं संयोगकृतः सर्ग ( इस्क् 21 ) इति तद्व्याख्यातम् । अत्रेदानीमाचार्याणां विप्रतिपत्तिः । धर्मादीनां शरीरमन्तरेणानुत्पत्तेः । शरीरस्य च धर्माद्यभावे निमित्तन्तरासम्भवादुभयमिदमनादि । तस्मादेकरूप एवायं यथैवाद्यत्वे तथैवातिक्रान्तास्वनागतासु कालकोटिषु सर्ग इति । आचार्य आह- नैतदेवम्, किं तर्हि प्राक्प्रधानप्रवृत्तेर्धर्माधर्मयोरसम्भवो बुद्धिधर्मत्वात्तस्याश्च प्रधानविकारत्वात् । ततस्तद्व्यतिरिक्तं शब्दाद्युपलब्धिगुणलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं चार्थमुद्दिश्य सत्त्वादयो महदहङ्कारतन्मात्रेन्द्रियभूतत्वेनावस्थाय परमर्षिहिरण्यगर्भादीनां शरीरमुत्पादयन्ति । षट्सिद्धिक्षयकालोत्तरं तु गुणविमर्दवैचित्र्याद्रजस्तमोवृत्त्यनुपाति संसारचक्रं प्रवृत्तम् ।
न विना भावैर्लिङ्गम्
देवमनुष्यतिर्यग्भावेन व्यवतिष्ठत इति वाक्यशेषः ।
न विना लिङ्गेन भावसंसिद्धिः ।
संसिद्धिरत्र निष्पत्तिरभिप्रेता ।
लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधः प्रवर्तते सर्गः
सो ऽयं लिङ्गाख्यो भावाख्यश्च षट्सिद्धिक्षयकालादूर्ध्वं भवति । गुणसमनन्तरं तु अधिकारलक्षणः । तस्माद् द्विधा सर्गः अधिकारलक्षणो भावाख्यश्च । येषां तु धर्माधर्मशरीरयोः पर्यायेण हेतुहेतुमद्भावस्तेषां कारणमस्त्यव्यक्तमित्यत्र ( इस्क् 16 ) प्रतिविहितम् । ये ऽपि च सांख्या एवमाहुः- "धर्माधर्माधिकारवशात्प्रधानस्य प्रवृत्तिरिति" तेषामन्यतरपरिकल्पनानर्थक्यमिति । कथम् ? यदि तावदधिकार एवायं प्रधानप्रवृत्तये ऽलम्, किं धर्माधर्माभ्याम् ? अथ तावदन्तरेणाधिकारस्य प्रधानप्रवृत्तावसामर्थ्यम्, एवमपि किमधिकारेण ? तयोरेव प्रवृत्तिसामर्थ्यात् । तस्मादधिकारभावनिमित्तो द्विधा सर्गः । तत्र यथेदं शरीरमविभक्तं धर्मार्थकाममोक्षलक्षणासु क्रियासु विभक्तं भवेदित्यतः पाण्यादिविकल्पो ऽस्य भवति, एवं सत्त्वसर्गो ऽप्यविभक्तो धर्मार्थकाममोक्षलक्षणासु क्रियासु समर्थो भवेदिति ॥ 52 ॥
कारिका 53
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः
अष्टौ विकल्पा अस्य सो ऽयमष्टविकल्पः । अष्टप्रकारो ऽष्टभेद इत्यर्थः । तद्यथा ब्रह्मप्रजापतीन्द्रपितृगन्धर्वनागरक्षःपिशाचाः । तैर्यग्योनश्च पञ्चधा भवति- पशुमृगपक्षिसरीसृपस्थावराः । मानुष्यश्चैकविधः च जात्यन्तरानुपपत्तेः । आह किमेतावानेव भूतसर्गविकल्पः, आहोस्विदन्यो ऽस्तीति ? उच्यते- विकल्पान्तरमस्त्येतेषामेव स्थानानामन्तर्गणभेदात् । अयं तु आहोस्विदन्यो ऽस्तीति ? उच्यते- विकल्पान्तरमस्त्येतेषामेव स्थानामन्तरगणभेदात् । अयं तु
समासतो भौतिकः सर्गः
किम् ? उपदिष्ट इत वाक्यशेषः । तत्र देवानां साध्यमरुद्रुद्रादिभेदात् । तिरश्चां ग्राम्यारण्यादिभेदात् । मानुषाणां च ब्राह्मणक्षत्रियविट्शूद्रभेदात् । उद्भिद्भेदश्च विस्तरेणापदिश्यमान आनन्त्यमापादयेत् । तस्मात्समासतो भूतसर्गो ऽपदिश्यते ॥ 53 ॥
कारिका 54
आह, विकल्पान्तरवचनम्, स्रोतोभेदात् । दैवमानुषतैर्यग्योना इति त्रिविधो भूतानां विकल्प उपदिश्यते । स्रोतांसि तु चत्वार्युक्तानि । तस्माद्विकल्पान्तरं वक्तव्यमिति ।
उच्यते- न, गुणधर्मसंग्रहसामर्थात् । सत्त्वबहुला ऊर्ध्वस्रोतसः । रजोबहुला अर्वाक्स्रोतसः । तमोबहुलास्तिर्यक्स्रोतसो मुख्यस्रोतसश्च । तस्मादनयोरभेदेनोपदेशः ।
आह, असुराद्युपसंख्यानं कर्तव्यम् । इतरेष्वनन्तर्भावादभेदेन वोपदेशः कार्या न तु दैवमानुषतिरश्च इति ।
उच्यते- न, उक्तेष्वेव तत्संग्रहात् । असुराणां तावदैन्द्र एव स्थाने ऽन्तर्भावः, पूर्वदेवत्वात् । पूर्वदेवा ह्यसुराः । किंच पर्यायेणेन्द्रत्वात् । धन्विप्रभृतीनां पर्यायेणेन्द्रत्वं श्रूयते । तथा यक्षाणां रक्षस्स्वेकरूपत्वात् । किन्नरविद्याधराणां गन्धर्वेषु, समानशीलत्वात् । प्रेतानां पितृष्वधिपतिसामान्यात् । तस्मात्त्रिविकल्प एव भूतसर्गः । स चायम्
ऊर्ध्वं सत्त्वविशालः
ऊर्ध्वमित्यनेनाष्टौ देवस्थानान्याह । तत्रायं सर्गं सत्त्वविशालः । पिशाचेभ्यो रक्षसाम्, रक्षोभ्यो नागानाम्, नागेभ्यो गन्धर्वाणाम्, गन्धर्वेभ्यः पित्ःणाम्, पितृभ्यस्त्रिदशानाम्, तेभ्यः प्रजापतीनाम्, तेभ्यो ऽपि ब्रह्मणः । एवं विशालग्रहणं समर्थितं भवति ।
तमोविशालस्तु मूलतः सर्गः ।
मूलतस्तु सर्गस्तमोविशालः । पशुभ्यो हि मृगाणां प्रकृष्टतरं तमः, मृगेभ्यः पक्षिणाम्, पक्षिभ्यः सरीसृपाणाम्, सरीसृपेभ्यः स्थावराणाम् ।
मध्ये रजोविशालः
देवेभ्यस्तिर्यग्भ्यश्चावकृष्टासु भूमिषु यथा यथा सत्त्वतमसो निर्ह्रासः, तथा तथा रजसो वृद्धिः । मनुष्यास्तूभयोर्मध्यमिति तत्र परमः प्रकर्षो रजसः । अर्वाक् स्रोतसः सिद्धिरूपत्वादत्यन्तं क्रियाप्रवृत्तत्वात् । यथा च मानुषेषु रजःप्रकर्ष एवं ब्रह्मणः स्थाने सत्त्वस्य, स्थावरेषु तमसः । स खल्वयम्-
ब्रह्मादिस्तम्बपर्यन्तः
चतुर्दशभेदस्त्रिविकल्पः सत्त्वाद्यतिशयनिर्ह्रासविषयभावेन यः सर्गो व्याख्यातः ।
कारिका 55
अत्र जरामरणकृतं दुःखं प्रानोति चेतनः पुरुषः ।
जराकृतं मरणकृतं जरामरणकृतम् । तत्र जराकृतं तावद्यथा बलीतरंगितगात्रत्वम्, दण्डमन्तरेण चङ्क्रमणादिष्वप्रवृत्तिः, सर्वेन्द्रियाणां विषयोपभोगेष्वसामर्थ्यम्, प्रबलकासश्वासता, सास्राविलेक्षणता, दशनानामस्थिरत्वम्, वर्णविकृतिः, शैथिल्यमभिव्याहारसंगो मन्दा स्मृतिरित्येवमादि ।
मरणकृतमपि पृथिव्यादीनां शरीरभावेनावस्थितौ सहभावप्रतिपक्षता स्वभावभेदवृत्तिसंग्रहपन्थिव्यूहावकाशदानादेरुपकारस्य प्रच्युतिः । इन्द्रियाधिष्ठानविकाराच्छब्दस्पर्शरूपरसगन्धानां सतामग्रहणमसतां च ग्रहणमभूताकारं सम्भवविपरीतं वा सर्वार्थानां ग्रहणम् । तद्यथा पौर्णमास्यां दक्षिणतः खण्डस्येन्दुमण्डलस्य पिशाचादीनां पाण्डरस्य च नभस इत्यादि । तथा वातादिवैषम्यात्समुपजनितानेकप्रकारव्याधिः प्रभ्रश्यमानसकलेन्द्रियवृत्तिः स्रस्ताङ्गः ताम्रपीतास्राविलेक्षणो भ्रमदाहश्वासादिपरिगमान्तर्मर्मसन्धिर्जलार्थं दिशो ऽवलोकयन् सब्रह्मलोकेष्वपि लोकेषु त्रातारमविन्दन् रागाद्यनेककालात्पक्वेनात्मग्रहेणात्मकार्यकरणोपह्यिमाणबुद्धिर्मन्दमन्देष्वपि स्मृतिप्रलम्भेषु दयितजनस्यात्मनश्चानुस्मरन्दशविधात्कुटुम्बाद्यः प्रभ्रश्यते सो ऽयमवश्यम्भावी सर्वसत्त्वानां प्रकृष्टोद्वेगकारी चाव्युत्पन्नश्चापरिहार्यश्चानियतकालश्च महात्मभिः परमर्ष्यादिभिरन्धतामिस्रशब्देनापदिष्टो मरणकृतं दुःखम् । तच्चेदं दुःखं प्रधानमहदहंकारतन्मात्रेन्द्रियभूतविशेषलक्षणस्य तत्त्वपर्वणश्चैतन्यासम्भवात्पुरुष एव चैतन्यशक्तियोगादुपलभ्यते । तदपि समीक्ष्योक्तमाचार्येण अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुष इति ।
आह, जन्मकृतस्योपसंख्यानम् । यथैव हि जरामरणं चात्मनः प्रकृष्टोद्वेगकारकमेवं जन्मापि । तथा ह्ययं मातुरुदरे जरायुपरिवेष्टितशरीरो ऽमेध्यपरिस्नुतो व्रणमात्रायां गर्भधान्यां यथासुखसम्भवात्परिपीतितगात्रो मातुरशनादिभिः पीड्यमानो गर्भावासे दुःखमनुभूय पश्चात्संवृतेनास्थिद्वयविवरेण निस्सृतो मूत्ररुधिरकलिलैः परिषिक्तगात्रो बाह्येन वायुना करैश्च संस्पर्शदसिभिरिव तुद्यमानः स्वसंवेद्यं दुःखमात्मनि वर्तमानमाख्यातुमसमर्थः स्वसुखदुःखसामन्यात्परत्र परिकल्पितसुखदुःखबुद्धिभिर्दृढगात्रैरुपचितक्लेशैश्च यात्यमानो जन्मदुःखमनुभवति । तस्मात्तदपि वक्तव्यमिति ।
उच्यते- न, अव्यापितवात् । मानुषतिरश्चामेव जन्मकृतं दुःखं भवति न देवानाम् । कथम् ? तडिद्विलसितवत्क्षणमात्रेण शरीरप्रादुर्भावात् । जरामरणकृतं तु तेष्वपि न निवर्तते । तस्मात्प्राधान्यादेतदेवोपदिष्टं नेतरदिति ।
आह, इतरग्रहणाप्रसंगः, तुल्यत्वात् । न हि देवस्थानेषु जरामरणं वा श्रूयते, तस्मादव्यापित्वात्तयोरप्यग्रहणप्रसंगः ।
उच्यते- न, स्मृतिवचनात् । जीर्यते ऽनयेति जरा क्षय इत्युक्तं भवति । स च देवभूमावपि भवति । कस्मात् ? एवं ह्याह-
रजोविषक्तिरङ्गेषु वैवर्ण्यं म्लानपुष्पता ।
पतिष्यतां देवलोकात्प्राणिनामुपजायते ॥
शक्रादीनां व्याधिश्रवणाच्छरीरक्षयः । एवं ह्याह- "त्वाष्ट्रीयं साम भवति इन्द्रं क्षाममपि न सर्वभूतानि प्रस्वापयितुं नाशक्नुवं स्तमेतेन साम्ना त्वाष्ट्रीयेणास्वापयदिति ।" तथा प्रजापतेर्वायुरक्षयीत् । दक्षाभिशापाच्च सोमस्य क्षयः । तथा "प्रजापतिर्वै सोमाय राज्ञे दुहित्ःरदान्नक्षत्राणि, स रोहिण्यामेवावसत् । तान्यपेक्ष्यमाणानि पुनरगच्छन् । तस्मात् स्वाननुपेयमाना पुनर्गच्छति । तान्यन्वागच्छत्तानि पुनरयाचत । तान्यस्मै न पुनरददात् । साब्रवीत्सर्वेष्वेव समासत वसाथ ते पुनर्दास्यामीति । स रोहिण्यामेवावसत्तस्मिन्ननृते यक्ष्मो ऽगृह्णात् । चन्द्रमा वै सोमो राज यद्राजानं यक्ष्मोगृह्णात्तद्राजयक्ष्मस्य जन्म । स तृणमिवाशुष्यत् । स प्रजापता अनाथत । सो ऽब्रवीत्सर्वेष्वेव समावद्वसाथ त्वातो मोक्ष्यामीति । तस्माच्चन्द्रमाः सर्वेषु नक्षत्रेषु समावद्वसति । तं वैश्वदेवेन चरुणामावस्यां रात्रीमया यजन्ते नैनं यक्ष्मोदमुञ्चदित्यादि ।" तस्माद्देवभूमावपि जराकृतं दुःखमस्ति । तथा मरणकृतं भूम्यन्तरगमनात्तत्रोत्पन्नानां ययातिरुदाहरणम् । यथा गोपथब्राह्मणम्- "देवानां ह वा पञ्चदशशतानि आसंस्तानि ब्रह्मकिल्बिषादक्षीयन्त । ततस्त्रयस्त्रिंशदेवासत तदेतदृचाप्युक्तम् । सोदर्याणां पञ्चदशानां शतानां त्रयस्त्रिंशदुदशिष्यन्त देवाः । शेषाः प्रासीयन्तेति ।" श्वेतारण्ये चान्तकस्य रुद्रेण कृतं दुःखमस्तीति । उदाहरणमात्राद्वा । अथवोदाहरणमात्रमेव दुःखानाम् । आदिशब्दलोपो वा वक्तव्यः । जरामरणकृतमेवोदाहरणत्वेनाभिप्रेतम् । न पुनर्दुःखान्तरम् । कस्मात् ? तत्रापि ह्यादिशब्दलोप उदाहरणमात्रत्वात् शक्त्या परिकल्पयितुमिदमित्युच्यते । न सर्वदुःखास्पदत्वात् । सर्वेषां हि दुःखानामास्पदं जरामरणकृतं साधारणम् । कथम् ? तद्बन्धुमित्राणामप्युद्वेगहेतुत्वात् । न तु जन्मकृतम्, सम्बन्धिनां प्रहर्षनिमित्तत्वात् । यतश्च ब्रह्मादौ स्तम्बपर्यन्ते जगति जरामरणकृतं दुःखं न कश्चिदतिवर्तते ।
लिङ्गस्यविनिवृत्तेस्तस्माद्दुःखं समासेन
सुखलेशस्य तद्व्याप्तत्वात् । यावदिदं लिङ्गं न निवर्तते तावदवश्यं दुःखेन भवितव्यम् । पर्यायेण संस्कारस्य सामर्थ्याल्लोकान्तरोपपत्तेः । तथा चाह-
सुखं च दुःखं च हि संशयं वारेणायं सेवते तत्र तत्र ।
कथम्पुनर्दुःखेन व्याप्तं सुखमिति चेत्, आब्रह्मणो ऽशुद्ध्यातिशयोपपत्तेः । तस्याश्च दुःखमूलत्वात् । प्रजापतेरक्षिरोगश्रवणात्, इन्द्रस्य कामोपतापात् । गौतमपरिभावाद् रम्भायाश्चाभिशापात्पाषाणभावोपपत्तेः, नागानां सर्पसत्रायासात्, वैश्रवणस्य यस्काभिशापाद्धस्तिभावोपपत्तिः । जरत्कारो पित्ःणां च गर्ते ऽवलम्बनात्, पिशाचानां मन्त्रौषधिमङ्गलप्रयोगैरुद्वासनान्मानुषतिरश्चां प्रत्यक्षत एव प्रायेण दुःखास्पदत्वात् । तस्मान्नास्ति संसारे कश्चित्प्रदेशो यत्र सह लिङ्गेनात्मानं दुःखं नावाप्नुयादित्यत एवं प्रयतितव्यं येन लिङ्गस्यैवात्यन्तोच्छेदः । ततो हि सर्वदुःखानामत्यन्तोपशमः । समासग्रहणं तु सुखमोहयोरवकाशदानार्थम् । अन्यथा संसारे तयोरभाव एवाभ्युपगतः स्यात् ॥ 55 ॥
कारिका 56
एवं यथावत्सर्गमुपाख्यायोपसंहरन्नाह-
इत्येष प्रकृतिविकृतः प्रवर्तते तत्त्वभूतभावाख्यः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः
इतिकरणेन सर्गसमाप्तिं द्योतयति । एष इत्युक्तमपि प्रत्याम्नायार्थं पुनरपेक्षते । प्रकृत्या कृतः प्रकृतिकृतः । अनेन वाक्यपरिसमाप्त्यर्थं वीतावीताभ्यां सिद्धं प्रधानास्तित्वम् । अण्वादिप्रतिषेधं चापेक्षते । प्रकृतिकृत एव नाण्वादिकृतः । प्रवर्तत इति क्रियाप्रबन्धमाह । प्रवृत्तो न प्रवर्त्स्यति किं तर्हि प्रवर्तत एवानन्तानां शरीरादिभावेन परस्परानुग्रहेण च । नेयं क्रिया कदाचिदपि भूतभविष्यद्रूपा भवति । किन्तर्हि वर्तमानरूपा । यथा वहन्ति नद्यः, तिष्ठन्ति पर्वता इति । तत्त्वभूतभावाख्य इत्युक्तानां निगमार्थं प्रत्याम्नायं करोति । तत्त्वाख्यो महदादिभिर्भावाख्यो व्योमादिः । पुरुषं पुरुषं प्रति विमोक्षः प्रतिपुरुषविमोक्षः । तदर्थं प्रतिपुरुषविमोक्षार्थम् । सर्वपुरुषाधिकारनिबद्धायाः सर्वशक्तेर्निराकांक्षीकरणार्थमित्यर्थः । स्वार्थ इव परार्थ आरम्भः । कार्यकारणभावेन । तत्र कार्यस्य तावच्छब्दादेः स्वार्थ इवेन्द्रियाणां विषयभावः । इन्द्रियाणामप्राप्तविषयाणां लौल्यमधिष्ठानविकारानुमेयं स्वार्थमिव । करणानां च संकल्पाभिमानाध्यवसायानां विषयद्वारिभावोपगमनं मनःप्रभृतीनां च स्वप्रवृत्तिविषयत्वम् । मनो ऽहंकारयोश्च बुद्धौ स्वप्रवृत्त्युपसंहारो बुद्धेश्च शान्तघोरमूढत्वं व्यवसायकर्तृत्वं च सत्तरजस्तमसां च प्रकाशप्रवृत्तिनियमलक्षणैर्धर्मैः परस्परोपकारित्वम् । न चैष स्वार्थः, सर्वस्यास्याचैतन्यात् । किं तर्हि परार्थ एवायमारम्भः । संघातत्वादिति ।
आह, यदुक्तं प्रतिपुरुषविमोक्षार्थमयमारम्भ इति तदयुक्तम् । आचार्यविप्रतिपत्तेः । प्रतिपुरुषमन्यत्प्रधानं शरीराद्यर्थं करोति । तेषां च माहात्म्यशरीरप्रधानं यदा प्रवर्तते तदेतराण्यपि । तन्निवृत्तौ च तेषामपि निवृत्तिरिति पौरिकः सांख्याचार्यो मन्यते । तत्कथमप्रतिषिध्यैका प्रकृतिरभ्युपगम्यते इति ?
उच्यते- न, प्रमाणाभावात् । न तावत्प्रत्यक्षत एव तच्छक्यं निश्चेतुम् । प्रधानानामतीन्द्रियत्वात् । लिङ्गं चासन्दिग्धं नास्ति । आप्ताश्च नो नाभिदधुरतो मन्यामहे नैतदेवमिति । किंच एकेनार्थपरिसमाप्तेः । अपरिमितत्वादेतदेकं प्रधानमलं सर्वपुरुषशरीरोत्पादनाय । तस्मादन्यपरिकल्पनानर्थक्यम् । परिमितमिति चेदथ मतम्, परिमितं प्रधानमिति न, उच्छेदप्रसंगात् । एवमपि तस्योच्छेदः प्राप्तः क्षीरवत् । तथा च संसारोच्छेदप्रसंगः । किं च अनवस्थाप्रसंगात् । एकस्येश्वरस्य योगिनो वेच्छायोगादनेकशरीरत्वम् । तत्परिमितादयुक्तम् । प्रतिशरीरं वा प्रधानपरिकल्पने प्रधानानवस्था भवति । परिमितशरीरकारणत्वाभ्युपगमादन्यपरिकल्पनानर्थक्यम् । ततश्च प्रधानैकत्वमेव । तस्मादयुक्तं प्रतिपुरुषं प्रधानानीति । यत्तूक्तं माहात्म्यशरीरप्रधानप्रवृत्तावितरेषां प्रवृतिस्तन्निवृत्तौ निवृत्तिरित्यत्र ब्रूमः- न, अतिशयाभावात् । यथा क्षेत्रज्ञानां निरतिशयत्वादितरेतराप्रवर्तकत्वमेवमेषामपि सातिशयत्वे वा प्रधानानुपपत्तिप्रसंगः, वैषम्यात् । तस्माद्युक्तं प्रतिपुरुषविमोक्षार्थमेका प्रकृतिः प्रवर्तत इति ॥ 56 ॥
कारिका 57
आह, तदनुपपत्तिराचेतन्यात् । इहाचेतनानां घटादीनामुद्दिश्य प्रवृत्तिरदृष्टा । सा चेदियमचेतना प्रकृतिरस्या अप्युद्दिश्य पुरुषार्थं प्रवृत्तिर्नोपपद्यते । भवति चेच्चैतन्यं तर्हि प्राप्तमस्या । तत्र यदुक्तं प्रतिपुरुषविमोक्षार्थ प्रकृतेः प्रवृत्तिरिति एतदयुक्तमिति ।
उच्यते- न, दृष्टान्तोपपत्तेः ।
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य
यथा क्षीरमचेतनं वत्सविवृद्धिमुद्दिश्य प्रवर्तते, एवं प्रधानमपि पुरुषविमोक्षमुद्दिश्य प्रवर्तते । न चास्य चैतन्यं स्यात् । साध्यत्वादयुक्तमिति चेत् स्यान्मतम्, साध्यमेतत् किं क्षीरस्योद्दिश्य वत्सविवृद्धिं प्रवृत्तिः, अथ नेति ? तस्मादुदाहरणं साध्यत्वादयुक्तमिति । एतच्चायुक्तम् । कस्मात् ? तदभावे ऽभावात् तद्भावे च भावात् । यत्र नास्ति वत्सविवृद्धिस्तत्र न क्षीरस्य प्रवृत्तिरुपलब्धा । यत्रास्ति तत्रोपलब्धा । यद्यस्मिन् सति भवति तस्य तदर्था प्रवृत्तिर्दृष्टा । तद्यथा घटे कुम्भकारस्य । स चायमीदृशो ऽस्माकमुद्देशो ऽभिप्रेतः यदुत तादर्थ्यम् । तस्मान्नास्त्युदाहरणसाध्यत्वमिति ।
असद्भावाभिधानात्सत्कार्यविरोध इति चेन्न, व्यक्तिपर्यायत्वात् । व्यक्तिपर्यायो हि तदिति शास्त्रलोकप्रामाण्यात् । शास्त्रं तावत् सत्तामात्रो महान् व्यक्तिमात्र इत्यर्थः । लोके ऽपि नास्त्यस्मिन्कूपे सलिलमित्युच्यते । न क्वचिदपि कूपे सलिलं नास्त्यभिव्यक्तं न तद् भवति । तस्मान्न सत्कार्यविरोधः ।
अदृष्टप्रेरणत्वादसिद्धिरिति चेदथ मतम् । धर्माधर्मप्रेरितं क्षीरं प्रवर्तते न वत्सविवृद्ध्यर्थमिति, तदप्ययुक्तम् । कस्मात् ? दोषसाम्यात् । धर्माधर्मावचेतनौ विवृद्धिकाले क्षीरं प्रवर्तयतस्तदवसाने च निवर्तयतः । तसमादित्थमपि परिकल्प्यमाने समानो दोषः । ईश्वरप्रेरणादिति चेत् स्यान्मतम् ईश्वरस्तत्र क्षीरं प्रवर्तयते वत्सार्थं, न स्वयमिति । तदयुक्तम् । कस्मात् ? प्रतिषेधात् । प्राक्प्रतिषिद्धमीश्वरकर्म । तस्मादिदमप्ययुक्तम् । एवं चेदवस्थितो दृष्टान्तः । वार्षगणानां तु यथा स्त्रीपुंशरीराणामचेतनानामुद्दिश्येतरेतरं प्रवृत्तिस्तथा प्रधानस्येत्ययं दृष्टान्तः ।
आह, कथमवगम्यते तादर्थ्यादुत्पन्नेन व्यक्तेन पुरुषस्य सम्बन्धो न पुनः सान्निध्यमात्रात्, भिक्षुवदिति ?
उच्यते- न, अनपवर्गप्रसंगात् । सान्निध्यमात्रात्पुरुषोपभोगमभ्युपगच्छतो नापवर्गप्रसंगः स्यान्नित्यसान्निध्यात् । तस्मादयुक्तमेतत् ।
अप्रवर्तयितारं प्रति कार्यकारणानां प्रवृत्तिरयुक्तेति चेत् स्यान्मतम्- अप्रवर्तयिता कृष्णादीनां भिक्षुरतो न तेषामपि तं प्रति प्रवृत्तिः । एवमप्रवर्तयिता कार्यकरणानां पुरुषः । तस्मात्तेषामपि तं प्रति प्रवृत्तिरयुक्तेत्येतदप्यत एवानैकान्तिकम् । वत्सो हि क्षीरस्याप्रवर्तयिताथ च तं प्रति तस्य प्रवृत्तिः । तस्माद्युक्तमेतपुरुषविमोक्षार्था प्रकृत्तेः प्रवृत्तिर्न चैतन्यप्रसंग इति ॥ 57 ॥
कारिका 58
आह, न, अप्रवृत्तिप्रसंगात् । यदि प्रधानस्य पुरुषकैवल्यार्था प्रवृत्तिस्तेन तदभावे कैवल्यं सिद्धमेवेत्यप्रवृत्तिप्रसंगः । अथ केवले पुरुषे प्रधानं प्रवर्तते न तर्ह्यस्य तदर्था प्रवृत्तिरिति ।
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम्
प्रागेवैतदपदिष्टम्- यथा दृश्यदर्शनशक्तियुक्तत्वादन्यतराभावे च तयोरानर्थक्यात्प्रधानपुरुषयोरितरेतरसम्बन्धं प्रत्यौत्सुक्यम् । दृष्टा चोपरमार्थापि लोकस्यौत्सुक्यनिवृत्त्यर्था प्रवृत्तिस्तथा प्रधानस्याप्युपरमार्था प्रवृत्तिः । अथ दृश्यदर्शनशक्त्योरौत्सुक्यनिवृत्त्यर्थं प्रवर्तत इत्येकत्र कृतार्थत्वादितरेष्वप्रवृत्तिप्रसंग इति चेत् स्यादेतत् । प्रधानमेकस्य पुरुषस्यात्मानं प्रकाश्योपरमेदे दृश्यदर्शनशक्तयोरौत्सुक्यनिवृत्तिर्भविष्यति ॥ 58 ॥
कारिका 59
अप्रवृत्तिश्चेत्येतदपि नोपपन्नम् । कस्मात् ? दृष्टान्तान्तरसामर्थ्यात् । तद्यथा किम् ?
उच्यते-
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः
तत्र नानावर्णस्वभावविज्ञानानां प्रेक्षार्थिनां पुरुषाणां संघातो रङ्ग इत्युच्यते । नर्तक्याश्च तदाराधना नृत्तिक्रियानेकपुरुषार्था । यदि वात्र कश्चिद् ब्रूयात् नृत्ताचार्येण कुशीलवैर्वा दृष्टैवेयं कस्मान्न निवर्तते ? कथम् ? अकृतार्थत्वात् । एवं सर्वपुरुषाणां कार्यकारणसम्बन्धेनौत्सुक्यवतां निराकांक्षीकरणार्थं प्रवृत्ता प्रकृतिः कथमेकस्य पुरुषस्यौत्सुक्यनिवृत्तौ कृतार्था स्यात् ? तस्मान्नैकस्य पुरुषस्यात्मानं प्रकाश्य प्रकृतेर्निवृत्तिर्युक्तेति । अत्र च-________
********************** चोम्मेन्तर्य् ओन् कारिकास् 60 - 63 लोस्त् **********************
कारिका 64
______ कार्यकारणक्रियासाक्षी पुरुषः । तस्माद्ये भौतिकाः शिरःपाण्यादयो ये चाहंकारिकाः श्रवणादयो वचनादयः संकल्पाभिमानाध्यवसायाश्च ते लक्षणविपर्ययात्- नाहं नाष्टौ प्रकृतयः । तदेतदेवं तत्त्वानामभ्यासैकाग्रमनसो यतेः पुनः पुनरभ्यासात् एकस्याप्यस्मितारूपस्य परिकल्पितविषयभेदप्रतिषेधमुखेन
नास्मि न मे नाहमित्यपरिशेषम् ।
आप्रकृतेः प्रतिपक्षग्रहणात्
अविपर्ययात्
पञ्चस्रोतसो ऽस्याविद्यापर्वणो निवृत्तेः शान्तं ध्रुवं सकलभावानुबन्धप्रतिपक्षभूतं धर्माद्याप्यायितस्य बुद्धितत्त्वस्यासन्दिग्धमविपरीतं
विशुद्धं केवलमुत्पद्यते ज्ञानम्
आह, विशुद्धं केवलम् । अन्यतरानभिधानमर्थाभेदात् । यदेव विशुद्धं तदेव केवलमित्यर्थाभेदादन्यतरच्छक्यमवक्तुमिति ।
उच्यते- गुणान्तररूपनिवृत्तिहेतुत्वात् । रजस्तमोधर्माणां तावद् ग्रहणाच्छुद्धं संशयविपर्ययव्यतिरिक्तं च केवलं क्षेत्रज्ञपरिज्ञाने ऽपूर्वमेव इति ॥ 64 ॥
********************** चोम्मेन्तर्य् ओन् कारिकास् 65 अन्द् 66 लोस्त् **********************
कारिका 67
आह, तत्समकालमेव शरीरस्य पातः प्राप्नोति । सति ध____वस्थानेनाज्ञानहेतुकं शरीरमिति ।
उच्यते- अज्ञानहेतुकं शरीरम् । अथ चायं नानात्वदर्शी ।
धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच्चक्रभ्रमवद् धृतशरीरः
मूल पाठ: Yuktidīpikā a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā · Edition: Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0