भाषा

ENहिગુ
ग्रंथ पाठ

युक्तिदीपिका · श्लोक 68-72

68

य___ शरीरान्तरोपार्जिता धर्मादयो न तावत्कारणम् । बुद्धि___मुपसंप्राप्ता अकृतार्थत्वाद् बुद्धिश्च प्रधानं तदा तिष्ठत्ययं नानात्वदर्शी तस्य संस्कारस्य सामर्थ्यात् । को दृष्टान्तः ? चक्रभ्रमवद्धृतशरीरः । तद्यथा कुम्भकारप्रयत्नविशिष्टेन दण्डेन घटादिनिष्पत्तियोग्यक्रिया चक्रस्य भ्रमः । तेन तुल्यं चक्रभ्रमवत् । यथा चक्रभ्रमणं घटार्थम् । निष्पन्ने घटादिनिष्पत्तियोग्यक्रिया चक्रस्य भ्रमः । तेन तुल्यं चक्रभ्रमवत् । यथा चक्रभ्रमणं घटार्थम् । निष्पन्ने घटे पूर्वसंस्कारानुरोधान्न निवर्तते न च तदा निवृत्तमिति कृत्वा संस्कारक्षये ऽप्यवतिष्ठते, एवं सम्यग्दर्शनार्थं शरीरं सम्यग्ज्ञानाधिगमे ऽपि न निवर्तते पूर्वसंस्कारवशात् । न च तदा निवृत्तमिति कृत्वा संस्कारक्षये ऽप्यवस्थाप्यत इति ॥ 67 ॥
कारिका 68
यदा तु संस्कारक्षये तन्निमित्तस्य शरीरस्य भेदः, अतः
प्राप्ते शरीरभेदे
धर्माधर्मौ कृतार्थौ कारणे बुद्धिलक्षणे लयं गच्छतः । यश्चास्य भूतावयवः शरीरारम्भकः स सर्वभूतेषु भूतानि तन्मात्रेषु, इन्द्रियाणि तन्मात्राणि चाहंकारे, अहंकारो बुद्धौ बुद्धिरव्यक्ते । सेयं तत्त्वानुपूर्वी तदर्थप्रधानादुत्पन्ना परिसमाप्ते पुनः प्रधाने प्रलयं गच्छतीति । प्रधानमप्यर्थवशादेवास्य शरीराणि तेषु तेषु जात्यन्तरपरिवर्तेषु करोति । स चार्यश्चरितार्थः ।
अतः
चरितार्थत्वात् प्रधानविनिवृत्तौ ।
अतीन्द्रियमसंवेद्य लघु सर्वत्र सन्निहितं प्रशस्तमनिर्मितं विशुद्धमक्षयं निरतिशयम्
एकान्तमात्यन्तिकमभयं कैवल्यमाप्नोति

69

एतच्चावस्थानं बौद्धैर्निरुपधिशेषनिर्वाणलक्षणमपवर्गो व्याख्यातः । एतत्परं ब्रह्मं ध्रुवममलमभयमत्र सर्वेषां गुणधर्माणां प्रतिप्रलयः । एतत्प्राप्य सर्वायासैः सर्वबन्धनैरनादिकालप्रवृत्तरागद्वेषवियुक्तो मुक्तो भवति । एतदर्थं ब्राह्मणा दयितपुत्रदारधनसम्बन्धमपहाय गुरुशुश्रूषापराः शरीरमरण्येषु यातयन्ति । कथं नामैकान्तिकमात्यन्तिकं च कैवल्यं स्यादिति यत्रैवोत्थानं शास्त्रस्य तत्रैवोपसंहार आचार्येण कृतः ॥ 68 ॥
कारिका 69
आह, किमर्थं पुनरिदं शास्त्रं केन वा पूर्वं प्रकाशितमिति ?
उच्यते- यदुक्तं किमर्थमिति-
पुरुषार्थार्थमिदम्
कथं नामाज्ञानवशात्तत्संस्कारोपनिपतितानां प्राणिनामपवर्गः स्यादित्येवमर्थमिदं शास्त्रं व्याख्यातम् ।
यत्तूक्तं केनेति, उच्यते-
गुह्यं परमर्षिणा समाख्यातम् ।
गुह्यमिति गूहनीयम् । रहस्यमकृतात्मनां यमनियमेष्वनवस्थितानामादरादप्यनध्येयम् । परमर्षिर्भगवान्सांसिद्धिकैर्धर्मज्ञानवैराग्यैश्वर्यैराविष्टपिण्डो विश्वाग्रजः कपिलमुनिः । तेन कपिलमुनिना समाख्यातम् ।
सम्यगाख्यातम्, चिराभ्यस्तस्य विद्यास्रोतसो निर्वचनसामर्थ्यात् स्यादेतत्, कथमिदं गुह्यमिति ? उच्यते- कथं वेदं गुह्यं न स्यात् ?
भवाग्रोत्पन्नैरपि सनकसनातनसनन्दनसनत्कुमारप्रभृतिभिरनित्यानां
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते च यत्र भूतानाम्

70

तत्र स्थितिस्तावद्रूपप्रवृत्तिफलनिर्देशेनोत्पत्तिरपि प्रकृतेर्महानित्यादिः । प्रलयो ऽप्यविभागाद्वैश्वरूप्यस्येति वचनात् । औत्सुक्यानुपरमात्प्रकृतिपुरुषयोः । स्थितिरुत्पत्तिर्दृश्यदर्शनशक्तयोः सापेक्षत्वात् । तथा चोक्तं-
पुरुषस्य दर्शनार्थः कैवल्यार्थस्तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ इति ( इस्क् 21 )
प्रलयः प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्ताविति ( इस्क् 68 ) । अथवा स्थितिक्षणभङ्गप्रतिषेधात्कालान्तरेष्वस्यानाशादुत्पत्तिर्विपरिणामान्नाभूतप्रादुर्भावादकस्मादसम्भवात्, प्रलयो ऽपि निमित्तान्तरात्स्वाभाव्यादेव भूतानामपि व्यक्तानां निष्पत्तिमतामिति यावत् । एवं च महदादयो ऽपि परिगृहीता इति ।
आह, पुरुषादयस्तर्हि परित्यक्ताः । कथं वा भूतशब्द इति ?
उच्यते- वितथप्रतिषेधार्थत्वात् । यावत् किंचिदवितथं भूतं तस्य सर्वस्येह स्थित्यादय उच्यन्त इति । उत्पत्तिविनाशप्रतिषेधाविशेषात् । एवमपि पुरुषादीनामुत्पत्तिप्रलयावपि प्राप्नुतः । किं कारणम् ? अविशेषादिति । उच्यते- सम्भवतो विशेषणं भवति । तत्र स्थितिरेव पुरुषादीनाम् । इतरेषां तु स्थित्युत्पत्तिप्रलया इति विज्ञास्यामः ॥ 69 ॥
कारिका 70
आह, कस्मै पुनरिदं शास्त्रं परमर्षिणा प्रकाशितमिति ?
उच्यते-
एतत्प्रवित्रमग्र्यं मुनिरासुरये ऽनुकम्पया प्रददौ ।
तत्र पवित्रं पावनात् । अग्र्यं सर्वदुःखक्षपणसमर्थत्वात् । पवित्रान्तराणि पुनरेकदेशं क्षालयन्त्यधमर्षणगङ्गादीनि । तस्मादिदमेवाग्र्यं मुनिरासुरये ऽनुकम्पया प्रददौ ।
आह, सम्प्रदानस्याकस्मिकत्वम्, धर्मादिनिमित्तानुपपत्तेः । न तावत्परमर्षेर्धर्मार्थं शास्त्रप्रदानमुपपद्यते, फलेनानभिष्वङ्गात् । नार्थकामार्थम्, शिष्याणामनायासप्रसंगात् । न मोक्षार्थम्, सांसिद्धिकेनैव ज्ञानेन तत्प्राप्तेः । तस्माद्विपरीतार्थासम्भवात् परिशेषादकस्मादाचार्यः शास्त्रनिधानं प्रददाविति ।
उच्यते- नाकस्मात्, किं तर्हि अनुकम्पया प्रददौ । आध्यात्मिकाधिदैविकाधिभौतिकैर्दुःखैः पीड्यमानमासुरिमुपलभ्य स्वात्मनि च ज्ञानसामर्थ्यात्सति कार्यकारणसम्प्रयोगे दुःखानामप्रवृत्तिं परिज्ञाय शिष्यगुणांश्च कथं नाम यथा मम सुखदुःखेषु ज्ञानोपनिपातात्साम्यमेवमासुरेरपि स्यात्तद्द्वारेणान्येषामपि पुरुषाणामेवमनुकम्पया भगवान्परमर्षिः शास्त्रमाख्यातवान् ।
यथा च परमर्षिरासुरये तथा
आसुरिरपि
दशमाय कुमाराय भगवत्-
पञ्चशिखाय
तेन च बहुधा कृतं तन्त्रम्

71

बहुभ्यो जनकवशिष्ठादिभ्यः समाख्यातम् । अस्य तु शास्त्रस्य भगवतो ऽग्रे प्रवृत्तत्वान्न शास्त्रान्तरवद् वंशः शक्यो वर्षशतसहस्रैरप्याख्यातुम् ॥ 70 ॥
कारिका 71
संक्षेपेण तु द्वाव__ हारीतवाद्धलिकैरातपौरिकार्षभेश्वरपञ्चाधिकरणपतञ्जलिवार्षगण्यकौण्डिन्यमूकादिक-
शिष्यपरम्परयागतम्
भगवानीश्वरकृष्णश्च साहायकं शास्त्रम् ।
पूर्वाचार्यसूत्रप्रबन्धे गुरुलाघवमनाद्रियमाणः पौरस्त्यान्याख्यानव्या___न गर्भमतिप्रमादं ददातीति ग्रन्थभूयस्त्वमुपजायते । तच्चेदानीन्तनैः प्राणिभिरल्पत्वादायुषो ग्रन्थत एव न सूपपादं किं पुनः श्रवणप्रयोगाभ्याम् । आह च- चतुर्भिः प्रकारैर्विद्या सूपयुक्ता भवति- आगमकालेन स्वाध्यायकालेन प्रयोगकालेन च । तत्र चास्यागमनकालेनैवायुः पर्युपयुक्तं स्यात्ततश्च शास्त्रानर्थक्यम् । इत्यस्य मन्दधियामप्याशु ग्रहणधारणप्रयोगसम्पत्स्यादिति षष्टितन्त्रादुपाख्यानगाथाव्यवहितानि वाक्यान्येकत उपमृद्य शिष्यानुकम्पार्थं यावत्
ईश्वरकृष्णेन चैतदार्याभिः ।
सप्तत्या
संक्षिप्तमार्यमतिना
सर्वसत्त्वहितप्रवृत्तेन
सम्यग् विज्ञाय सिद्धान्तम्

72

कथं चास्य सम्यक्सिद्धान्तविज्ञानस्याप्यनेकग्रन्थशतसहस्राख्येयं सांख्यपदार्थं सतत्त्वमखण्डमाचार्याणां सप्तत्या संक्षिप्तवान् ॥ 71 ॥
कारिका 72
आह च-
सप्तत्यां किल ये ऽर्थास्ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश्चापि

मूल पाठ: Yuktidīpikā a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā · Edition: Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc