भाषा

ENहिગુ
ग्रंथ पाठ

योगयात्रा · अध्याय 6

6.1

पुरुहूतहुताशयमा निरृतिर् वरुणानिलयक्षशिवाश् च दिशाम्।
पुनर् अर्कसितारतमोरविजाः शशिसौम्यबृहस्पतयः पतयः॥

6.2

शच्या सहैरावणगः सवज्रो हैमो ऽथवा दारुमयो महेन्द्रः।
विचित्रमाल्यध्वजरक्तचन्दनैः सौम्योपहारेण च पूजनीयः॥

6.3

अथ मन्त्रम्[क्.मन्त्रः:] <अभी स्हु नः सखीनाम्> इति जप्त्वा पुरतः प्रन्दरस्य।
पुरुहूतदिशं नृपो ऽभियुञ्ज्यात् पुरुहूतं हृदये निवेश्य सम्यक्॥

6.4

ताम्रजा प्रतिकृतिः सहस्रगो रक्तचन्दनकृतानुलेपना।
रक्तवस्त्रकुसुमध्वजार्चिता[क्.ध्वजाचिता] सूर्यकान्तमणिभिर् विभूषिता॥

6.5

<आ कृष्ण> पूर्वं यदिवा ऽप्य् <उद् उ त्यं> मन्त्रं समावर्त्य रवेः पुरस्तात्।
क्षीरौदनेन प्रतिपूज्य यायात् प्राचीम् पुरस्कृत्य दिनेशशक्रौ॥

6.6

अग्नेस् तनुः कनकेनैव कार्या रक्तआ[क्.रक्तं] ध्वजं कुसुमं चन्दनं च।
आज्यम् बलिर् हुतभुग्विजिगीषोर्[क्.हुतभुग्दिग्जिगीषोर्] मन्त्रो[क्.मन्त्रं] <घृतं घृतयोनं[क्.घृतयोनेः]> पिबेति[क्.पठेच् च]॥

6.7

कार्यश् चित्रो दितिसुतगुरुर् वामयोर्षाद्धकायो[क्.यमो वा ऽर्धकायो] नानारूपाः कुसुमभलयस् तस्य चित्रो ध्वजश् च।
<शुक्रज्योतिः> प्रभृति च जपेन्[क्.पठेन्] मन्त्रम् अस्य ऽग्रतस् तौ कृत्वा यायाद् भृगुजदहनौ जेतुम् इच्छुस्[क्.इच्छंस्] तद् आशाम्॥

6.8

अयोमयम् प्रोद्यतदण्डहस्तं यमं सकृष्णध्वजपुष्पगन्धम्[क्.सकृष्ण\-.ध्वज\-.पुष्प\-.गन्धैः]।
तिलौदनैर्[क्.तिलोदनैर्] अर्च्य समांसमद्यैर् <यमेन दत्तं> च जपो ऽस्य कार्यः॥

6.9

मूर्त्तिः स्याद् रुधिराख्यसंज्ञमणिना[क्.रुधिराक्षसंज्ञमणिना] भौमस्य रक्ताः स्रजो रक्तानि ध्वजचन्दनानि कुसुमैः पक्वान्नमांसैर् बलिः।
<अग्निर् मूर्ध[क्.मूर्धा]>पदैः स्तुतिः क्षितिसुतस्यैवं यमाङ्गारकौ दिङ्नाथौ गमने ऽग्रतो नरपतिः कृत्वा व्रजेद् दक्षिणम्[क्.दक्षिणाम्]॥

6.10

भैरवाप्रतिकृतिः पटे कृता सर्वगन्ध[क्.पुष्प]फलपुष्प[क्.धूप]पूजिता।
<एष ते> निरृतिमन्त्रचोदना कृष्णरक्तकुसुमध्वजाम्बरा॥

6.11

सुरदारुमयः शशाङ्कशत्रुः कुसुमाद्यैर् असितैः कृतोपहारः।
निरृतिसहितः[क्.निरृतेर् महितः] स्वदिक्प्रयाणे स्तुतिमन्त्रो ऽस्य च कीर्तितः <कया नः>॥

6.12

पश्चाद् व्रजेद् रजतमयं जलेश्वरं पाशान्वितम् सह गदया ऽब्जपूजितम्।
कृत्वौदनैर् बलिम् अपि यावाकान्वितं[क्.यावाकाचितं] <ये ते शतं[क्.(लचुन)शं]> वरुण[क्.वरुणं] इति स्तुयाद् द्विजः॥

6.13

सौरेर् अर्चा नीलकाचा ऋशाङ्गी पूज्या कृष्णैर् वस्त्रमाल्योपहारैः।
<शं नो देवी> ऽत्य् एष मन्त्रो ऽपराशां जेतुं यायात् तौ पुरस्कृत्य देवौ॥

6.14

वायोर् मूर्त्तिः श्वेतमृद्भिर् विधेया पूज्या श्वेतैः पुष्पवस्त्रध्वजाद्यैः।
मन्त्रो <वातो वा मनो वे> ऽति जाप्यो वायव्याशाम् प्रस्थितस्ये ऽऽश्वरस्य॥

6.15

मन्त्रः सोमस्या<ऽऽप्यायस्वे> ऽत्य् अन्यच् छ्वेतं स्रग्वस्त्राद्यम्।
वायुं सोमं च ऽग्रे कृत्वा यायाद् राजा वायोः काष्ठाम्॥

6.16

हाटकमूर्तिं[क्.हाटकीम् मूर्तिं] कुर्याद् धनदस्य विभूषितां[क्.भूषितां] रत्नैः सगदाञ् च[क्.सर्वैः सगदां च]।
पूजितां स्रग्वस्त्राद्यैश् च विचित्रै <रक्षसाम् भागो ऽसि> ऽत्य् एष हि मन्त्रः॥

6.17

सौवर्णं रजतासने नृमिथुनं चन्द्रात्मजस्येष्यते हारिद्रौदन\-.मिष्ट\-.गन्ध\-.कुसुमैर् गन्धैश् च संपूजितम्[क्.तत् पूजितम्]।
<उद्बुध्यस्व> जपश् च तस्य कथितः स्याद् ब्रह्मयज्ञेति च[क्.ब्रह्मयज्ञादिना] गच्छेद् उत्तरतो धनेश्वरबुधौ ध्यायन् पुरस्कृत्य च॥

6.18

गोत्वग्जाप्यति भैरवा[क्.गोत्वग्जा प्रतिभैरवा] प्रतिकृतिर् भस्मोत्कटा शूलिनो दध्ना चोदनषंयुतेन च[क्.ओमित्तेद्] बलिर्[क्.बलिभिर्] मन्त्रो <नमः शम्भवे>।
मूर्त्तिः स्यान् मणितो गुरोर् विमलिका[क्.विमलकात्] पीतं तु वस्त्रादिकं[क्.वस्त्रादि यन्] मन्त्रश् च ऽस्य<बृहस्पतेर्[क्.बृहस्पते]> इति तयोर् यायाद् दिशम् पूज्य तौ॥

6.19

दिङ्नाथं कुलदेवतां स्वनगरे येषां कृताच् च ऽऽलयास् तान् सम्पूज्य यथानुरूप\-.बलिभिर् दद्याद् बलिम् भौतिकीम्[क्.भौतिकम्]।
कृत्वा पायसमद्यमांसपललैर् भक्ष्यैश् च नानाविधैर् बालकृईडनकैः सुगन्धकुसुमैर्[क्.सुगन्धिकुसुमैर्] मूलैः फलैः स्वादुभिः॥

6.20

रथ्यापुरद्वारनदीतटेषु चतुष्पथाट्टालकनिःकुटेषु।
गुहैकवृक्षादिषु ये वसन्ति ते पूजनीयाः प्रमथा यथावत्॥

6.21

नमो ऽस्तु वः शक्रहुताशदण्डभृत्क्षपाचराम्भःपतिमातरिश्वनाः[क्.नाम्]
कुबेररुद्राहिसुपर्णशक्तिभृत्पिशाचदैत्यानुचराश् च ये गणाः>॥

6.22

कुसुमशरशरीरस्पर्धिनः कामरूपा विविधसुरभिवस्त्राः स्रग्विणो[क्.विविध\-.सुरभिवस्त्रस्रग्विणो] ऽसह्यवीर्याः।
पवनसदृशवेगा मानिनो नित्यहृष्टास् तरुणदिनकरत्विट्स्पर्धितेजोदधाणाः>॥

6.23

<लम्बक्रोडा ह्रस्वा दीर्घाः खञ्जैकाक्षाः शुष्काः स्थूलाः।
नानापक्षिव्यालोष्ट्रास्या वक्त्रैर् हीनाः क्रोडास्याश् च>॥

6.24

<बहुवक्त्रशिरोभुजपाददृशः कृकलासभुजंगकृताभरणाः।
विकटा मुकुटोत्कटरत्नभृतस् तरुणार्कतडिद्धुतभुक्कपिलाः>॥

6.25

<भ्रमरतमालद्विपगवलाभाः क्षितिधरमेघप्रतिमशरीराः[क्.क्षितिधर\-.मेघ\-.प्रतिभशरीराः]।
अशनिनिपातस्वनसनिनादा[क्.मनादा] द्रुतगमने च स्व[क्.श्व]सनमनोगाः>॥

6.26

<सिमुशलगदाश्मशक्तिशूलद्रुमसशरासनबाणचक्रहस्ताः।
कणय[क्.कणप]परिघकुन्तमुष्टिमाया लगुडकुठारशतघ्नीधारिणश् च>॥

6.27

<गृह्णन्तु[क्.गृह्णीत] प्रमथगणा बलिं सभूता भूभर्त्रा विजिगीषुणा निवेदितं वः।
जित्वा ऽरीन् द्विगुणम् अतो बलिं विचित्रं दास्यामः स्वविषयम् एत्य वः प्रसादात्>॥

6.28

<राजा वः शरणम् उपागतः सभृत्यः सामात्यः ससुतकलत्रमित्रबन्धुः।
रक्षार्थम् मनुजपतेः सहायकृत्यं क्रुवीध्वं रिपुबलसंक्षयाय च ऽस्य>॥

6.29

<स्वप्ने निमित्तम् अथवा मनुजेश्वरस्य यच् छब्दम्[क्.छध्वम्] एकतमम् अस्य जयाजयाय।
एवं भवत्य् उपकृतं सुमहद् भवद्भिः कार्यं करिष्यति यथा भवतां प्रसादात्>॥ए29

मूल पाठ: Yogayātrā · Edition: Ramacandra Jha, Darabhanga, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the Brhatsamhita · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc