भाषा

ENहिગુ
ग्रंथ पाठ

युक्तिदीपिका · श्लोक 22-41

22

प्रधानपुरुषयोर्हि भोक्तृभोग्यभावापेक्षनिमित्तो ऽयं तत्त्वसर्गो महदादिः, भावसर्गश्च धर्मादिः, भूतसर्गश्च ब्राह्मादिः प्रवर्तते । सा चापेक्षा पुरुषानन्त्यान्न निवर्तत इत्यतो ऽर्थवतीनां हि प्रकृतीनां तदपरिसमाप्तेर्न निवृतिरस्ति ॥ 21 ॥
॥ इति श्रीयुक्तिदीपिकायां सप्ततिपद्धतौ पञ्चममाह्निकं द्वितीयं च प्रकरणम् ॥
कारिका 22
एवं कारणान्तरप्रतिषेधात्प्रकृतेः पुरुषार्थो ऽयं व्यक्तभावेन विपरिणाम इति स्थितम् । तत्रेदानीं विप्रतिपत्तिराचार्याणाम् । केचिदाहुः प्रधानादनिर्देश्यस्वरूपं तत्त्वान्तरमुत्पद्यते । ततो महानिति । पतञ्जलिपञ्चाधिकरणवार्षगणानां तु प्रधानान्महानुत्पद्यत इति । तदन्येषां पुराणेतिहासप्रणेत्ःणां महतो ऽहंकारो विद्यत इति पक्षः- महतो ऽस्मिप्रत्ययकर्तृत्वाभ्युपगमात् । अहंकारात्पञ्च तन्मात्राणीति सर्वे । महतः षडविशेषाः सृज्यन्ते पञ्च तन्मात्राण्यहंकारश्चेति विन्ध्यवासिमतम् । तथा अहंकारादिन्द्रियाणीति सर्वे । भौतिकानीन्द्रियाणीति पञ्चाधिकरणमतम् । एकरूपाणि तन्मात्राणीत्यन्ये । एकोत्तराणीति वार्षगण्यः । इन्द्रियाणि संस्कारविशेषयोगात्परिगृहीतरूपाणीति केचित् । परिच्छिन्नपरिमाणानीत्यपरे । विभूनीति विन्ध्यवासिमतम् । अधिकरणमपि केचित्त्रयोदशविधमाहुः । एकादशकमिति विन्ध्यवासी । तथान्येषां महति सर्वार्थोपल्ब्धिः, मनसि विन्ध्यवासिनः । संकल्पाभिमानाध्यवसायनानात्वमन्येषाम्, एकत्वं विन्ध्यवासिनः । तथा करणं निर्लिखितस्वरूपं शून्यग्रामनदीकल्पम्, प्राकृतवैकृतिकानि तु ज्ञानानि प्रेरकाङ्गसंगृहीतानि प्रधानादागच्छन्ति चेति पञ्चाधिकरणः, न तु तथेत्यन्ये । कारणानां महती स्वभावातिवृत्तिः प्रधानात्, स्वल्पा च स्वत इति वार्षगण्यः । सर्वा स्वत इति पतञ्जलिः । सर्वा परत इति पञ्चाधिकरणः । बुद्धिः क्षणिकेति च कालान्तरावस्थायिनीत्यपरे । एवमनेकनिश्चयेष्वाचार्येषु ये तावत्प्रधानमहतोरन्तराले तत्त्वान्तरमिच्छन्ति तत्प्रतिक्षेपायाचार्यः स्वमतमुपन्यस्यति ।
प्रकृतेर्महान्
प्रकृतेर्महानुत्पद्यते । महान्बुद्धिर्मतिर्ब्रह्मापूर्तिः ख्यातिरीश्वरो विखर इति पर्यायाः । स तु देशमहत्त्वात्कालमहत्त्वाच्च महान् । सर्वोत्पाद्येभ्यो महापरिमाणयुक्तत्वान्महान् ।
अन्यस्य तु पक्षे नैवाहंकारो विद्यत इति प्रतिषेधविवक्षयेदमाह ।
ततो ऽहङ्कारः
तस्मान्महतो ऽहंकार उत्पद्यते ।
यः पुनराह, महतः षडविशेषाः सृज्यन्ते पञ्च तन्मात्राण्यहंकारश्चेति तन्निरासार्थमाह
तस्माद्गणश्च षोडशकः ।
तस्मादहंकारात्षोडशको गण उत्पद्यते, पञ्च तन्मात्राणि एकादशेन्द्रियाणि च । अनेनैव च भौतिकेन्द्रियवादी प्रतिक्षिप्तो बोद्धव्यः ।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि

23

तस्मादपि षोडशकाद्गणाद्यः पञ्चको गणस्ततः पञ्च महाभूतान्युत्पद्यन्ते । पूर्वपदलोपेनात्र महाभूतानीति वक्तव्ये भूतानीत्युच्यते । भूतसंज्ञा हि तन्मात्राणां न पृथिव्यादीनामत्र तु सांख्याचार्याणामविप्रतिपत्तिः भूतकौटस्थ्यवादिनस्तु मीमांसका आर्हताश्च । तत्प्रतिक्षेपेणेदमुच्यत इति ॥ 22 ॥
कारिका 23
आह, उक्तं प्रधानाद्बुद्धिरुत्पद्यत इति । तत्र वक्तव्यं किंलक्षणा पुनर्बुद्धिरित्युच्यते
अध्यवसायो बुद्धिः
को ऽयमध्यवसायः ? गौरेवायं, पुरुष एवायमिति यः प्रत्ययो निश्चयो ऽर्थग्रहणं सो ऽध्यवसायः ।
अत्र क्षणिकवाद्याह यद्यर्थग्रहणं बुद्धिः, अनित्या । कस्मात् ? हेत्वपेक्षणात् । अर्थग्रहणं हीन्द्रियादिविषयसन्निधानमावरणाद्यभावं चापेक्षते । न च नित्यस्य कारणापेक्षोपपद्यते । तस्मादनित्या बुद्धिः । अभिव्यक्तेरदोष इति चेत्स्यादेतन्नेन्द्रियसन्निधानादिभिरर्थग्रहणं जन्यते किं तर्ह्यभिव्यज्यत इति । तच्च नैवम् । द्विधा दोषात् । सा ह्यभिव्यक्तिः स्वरूपलाभो वा स्यात् ग्रहणप्रतिबन्धव्युदासो वा । किं चातः ? तद्यदि तावत्स्वरूपलाभः क्रियते ऽर्थग्रहणमिति प्राप्तम् । अर्थग्रहणप्रतिबन्धस्यान्धकारस्य व्युदासस्तदप्ययुक्तम् । विप्रतिषेधात् । ग्रहणं च स्यात्तत्प्रतिबन्धश्चेति विप्रतिषिद्धम् । किंच भेदात् । व्यङ्ग्यं हि घटादि चन्द्रार्कौषधिमणिरत्नप्रदीपभेदान्न भिद्यते । अस्ति बुद्धीनामर्थभेदाद् भेदः । वृत्तिभेदाददोषो मृद्वदिति चेत् स्यान्मतम् , यथा मृद्द्रव्यस्य घटादिसंस्थानवृत्तिभेदे ऽप्यभेद एवं बुद्धेरिति । तदप्ययुक्तम् । अनन्यत्वात् । यदा बुद्धिरन्या वृत्तिभ्यः, प्राप्तस्तद्भेदे बुद्धिभेदः । किंच दृष्टान्तासिद्धेः । साध्यं चैतत् किं तदेव मृद्द्रव्यं घटादिवृत्तिभेदमनुभवति आहोस्वित्प्रत्ययान्तरवशादन्यच्चान्यच्चोत्पद्यते इति ? अवयवभेदाच्च । उपेत्य वानुवृत्तिं ब्रूमः- न हि तदेकं मृद्द्रव्यम्, किं तर्हि बहवो मृत्परमाणवो ऽनेकदेशावच्छिन्नवृत्तय इति । किं चान्यत् । निवृत्तिविभक्तिग्रहणात् । तद्धि मृद्द्रव्यं संस्थानमपेक्ष्यापि गृह्यते, न त्वर्थग्रहणमनपेक्ष्य बुद्धेर्ग्रहणमस्ति । तस्माद्विषमो दृष्टान्तः । परिमाणाददोष इति चेत् स्यान्मतम् सत्त्वादीनामङ्गाङ्गिभावनियमात्तेन तेनार्थग्रहणात्मना विपरिणामो वृत्तिरिति । एतच्चायुक्तम् । उभयकल्पने दोषप्रसंगात् । यदि धर्मान्तरोपादानपरित्यागौ व्यक्तव्यक्ती, दत्तोत्तर एष पक्षः । अथ नाशोत्पादौ तेन धर्मधर्मिणोरनन्यत्वाद्धर्माणां नाशोत्पादाद्बुद्धेरपि नाशोत्पादप्रसंगः । तदनभ्युपगमे वान्यत्वमिति दोषः । आह च
नष्टोत्पन्नमनन्यत्वादनित्यं नित्यमेव वा ।
नष्टोत्पन्नाविनष्टानां नित्यं तो नास्ति चैकदा ॥
यदप्युक्तम्- सत्त्वादीनामङ्गाङ्गिभावनियमादिति, तदयुक्तम् । अत एवानित्यत्वसिद्धेः । तुल्यानां गुणप्रधानभावानुपपत्तेः । सत्त्वादीनानङ्गाङ्गिभावाभ्युपगमात् वृद्धिक्षयावभ्युपगन्तव्यौ । ततश्च बुद्धिरनित्येति प्राप्तम् । तेभ्यो ऽनन्यत्वात् । अथ मतं तदवस्थाप्यसौ नित्येति, न तर्हि सत्वाद्यात्मभूता बुद्धिरिति प्राप्तम् । ततश्च कार्यकारणयोरविवेक इत्यस्य विरोधः । तस्मादनित्या बुद्धिरिति ।
उच्यते- यत्तावदुक्तं हेत्वपेक्षणादनित्या बुद्धिरिति तदयुक्तम् । कस्मात् ? सिद्धसाधनात् । कस्यात्र विप्रतिपत्तिरनित्या वा बुद्धिः स्यान्नित्या वेति ? किं तर्हि हेतुमदनित्यं व्यक्तमिति वचनादनित्यैव । तस्मादिष्टमेवैतत्सङ्गृहीतम् । अतएव क्षणिकत्वमिति चेत्, अथापि स्याद्धेत्वपेक्षा हि संस्कृतत्वम् । संस्कृतं तु क्षणिकम् । तद्यथा प्रदीप इति । तस्मादनित्ये सत्यपि विशेषानभिधाने क्षणिकत्वमेवानेन हेतुना बुद्धेः प्रतिपाद्यत इति । कस्मात् ? उत्तरवचनविरोधप्रसंगात् । एवमपि यदुत्तरं क्षणिकत्वप्रसिद्ध्यर्थमुच्यते प्रत्यर्थग्रहणान्यत्वादनित्येत्यादि तस्यानर्थक्यम् । तस्मात् पूर्वोत्तरविरुद्धत्वात्सकलमेवेदं प्रकरणं नाध्ययनं, न प्रत्याख्यानमर्हति । परेषां त्वभिनिष्टा बुद्धिरत्रेत्यसंगतार्थोत्तरापवाददोषमनपेक्ष्यापि प्रत्येकमप्येतदसाधनम्, वृत्तिविषयत्वात् । स्वकारणपरिनिष्पन्नाया हि बुद्धेर्व्यापारो ऽर्थग्रहणसंज्ञक इन्द्रियादिसन्निधानापेक्षो न बुद्धिः । तदनन्यत्वात्प्रसंगनिवृत्तिरिति चेदथ मतम्, वृत्तिवृत्तिमतोरनन्यत्वादित्थमपि कल्पयित्वायं प्रसंगो न निवर्तते । तथा चोक्तम्- स्वालक्षण्यं वृत्तिस्त्रयस्येति ( इस्क् 29 ) । तदप्यबाधकम् । कस्मात् ? उपचारात् । सत्यमनन्या, वृत्तिवृत्तिमतोर्भेदेनाग्रहणात्, तथाप्युपरतव्यापारस्यापि परश्वादेर्वृत्तिमतः स्वरूप नोपरमतीति भेदमुपचर्य व्यवहारो नानाकार्यविषयः प्रवर्तते । अतएवान्यत्वमपि स्यादिति तदयुक्तम्, एकान्तात् । तद्यथा सेनापङ्क्तिसेनाकुण्डलाद्युपरमे न तत्सन्निवेशिनामुपरमः कार्यभेदश्च, न चान्यत्वम् । एवं वृत्तितद्वतोरपि च स्यात् । तस्माद्युक्तमेतद्धेत्वपेक्षणस्य वृत्तिविषयत्वान्न बुद्धेरनित्यत्वमिति । एतेन व्यक्तिविकल्पः प्रयुक्तः, सो ऽपि वृत्तिविषय इति कृत्वा तदप्युक्तमिन्द्रियादिभेदे भेदादिति । तदप्यनेनैवोक्तम् । वृत्तिभेदो ऽत्र न भेद इति । किं चानेकान्तात् । यथोदकादिभेदात्प्रतिबिम्बभेदो न चाव्यङ्ग्यत्वमेवमन्यत्रापि स्यात् । द्रव्यान्तरोत्पत्तेरदोष इति चेत्स्यान्मतम्, उदकस्याननसंयोगाद्द्रव्यान्तरमेव प्रतिबिम्बलक्षणमुत्पद्यते न तु मुखं भिद्यते इति असदेतत् । कस्मात् ? उभयोः कारणत्वेन कल्पनानुपपत्तेः । न
हि मुखः निमित्तं शक्यं वक्तुम् , विप्रकृष्टत्वान्नासादयो मुखापगमे ऽप्युपलब्धिप्रसंगात्पाकजवत् । यत्पुनरेतदुक्तं वृत्तिभेदाददोषो मृद्वदिति तथा तदस्तु । यत्तूक्तमनन्यत्वाद्दृष्टान्तासिद्धेश्चेति वृत्त्यनन्यत्वमिदानीमेव प्रत्युक्तम् । क्षणभङ्गप्रतिषेधे चोक्तं न पृथिव्यादीनामन्यथा चान्यथा चोत्पत्तिः । यत्पुनरेतदुक्तं नैकं मृद्द्रव्यमिति तत्र बुद्धिः प्रमाणम् । यदेकबुद्धिनिमित्तं तदेकं, तत्र यदि मृदो ऽनेकत्वेन प्रयोजनं बुद्धिरुपलभ्यते- वयमिति । यत्पुनरेतदुक्तम्, मृद्द्रव्यस्य संस्थानव्यतिरेकेण स्वभावो ऽवधार्यते न तु बुद्धेरर्थग्रहणमन्तरेण स्वरूपग्रहणमिति, तदयुक्तम् । अभावस्यारूपत्वात् । उपेत्य वा
यथा बाह्याद्यवस्थासु व्याकारा चित्तसन्ततिः ।
विद्यते बीजमात्रा वस्तथा धीरिति गृह्यताम् ॥

यथा बाह्यार्थाकारवच्चित्तसन्ततिरथ च सुप्तमूर्छितविरोधसमापन्नानामर्थरूपादृते बीजमात्रास्तीत्युपगम्यते सा चिति कापि वावस्थेति वचनात्, न च गृह्यते तथा बुद्धिरपीति कस्मान्न परिकल्प्यते ? यत्पुनरेतदुक्तम् यदि धर्मान्तरोपादानपरित्यागौ व्यक्तव्यक्ती दत्तोत्तर एष पक्ष इति । तदितरत्र तुल्यम् । अस्माभिरपि तर्ह्यसत्कार्यप्रत्याख्याने दत्तोत्तर एष पक्षो व्यक्तितर्न क्रियते इति । नाशोत्पादौ तु अनिष्टावेवेति न परिहारं प्रत्यादरः क्रियते । यदप्युक्तं नष्टादुत्पन्नाच्चानष्टमनुत्पन्नं चान्यन्नास्तीति तदयुक्तम्, अनभ्युपगमात् । नाशोत्पादौ कः प्रतिजानीते यं प्रत्येतदर्थवत्स्यात् ? किं च त्वत्पक्षप्राप्तेः । भवत एव नष्टोत्पन्नेभ्यः स्कन्धेभ्यो नान्या सन्ततिरथ च नास्ति दोषः । कयापि युक्तया स्यादेतदन्यैवासाविति ततश्चैका सन्ततिरिति हीनम् । यदप्युक्तं गुणवृद्धिक्षये ऽनित्यत्वमिति तदनुपपन्नम् । कस्मात् ? रूपान्तराप्यायनात् । सत्त्वं हि प्रकर्षमनुभवद्रजस्तमसी च न्यूनतां धर्मादिरूपां बुद्धेराप्यायन्ति, नार्थान्तरं कुर्वन्ति नो खल्वप्यभावम्, एवं रहस्तमो वा प्रकर्षमनुभवत्सत्त्वं च न्यूनताधर्मादिरूपं बुद्धेराप्यायन्ति, नार्थान्तरं कुर्वन्ति नाभावम् । एवं गुणवृद्धिक्षये ऽपि रूपान्तराप्यायनान्नास्ति क्षयो बुद्धेः । तत्र यदुक्तं हेत्वपेक्षणादनित्या बुद्धिरिति एतदयुक्तम् ।यत्पुनरेतदुक्तं प्रत्यक्षग्रहणान्यत्वात्प्रतिक्षणं दीपादितैलधारासु शब्दभेदाच्च क्षणिकेति, अत्र ब्रूमः- ग्रहणान्यत्वे चोक्तं वृत्तिभेदो न वृत्तिमद्भेदः । किं चान्यत् । भिन्नार्थग्रहणैकत्वात् । उपेत्य वा ब्रूमः- यदि प्रत्यर्थमन्यदन्यद्ग्रहणं कल्प्यते, विकल्पबाधसमुच्चयसंशयद्वित्वातिशयनिवारणेषु, तथा कल्माषं शबलं चित्रमित्यनेकार्थरूपमेकं ग्रहणं न स्यात् । दृष्टं तत् । तस्मान्नायं क्षणिकत्वे हेतुः । एवमवस्थितमिदं- अध्यवसायो बुद्धिर्न क्षणिकेति ।
बुद्धेस्तु त्रिगुणात्मकत्वात्तस्य गुणस्य प्रकर्षे तत्तद्रूपान्तरमुत्पद्यत इति ।
आह, कस्य गुणस्य प्रकर्षे बुद्धेः किं लक्षणं रूपान्तरमुपजायते ?
इत्युच्यते
धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकमेतद् रूपम्
अत्र त्वेतद्रूपमिति सत्यपि धर्मादिभेदे बुद्धिरित्यभेदविवक्षाविषय एकवचननिर्देशः क्रियते । एतदुक्तं भवति यदा रजस्तमसी वशमापाद्य बुद्धिगतं सत्त्वमुत्कृष्टं भवति तदा धर्मो ज्ञानं विराग ऐश्वर्यमित्येतद्रूपं भवति । तत्र श्रुतिस्मृतिविहितानां कर्मणामनुष्ठानाद्बुद्ध्यवस्थः सत्त्वावयव आशयभूतो धर्म इत्युच्यते । स तु द्विविधः । ब्रह्मादिस्थानेष्वभिप्रेतशरीरेन्द्रियविषयोपभोगनिर्वर्तको ज्ञानाद्यङ्गभूतश्च प्रथमः । अग्निहोत्रहवनादिक्रियानुष्ठानसाधनो यमनियमसाधन इतरः । तत्राहिंसा सत्यमस्तेयमकल्कता ब्रह्मचर्यमिति पञ्च यमाः । अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवमप्रमाद इति पञ्च नियमाः । एतेषामविलोपेनानुष्ठानाद्यतेरेवंविधोत्तरणे सत्त्वधर्म आशयतां प्रतिपद्यते, यो ज्ञानादीनां रूपाणामाप्यायनं करोति । एतदभ्युदयनिःश्रेयसयोः सोपानभूतं प्रथमं पर्व । यत्रायमवस्थितो यतिरितरेषां पर्वणामनुष्ठाने योग्यो भवति । ज्ञानं द्विविधं शब्दाद्युपलब्धिलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं च । तत्र शब्दाद्युपलब्धिलक्षणं प्रत्यक्षानुमानागमरूपम् । गुणपुरुषान्तरोपलब्धिलक्षणं च द्विविधं अपूर्वमभ्यासजं च । तयोरपूर्वम्- ऊहः शब्दो ऽध्ययनमिति ( इस्क् 51 ) सिद्धिकाण्डानुपतितानि प्रमाणानि । अभ्यासजं पुनः वैराग्यपूर्वावजयपृष्ठलब्धं शान्तममलं ध्रुवं सकलभवाभवप्रतिपक्षभूतम् । यदाचार्यो वक्ष्यति-
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानमिति ॥ ( इस्क् 64 )
विरागस्तु रागप्रतिपक्षभूतो ज्ञानाभ्यासोपजनितो बुद्धेः प्रसादः । तस्य तु यतमानव्यतिरेकैकेन्द्रियवशीकारलक्षणाश्चतस्रो ऽवस्था भवन्ति । तत्रेन्द्रियाणां विषयाभिलाषलक्षणकषायपाचनं प्रति यः प्रयत्न उत्साहः सा यतमानसंज्ञा । यतमानको ह्ययमस्मिन्पर्वण्यवस्थितो यतिर्भवति । यदा तु केषांचिदिन्द्रियाणां परिपक्वं सा व्यतिरेकसंज्ञा । व्यतिरिच्यन्ते हि तदा यतेरिन्द्रियाणि परिपक्वाण्यपरिपक्वेभ्यो विशिष्टतराणि भवन्तीत्यर्थः । विपरिपक्वसर्वेन्द्रियस्तु संकल्पमात्रावस्थितकषायो यदा भवति तदैकेन्द्रियसंज्ञा । निवृत्तसर्वेन्द्रियविषयेच्छस्य यतेरेकमेव मनोलक्षणमिन्द्रियं तदा परिपक्वं भवति । संकल्पमात्रावस्थितस्यापि परिपाको वशीकारसंज्ञा । संकल्पमूलोच्छिन्नविषयमृगतृष्णो हि अयं यतिरिन्द्रियाणामन्तःकरणस्य च प्रवृत्तिनिवृत्त्योरीष्टे । एकाग्र एकरामो ऽविद्यापर्वणो ऽतिक्रान्तः, परस्य ब्रह्मणः प्रत्यनन्तरो भवति । तदेवं चतुरवस्थं वैराग्यपर्व विज्ञाय तदनुष्ठानाय यतिः प्रयतेत । तस्योपायो दृष्टानुश्रविकविषयप्रत्याख्याने य उपदिष्टो यश्च तुष्टिषु वक्ष्यमाणस्तमेकीकृत्योत्तरोत्तरां तत्त्वभूमिं विज्ञानस्य विषयीकुर्वन्पूर्वस्यां तत्त्वभूमौ मध्यस्थः स्यात् । ऐश्वर्यमप्रतिघातलक्षणम्, यत्पुनरष्टविधं अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायित्वमिति । अत्राणिमा, महिमा, लघिमा, गरिमेति भूतवैशेषिकम् । बुद्धेस्तु प्राप्त्यादि । एवमेतच्चतुर्विधं महतः सात्त्विकं रूपमिति ।
आह, अथ गुणान्तररूपं किम् ?
उच्यते
तामसमस्माद्विपर्यस्तम्

24

एतत् अस्माद्धर्मादेः सत्त्वरूपादिविपर्यस्तं तामसं तमःप्रकर्षोपजनितमित्यर्थः । अत्र शास्त्रचोदितानुष्ठानादाशयनिष्पन्नसत्त्वावयवो धर्म इत्युक्तम् । शास्त्रचोदितस्य नित्यस्य च कर्मणो ऽनुष्ठानाद् बुद्ध्यवस्थस्तमो ऽवयव आशयतां प्रतिपन्नो ऽधर्मः । स चापि द्विविधः- अनिष्टशरीरेन्द्रियविषयोपभोगनिर्वर्तकः, ख्यातिवारकश्च । यथा च ज्ञानं द्विविधं शब्दाद्युपलब्धिलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं चैवमज्ञानमपि विपर्ययेण वाच्यम् । यथा च चतुरवस्थं वैराग्यं तथा यतमानादिकश्चतुरवस्थो रागः यथा चाष्टगुणमैश्वर्यमणिमादि तथाष्टगुणमनैश्वर्यमेवमेतत्तामसं महतो रूपम् । यच्चैतदधर्मादिनिमित्तभूतमुत्कृष्टं तमोरूपं तद्रजसा सहाविरोधादेकतामिवापन्नमशुद्धिरित्याचार्यैः पठ्यते । सत्त्वरूपं तु प्रकाश इति । अनयोश्चाभिधानाद्यः पञ्चाधिकरणपक्षः प्राकृतवैकृतानां ज्ञानानां प्रधानवच्छुष्कनदीस्थानीयान्तःकरणे बाह्ये च प्रेरकज्ञानांशककृत उपनिपातः तथा सात्त्विकस्थित्यात्मककृतमप्रत्ययस्यावस्थानमिति तत्प्रतिक्षिप्तं भवति । किं कारणं ? यस्मादशुद्धिरेव प्रकाशमलमतिप्रवृत्तं निवर्तयितुं प्रकर्षापन्नान्याभूता च प्रवर्तयितुम् । इत्येवमष्टरूपा बुद्धिर्व्याख्याता ॥ 23 ॥
कारिका 24
यस्त्वसावनन्तरमुक्तो ऽहङ्कारस्तं व्याख्यास्यामः ।
आह, यद्येवं तस्मादिदमेव तावदुच्यतां किमस्याहङ्कारस्य लक्षणमिति ?
उच्यते-
अभिमानो ऽहङ्कारः
कर्तुः स्वात्मप्रत्यवमर्शात्मको यो ऽयमहमिति प्रत्यय उत्पद्यते स खल्वहंकारः, महतस्तत्त्वान्तरम् । कस्मात् ? तस्य सर्वविषयाध्यवसायरूपत्वात्, अस्य तु स्वात्मप्रत्यवमर्शात् । न त्वर्थान्तरम् । कस्मात् ? प्रकृतिविकारयोरनन्यत्वाभ्युपगमात् न हि नः प्रकृतेरर्थान्तरभूतो विकार इति प्राग्विस्तरेण प्रतिपादितम् । स च मूर्तिप्रत्ययाभ्यां महतः स्थूलतरः । कस्मात् ? अविभागात्, विभागनिष्पत्तेः कालादिवत् । त्रिगुणस्य च महतो विकारत्वादसावपि त्रिगुणः । कस्मात् ? प्रकृतिरूपस्य विकारे दृष्टत्वात् तन्तुपटवत् । तद्भावसन्निविष्टास्तु ये सत्त्वादयस्य आचार्यैर्वैकारिकतैजसभूतादिशब्देनाख्यायन्ते । तथा च शास्त्रमाह "एतस्माद्धि महत आत्मन इमे त्रय आत्मानः सृज्यन्ते वैकारिकतैजसभूतादयो ऽहंकारलक्षणाः । अहमित्येवैषां सामान्यलक्षणं भवति । गुणप्रवृत्तौ च पुनर्विशेषलक्षणमिति" ।
आह, का पुनर्गुणप्रवृत्तिर्यस्यामस्मिप्रत्ययैकरूपस्याहङ्कारस्य विशेषप्रतिपत्तिर्भवतीति ?
उच्यते- यो ऽयं
तस्माद्द्विविधः प्रवर्तते सर्गः ।
द्विविध इन्द्रियलक्षनस्तन्मात्रलक्षणश्च । सा गुणवृत्तिरित्युच्यते । कस्मात् ? तत्कार्यत्वात् । गुणप्रवृत्तिकार्यो हि सर्गः । दृश्यते च खलु लोके कार्यकारणमुपचर्यमाणम् । तद्यथा शालीन्भुङ्क्त इति ।
आह, प्रागुक्तमहंकारात्षोडशको गण उत्पद्यते । इदानीं पुनरुच्यते तस्माद्द्विविधः प्रवर्तते सर्गः । तदिदं पूर्वोत्तरव्याघातादयुक्तमिति ।
उच्यते- न, सामान्येन विवक्षितत्वात् ।
अभेदविवक्षायां हि कृत्वा कार्यकारणलक्षणमेवमस्माभिरुपदिष्टं द्विविधः सर्ग इति । भेदविवक्षायां पुनः
ऐन्द्रिय एकादशकस्तान्मात्रः पञ्चकश्चैव

25

इन्द्रियाणामयमैन्द्रियः एकादश परिमाणमस्य एकादशकः । एवं तन्मात्रेषु वक्तव्यम् । तन्मात्राणां शब्दस्पर्शादीनामयं तान्मात्रः सर्गः । पञ्चकश्च पञ्च परिमाणमस्येति पञ्चकः । अस्य तु षोडशकस्य विकारस्य संज्ञालक्षणप्रयोजनान्युत्तरत्र वक्ष्यति । एषा गुणप्रवृत्तिर्व्याख्याता । यस्यामस्मिप्रत्ययस्य विशेषग्रहणं भवति- शब्दे ऽहं स्पर्शे ऽहं रूपे ऽहं रसे ऽहं गन्धे ऽहमिति ।
आह, अहङ्कारे सत्त्वादीनां संज्ञान्तरावचनम्, आनर्थक्यात् । यदिदमहंकारे सत्त्वादीनां संज्ञान्तरमारभ्यते वैकारिकस्तैजसो भूतादिरिति, तन्न वक्तव्यम् । कस्मात् ? आनर्थक्यात् । न हि तत्त्वान्तरसन्निवेशिनां सत्त्वादीनां संज्ञान्तराभिधाने किंचित्प्रयोजनमस्तीति, संज्ञाभूयस्त्वात् । अथायं निर्बन्धस्तत्त्वान्तरम्, संज्ञाभूयस्त्वं प्राप्नोति । प्रयोजनाभिधानं वा । विशिष्टयत्नानामनाकस्मिकत्वात् । अथवा प्रयोजनं वक्तव्यम्- एवमर्थमहङ्कारे संज्ञान्तराभिधानमिति । कस्मात् ? न हि विशिष्टयत्नानामाकस्मिकत्वमुपपद्यत इति ।
उच्यते- न, कार्यविशेषहेतुत्वात् । महदादिलक्षणानां हि गुणानामनेकरूपस्तत्त्वारम्भ इति हि न संज्ञान्तरमारभ्यते । अहंकारस्तु सत्त्वतमोबहुलयोरिन्द्रियतन्मात्रपर्वणोः प्रकृतिः तदर्थमाचार्याणां यत्नविशेषः । धर्मादिविशेषाभ्युपामान्महति प्रसंग इति चेत् न विशेषितत्वात् । तत्त्वान्तरारम्भ इति विशेषितम्, न तु धर्मादयस्तत्त्वान्तरमतो न महति प्रसंगः । विशेषानभिधानादयुक्तमिति चेत् स्यादेतत्, कः पुनरत्र विशेषो येन धर्मादि न तत्त्वान्तरम्, तत्त्वान्तरं तु श्रोत्रादीति ? एतच्च नैवम् कुतः ? वृत्तिमात्रे तदुपचारात् । वृत्तिमात्रे हि महतो धर्माद्युपचारः । तथा च तन्त्रान्तरे ऽप्युक्तम् "प्रकाशवृत्तिर्धर्म" इति । वृत्तिनिष्पादितस्तु संस्थानविशेषो वृत्तिमतस्तत्त्वान्तरमित्यनयोर्विशेषः । तस्माद्युक्तमेतत् कार्यविशेषहेतुत्वमिति ॥ 24 ॥
कारिका 25
आह, यद्येवमिदं तर्हि वक्तव्यमुष्य कार्यविशेषस्यैवं संज्ञकादहंकारात्प्रवृत्तिरिति ।
उच्यते-
सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
सर्ग इत्यनुवर्तते । एकादशेन्द्रियाणि सत्त्वबहुलानि वैकृतादहंकारात्प्रवर्तन्ते निष्पद्यन्त इत्यर्थः । एकादशाभिधानादेव चेन्द्रियप्रतीतिः, पूर्वसूत्रे तत्सामानाधिकरण्यात् । अतो न पुनरिन्द्रियग्रहणम् ।
आह, तन्मात्रसर्गः पुनः किंगुणः, कस्माच्चाहङ्कारात्प्रवर्तते इति ?
उच्यते-
भूतादेस्तान्मात्रः स तामसः
भूतादेर्भूतादिसंज्ञकात्तमःप्रधानात्तान्मात्रः सर्गः । तान्मात्रस्तु तमोबहुलो भूतादिसंज्ञकादहङ्कारात्प्रवर्तते । तत्र पुनस्तन्मात्रग्रहणात्संख्या शस्यत इति नोच्यते ।
आह, प्रकृतिविशेषनिर्देशानर्थक्यम् । प्रागुक्तं सत्त्वादीनामहङ्कारावस्थितानां वैकारिकाद्याः संज्ञा उच्यन्ते । तद्यदि सत्त्वं वैकारिकशब्देनोच्यते वैकारिकाणि चैन्द्रिय एकादशकः सर्गः प्रवर्तत इत्युक्ते गम्यत एतत् सात्त्विको ऽसौ, भूतादेस्तान्मात्र इत्युक्ते गम्यत एतत् तामस इति । कस्मात् ? न ह्यस्ति सम्भवो यत्सत्त्वात्तमोबहुलः सर्गः स्यात्तमसश्च सत्त्वबहुल इति ।
उच्यते- न, अप्रसिद्धत्वज्ञापनात् । यस्यैवार्थस्य ज्ञापनार्थमेवमिह क्रियते, कथं गम्यते सत्त्वं वैकारिकशब्देनोच्यते, तमो भूतादिशब्देन, रजस्तैजसशब्देन ? अप्रसिद्धार्था हि तान्त्रिकी परिभाषेयमनिर्णीता न गम्यत इति ।
आह, तैजससंज्ञानर्थक्यमिति ।
उच्यते न,
तैजसादुभयम्

26

उभयत्र तत्सामर्थ्यात् । स्यादेतदेवं यद्यस्य कार्यसामर्थ्यमेव न स्यात् । अस्मात्तु तैजसादुभयमप्येतत्तन्मात्रेन्द्रियसंज्ञकं प्रवर्तत इत्यनुवर्तते । कथम् ? यदा हि वैकारिको ऽहङ्कार इन्द्रियभावेन प्रवर्तते तदा निष्क्रियत्वात्तैजसं प्रवर्तकत्वेनाकांक्षति, भूतादि भेदकत्वेन । कस्मात् ? तेनैव तद्भेदात् । तद्यथाग्निनाग्नौ प्रक्षिप्तो ऽग्निरेव भवति, आपो वाप्सु प्रक्षिप्ता आप एव भवन्ति, एवं सत्त्वमेव सत्त्वे तु भेदं जनयति गुणान्तरसंसर्गमपेक्षते । भूतादिलक्षणस्य तु तमसः संसर्गाद् भिद्यमानं तैजसेन च रजसा क्रियात्मकेनानुगृहीतमेकादशेन्द्रियभावमपेक्षते । तथा भूतादिलक्षणं तमो ऽहङ्कारात्तन्मात्रभावेन प्रवर्तमानं प्रवृत्त्यर्थं तैजसमाकांक्षति, वैकारिकं भेदत्वेन । कस्मात् ? तेनैव तस्य भेदादिति योज्यम् । शास्रं चैवमाह- "तदेतस्मिन्वैकारिके स्त्रक्ष्यमाण एष भूतादिस्तैजसेनोपष्टब्ध एवं वैकारिकमभिधावति । तथैव तस्मिन्भूतादौ स्रक्ष्यमाणे एष भूतादिस्तैजसेनोष्टब्ध एतं भूतादिमभिभवति ।" इत्यनेन न्यायेन तैजसादुभयनिष्पत्तिरिति व्याख्यातो ऽहङ्कारः ॥ 25 ॥
कारिका 26
आह, प्रागपदिष्ट ऐन्द्रिय एकादशकः प्रवर्तते वैकृतादहंकारादिति, तत्सामान्याभिधानान्न प्रतिपद्यामहे । तस्माद्वक्तव्यं कानीन्द्रियाणि भवतो ऽभिप्रेतानि ?
उच्यते- द्विविधानीन्द्रियाणि, बुद्धीन्द्रियाणि, कर्मेन्द्रियाणि च । तत्र
बुद्धीन्द्रियाणि कर्णत्वक्चक्षूरसननासिकाख्यानि ।
कर्णौ त्वक्चक्षुषी च रसनं च नासिका च कर्णत्वक्चक्षूरसननासिकाः । आख्यानमाख्या प्रत्यायनमित्यर्थः । एतैः शब्दैराख्या येषां तानीमानि कर्णत्वक्चक्षूरसननासिकाख्यानि । अधिष्ठानभेदाद्द्विवचनेन विग्रहः क्रियते । एतानि बुद्धीन्द्रियाणि प्रत्यवगन्तव्यानि । बुद्धेरिन्द्रियाणि बुद्धीन्द्रियाणि ।
किं पुनरेतानि बुद्धेरिति ?
उच्यते- शब्दादिविषयप्रतिपत्तौ द्वारम् । कस्मात् ? अबहिर्वृत्तित्वात् । अन्तःकरणस्य नास्ति बहिर्वृत्तिरित्यतो नालमेतत्साक्षाच्छब्दादीनर्थान्प्रतिपत्तुम् । तस्माच्छ्रोत्रादिलक्षणं साक्षाद् बाह्यविषयप्रकाशनसमर्थं कारणान्तरमपेक्षते । तत्प्रणालिकया तस्य विषयग्रहणम् । तस्माद्युक्तमुक्तं बुद्धेर्बाह्यविषयप्रतिपत्तौ द्वारभूतत्वाद्बुद्धीन्द्रियाणीति ।
आह, कर्मेन्द्रियाणि पुनः कानीति ?
वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः

27

वाक्च पाणी च पादौ पायुश्चोपस्थश्च वाक्पाणिपादपायूपस्थाः । एतानि कर्मेन्द्रियाण्याहुराचक्षते । कर्मार्थानीन्द्रियाणि कर्मेन्द्रियाणि । किं पुनः कर्म ? वचनादि वक्ष्यमाणम् । एतद्विकुर्वत् इति कर्मेन्द्रियाणि ।
आह, कथमेतदुपलभ्यते अधिष्ठानादर्थान्तरभूतानीन्द्रियाणि, न पुनरधिष्ठानमात्रमिति ?
उच्यते- अधिष्ठानादिन्द्रियपृथक्त्वम्, शक्तिविशेषोपलम्भात् । यथा शरीरासम्भविनो विषयव्यवसायलक्षणस्य शक्तिविशेषस्योपलम्भादर्थान्तरं बुद्धिरनुमीयते, एवमधिष्ठानासम्भविनो विषयग्रहणलक्षणस्य शक्तिविशेषस्योपलम्भादर्थान्तरमिन्द्रियमिति ।
आह, न, असम्भवासिद्धेः । अधिष्ठानमात्रस्य विषयग्रहणं न सम्भवति, अर्थान्तरस्य च सम्भवति इत्येतदुभयमपि चाप्रसिद्धमिति ।
उच्यते- नैतदप्रसिद्धम् । तुल्यजातीयेषु तदनुपपत्तेः । यस्माद् भौतिकेष्वन्येषु घटादिषु विषयग्रहणसामर्थ्यासम्भवः आहंकारविकारवत्तत्सामर्थ्याप्रतिषेधान्नेन्द्रियाणां नस्तत्प्रतिषेधो ऽनुमातव्य इति । एतच्चायुक्तम् । कस्मात् ? शक्तिभेदापत्तेः । वैकारिकं सत्त्वमाहङ्कारिकं प्रकाशरूपं, तच्छक्तिविशेषादिन्द्रियाणि उत्पद्यन्ते । भूतादिलक्षणस्य तमसः सामर्थ्यात् तन्मात्राणि परस्य, पृथिव्यादीनामेकरूपत्वात् । तस्मादयमसमः समाधिरिति । एतेन भौतिकत्वं प्रत्युक्तम् ।
आह, कथमवगम्यते बहूनीन्द्रियाणि, न पुनरेकमेवेन्द्रियं मनोवत्सर्वार्थमनेकाधिष्ठानं स्यादिति ?
उच्यते- न, युगपत्प्रवृत्त्यप्रवृत्तिप्रसंगात् । यद्येकमेवेन्द्रियं मनोवत्सर्वार्थमनेकाधिष्ठानं स्यादेकविषयप्रतिपत्तौ वा सर्वविषयप्रतिपत्तिः । दृष्टस्तु ग्रहणभेदस्तस्मान्नैकमिन्द्रियमिति । भौतिकैरनुग्रहोपघातदर्शनादिन्द्रियाणां भौतिकत्वमिति चेत् स्यान्मतम्, इह भौतिकानां घटादीनां भौतिकैर्मृद्दण्डचक्रसूत्रोदकमुद्गरादिभिरनुग्रहोपघातो दृष्टः । यदि च भौतिकानीन्द्रियाणि न स्युः नैषां भौतिकैरञ्जनादिभिरनुग्रहः क्रियते, उपघातश्च रजःप्रभृतिभिरिति । एतच्चायुक्तम् । कस्मात् ? अनेकान्तात् । तद्यथा भौतिकैर्वदनादिभिरन्तःकरणस्य ग्रहणधारणस्मृतिलक्षणो ऽनुग्रहः क्रियते, उपघातश्चोपलादिभिः । न चास्य भौतिकत्वम् । एवमिन्द्रियस्यापि स्यात् । वैशेषिकगुणव्यञ्जकत्वाद्विकारप्रतीतिरिति चेत् अथ मतम्- पृथिव्यादिवैशेषिको गन्धो घ्राणेनाभिव्यज्यते । औदको रसे रसनेन च । आग्नेयं रूपं वीक्षणेन । वायवीयः स्पर्शस्त्वचा ।आकाशीयः शब्दः श्रोत्रेण । येन च यस्य वैशेषिकगुणाभिव्यक्तिस्तस्य तद्विकारत्वं दृष्टम् । तद्यथा प्रदीपस्य रूपाभिव्यञ्जकत्वे सति तैजसत्वमिति । एतच्चानुपपन्नम् । कस्मात् ? अनिष्टप्रसंगात् । वैशेषिकगुणव्यञ्जकानां तद्विकारमिच्छतः प्राप्तमपां गन्धाभिव्यक्तिहेतुत्वात् पार्थिवत्त्वम् । अथैतदनिष्टं, न तर्ह्यैकान्तिको हेतुरिति । तत्र यदुक्तं वैशेषिकगुणाभिव्यञ्जकत्वाद् भौतिकानीन्द्रियाणीति एतदयुक्तम् ॥ 26 ॥
कारिका 27
आह, एकादशेन्द्रियाणि अहङ्कारादुत्पद्यन्त इति प्रागपदिष्टम् । इदानीं बुद्धीन्द्रियकर्मेन्द्रियाणि दशापदिश्यन्ते । तदिदं पदार्थन्यूनमिति ।
उच्यते- स्यादेतदेवम्, यद्येतावदिन्द्रियपर्व स्यात् । किं तर्हीति-
सङ्कल्पकमत्र मनः
अत्रेन्द्रियपर्वणि मनो भवद्भिः प्रत्यवगन्तव्यम् । तत्र संकल्पकमिति लक्षणमाचक्ष्महे । संकल्पो ऽभिलाष इच्छातृष्णेत्याद्यनर्थान्तरम् । संकल्पयतीति संकल्पकम् । एतन्मनसो लक्षणम् ।
तस्मादस्य प्रत्यक्षतो ऽनुपलभ्यमानस्यास्तित्वमवसीयते । कस्मात् ? व्यस्तसमस्तानामिन्द्रियान्तराणां तदसम्भवात् । अपोह्य हि मनः संकल्पं व्यस्तानामिन्द्रियान्तराणां भवान्परिकल्पयेत् समस्तानां वा ? किं चातः ? तन्न तावद्व्यस्थानामिन्द्रियाणां संकल्पो भवति । किं कारणम् ? अनियतविषयत्वात् । नियतो हि श्रोत्रादीनां शब्दादिर्विषयः । अनियतविषयश्च संकल्पः । किंच त्रिकालविषयत्वात् । वर्तमानविषया श्रोत्रादिवृत्तिः त्रिकालविषयश्च संकल्पः । तस्मान्न व्यस्तानां नापि समस्तानाम् । बधिरादिषु तदभावप्रसंगात् । यदि समस्तेन्द्रियवृत्तिः संकल्पः स्यात्प्राणादिवदिति चेत् स्यान्मतम्, यथा समस्तेन्द्रियवृत्तिः प्राणादिः, न चान्यतरवैकल्ये तदभावः, एवं समस्तेन्द्रियवृत्तिः संकल्पः स्यान्न चान्यतरवैकल्ये तदभावः स्यादिति । एतच्चानुपपन्नम् । विशेषितत्वात् । निर्विषया प्राणादिवृत्तिः । शब्दादिविषयस्तु संकल्प इति विशेषितम् । तस्माद्व्यस्तसमस्तानामिन्द्रियाणां संकल्पानुपपत्तेर्मनसो लिङ्गमेतदस्तित्वे इति सिद्धम् ।
आह, तदवधारणीयम्, इन्द्रियद्वैविध्यात् । द्विप्रकाराणि हीन्द्रियाणि पुरस्तादुपदिष्टानि । तत्र मनो ऽप्यवधारणीयं किं बुद्धीन्द्रियमथ कर्मेन्द्रियमिति ?
उच्यते-
तच्चेन्द्रियमुभयथा समाख्यातम् ।
ह्यर्थे चः पठितः । तद्धीन्द्रियमुभयथेत्यर्थः । मनो न केवलं बुद्धीन्द्रियमपि तु कर्मेन्द्रियमपि ।
नियमहेत्वभावादयुक्तमिति चेत् स्यात्पुनरेतत्, को ऽत्र नियमहेतुः यदिन्द्रियत्वाविशेषे मनस एवोभयप्रचारत्वमभ्युपगम्यते, नान्येषामिति ?
उच्यते-
अन्तस्त्रिकालविषयं तस्मादुभयप्रचारं तत्

28

त्रिकालविषयत्वात् । इह यस्यान्तस्त्रिषु च कालेषु करणस्य वृत्तिस्तदुभयप्रचारम्, तद्यथा बुद्धिः । साक्षात् विषयानभिसन्धानादतीतानागतवर्तमानविषयत्वाच्च मनो ऽन्तस्त्रिकालविषयम् । तस्मादुभयप्रचारं तदिति सिद्धम् ॥ 27 ॥
॥ युक्तिदीपिकायां सांख्यसप्ततिपद्धतौ षष्ठमाह्निकम् ॥
कारिका 28
समधिगतं करणपर्व । तस्येदानीं व्यस्तसमस्तवृत्तयो वक्तव्याः । सति चोभयाभिधाने व्यस्तवृत्तिरेव तावदुच्यते, न समस्तवृत्तिः । किं कारणम् ? प्रकरणशेषभूतत्वात् । श्रोत्रादीनां हि सद्भावप्रकरणमिदमनुक्रान्तम् । स चैषां सद्भावः शक्तिविशेषोपालम्भादित्युक्तम् । इदानीमसौ शक्तिविशेषो ऽस्माकं व्यस्तवृत्तिरित्युच्यते । तस्मात्तदनुक्रमणं करिष्यामः ।
आह, यद्येवं तस्मादुच्यतां तस्य करणस्य कस्मिन्नर्थे वृत्तिः, किं लक्षणं वेति ?
उच्यते- यदुक्तं तस्य कस्मिन्नर्थे वृत्तिरित्यत्र ब्रूमः
रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
रूपादिषु शब्दस्पर्शरूपरसगन्धेषु स्वभेदभिन्नेषु पञ्चानां श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां श्रवणस्पर्शनदर्शनरसनघ्राणलक्षणो व्यापारो वृत्तिरित्युच्यते । तत्र करणनिर्देशे श्रोत्रेन्द्रियस्य प्राक्पाठात्तद्विषयनिर्देशातिलंघने प्रयोजनं नास्तीति कृत्वा शब्दादिषु पञ्चानामित्येव पठितव्यम् । प्राक्तनस्तु प्रमादपाठः ।
यत्पुनरेतदुक्तं किंलक्षणेति अत्र ब्रूमः- आलोचनमात्रमिष्यते । आलोचनं ग्रहणमित्यनर्थान्तरम् । मात्रशब्दो विशेषनिवृत्त्यर्थः । तद्यथा भैक्षमात्रमस्मिन्ग्रामे लभ्यत इत्युक्ते नान्यो विशेष इति ज्ञायते । छन्द्रोमात्रमधीते माणवक इत्युक्ते नान्यदधीत इति । एवमालोचनमात्रमिन्द्रियाणामिष्यते वृत्तिरित्युक्ते नान्यो विशेष इति गम्यते । तेन किं सिद्धं भवति ? यदुक्तमन्यैराचार्यैः सामान्यज्ञानमिन्द्रियाणां विशेषज्ञानं बुद्धेरिति तत्प्रतिषिद्धं भवति ।
आह, कः पुनरस्मिन्दर्शने दोषो यत एतत्प्रतिषिद्यत इति ?
उच्यते- सामान्यविशेषयोरितरेतरापेक्षत्वे सत्येकस्मिन्नविरोधादन्यतरपरिकल्पनानर्थक्यम् । यदि खल्विन्द्रियस्य सामान्यज्ञानं न स्यात्तेन विशेषापेक्षं सामान्यं सामान्यापेक्षश्च विशेष इति यत्र सामान्यज्ञानं तत्र विशेषज्ञानमपि न प्रतिषिध्यत इत्युभयमपीन्द्रियस्य स्यात् । ततश्चान्तःकरणपरिकल्पनानर्थक्यम् । विशेषवतो वान्तःकरणस्य कः सामान्येन विरोध इत्युभयस्यापि तत्र सम्भवादिन्द्रियानर्थक्यम् । तस्मादप्रत्ययमिन्द्रियमिति । इन्द्रियस्य चेत्प्रत्ययः स्याद्यथा प्रत्ययवतो ऽन्तःकरणस्यानियतविषयत्वम्, एवमस्यापि स्यात् न तु तदस्ति । तस्मादप्रत्ययमिन्द्रियमिति । किंच कालातिवृत्तिप्रसंगात् । इन्द्रियस्य चेत्प्रत्ययः स्याद्यथा प्रत्ययवतो ऽन्तःकरणस्य त्रिकालविषयत्वमेवमस्यापि स्यात् । न तु तदस्ति । तस्मादप्रत्ययमिन्द्रियमिति । किं चान्यत् स्मृत्यदर्शनात् । इन्द्रियस्य चेत्प्रत्ययः स्याद्यथा प्रत्ययवतो ऽन्तःकरणस्यादिरूपोपपत्तिरेवमत्रापि स्यात् । न तु तदस्ति । तस्मादप्रत्ययमिन्द्रियं सिद्धमिति ।
उच्यते- न कारणान्तरप्रसंगात् । यदि प्रदीपवदिन्द्रियं प्रकाशकं स्यात्तेन यथा तत्प्रकाशितेषु घटादिष्वर्थेषु करणान्तरमार्गणमेवमत्रापि स्यात् । न चैतदिष्टम् । अतो न प्रदीपवदिन्द्रियं प्रकाशकमिति । अन्तःकरणसद्भावादयुक्तमिति चेत् स्यान्मतम्- अस्ति कारणान्तरं बुद्धिलक्षणं यदिन्द्रियेण प्रदीपवत्प्रकाशितमर्थं गृह्णाति । तस्मात्परवादानुवादो ऽयं क्रियते, न प्रतिषेध इति । तच्च नैवम् । कस्मात् ? प्रदीपेन्द्रिययोरन्यतरानुपादानप्रसंगात् । इन्द्रियमपि प्रकाशकम्, प्रदीपो ऽपि । तत्रान्यतरस्यानुपादानं प्रसक्तम् । कस्मात् ? न ह्येकार्थकारिणो युगपत्करणे सामर्थ्यमस्तीति । किं चान्यत् । अन्तःकरणहानेः । इन्द्रियेण प्रदीपवत्प्रकाशितान्बाह्यानर्थान्साक्षादन्तःकरणं गृह्णातीति वदतो ऽन्तःकरणमेव हीयते । तस्मादयुक्तमन्तःकरणस्य सामर्थ्यम् । पुरुषस्येति चेन्न करणानर्थक्यप्रसंगात् । साक्षाद्विषयग्रहणसमर्थं पुरुषमिच्छतः करणानर्थक्यं प्रसज्यते । तस्माद्युक्तमेतत् ग्राहकमिन्द्रियं न तु प्रदीपवत्प्रकाशकमिति ।
आह, भवतु तावद् ग्रहणमात्रमिन्द्रियवृत्तिरप्रत्यया । ग्रहणप्रत्ययप्रकाशाभेदः ?
उच्यते- विषयसम्पर्कात्ताद्रूप्यापत्तिरिन्द्रियवृत्तिग्रहणं, तथा विषयेन्द्रियवृत्त्यनुकारेण निश्चयो गौरयं शुक्लो धावतीत्येवमादिः प्रत्ययः । तथा विषयसम्पर्कागमे श्रोत्रादिवृत्तेः ताद्रूप्यागमो वर्तमानकालता, ग्रहणस्यानुभवात्तु संस्काराधानं तत्पूर्विका च स्मृतिरिति त्रिकालविषया प्रत्ययस्येत्ययमनयोर्विशेषः । बाह्यस्तु प्रकाशो न विषयरूपापन्नः । संस्कारात्तु घटादीनां व्यवधानरूपं पार्थिवं छायालक्षणं व्यञ्जकत्वाय कल्पते, चक्षुषो ऽनुग्रहाय । उभयोर्वा चक्षुर्विषययोरित्यपरे । तस्मादुपपन्नमेतत् प्रकाशकं प्रदीपादि, ग्राहकं श्रोत्रादि, व्यवसायकमन्तःकरणमिति ।
अथ कर्मेन्द्रियाणां का वृत्तिरित्युच्यते- नैयायिकास्त्वेवमाहुः- घ्राणरसनचक्षुस्त्वक्च्छ्रोत्राणीन्द्रियाणि भूतेभ्यः । भूतेभ्य इत्यनेन स्वविषयोपलब्धिलक्षणं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति (?) नान्यथा । तानि पुनरिन्द्रियकारणानि पृथिव्यप्तेजोवायुराकाशमिति भूतानि । एभ्यः पञ्चभ्यो यथासंख्यं घ्राणरसनचक्षुस्त्वक्च्छ्रोत्राणि पञ्चेन्द्रियाणि भवन्ति । भूतप्रकृतित्वमिति भूतस्वभावं व्याख्यायमानं पञ्चस्वपि सम्भवति । भूतकारणत्वं त्वन्येषु चतुर्षु तथैव । श्रोत्रे तु कथंचित्कर्णशष्कुल्यवच्छिन्ननभोभागाभिप्रायेण व्यवहारतः समर्थनीयम् । एवं भौतिकानीन्द्रियाणि स्वस्वविषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां सिध्यतीति, अतो भूतेभ्य इत्युक्तम् । एतत्तु सांख्याचार्याणां नेष्टम् । एवं हि सांख्यवृद्धा आहुः- आहङ्कारिकाणीन्द्रियाणि अर्थं साधयितुमर्हन्ति नान्यथा । तथा हि कारकं कारकत्वादेव प्राप्यकारि भवति । भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दुरवर्तिनि विषये भवेयुः ? आहंकारिकाणां तु तेषां व्यापकत्वात् । विषयाकारपरिणामात्मिका वृत्तिर्वृत्तिमतो ऽनन्या सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम् अपि च महदणुगुणग्रहणमाहङ्कारित्वे तेषां कल्पते, न भौतिकत्वे । भौतिकत्वे हि यत्परिमाणं करणं तत्परिमाणं ग्राह्यं गृह्णीयात् ।
आह, अथ कर्मेन्द्रियाणां का वृत्तिरिति ?
उच्यते-
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्

29

वाक्पाणिपादपायूपस्थानां तु वचनादानविहरणोत्सर्गानन्दलक्षणा यथाक्रमं वृत्तयः प्रत्यवगन्तव्याः । तत्रोच्यते ऽनेनेति वचनम् । तस्माद्य एवार्थप्रत्यायनसमर्थो वर्णसमुदायः पदवाक्यश्लोकग्रन्थलक्षणः स वागिन्द्रियस्यार्थो नान्यः । आदीयते ऽनेनेत्यादानम् । आङभिविध्यर्थे प्रयुज्यते । ततश्च यदेव प्रक्षालनपरिमार्जनोपस्पर्शनाध्ययनप्रहरणशिल्पव्यायामादि कृत्स्नं ग्रहणं स इन्द्रियार्था नान्यः । विशिष्टं हरणं विहरणम् । अतश्च यदेव समविषमनिम्नोन्नतचङ्क्रमणपरिवर्तननाट्यव्यायामादिः स इन्द्रियार्थो नान्यः । एवमुत्कृष्टः सर्ग उत्सर्गः । नान्यः । अतश्च य एवाशितपीतविपरिणामस्य सम्यक्स्त्रोतोमार्गानुसारिणो विसर्गः स इन्द्रियार्थो नान्यः । एवमभिव्याप्यानन्दमानन्दः । ततश्च य एवासाधारणप्रीतिनयनाभिनिष्पत्तिलक्षणः स इन्द्रियार्थो नान्यः ॥ 28 ॥
कारिका 29
आह, प्रागन्तःकरणवृत्तिनिर्देशः, सर्गक्रमानुगमात्पूर्वं बुद्ध्यहंकारमनसां वृत्तिनिर्देशः कर्तव्यः । किं कारणम् ? एवं हि सर्गक्रमो ऽनुगतो भवति । क्रमभेदे वा प्रयोजनं वक्तव्यमिति ।
उच्यते- न, इन्द्रियवृत्तिपूर्वकत्वात् । अन्तःकरणस्य हि इन्द्रियवृत्तिप्रवर्तकः प्रत्ययः । तथा च वक्ष्यति- दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिरिति ( इस्क् 30 ) । तस्मात्सर्गक्रमेण विना तन्निर्देशः प्रागाचार्येण क्रियते इति ।
आह, तदसम्भवः, शास्त्रे प्रागभिमानाभिधानात् । शास्त्रं ह्येवमाह- का नु भोः संज्ञा मातुरुदरे ऽवस्थितं कुमारं प्रत्यभिनिर्विशत इति ? अस्मीत्येषा माहात्मी संविदिति । तथा कार्यकारणव्यूहसमकालं माहात्म्यशरीरो ऽस्मीति प्रतिबुद्ध्यते । प्रवृत्ताश्चैव ह्यव्यक्ता भवन्त्यस्मीत्यस्मितामात्राः । प्रमाणं च शास्त्रम् । तस्मात्प्रागन्तःकरणनिर्देशः कर्तव्यः ।
उच्यते- तन्निमित्तार्थेन विवक्षितत्वात् । सत्यमेतत् कार्यकारणव्यूहनिष्पत्तिसमकालमस्मीत्येषा माहात्मी संवित् प्रत्युपधीयते । शब्दादिविषयस्त्वन्तःकरणप्रत्ययः श्रोत्रादिनिमित्त इति । एतत्पूर्वशब्देन विवक्षितम् । न च निमित्तमतिक्रम्य नैमित्तिकाभिधानं न्याय्यम् ।
अथवा नैव वयमिदं प्रष्टव्या यथा प्रागन्तःकरणवृत्तिनिर्देशः कर्तव्य इति । किं कारणम् ? यस्मात्
स्वालक्षण्यं वृत्तिस्त्रयस्य
स्वलक्षणमेव स्वालक्षण्यम् । स्वार्थे तद्धितवृत्तिः, अन्यभावस्तु कालशब्दव्यवायादिति । यथा बुद्ध्यहंकारमनसां हि सौक्ष्म्यान्न शक्यं स्वरूपमभिधातुमित्यतो वृत्तिरेव लक्षणभावेनोपदिश्यते । श्रोत्रादीनामपि च सौक्ष्म्याल्लक्षणमपदेष्टुमशक्यमिति वृत्तिरेवोच्यते, न लक्षणम् । तदेव चैषा लक्षणं भवति । यच्छब्दालोचनसमर्थं तच्छ्रोत्रम् । एवमितरेष्वपि वक्तव्यम् । बुद्ध्यहंकारमनसां च लक्षणमध्यवसायाद्युक्तम् । तदेव वृत्तित्वेनाचक्षाणः श्रोत्रादीनामेव चाभिदधानं लक्षणं चाप्याचक्षाणो वृत्तिवृत्तिमतोरनन्यत्वं ज्ञापयति । अन्यथा तु यथाध्यवसायादि लक्षणमेवं रूपादिषु पञ्चानामलोचनमात्रं लक्षणमित्युच्यते, न तु वृत्तिरिति । श्रोत्रादिवद् बुद्ध्यादीनामपि व्यवसायादयो वृत्तिरित्युच्यते, न तु लक्षणम् । तस्मादन्यथा निर्देशो ज्ञापकं वृत्तिवृत्तिमतोरन्यत्वस्येति व्याख्याता करणवृत्तिः ।
सैषा भवत्यसामान्या ।
सेति पूर्वकृतां वृत्तिमभिसम्बध्नाति । एषेति सर्वनाम्ना प्रत्याकृष्टां तामेव प्रत्यक्षं प्रति निर्दिशति । भवतीति वक्ष्यमाणेन धर्मान्तरेणास्यास्तद्वत्तानुभावितं ख्यापयति । असामान्येति धर्ममाचष्टे । सामान्या साधारणेत्यर्थः । न सामान्यासामान्या । प्रतिकरणं नियतेत्युक्तं भवति । या हीयमनुक्रान्ता करणपर्वणो ऽध्यवसयादिका वृत्तिरियं व्यस्तानां करणानां प्रतिस्वं नियता । ततश्चैषां बुद्ध्यादीनां कार्यविशेषनिमित्तभावसंसूचितस्य स्वरूपस्यासंकरः सिद्धः ।
आह, सामान्यविशेषयोरितरेतरापेक्षत्वादसामान्याभिधानेन सामान्यस्याप्यभिधानादध्यवसायादिका करणानामसामान्या वृत्तिरित्युक्ते ऽर्थादापन्नमेषां सामान्यापि वृत्तिरस्तीति । तस्मादसावपि वक्तव्येति ।
उच्यते-
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च

30

सामान्या चासौ करणवृत्तिः सामान्यकरणवृत्तिः । प्राणश्चाद्यो येषां ते प्राणाद्याः, प्राणापानसमानोदानव्यानाः पञ्च समस्तकरणवृत्तिः प्रत्यवगन्तव्येति । तैः सर्वैः सहितः प्राण इति वेदान्तेष्वपि ।
आह, अयुक्तमेतत् । कस्मात् ? धर्मिणो धर्म्यन्तरवृत्तिभावानुपपत्तेः । वृत्तिरित्ययं शब्दो व्यापारमाचष्टे । न च धर्मान्तरं धर्मान्तरस्य व्यापारो भवितुमर्हतीति ।
उच्यते- न कार्ये कारणोपचारात् । सत्यमेतत् । धर्मी धर्म्यन्तरस्य वृत्तित्वेनाशक्यः परिकल्पयितुम् । किं तु सामान्यकरणवृत्त्या प्रेर्यमाणो वायुस्तत्प्रवणत्वात्तत्कार्यतां प्रतिपद्यते । तत्र प्राणादिकार्ये वायौ प्राणोपचारं कृत्वा एवमुच्यते- प्राणाद्या वायवः पञ्च ।
तत्प्रेरणासिद्धेरयुक्तमिति चेत् स्यादेतत्, कथमेतदवगम्यते ऽर्थान्तरप्रेरितस्य वायोरियं क्रिया भवति न पुनः स्वतन्त्रस्येति ?
उच्यते- न स्वतः, तद्व्यतिरिक्तत्वानुपपत्तेः । इहेयमकस्माद्भिन्ना क्रियावायोः स्वतो वा स्यात्, करणवृत्तिव्यतिरिक्तत्वाद्वा । किं चातः ? तत्र तावत्स्वत उपपद्यते । कस्मात् ? सर्वत्र प्रसंगात् स्वाभाविके हि वायोर्दिक्संचारे ऽभ्युपगम्यमाने सर्वत्र तत्संभवः स्यात् । ततश्च तिर्यक्पातादिवृत्तिर्हन्येत, न चान्यतः । कस्मात् ? अदर्शनात् । न हि पृथिव्यादीनां वायुप्रेरणसामर्थ्यं क्वचिदुपलब्धम् । भस्त्रादिषु दृष्टमिति चेन्न, अन्यनिमित्तत्वात् । अत्रापि चैत्रव्यापार उपलभ्यते इत्यवश्यमन्यन्निमित्तमुपलभ्यते इत्यभ्युपगन्तव्यम् । आत्मेति चेन्न, क्रियाप्रतिषेधात् । उपपादितमेतत्पूर्वमात्मा निष्क्रिय इति । न च निष्क्रियस्य प्रेरणमुपपद्यते । न च निर्निमित्ता स्वभावभेदानामनाकस्मिकत्वात् । तस्माद्यत्तन्निमित्तं सा समस्तकरणवृत्तिः ।
स चायं वायुरेक एव स्थानसंचारविशेषान्नानाख्यो भवति । यथैको देवदत्तः पाचको लावक इति क्वचित् । तदयुक्तम् । कस्मात् ? युगपत्परस्परातिशयविरोधात् । पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो वायुर्बलीयानिति ह्यभ्युपगमः । तदेतदेकस्यैकस्मिन्काले नोपपद्यते । तस्मादुपपन्नं प्राणाद्या वायवः पञ्च ।
किं पुनरेषां प्राणादीनां लक्षणमिति ?
उच्यते- द्विविधाः प्राणादयः । अन्तर्वृत्तयो बहिर्वृत्तयश्च । तत्र मुखनासिकाभ्यां प्रगमनात्प्रणतेश्च प्राणः । यो ऽयं मुखनासिकाभ्यां सञ्चरति सो ऽन्तर्वृत्तिर्वायुः प्राण इत्यभिधीयते । या काचित्प्रणतिर्नाम भूतेषु तद्यथा प्रणतेयं सेना, प्रणतो ऽयं वृक्षः, प्रणतो ऽयं धर्मे, प्रणतो ऽयमर्थे, प्रणतो ऽयं कामे, प्रणतो ऽयं विद्यायाम् । तद्विपरीतेषु वा बाह्यप्राणवृत्तिरेषा । प्राणिविषय एवैषा भवति । स खल्वयमत्राभिव्यक्तो भवति । तद्यथा महता वा दुःखेनाभिप्लुतस्य महता वा बन्धुना वियुक्तस्य, सहितस्य वा सौरभेयस्य, निपानावतीर्णस्य वा महिषस्यावगतेः ।
अपक्रमणाच्चापानः । यो ऽयं रसं धातून् शुक्रं मूत्रं पुरीषं वातार्तवगर्भांश्चाकर्षन्नधोगच्छन्नयमन्तर्वृत्तिर्वायुरपान इत्यभिधीयते । यच्चापि किंचिदपक्रमणं नाम भूतेषु तद्यथा अपक्रान्तो ऽयं धर्मादिभ्यस्तद्विपरीतेभ्यो वा इति बाह्या खल्वपानवृत्तिरेषा । अपानविषय एवैष भवति । बलवत्तरश्चायं प्राणोद्वायोः कस्मात् ? एषा ह्येतं प्राणमूर्ध्वं वर्तमानमर्वागेव सन्नियच्छति अर्वागेव सन्निरुणद्धि । एषो ऽत्राभिव्यक्तो भवति । तद्यथा उपकूपमुपश्वभ्रं वा परिवर्तमानस्या__शतपदीं लङ्घयतः ।
हृद्यवस्थानात्सह भावाच्च समानः । यस्त्वयं प्राणापानयोर्मध्ये हृद्यवतिष्ठते स समानो वायुरन्तर्वृत्तिः यश्चापि कश्चित्सह भावो नाम भूतेषु द्वन्द्वारामता । तद्यथा सह दास्ये, सह यक्ष्ये, सह तपश्चरिष्यामि सह भार्यापुत्रैर्बन्धुभिः सुहृद्भिश्च वर्तिष्य बाह्या समानवृत्तिरेषा । समानविषय एवैष भवति इति । बलवत्तरः खल्वयं प्राणापानाभ्याम् । एष ह्येतौ प्राणापानौ ऊर्ध्वमर्वाक्च वर्तमानौ मध्य एव सन्नियच्छति, मध्य एव सन्निरुणद्धि, स चैषौ ऽत्राभिव्यक्तो भवति । तद्यथा स्रुतसारस्य वा सारमेयस्य, अनडुहो वोढभारस्य, धर्माभितप्ताया वा एडकाया अर्धार्धकायं शकशकेति । प्राणान्ते सर्वप्राणिनां प्राणापानावुत्सृज्योर्ध्वमधश्च मुक्तयोक्त्रौ हयाविव विषमं संचारयन् शरीरं स परास्यति ।
मूर्धारोहणदात्मोत्कर्षणाच्चोदानः । यस्त्वयं प्राणापानसमानानां स्थानान्यतिक्रम्य रसं धातूंश्चादाय मूर्धानमारोहति ततश्च प्रतिहतो निवृत्तः स्थानकरणानुप्रदानविशेषाद्वर्णपदवाक्यश्लोकग्रन्थलक्षणस्य शब्दस्याभिव्यक्तिनिमित्तं भवति अयमन्तर्वृत्तिर्वायुरुदान इत्युच्यते । यश्चापि कश्चिदात्मोत्कर्षो नाम भूतेषु तद्यथा हीनादस्मि श्रेयान्, सदृशेन वा सदृशः, सदृशादस्मि श्रेयान्, श्रेयसा वा सदृशः, श्रेयसो वा श्रेयान् । एतस्मिंस्तथा रूपाभिमानो वा प्राप्तविद्यस्तु । तद्यथा बह्वन्तरविशेषादल्पान्तरविशेषो ऽस्म्यगुणवतो वा गुणवानस्मीति बाह्योदानवृत्तिरेषा । उदानविषय एवैष भवति । बलवत्तरः खल्वयं पूर्वभ्यः । कथम् ? एष ह्येतान्प्राणादीनूर्ध्वमवाङ्मध्ये च वर्तमानानूर्ध्वमेवोन्नयति, ऊर्ध्वमेवोत्कर्षति । स चैषो ऽत्राभिव्यक्तो भवति शीतोदकेन वा पर्युक्षितस्य प्रासमसिं विकोशं चोद्यतमभिपश्यतः ।
शरीरव्याप्तेरत्यन्ताविनाभावाच्च व्यानः । यस्त्वयमालोमनखाच्छरीरं व्याप्य रसादीनां धातूनां पृथिव्यादिनां व्यूहं मर्मणां च प्रस्पन्दनं प्राणादीनां च स्थितिं करोति सो ऽन्तर्वृत्तिर्व्यानः । यश्चापि कश्चिदत्यन्ताविनाभावो नाम भूतेषु तद्यथा पतिव्रता भर्तारं मृतमप्यनुगच्छति भवान्तरे ऽप्ययमेव भर्ता स्यात् तथा धर्मादिभिस्तद्विपरीतैश्चेति बाह्यो व्यानविषय एवैष प्रभवति । बलवत्तमश्चायं सर्वेभ्यः । कथम् ? अनेन हि व्याप्ते शरीरदण्डके तद्वशीकृतानां प्राणादीनां समा स्थितिर्भवति । स एषो ऽन्तकाले प्राणभृतामविनाभावेन वर्तमानो ऽभिव्यज्यते । तद्यथा हा तर्हि पादौ हैमौ शीतीभूतौ गुल्फे जङ्घे उरू कटिरुदरमुरःकण्ठे ऽस्य खुरघुरो वर्तते हू(?) इत्यवैषो बाह्यो व्यान इति । एवमेते प्राणाद्याः स्थानकार्यविशेषसूचिताः पञ्च वायवो व्याख्याताः तेषां प्रेरिका सामान्यकरणवृत्तिः ।
एषा च तन्त्रान्तरेषु प्रयत्न इत्युच्यते । स च धर्मादिसंस्कारभावनावशादनुपरतो जीवनम् । आह च
वृत्तिरन्तः समस्तानां करणानां प्रदीपवत् ।
अप्रकाशा क्रियारूपा जीवनं कायधारिका ॥
सा यावदनिरुद्धा तु हन्ति वायुं रजो ऽधिका ।
धर्माद्यनावृत्तिवशात्तावज्जीवति मानवः ॥
अत्र च सामान्यकरणवृत्तिग्रहणसामर्थ्यात्प्राणाद्याः पञ्च वायवः । बुद्धीन्द्रियाणि षष्ठम् । कर्मेन्द्रियाणि सप्तमम् । पूरष्टमम् । पूरित्यहंकारावस्थासंविधमधिकुरुते । यस्मादाह- तत्र
संविदहंकारगतं कार्यं कारणं पूरयति यस्मात् ।
तस्मात्पूरित्युक्ता प्रत्यवभासाष्टमं भोक्तुः ॥

सा चाहङ्कारगता संविद् बुद्धिगतैव पुरुषेणोपलभ्यते ।
यस्माद्वक्ष्यति-
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ( इस्क् 36 )
सर्वप्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ॥ ( इस्क् 37 )
तस्मात्सैव पूरिति । शास्त्रं चैवमाह- प्राणापानसमानोदानव्यानाः पञ्च वायवः । षष्ठं मनः । सप्तमी पूरष्टमी वाक् । वाग्ग्रहणेन कर्मेन्द्रियपर्वणो ग्रहणम् । मनोग्रहणेन बुद्धीन्द्रियपर्वणः । तदेतत्प्राणाष्टमं वैकारिकं गुणशरीरस्य परिद्रष्टुः क्षेत्रज्ञस्य शरीरमाददानस्य नित्यं स्तम्भस्थानीयं प्रत्यङ्गं भवति, अच्छेद्यमभेद्यमदाह्यमविनाश्यमविकम्प्यम् । अनित्यानि पुनर्भौतिकानि बाह्यानि कुशमृत्तिकास्थानीयानि उपचीयन्ते चेति ।
आह, कुतः पुनरियं प्राणादिवृत्तिः प्रवर्तत इति ? उच्यते- सा कर्मयोनिभ्यः । महतः प्रच्युतं हि रजो विकृतम् अण्डस्थानीयाः पञ्च कर्मयोनयो भवन्ति- धृतिः श्रद्धा सुखा विविदिषा अविविदिषेति । आह च
प्रच्युतो महतो यस्तु न प्राप्तो ज्ञानलक्षणम् ।
व्यापारो ज्ञानयोनित्वात्सा योनिः कुक्कुटाण्डवत् ॥
तासां लक्षणविषयसतत्त्वगुणसमन्वया भवन्ति । तत्र लक्षणं तावत् व्यवसायादप्रच्यवनं धृतिः । फलमनभिसन्धाय शास्त्रोक्तेषु कार्येष्ववश्यकर्तव्यताबीजभावः श्रद्धा । दृष्टानुश्रविकफलाभिलाषद्वारको हि बुद्धेराभोगः सुखा । वेत्तुमिच्छा विविदिषा । तन्निवृत्तिरविविदिषा । तत्र यदायं जन्तुः शुभाशुभेषु कार्येषु वृत्त्यनुसारी जिज्ञासुरजिज्ञासुर्वा शरीरं परित्यजति तामेव कर्मयोनिमुपपद्यते । तस्यामुपपन्नस्तामेव भावयति । एतत्तावल्लक्षनसतत्त्वम् । आह च
वाचि कर्मणि संकल्पे प्रतिज्ञां यो न रक्षति ।
तन्निष्ठस्तत्प्रतिज्ञश्च धृतेरेतद्धि लक्षणम् ॥
अनसूया ब्रह्मचर्यं यजनं याजनं तपः ।
दानं परिग्रहः शौचं श्रद्धायां लक्षणं स्मृतम् ॥
सुखार्थी यस्तु सेवेत विद्यां कर्म तपांसि वा ।
प्रायश्चित्तपरो नित्यं सुखायां स तु वर्तते ॥
द्वित्वैकत्वपृथक्त्वं नित्यं चेतनमचेतनं सूक्ष्मम् ।
सत्कार्यमसत्कार्यविविदिषितव्यं विविदिषायाः ॥
विषपीतसुप्तमत्तवदविविदिषा ध्यायिनां सदा योनिः ।
कार्यकरणक्षयकरी प्राकृतिका गतिः समाख्याता ॥
विषयसतत्त्वं पुनः सर्वविषयिणी धृतिः । आश्रमविषयिणी श्रद्धा । दृष्टानुश्रविकविषयिणी सुखा । व्यक्तविषयिणी विविदिषा । अव्यक्तविषयिण्यविविदिषा । गुणसमन्वयस्तु रजस्तमोबहुला धृतिः । सत्त्वरजोबहुला श्रद्धा । सत्त्वतमोबहुला सुखा । रजोबहुला विविदिषा । तमोबहुलाविविदिषा इति । उक्तं च
लक्षणविषयसतत्त्वं त्रैगुण्यसमन्वयं च पञ्चानाम् ।
योनीनां यो विद्याद्यतिवृषभं तं त्वहं मन्ये ॥
इत्युक्ताः प्राणादयो योनयश्च ।
एतद् द्वयमधिगम्य सम्यङ्मार्गानुगमनं कुर्यात् । रजस्तमोधर्मादिसाधनभावविनिवृत्तितस्त्वत्र प्राणानामन्तर्वृत्तिरनुपाधिकत्वादनिवर्त्या । बहिर्वृत्तिस्तु मार्गामार्गविषयतया प्रयोक्तव्या । कथमित्युच्यते- प्राणविषया तावत्प्रणतिर्धर्मादिविषय एवापरोद्धव्या । ततो ह्यस्य सत्त्ववृद्धिः, सत्त्ववृद्धेश्चोत्तरोत्तरबुद्धिरूपाधिगमः । अपानविषयस्त्वपक्रमणं धर्मादिविषय एवापरोद्धव्यमेवं ह्यस्य ख्यातिविषयाकारस्य तमसो निर्ह्रासः । ततश्चोत्तरोत्तरबुद्धिरूपाधिगमः । तथा समानविषयं साहचर्यसत्त्वधर्मानुगुणं कुर्यात् । यस्माच्छास्त्रमाह- सत्त्वारामः सत्त्वमिथुनश्च सदा स्यादिति । आत्मोत्कर्ष तूदानविषयम् । अविद्यापर्वणो ऽन्त्यं रूपं विवर्ज्य तत्प्रतिपक्षैर्निवर्तयेत् । अत्यन्ताविनाभावं च व्यानविषयं ज्ञानविषय एव भावयेत् । योनीनां चतसृणां धर्मताबीजतामेवादद्यात् । अविविदिषामपि अनिष्टफलहेतुषु भावयेत् । सो ऽयं धर्मादिषु प्रवणस्तत्प्रतिपक्षापक्रान्तः सत्त्वारामो विनिवृत्ताभिमानो ज्ञाननिष्ठः सविशुद्धयोनिरचिरेण परम ब्रह्मोपपद्यत इति । आह च
बाह्यां प्राणविवृत्तिं सम्यङ्मार्गे बुधः प्रतिष्ठाप्य ।
विनिवृत्तविखरकलुषो ध्रुवममृतं स्थानमभ्येति ॥
पञ्चानां योनीनां धर्मादिनिमित्ततां च संस्थाप्य ।
परिपक्वमित्यधस्तान्न पुनस्तद्भावितो गच्छेत् ॥
इति व्याख्याता व्यस्तसमस्ता करणानां वृत्तिः ॥ 29 ॥
कारिका 30
आह, येयमेकैकस्मिन् रूपादावर्थे करणचतुष्टयस्य वृत्तिः सा किं युगपत् आहोस्वित् क्रमेणेति ? कुतः संशय इति चेत् उभयथा दृष्टत्वात् । इहैकार्थविषयाणां युगपदपि वृत्तिर्दृष्टा । तद्यथा चन्द्रमण्डले चक्षुषां मनसो वा । क्रमशश्च तद्यथा घटे मधूदकपयसाम् । एकार्थविषयं च करणचतुष्टयम् । अतो नः संशयः किं चक्षुर्मनोवद्युगपदस्य वृत्तिः, आहोस्विन्मध्वादिवत्क्रमेणेति ?
उच्यते- यथादर्शनमपि तावदुच्यताम् । किमत्र युक्तं भवान् मन्यते ? स चेत्सप्यगुपदेक्ष्यसि को निर्बन्धस्तदेव प्रतिपद्यामहे इति ।
यद्यवं तस्मादिदमस्मद्दर्शनम्
युगपच्चतुष्टयस्य तु वृत्तिः
तुशब्दो ऽवधारणार्थः युगपदेवेत्यर्थः । बुद्ध्यहंकारमनसां हि बुद्धीन्द्रियाणां च समानदेशत्वम् । तत्र न शक्यत एतद्वक्तुं सति शक्तिसद्भावे विषयसम्बन्धे च कस्यचित्तत्र वृत्तिः कस्यचिन्नेति । किं चान्यत् । मेघस्तनितादिषु क्रमानुपलब्धेः । यदि हि क्रमेण श्रोत्रादीनामन्तःकरणस्य च बाह्ये ऽर्थे वृत्तिः स्यादपि तर्हि मेघस्तनितकृष्णसर्पालोचनादिष्वप्युपलभ्यते क्रमः । न तूपलभ्यते । तस्माद्युगपदेव बाह्ये ऽर्थे चतुष्टयवृत्तिरिति ।
उच्यते- यदुक्तं श्रोत्रादीनामन्तःकरणस्य चाभिन्नकालं वृत्तिरित्यत्र ब्रूमः, अयुक्तमेतत् । किं कारणम् ? यस्मादस्माकं
क्रमशश्च तस्य निर्दिष्टा ।
तस्येति चतुष्टयमपि सम्बध्यते । चशब्दो ऽवधारणार्थः । क्रमश एवेत्यर्थः । क्रमश एव हि बाह्यान्तःकरणवृत्त्योरेकार्थनिपातः ।
यत्तूक्तं समानदेशानां शक्तिसम्बन्धसद्भावे वृत्त्यभावानुपपत्तिरिति, अत्र ब्रूमः- चक्षुरादिवदेतत्स्यात् । तद्यथा चक्षुस्त्वचोः समानदेशत्वे शक्तिविषयसम्बन्धोपपत्तौ रजोधूमातपादिगतः स्पर्श एवोपलभ्यते, न रूपम् । एवमिहापि स्यात् । तस्मात्
दृष्टे तथाप्यदृष्टे
क्रमश एव चतुष्टयस्य वृत्तिः । अदृष्टग्रहणेन पुनरत्रातीनागतव्यवहितविषयग्रहणम् । तत्रातीतं द्विविधम्, दृष्टविषयदृष्टविषयं च । अत्रापि दृष्टविषयं प्रत्यभिज्ञानमित्यभिप्रेतम्, अदृष्टविषयं स्मृतिः । सा तु लिङ्गागमाभ्यामकस्माद्वा भवति । तथा च वृषगणवीरेणाप्युक्तं भवति ___ अनागतव्यवहितविषयज्ञानं तु लिङ्गगागमाभ्याम् । आह च
विषयेन्द्रियसंयोगात्प्रत्यक्षज्ञानमुच्यते ।
तदेवातीन्द्रियं जातं पुनर्भावनया स्मृतिः ॥
तदेव भावनापेक्षज्ञानं कालान्तरे पुनः ।
तत्रैव सेन्द्रियं जातं प्रत्यभिज्ञानमुच्यते ॥
तत्र दुष्टे क्रमः प्रति नास्ति सन्देहः ।

यत्पुनरेतदुक्तं दृष्टे मेघस्तनितकृष्टसर्पालोचनादौ क्रमानुपलब्धेर्युगपच्चतुष्टयस्य वृत्तिरित्यत्र ब्रूमः- एतदप्ययुक्तम् । किं कारणम् ? यस्मात्
त्रयस्य तत्पूर्विका वृत्तिः

31

न तावद् बुद्ध्यहंकारमनसां साक्षाद् बाह्यार्थग्रहणसामर्थ्यमस्ति, अन्तःकरणानुपपत्तिप्रसंगात्, श्रोत्रादिवैयर्थ्यप्रसंगात्, द्वारिद्वारभावव्याघातप्रसङ्गाच्च । तस्मात्पूर्वं श्रोत्रादीनामर्थसम्बन्धो ऽस्ति मेघस्तनितादावप्यवश्यमेतदभ्युपगन्तव्यम् । पश्चात्तु तद्वृत्त्युपनिपातादन्तःकरणस्येत्यस्ति क्रमो ऽत्रापि । तत्र यदुक्तं मेघस्तनितादिषु क्रमाननुगते युगपच्चतुष्टयस्य वृत्तिरित्येतदयुक्तम् ।
अन्यैस्त्वन्यथान्वयो दर्शितः । तद्यथा चतुष्टयस्य मनो ऽहंकारबुद्धीनामन्तःकरणानां बाह्येनैकेन करणेन श्रोत्रेण वा चक्षुषा वा सह चतुष्टयस्येत्यर्थः । अस्य दृष्टे वर्तमाने युगपद्वृत्तिः पूर्वाचार्यैर्निर्दिष्टा । आचार्येण तु क्रमेणेत्यर्थः । अदृष्टे ऽतीतादावपि क्रमशश्च क्रमेणैव, यतस्त्रयस्यान्तःकरणस्य तत्पूर्विका बाह्येन्द्रियपूर्विका वृत्तिः । यदा यथानुभवस्तथा संस्कारः, यथा च संस्कारस्तथा स्मृतिरित्येवं वृत्तिर्बाह्येन्द्रियपूर्विकेति ॥ 30 ॥
कारिका 31
आह, किं पुनरेषां करणानां स्वविषयनियमेन वृत्तिर्भवति आहोस्विद्व्यतिकरेणेति ?
उच्यते- ननु च प्रागेव रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिरिति ( इस्क् 28 ) चोक्त्वाचार्येणान्ते ऽपदिष्टं सैषा भवत्यसामान्येति ( इस्क् 29 ) । तत्रैवं गते भवतः संशयः ।
कुतः इत्युच्यते- सत्यमेवैतत् । तथापि जायते संशयः । कुतः ? करणान्तरेण स्वविषयोपलब्धौ करणान्तरौत्सुक्यदर्शनात् । इह करणान्तरेण चक्षुषाम्रदाडिमादिरूपोपलब्धौ सत्यां करणान्तरस्य जिह्वालक्षणस्यौत्सुक्यं प्रवृत्तिश्चोपलब्धा । तद्यदि स्वविषयनियतानीन्द्रियानि, नैषां करणान्तरविषयोपलम्भात्तत्साहचर्यापेक्षः स्वविषयग्रहणभावः स्यात् । अस्ति च । तस्मादुपपन्नः संशयः । तत्रेदानीं भवतः प्रतिपत्तिरिति ।
उच्यते- अत्रापि नास्तीन्द्रियाणां स्वविषयग्रहणव्यतिकरः । किं तर्हि
स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकीं वृत्तिम् ।
पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम्

32

यस्य करणस्य या वृत्तिरपदिष्टा तद्यथा श्रोत्रस्य शब्दग्रहणम्, चक्षुषो रूपग्रहणम् इत्यादि । तामेव प्रतिपद्यन्ते- स्वविषयजिधृक्षयावलम्बन्त इत्यर्थः । परस्परस्याकूतं परस्पराकूतम् । आकूतमभिप्रायो ऽभिसन्धिरित्यर्थः । परस्पराकूतं हेतुः प्रतिपत्तेरस्याः, सेयं परस्पराकूतहेतुकी । परस्पराकूतं प्रतिपत्तेः कारणमिति कृत्वा ताच्छब्द्यं लभते । तद्यथा दधित्रपुसं ज्वरः । एतदुक्तं भवति यदा चक्षुषाम्रदाडिमादि रूपमुपलब्धं भवति तदा रसनेन्द्रियमुपात्तविषयस्य चक्षुषो वृत्तिं संवेद्य स्वविषयजिघृक्षयौत्सुक्तवद्विकारमापद्यते, रसनस्य वृतिं संवेद्य पादौ विहरणमारभेते हस्तावादानं, तावद्यावदसौ विषयो रसनेन्द्रिययोग्यतां नीतः । ततो रसनं स्वविषये प्रवर्तते । एवमितरेष्वपि वक्तव्यम् ।
आह, यद्येवं तेन तर्हीन्द्रियान्तरवृत्तिसंवेदने ऽक्षप्रत्ययवत्वप्रसंगः । यदि तर्हीन्द्रियान्तरेणेन्द्रियान्तरस्य वृत्तिः संवेद्यते, प्राप्तमस्य प्रत्ययवत्त्वम् । अथाप्रत्ययमिन्द्रियं परस्पराकूतसंवेदनं, तर्हि न वाच्यमिति । किं च परस्परद्वारिद्वारभावप्रसंगश्च । इन्द्रियान्तरं चेदिन्द्रियान्तरस्य वृत्तिं संवेद्य स्वार्थमाकांक्षेत्, प्राप्तमस्य द्वारित्वमितरस्य च द्वारत्वम् । तदयुक्तमिन्द्रियाणां परस्पराकूतसंवेदनमिति ।
उच्यते- न, उपचारात् । प्रागेवोपदिष्टमस्माभिरप्रत्ययमिन्द्रियमिति । किं तर्हि स्वविषयस्य पटोः सहचारिणमर्थमिन्द्रियान्तरविषयतामापन्नं संस्पृश्य स्वभावत इन्द्रियान्तरं स्वविषयं प्रति साकांक्षं भवति, तत्सन्निधौ विक्रियादर्शनात् । तत्र संवेदनमुपचर्यैवमुच्यते इत्यदोषः । किं चान्यत् । भौतिकावयवप्रत्ययविवृत्तिवत्तद्विवृत्तेः । यथा बुद्धेः प्रसादमनन्तरं भौतिकानामवयवानां मुखनयनादीनां प्रसादो भवति, न चैषां प्रत्ययवत्त्वम्, एवमिहापि स्यात् । न च प्रत्ययवत्त्वम् । एतेन द्वारिद्वारभावः प्रत्युक्तः ।
मनो ऽधिष्ठानसामर्थ्याद्वा । अथवा परस्परविषयमाकूतं परस्पराकूतम्, यथा जलविषयः पुरुषः जलपुरुषः । आकूतमिच्छा संकल्पः मन इत्यर्थः । स हेतुरस्याः सेयं परस्पराकूतहेतुकी ताम् । एतदुक्तं भवति, यथा किंचिदिन्द्रियं विषये प्रवृत्तं भवति तदा तद्द्वारेण समस्तमर्थमुपलभ्य तत्सहचारिणमर्थान्तरमाकांक्षदिन्द्रियान्तरं वृत्त्या प्रतितिष्ठते । तेनाकांक्षावता मनसाधिष्ठितामिन्द्रियं विक्रियामापद्यते । तथा च तन्त्रान्तरे ऽप्युक्तं- "यस्य यस्येन्द्रियस्य विषयं मनोध्यायत्यभिसम्पत्त्यर्थेन तस्य तस्यौत्सुक्यं प्रवृत्तिश्च भवतीति ।" एतदुक्तं स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकीं वृत्तिरिति ।
किमिन्द्रियं मनोवृत्त्याधिष्ठाय स्वविषये प्रवर्तयति यथा परश्वादींश्चैत्र इति ?
नेत्युच्यते । किं तर्हि स्वविषयसंकल्पानुगृहीतस्य मनसः संस्पर्शात्स्वयमेवेन्द्रियं स्वविषयं प्रतिपद्यते । कस्मात् ? प्रयोगशक्त्यसिद्धेः । न हि यथा चैत्रस्य परश्वादिप्रयोगशक्तिः सिद्धा एवं मनस इन्द्रियप्रयोगशक्तिः । तस्मादयुक्तमिन्द्रियस्य मनः प्रेरकमिति । रज इति चेत्स्यान्मतम्, रजसो हीन्द्रियान्तरप्रयोगसामर्थ्यं विद्यते । तस्मादयुक्तमुक्तं प्रयोगशक्त्यसिद्धेर्नेन्द्रियाणां मनःप्रयोजकमिति । एतच्चायुक्तम् ? कस्मात् ? अविशेषात् । इन्द्रियान्तरे ऽपि हि तर्हि रजो ऽस्तीत्यत आत्मभूतेनैवास्य निमित्तेन प्रवृत्तिरप्रतिषिद्धा, किं मनसा परिकल्पितेनेति ? किं चान्यत्, करणान्तरानुपपत्तेः । चैत्रो हि परश्वादीनां प्रयोगं करणान्तरेण करोति । न तु मनसः करणान्तरमस्तीत्यसमानम् । पाणिवदिति चेन्न चैत्रव्यापारापेक्षत्वात् । तदपि हि चैत्रव्यापारापेक्षं प्रवर्तते न स्वतः । किंच तद्व्यतिरेकेण प्रवृत्त्युपलब्धेः । यस्य हि प्रयोजकान्तरापेक्षा प्रवृत्तिः न तस्य कदाचिदपि स्वतन्त्रस्य भवति । अस्ति तु संकल्पव्यतिरेकेण मेघस्तनितादिष्विन्द्रियस्य प्रवृत्तिः । तस्मान्नेन्द्रियान्तरस्य मनः कारकम् । न चेत्कारकं यथा मौलानां गुणानामेवमिहापि पुरुषार्थ एवं हेतुर्न केन चित्कार्यते करणमिति सिद्धम् ॥ 31 ॥
कारिका 32
आह, करणं प्रत्याचार्यविप्रतिपत्तेः । तदवधारणं कर्त्तव्यम् । आचार्याणां करणं प्रति विप्रतिपत्तिः । एकादशविधमिति वार्षगणाः । दशविधमिति तान्त्रिकाः पञ्चादिकरणप्रभृतयः । द्वादशविधमिति पतञ्जलिः । तस्माद्भवतः कतिविधं करणमभिप्रेतमिति वक्तव्यमेतत् ।
उच्यते-
करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि मनो ऽहङ्कारो बुद्धिश्चेत्येतत्सर्वं पुरुषार्थोपयोगिकरणम् । कस्मात् ? अपुरुषार्थोपयोगित्वे तत्त्वान्तरानुपपत्तिप्रसंगात् । यदि यथा वार्षगणा आहुः- लिङ्गमात्रे महानसंवेद्यः कार्यकारणरूपेण विशिष्टाविशिष्टलक्षणेन, तथा स्यात्तत्त्वान्तरम् । तन्न स्यात्, अनर्थकत्वात् ।
आह, सत्यम्, प्रधानलक्षणानां गुणानां वैषम्यमात्ररूपत्वे ऽपि तत्त्वान्तरमसौ भविष्यतीति । कस्मात् ? साम्याद्वैषम्यमुपाख्यान्तरमिति ।
एतच्चायुक्तम् । कस्मात् ? तत्त्वानवस्थाप्रसंगात् । एवं हि परिकल्प्यमाने प्रधानमहतोर्यदन्तरालं तदपि च क्रियारूपत्वादक्रियावत उपाख्यान्तरमिति तत्त्वान्तरानवस्थाप्रसंगः । अभ्युपगमे वा महतस्तत्त्वान्तराणां च क्रियाकालविरोधः । तस्मात्तत्त्वान्तरानुपपत्तिरनवस्था वा, त्रयोदशविधं करणमित्यन्यतरवदवश्यमभ्युपगन्तव्यम् । तत्र चास्मत्प्रतिज्ञातमेव निर्दोषं लक्ष्यते । तस्मादुपपन्नमेतत् त्रयोदशविधं करणमिति ।
आह, करणमिति क्रियाकारकसम्बन्धगर्भो ऽयं निर्देशः । कथम् ? येन तत्करणमिति । तत्र वक्तव्यम् का क्रिया, किं च तत्क्रियते यदपेक्ष्य बुद्ध्यादीनां करणत्वमिति ?
उच्यते- यदुक्तं का क्रियेत्यत्र ब्रूमः- तन्निर्वर्तकमिहाभिप्रेतात् न दण्डादिवत्, किं तर्हि तदाहरणधारणप्रकाशकरम् । तत्राहरणं कर्मेन्द्रियाणि कुर्वन्ति, विषयार्जनसमर्थत्वात् । धारणं बुद्धीन्द्रियाणि कुर्वन्ति, विषयसन्निधाने सति श्रोत्रादिवृत्तेस्तद्रूपापत्तेः । प्रकाशमन्तःकरणं करोति, निश्चयसामर्थ्यात् ।
अपर आह- आहरणं कर्मेन्द्रियाणि कुर्वन्ति । धारणं मनो ऽहंकारश्च । प्रकाशनं बुद्धीन्द्रियाणि बुद्धिश्चेति । एतदभिसन्धाय बुद्ध्यादीनां करणत्वमुच्यत इति ।
यत्तूक्तं किं कार्यमिति, उच्यते-
कार्यं च तस्य दशधा
दशधेति पञ्च विशेषाः पञ्चाविशेषाः । तदप्यत एव कार्यशब्दं लभते ।
आहार्यं धार्यं प्रकाश्यं च

33

तद्ध्याहर्तव्यं धारणीयं प्रकाशयितव्यं च । अतः कार्यमित्युच्यते, न निर्वर्त्यत्वात् ॥ 32 ॥
कारिका 13
एतस्मिंस्त्रयोदशविधे तु करणे त्रयोदशं कतरदिति ?
उच्यते- बुद्धिरहंकारो मनश्च । तस्मात् ।
अन्तःकरणं त्रिविधम्
कस्मात् ? विषयानभिसन्धानात् । श्रोत्रादिप्रणालिकया च विषयसंप्रतिपत्तेः । अविशेषाभिधानाद् बुद्ध्यादिप्रतिपत्तिरयुक्तेति चेत्स्यान्मतम्, अविशेषेणेदमुक्तमाचार्येण अन्तःकरणं त्रिविधमिति । तत्र कथमिदमवगम्यते बुद्ध्यहंकारमनसां ग्रहणाभिप्रेतं, न पुनरन्येषामिति ? उच्यते- न, प्रथमसंख्याव्यतिक्रमहेत्वनुपपत्तेः । बुद्ध्यादिसंख्यां हि व्यतिक्रममाणस्य प्रतिपत्तौ नास्ति हेतुः । तस्मात्तेषामेव ग्रहणम् । यथा वसन्ताय कपिञ्जलानालभत इति । श्रोत्रस्यान्तःकरणत्वप्रसंगादयुक्तमिति चेत् स्यादेतत्- बुद्धिमहंकारं चोक्त्वा तत आह बुद्धीन्द्रियाणि कर्णत्वक्चक्षूरसननासिकाख्यानीति ( इस्क् 26 ) । तस्माच्छ्रोत्रमन्तःकरणं प्रसज्यत इति । एतदनुपपन्नम् । कस्मात् ? मनसः पृथगभिधानात् । अत एवेदमाचार्येणापेक्ष्य मनसो ऽन्तःकरणत्वं पृथगुक्तम्- तच्चेन्द्रियमुभयथा समाख्यातम्, अन्तस्त्रिकालविषयमिति ( इस्क् 27 ) तस्मादुपपन्नमन्तःकरणं त्रिविधं बुद्ध्यादीनि ।
दशधा बाह्यम् ।
पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणीत्येतद्बाह्यं दशप्रकारमाचार्यैराख्यायते ।
आह, दशधा बाह्यमित्यस्यानर्थक्यम्, परिशेषबुद्धेः । अन्तःकरणं त्रिविधमित्युक्ते गम्यत एतत्परिशेषादेव दशधा बाह्यमिति । तस्मात्तद्ग्रहणमनर्थकमिति ।
उच्यते- न, विषयार्थत्वात् । त्रयस्य विषयाख्यमित्येवं वक्ष्यामीत्याचार्य आरभते । अक्रियमाणे त्वस्मिन् किन्तत् त्रयस्य विषयाख्यमिति न ज्ञायते ।
आह, एवमपि विषयग्रहणात्सिद्धेर्बाह्यग्रहणपार्थकमिति ।
उच्यते- वक्तव्यं तावदिदमवश्यं विषयभावप्रतिपत्त्यर्थम् । तत्र शेषे वा यथान्यासं वोच्यमाने न कश्चिद्विशेषः । अथवा नेदं बाह्यसंज्ञाप्रतिपत्त्यर्थमारभ्यते, किं तर्हि नियमार्थम् । कथम् ? दशधा बाह्यं शब्दादिविषयग्रहणभूतमेव त्रयस्यापि विषयाख्यं यथा स्यात्, मा भूदन्तःप्राणादिभूतम् । अथवा दशधैव बाह्यम् । भेदविषयं बाह्यमित्यर्थः । प्राणादिभूतस्य तु भेदो नास्तीत्यदोषः ।
तदेतत्
त्रयस्य विषयाख्यम् ।
बुद्ध्यहंकारमनोलक्षणस्य हि त्रयस्योपात्तविषया बुद्धीन्द्रियकर्मेन्द्रियवृत्तयः सम्पर्काद्विषयरूपप्रत्यवभासनिमित्ततामुपगच्छन्त्यो विषयाख्यतां लभन्ते । तथा मनो ऽहंकारावपि बुद्धेः । बुद्धिस्तु निश्चयरूपत्वात्करणान्तरनिरपेक्षा सर्वमर्थं प्रवृत्तौ प्रति निश्चयरूपेणाध्यस्तं पुरुषायोपसंहरति ।
तत्र शब्दादिसन्निधाने वृत्तीनां ताद्रूप्यापत्तेस्तदपगमे च ताद्रूप्यापगमात् प्राप्यकारि ।
साम्प्रतकालं बाह्यम् ।
उपात्तविषयेन्द्रियवृत्तिसन्निधानात्तु तदाकारसंस्काराधाननिमित्तस्मृतिप्रत्ययवशात्
त्रिकालमाभ्यन्तरं करणम्

34

कारिका 34
आह, प्राक्छब्दादिषु श्रोत्रादीनामालोचनमात्रं वृत्तिरित्यविशेषेणोक्तम् । तत्र किं तथैव प्रतिपत्तव्यमथेन्द्रियाणां विषयविशेषो ऽस्तीति ? अथ चोक्तं कार्यं च तस्य दशधा विशेषलक्षणमविशेषलक्षणं च । तत्र केन करणेन कस्य विषयस्य ग्रहणमिति ?
उच्यते-
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।
तेषां पूर्वोक्तानामिन्द्रियाणां यानि बुद्धीन्द्रियाणि पञ्च श्रोत्रादीनि तानि विशेषाविशेषविषयाणि प्रतिपत्तृभेदेन । तत्र देवानां यानि इन्द्रियाणि तानि धर्मोत्कर्षाद्विशुद्धान्यविशेषानपि गृह्णन्ति प्रागेव विशेषात्, योगिनां च संप्राप्तविशेषाणाम् । अस्मदादीनां तु विशेषानेव तमसा परिवृतत्वात् ।
आह, किं कर्मेन्द्रियाणामपि प्रतिपत्तृभेदाद्ग्रहणभेदो भवति ?
नेत्युच्यते । किं तर्हि सर्वेषामेव
वाग्भवति शब्दविषया ।
वागिन्द्रियस्य वाय्वभिहतेषु वदनप्रदेशेषु ताल्वादिषु ध्वनेर्वर्णपदवाक्यश्लोकग्रन्थभावेन विकारापादनं सर्वप्राणिनामविशिष्टम् ।
आह, अथेतरानि कर्मेन्द्रियाणि कथमिति ?
उच्यते-
शेषाण्यपि पञ्चविषयाणि

35

पाणिपादपायूपस्थास्तु आदानविहरणोत्सर्गानन्दलक्षणैः कर्मभिः शब्दस्पर्शरसरूपगन्धसमुदायरूपा मूर्तीर्विकुर्वन्तीति ।
आह, यदि पञ्चविषयाण्येवाविशेषाणीति नियमो ऽभ्युपगम्यते तेनैककरणेष्वादानादिक्रियानुपपत्तिप्रसंग इति ।
उच्यते न, नियमप्रतिषेधार्थत्वात् । स्वविषयनियमो बुद्धीन्द्रियवत्कर्मेन्द्रियाणामपि मा विज्ञायीत्यतो नियमप्रतिषेधार्थमिदमारभ्यते । तदर्थमेव चापिशब्दमाचार्यो ऽधिजगे । सम्भावनार्थमपि च पञ्चविषयाण्येतानि प्रागेव तु चतुस्त्रिविषयाणीति ।
आह, कथमेतदवगम्यते विशेषाविशेषविषयाणीन्द्रियाणि, न पुनरसद्विषयाणि इति ?
उच्यते- विशेषाणामसत्त्वासिद्धेः । प्रत्यक्षतस्तावद्विशेषा उपलभ्यन्ते । तस्मादेषामसत्त्वमशक्यं प्रतिज्ञातुम् । अथापि स्यात्साध्यमेतत्प्रत्यक्षमेवैतदनवद्यम्, बाह्यवस्तुविषयमयमृगतृष्णिकादिविज्ञानवत्प्रत्यक्षाभासम् । एतच्चायुक्तम् । कस्मात् ? विकल्पानुपपत्तेः । सर्वमभूतमभ्युपगन्तव्यम् । यत्र नास्ति किंचिद् भूतार्थेन प्रत्यक्षं यदप्येक्ष्येतरत् प्रत्यक्षाभासं स्यात् । उक्तस्त्वयं विकल्पः । तस्मादयुक्तं ज्ञानमात्रमिदमिति । किं चान्यत् । विपरीतदर्शनप्रसंगात् । मृगतृष्णिकास्वप्नविषयैरसद्भिः सतामसत्त्वमिच्छतस्तद्वदेव विपरीतदर्शनप्रसंगः । तथा हि गन्धर्वनगरादिषु कदाचित्तमेवार्थं गां पश्यति, कश्चिद्गजं पश्यति, कदाचित्पताकाम् । स्वप्ने चैकमूर्तिपतितानां गोपुरुषाश्वरासभनदीवृक्षप्रभृतीनां दर्शनं स्मरणे विपर्ययेण दृष्टम् । तथा वातायनेन हस्तियूथप्रवेशने___ । विच्छिन्नानां चावयवानां पुनः सन्धानं आकाशगमनमनीश्वरस्यानिमित्तं राज्यलाभ इति । तदितरत्रापि स्यात् । न त्वस्ति । तस्मादयुक्तं मृगतृष्णिकास्वप्नादिवदसत्त्वं भावानाम् । अर्थक्रिया च न स्यात् । यथा स्वप्ने स्नातानुलिप्ताशितपीतवस्त्राच्छादितानामफलत्वं दृष्टम्, एवमिहापि स्यात् । शुक्रविसर्गवदिति चेत्, स्यादेतत्- यथा द्वयसमाप्तिपूर्वकः शुक्रविसर्गः स च तदभावे ऽपि स्वप्ने भवति, एवमितरत्स्यादिति । तदयुक्तम्, रागादिनिमित्तत्वात् । तथाहि जाग्रतो ऽपि तत् द्वयसमापत्तिमन्तरेण भवति । तस्मान्मनोरञ्जनानिमित्तं तत् । प्रेतवदिति चेत् स्यादियं मम सद्बुद्धिः, यथा प्रेतानामसद्भिःपूयनद्यादिभिरर्थक्रिया, नरकपालैश्च बाधनम् । एवमत्रापि स्यादिति । तदयुक्तम् । असिद्धत्वात् । न ह्येतदसदिति सिद्धम् । किंच प्रत्यक्षेण चाप्रत्यक्षबाधनात् । इह प्रत्यक्षं बलीय इत्यप्रत्यक्षस्य तेन प्रत्याख्यानमुपपद्यते । भवन्तस्त्वप्रत्यक्षेन प्रत्यक्षं प्रत्याचक्षते । तस्मादयुक्तं नरकलापादिवदसतामर्थक्रियेति । स्वभावभेदात्तदसत्त्वमिति चेत्, स्यादेतत्- यदि परमार्थतो नरकपालाः स्युस्तेषामपि दुःखसम्बन्धः स्यात्, मूर्तिमत्त्वाविशेषात् । न
तु तेषां बाधास्ति । तस्माद् भ्रान्तिरसाविति । एतदयुक्तम् । कस्मात् ? कर्मशक्तिवैचित्र्यात् । प्रत्यक्षमेव तावत्कर्मनिमित्तो वाग्बुद्धिस्वभावाहारविहारशक्तिभेदभिन्नो विचित्रः संसार उपलभ्यते । स निपुणमवेक्षितुमशक्यः, गम्भीरत्वात् । किं पुनरप्रत्यक्षकर्मणां विपाकवैश्वरूप्यमतर्कगोचरमस्मदादिबुद्धयः परिच्छेत्स्यन्ति ? तस्मान्मनोरथमात्रमेतत् । धर्माधर्मानुपपत्तिश्च स्यात् । यथा स्वप्ने ब्रह्महत्यासुरापानागम्यगमनादीनामफलत्वम्, एवमितरत्रापि स्यात्, असदविशेषात् । मिद्धोपघातात्तद्विशेष इति चेत् न, अविशेषात् । असत्त्वे तुल्ये क्वचिदुपघातः क्वचिन्नेतीच्छामात्रमेतत् । एवं चेत् नासन्तः पृथिव्यादयः । न चेदसन्तो युक्तमुपदिष्टं बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणीति ॥ 34 ॥
॥ इति श्रीयुक्तिदीपिकायां सप्तममाह्निकम् ॥
कारिका 35
द्वारिद्वारभावमेषामिदानीं वक्ष्यामः । तत्र बाह्यं करणं द्वारम्, अन्तःकरणं द्वारीति ।
आह, करणाविशेषादयुक्तम् अन्तःकरणस्य हीन्द्रियानां च करणत्वमविशिष्टम् । तत्र को हेतुरन्तःकरणं द्वारि, द्वाराणीन्द्रियाणीति ?
उच्यते-
सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि

36

सहान्तःकरणेन वर्तते या सान्तःकरणा बुद्धिः । अहंकारमनोभ्यां सहिता बुद्धिरित्यर्थः । अत्र चान्तःकरणग्रहणेनैव बुद्धेर्ग्रहणे सिद्धे भूयो बुद्धिग्रहणं प्राधान्यख्यापनार्थम् । भवति हि प्रधानस्य सामान्ये ऽन्तर्भूतस्यापि पृथगुपदेशः । तद्यथा
जगाम तं वनोद्देशं व्यासः सह महर्षिभिः ।
इति महर्षिग्रहणे व्यासो ऽप्यन्तर्भूतः प्राधान्यात्पृथगुच्यते, एवं सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते, विशिष्टानविशिष्टांश्च शब्दादीन्सन्निकृष्टविप्रकृष्टव्यवहितान्प्रमाणबलेन स्ववृत्ते विषयीकरोतीत्यर्थः । एतदुक्तं भवति अनियतविषयो द्वारी, नियतविषयाणि द्वाराणि । तद्यथा प्रासादस्य पूर्वोत्तरदक्षिणपश्चिमानां स्वदिङ्नियमो न पूर्वमुत्तरं दक्षिणं पश्चिमं वा कदाचिद्भवति, तथेतराण्यपि द्वारीणि । तत्रानियताः सर्वदिगवस्थितैर्द्वारैः प्रवर्तन्त एवमिहापि श्रोत्रादीनि स्वविषयनियतानि । सान्तःकरणा तु बुद्धिः सर्वं विषयमवगाहते यस्मात् तस्मादनियतविषयत्वादुपपन्नमेत्त्रिविधं करणं द्वारि, द्वाराणि शेषाणीति ॥ 35 ॥
कारिका 36
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति

37

एते इत्यनेन त्रयमभिसम्बध्नाति श्रोत्रादीनामन्यतमं मनो ऽहंकारश्च । प्रदीपकल्पा इत्यनेन प्रकाशसाम्यं करणपर्वण आचष्टे, यथा प्रदीपः प्रकाशक एवं करणमपि, तद्व्यापारे सति विषयाविर्भावानुपपत्तेः । परस्परविलक्षण इत्यनेन व्यस्तवृत्तिं पूर्वोक्तामाकर्षति । तया ह्येषां वैलक्षण्यमनुमीयते, आलोचनसंकल्पाभिमानभेदात् । गुणविशेषा इत्यनेन सत्त्वादीनां पुरुषविज्ञानमुद्दिश्य तद्भावेन परिणामं ख्यापयति । कृत्स्नं पुरुषस्यार्थमिति विशेषाविशेषलक्षणं कार्यं आहार्यधार्यप्रकाश्यतया यथासम्भवं प्रकाश्य स्ववृत्त्यनुगुणं कृत्वा विषयव्यापारेणानुभूय बुद्धावाधत्ते, अतद्विषयतामापादयतीत्यर्थः । कदाचित्तु बुद्धिरेव बाह्यकरणसंकल्पाभिमानगृहीतम् । सर्वथा त्वयं शास्त्रार्थो येन वा तेन करणेन विषयमुपात्तं बुद्धिरध्यवस्यति । तया चाध्यवसायरूपापन्नया चेतनाशक्तिरनुगृह्यते न करणान्तरस्य पुरुषेण समबन्धो ऽस्ति । ततश्च द्वारिणां बहुत्वात्तद्दर्शनविशेषस्वातन्त्र्यसमुच्चयान्तःकरणपुरुषकर्तृत्वदोषाणामप्रसंगः ॥ 36 ॥
कारिका 37
आह, कः पुनरत्र हेतुर्येन द्वारित्वाविशेषे सत्यहंकारमनसी बुद्धौ विषयाधानं कुरुतो न पुनरनयोः साक्षात्पुरुषेण सम्बन्ध इति ?
उच्यते-
सर्व प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः ।
अहंकारमनसोर्हि, नास्ति निश्चयरूपता, संकल्पाभिमानमात्ररूपत्वात् । अनिश्चितविषयया च करणवृत्त्या पुरुषस्य समन्धो ऽनर्थकः स्यात् । स्वयं वा निश्चेतुरस्य कर्तृत्वं स्यात् । ततश्चामिश्रनिश्चयकारणत्वादयमप्यामिश्ररूपः स्यात् । सर्वं चैतदुक्तोत्तरं निश्चयरूपा हि बुद्धिः । अतस्तद्वृत्त्युपनिपाती विषयः सन्निधानमात्रात्पुरुषेण संचेतितो नास्यौदासीन्यं बाधितुमुत्सहते, नो खल्वप्यानर्थक्यमनुषज्यते । एतदुक्तं सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिरिति ।
आह, एवमपि शब्दादिलक्षणो विषयः प्रकृतः, स च बुद्ध्या सर्वः प्रतिपाद्यते । तत्र विषयान्तरमप्यस्ति प्रधानपुरुषान्तरलक्षणम् । तथा चाहुः । "उपभोगस्य शब्दाद्युपलब्धिरादिः गुणपुरुषोपलब्धिरन्तः" । तस्मात्तत्प्रतिपत्त्यर्थं करणान्तरं वक्तव्यमिति ।
उच्यते- न वक्तव्यम् । किं कारणम् । यस्मात्
सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम्

38

यतो यस्मात्कारणात् सा बुद्धिरेव हि काष्ठापन्नेन तमसाभिभूतत्वाद्धर्मादीनां सत्त्वधर्माणां प्रकृतिभूतान्विकारभूतान्परतन्त्रानुपकार्यानुपकारकानचेतनान्संसर्गधर्मिणश्च गुणानात्मत्वेनाध्यवस्य पुरुषायोपहरति । स च मिथ्याज्ञानाभ्यासवासनानुरञ्जितं बुद्धिप्रत्ययमनुरुध्यमानो दर्शितविषयत्वात्तथैव प्रतिपद्यते । यदा तु धर्माद्यभ्यासात्तमोरूपागमे सत्युत्तरोत्तराणां सत्त्वधर्माणमुत्कर्षस्तदा विनिवृत्तमिथ्याप्रत्यया वृत्तिः । न प्रकृतिविकारभूतः स्वतन्त्रो ऽनुपकार्यो ऽनुपकारकश्चेतनो ऽसंसर्गधर्मा च । ततो विपरीताश्च गुणा इति शुद्धाध्यवसायं करोति । पुरुषश्च परोपहृतप्रवृत्तित्वात्तथैव प्रतिपद्यते । तदेतद् गुणानां पुरुषस्य चान्तरं द्वयोरपि निश्चयस्वभावत्वादस्मात्पूर्वोक्तधर्मभेदे ऽपि सति सूक्ष्मं गम्भीरं दुर्ज्ञेयम् । अतश्च सूक्ष्मं यद् बुद्धिमात्रमवलम्ब्य तदविशिष्टायाश्चेतनाशकक्तेर्ग्राह्यग्राहक_____ ॥ 37 ॥
कारिका 38
व्याख्यातं करणपर्व । कार्यपर्वेदानीं वक्तव्यम् । तस्य च पुरस्तादुद्देशः कृतः- कार्यं च तस्य दशधा पञ्च विशेषा इति । साम्प्रतं तु निर्देशं करिष्यामः ।
आह, यद्येवं तस्मादिदमेव तावदुच्यतां के विशेषाः, के ऽविशेषा इति ।
उच्यते-
तन्मात्राण्यविशेषाः
यानि तन्मात्राणि पञ्चाहंकारादुत्पद्यन्ते इति प्रागपदिष्टम् । ते खल्वविशेषाः । कानि पुनस्तन्मात्राणीत्युच्यते शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रमिति ।
कथं पुनस्तन्मात्राणीति ?
उच्यते- तुल्यजातीयविशेषानुपपत्तेः । अन्ये शब्दजात्यभेदे ऽपि ।
सति विशेषा उदातानुदात्तस्वरितानुनासिकादयस्तत्र न सन्ति तस्माच्छब्दतन्मात्रम् । एवं स्पर्शतन्मात्रे मृदुकठिनादयः । एवं रूपतन्मात्रे शुक्लकृष्णादयः । एवं रसतन्मात्रे मधुराम्लादयः । एवं गन्धतन्मात्रे सुरभ्यादयः । तस्मात्तस्य तस्य गुणस्य सामान्यमेवात्र, न विशेष इति तन्मात्रास्वेते ऽविशेषाः ।
आह, अथ के पुनर्विशेषा इति ?
उच्यते- यानि खलु
तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
उत्पद्यन्ते
एते स्मृता विशेषाः
तत्र शब्दतन्मात्रादाकाशम्, स्पर्शतन्मात्राद्वायुः, रूपतन्मात्रात्तेजः, रसतन्मात्रादापः, गन्धतन्मात्रात्पृथिवी । तेभ्यो भूतानीत्येतावति वक्तव्ये पञ्च पञ्चभ्य इति ग्रहणं समसंख्याकतस्तदुत्पत्तिज्ञापनार्थम् । तेनैकैकस्मात्तन्मात्रादेकैकस्य विशेषस्योत्पत्तिः सिद्धा । ततश्च यदन्येषामाचार्याणामभिप्रेतम् एकलक्षणेभ्यस्तन्मात्रेभ्यः परस्परानुप्रवेशादेकोत्तरा विशेषाः सृज्यन्त इति तत्प्रतिषिद्धं भवति । किन्तर्हि अन्तरेणापि तन्मात्रानुप्रवेशमेकोत्तरेभ्यो भूतेभ्य एकोत्तराणां भूतविशेषाणामुत्पत्तिः । तत्र शब्दगुणाच्छब्दतन्मात्रादाकाशमेकगुणम्, शब्दस्पर्शगुणात्स्पर्शतन्मात्राद्द्विगुणो वायुः, शब्दस्पर्शरूपगुणाद्रूपतन्मात्रात्त्रिगुणं तेजः, शब्दस्पर्शरूपरसगुणाद्रसतन्मात्राच्चतुर्गुणा आपः, शब्दस्पर्शरूपरसगन्धाद् गन्धतन्मात्रात्पञ्चगुणा पृथिवी । अत्र च वायोः शीतः स्पर्श अपां च, तेजस उष्णः, अनुष्णाशीतः पृथिव्याः । रूपं च शुक्लं भास्वरं च तेजसो ऽपां च, कृष्णं पृथिव्याः । रसो मधुरो ऽपाम्, साधारणः पृथिव्याः । गन्धस्तु पार्थिव एव तदवयवानुप्रवेशाद्भूतान्तरेषूपलभ्यते । इत्येते पृथिव्यादीनां धर्माः । अन्ये च परस्परानुग्राहकाः । के पुनस्त इत्याह-
आकारो गौरां रौक्ष्यं वरणं स्थैर्यमेव च ।
स्थितिभेदः क्षमा कृष्णच्छाया सर्वोपभोग्यते ॥
इति ते पार्थिवा धर्मास्तद्विशिष्टास्तथा परे ।
जलाग्निपवनाकाशव्यापकास्तान्निबोधत ॥
स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् ।
शैत्यं रक्षा पवित्रत्वं सन्तानश्चौदका गुणाः ॥
ऊर्ध्वगं पावकं दग्धृ पाचकं लघु भास्वरम् ।
प्रध्वंस्योजस्विता ज्योतिः पूर्वाभ्यां सविलक्षणम् ॥
तिर्यग्गतिः पवित्रत्वमाक्षेपो नोदनं बलम् ।
रौक्ष्यमच्छायता शैत्यं वायोर्धर्माः पृथग्विधाः ॥
सर्वतोगतिरव्यूहो विष्कम्भश्चेति ते त्रयः ।
आकाशधर्मा विज्ञेयाः पूर्वधर्मविरोधिनः ॥
संहतानां तु यत्कार्यं सामान्यं ते गवादयः ।
इतरेतरधर्मेभ्यो विशेषान्नात्र संशयः ॥
तत्राकारादिधर्मैः पृथिव्या लोकस्य चोपक्रियते भूतान्तराणां च । तत्राकारात्तावत् गवादीनां घटादीनां चाकारनिर्वृत्तिः गौरवादेषामवस्थानम् । रौक्ष्यादपां संग्रहो वैशद्यं च भूतानाम् । वरणादनभिप्रेतानां छादनम् । स्थैर्याद्वृत्तिः प्रजानां भूतान्तराणां च । स्थितेर्मात्रादिसन्निधानाद्यनुग्रहः । भेदाद्घटादिनिष्पत्तिः । व्यूहश्चावयवानाम् । क्षान्तेरुपभोगभोग्यता । कृष्णच्छायत्वाद्रात्रिसम्पच्छायाकार्यप्रसिद्धिश्च । सर्वोपभोग्यत्वात्सर्वभूतानुग्रहः । एवं स्नेहादिभिर्लोकस्योपकारः क्रियते भूतान्तराणां च । स्नेहाद्रूपसंपद्वायुप्रतीकारो ऽग्निशमनं संग्रहश्च पृथिव्याः । सौक्ष्म्यादनुप्रवेशः । शौक्ल्याच्चन्द्राद्विनिर्वृत्तिः । मार्दवात्स्नानावगाहनमेकक्रिया कठिनानाम् चावनामनम् । गौरवात्सन्तानाच्च भूतानुग्रहार्थं स्रोतस्त्वम् । शैत्यादुष्णप्रतीकारः । रक्षातः प्रजासु घोरशमनम् । पवित्रत्वाद्धर्मोपचयः शौचविधिरलक्ष्योपघातश्च । सन्तानाद्द्रव्यसंघातः । तथोर्ध्वगत्यादिभिर्धर्ममात्रैस्तेजसां लोकस्य चोपक्रियते भूतान्तराणां च । ऊर्ध्वगतेः पाकप्रकाशसिद्धिः । पावकत्वाद् द्रव्यशौचं च । दाहकत्वात्क्षारोत्पत्तिः । शीतप्रतीकारो नभसश्चोष्णत्वं शब्दनिष्पत्त्यर्थम् । पाचकत्वात्स्वेद्य स्वेदनमन्नपक्तिः पृथिव्यवयवानां क्रियायोग्यता, तथा बाह्यान्तरपरिणामः, रसलोहितमांसस्नाय्वस्थिमज्जाशुक्राणां लाघवाद्दाह्यातिक्रमः । भास्वरत्वाद्द्रव्यान्तरप्रकाशनम् । प्रध्वंसित्वाद्दग्धपक्वानामुपभोगः । तैजसः प्रजापालनम् । तथा तिर्यक्पातादिभिर्धर्मैर्वायुना लोकस्य चोपकारः क्रियते भूतान्तराणां च । तिर्यक्पाताद्दृष्टिविक्षेपो गन्धसंवहनं च । पवित्रत्वात्पूतिद्रव्यपवनम् । आक्षेपनोदनाभ्यामुत्कर्षः प्रथमं धर्माम्भसः । व्यूहश्च शरीरे रसादीनां धातूनां च । अग्नेश्चोपध्मानमभिधातश्चाकाशस्य । बलात्समीकरणं सर्वेषाम् । रौक्ष्याद्विशोषणम् । अच्छायत्वादहोरात्रप्रसिद्धिः ।
शैत्यादुष्णप्रतीकारः । तथा सर्वतोगत्यादिभिर्धर्मैर्नभसा लोकस्योपकारः क्रियते भूतान्तराणां च । सर्वतोगतेः समन्तात्तुल्यदेशश्रवणनामेकश्रुतित्वम् । अव्यूहविष्कम्भाभ्यां सर्वेषामवकाशतादानमित्युक्ताः पृथिव्यादयः । एते विशेषा इत्युच्यन्त इति ।
आह, कथं पुनरेते विशेषा इत्युच्यन्ते ?
यस्मात्
शान्ता घोराश्च मूढाश्च

39

तत्र शान्तास्तावत् स्वसंस्कारविशेषयोगात्तत्सन्निधौ प्रसादादिधर्मोत्पत्तेः । घोरास्तु शेषादिधर्मनिमित्तत्वात् । मूढाश्च वरणादिधर्महेतुत्वात् । तन्मात्राणि पुनरशान्तघोरमूढानि अतो ऽविशेषा इत्युच्यन्ते । तदेते यथा व्याख्याता अविशेषा विशेषाः पुरुषार्थसिद्ध्यर्थं बहुधा व्यवतिष्ठन्ते । कस्मात् ? न ह्येतेषामेकधावस्थाने पुरुषार्थः सिद्ध्यतीति ॥ 38 ॥
कारिका 39
आह, अतिसामान्योक्तमिदमित्यतो न प्रतिपद्यामहे । तस्माद्वक्तव्यं कथं विशेषणामवस्थानमिति ?
उच्यते-
सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
तत्र सूक्ष्मा नाम चेष्टाश्रितं प्राणाष्टकं संसरति । मातृपितृजास्तु द्विविधाः । जरायुजा अण्डजाश्च । तेषां कोशोपहृताः कोशाः लोमरुधिरमांसास्थिस्नायुशुक्रलक्षणः । तत्र लोमरुधिरमांसानां मातृतः सम्भवः । अस्थिस्नायुशुक्राणां पितृतः । तत्रैवाशितपीताध्यासा दष्टौ कोशानपरे व्याचक्षते ।
कथं पुनरेषां कोशत्वम् ?
आवेष्टनसामर्थ्यात् । यथा कोशकारः कोशेनावेष्टितो ऽस्वतन्त्रः, एवं सूक्ष्मशरीरं सप्राणमेतैरावेष्टितमस्वतन्त्रं तत्तत्कर्मोपचिनोति ।
प्रभूतास्तूद्भिज्जाः स्वेदजाश्च तदेतैस्त्रिविधैर्दैवमानवतैर्यग्योनलक्षणस्त्रिविधो भूतसर्ग आरभ्यते । तत्र देवानां चतुर्विधं शरीरं प्रधानानुग्रहात्, यथा परमर्षेर्विरिञ्चस्य च । तत्सिद्धिभ्यो यथा ब्रह्मणः पुत्राणां तत्पुत्रपुत्राणां च । मातापितृतो यथादितेः कश्यपस्य च पुत्राणाम् । केवलाद्वा यथा पितृतो मित्रावरुणाभ्यां वशिष्ठस्य । मनुष्याणां तु जरायुजम् । धर्मशक्तिविशेषात्तु कस्यचिदन्यथापि भवति । यथा द्रोणकृपकृपीधृष्टद्युम्नादीनाम् । तिर्यग्योनीनामपि चतुर्विधम्
जरायुजं गवादीनामण्डजं चैव पक्षिणाम् ।
तृणादेश्चोद्भिज्जं क्षुद्रजन्तूनां स्वेदजं स्मृतम् ॥
एवं त्रिविधा विशेषा व्याख्याताः ।
तत्र केचिन्नियताः केचिदनियता इत्याह- के पुनरत्र नियताः, के वानियताः ?
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते

40

सूक्ष्मा आसर्गप्रलयान्नित्याः मातृपितृजा निवर्तन्ते । सह प्रभूतैरिति वर्तते । केचित्तु प्रभूतग्रहणेन बाह्यानामेव विशेषाणां ग्रहणमिच्छन्ति । तेषामुद्भिज्जस्वेदजयोरग्रहणम् । तस्मादुभयथा प्रभूता इत्येतदनवद्यम् ।
आह, सूक्ष्माभिधानमप्रसिद्धत्वात् । मातापितृजाश्च प्रभूताश्च इत्यतो युक्त एषां परिग्रहः । सूक्ष्मास्त्वप्रसिद्धा । तस्माद्वक्तव्यं कथमेषामुत्पत्तिरस्तित्वं वेति ?
उच्यते- पूर्वसर्गे प्रकृतेरुपपन्नानां प्राणिनां सत्त्वधर्मोत्कर्षादन्तरेण द्वयसमापत्तिं मनसैवापत्यमन्यद्वा यथेप्सितं प्रादुर्बभूव । प्रियं खल्वपि चक्षुषा निरीक्ष्य कृतार्थमात्मानं मन्यते । तस्यामपि क्षीणायां वाक्सिद्धिर्बभूव । अभिभाष्य प्राणिनो यदिच्छन्ति तदापादयन्ति । तदद्याप्यनुवर्तते- यच्छङ्खी विरुतेनापत्यं बिभर्ति । प्रियं खल्वपि सम्भाष्य महतीं प्रीतिमनुभवति । तस्यामुपक्षीणायां हस्तसिद्धिर्बभूव । संस्पृश्य पाणिमीप्सितमर्थमुपपादयन्ति । तदेतदद्याप्यनुवर्तते- यत्प्रियं चिरादालोक्य पाणौ संस्पृश्य प्रीतिर्भवति । अस्यामुपक्षीणायामाश्लेषसिद्धिर्बभूव । आलिङ्गनेन प्राणिन ईप्सितं लभन्ते । तदेतदद्याप्यनुवर्तते- यत्प्रियमालिङ्ग्य निर्वृत्तिर्भवति । तस्यामुपक्षीणायां द्वन्द्वसिद्धिरारब्धा । स्त्रीपुंसौ संधृष्यापत्यमुत्पादयेतां ममेदं ममेदमिति च परिग्रहाः प्रवृत्ताः । एतस्मिन्नेवावसरे संसारो वर्ण्यते ।
तत्र चाचार्याणां विप्रतिपत्तिः । पञ्चाधिकरणस्य तावद्वैवर्तं शरीरं मातापितृसंसर्गकाले करणाविष्टं शुक्रशोणितमनुप्रविशति । तदनुप्रवेशाच्च कललादिभावेन विवर्धते । व्यूढावयवं तूपलब्धप्रत्ययं मातुरुदरान्निस्सृत्य यौ धर्माधर्मौ षट्सिद्ध्युपभोगकाले कृतौ तद्वशादवतिष्ठते । यावत्तत्क्षयाच्छरीरपातस्तावत् । यदि धर्मसंस्कृतं करणं ततो द्युदेशं सूक्ष्मशरीरेण प्राप्यते, तद्विपर्ययात्तु यातनास्थानं तिर्यग्योनिं वा, मिश्रीभावेन मानुष्यम् । एवमातिवाहिकं सूक्ष्मशरीरमिन्द्रियाणां धारणप्रापणसमर्थं नित्यं बाह्येनापायिना परिवेष्ट्यते परित्यज्यते च । पतञ्जलेस्तु सूक्ष्मशरीरं यत्सिद्धिकाले पूर्वमिन्द्रियाणि बीजदेशं नयति तत्र तत्कृताशयवशात् द्युदेशं यातनास्थानं वा करणानि वा प्रापय्य निवर्तते । तत्र चैवं युक्ताशयस्य कर्मवशादन्यदुत्पद्यते यदिन्द्रियाणि बीजदेशं नयति तदपि निवर्तते, शरीरपाते चान्यदुत्पद्यते । एवमनेकानि शरीराणि । विन्ध्यवासिनस्तु विभुत्वादिन्द्रियाणां बीजदेशे वृत्त्या जन्म । तत्त्यागो मरणम् । तस्मान्नास्ति सूक्ष्मशरीरम् । तस्मान्निर्विशेषः संसार इति पक्षः । एषा सूक्ष्मशरीरस्योत्पत्तिः ॥ 39 ॥
कारिका 40
आह, एवमनेकनिश्चयेष्वाचार्येषु भवतः का प्रतिपत्तिरिति ?
उच्यते- यत्तावत्पतञ्जलिराह सूक्ष्मशरीरं विनिवर्तते पुनश्चान्यदुत्पद्यते, तत् सूक्ष्मास्तेषां नियता इति वचनादस्माभिर्नाभ्युपगम्यते । तस्मात्
पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्

41

तत्र पूर्वोत्पन्नमित्यनेन महदादेः सूक्ष्मपर्यन्तस्य लिङ्गस्यासर्गप्रलयान्नित्यत्वमाह । असक्तमित्यनेन गूढस्थिरबीजानुप्रवेशमाचष्टे । न हि लिङ्गं क्वचिद्व्याहन्यते, किं तर्हि लिक्षादि बीजमप्याविशति । बदरगोलमपि भित्वा प्रविशति । नियतमित्यनेन प्रतिपुरुषव्यवस्थां प्रतिजानाति । साधारणो हि महान्प्रकृतित्वादिति वार्षगणानां पक्षः । महदादीत्यनेन प्राणाष्टकं परिगृह्णाति पूर्वात्मानः प्राणाद्याश्च पञ्च वायव इति । सूक्ष्मपर्यन्तमिति तत्त्वान्तरप्रतिषेधमाह, एतावदेव नातो ऽन्यदिति । संसरतीति गतिमाचष्टे, ततश्चाविभुत्वाद् बीजावेशत्यागौ प्रख्यातो भवतः । निरुपभोगमिति शरीरान्तरस्यावकाशं करोति । सूक्ष्मशरीरस्य ह्युपभोगसामर्थ्ये ऽभ्युपगम्यमाने शरीरान्तरस्य निरवकाशत्वादनुत्पत्तिप्रसंगः स्यात् । भावैरधिवासितमित्यनेन भावाष्टकपरिग्रहं द्योतयति । बुद्धिरूपैरिह धर्मादिभिरधिवासितम् । तत्सामर्थ्यात्सर्वत्राप्रतिहतं प्राणाष्टकं सूक्ष्मशरीरे ऽवस्थानगमनमात्रफले व्यवस्थितम् । द्युतिर्यक्प्रेतेषु संसरतीति तेनैव चार्थसिद्धौ शरीरान्तरपरिकल्पनानर्थक्यमतो न बहूनि शरीराणि ॥ 40 ॥
कारिका 41
यत्पुनरेतदुक्तम्- विभुत्वादिन्द्रियाणां स्वात्मन्यवस्थानं वृत्तिलाभो वृत्तिनिरोधश्च संसार इति, अयुक्तमेतत् । कस्मात् ? विभुत्वासिद्धेः । न हि विभुत्वमिन्द्रियाणां कश्चिदभ्युपगच्छति । किं कारणम् ? सततोपलब्धिप्रसंगात् । युगपदुपलब्धिप्रसंगाच्च । कार्यकरणपुरुषाणां हि विभुत्वे सततोपलब्धिप्रसंगः । विषयाणां प्रतिबन्धाभावात्प्रसज्यते । प्रात्प्यविशेषाच्च सर्वविशेषाणां युगपदुपलब्धिप्रसंगः । व्यवहितविषयग्रहणं च । सर्वत्र सन्निधानात्सन्निकृष्टविप्रकृष्टयोः प्रत्यक्षानुमानागमानां चाविशेषः प्रसज्यते । वृत्तिविशेषात्तद्विशेष इति चेत् न, हेत्वभावात् । विभूनामिहास्ति वृत्तिविशेष इत्यत्र हेतुरनुक्तः । तस्मान्न करणानां विभुत्वमुपपद्यते । तस्मात्
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया ।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम्

मूल पाठ: Yuktidīpikā a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā · Edition: Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc