योगयात्रा · अध्याय 7
मदयन्तिका ऽश्वगन्धा मदनफलवचामधूनि शस्यन्ते।
प्रथमर्क्षे भरणीषु च[क्.(तु)] सिद्धार्थकभद्रदारुवचाः॥
न्यग्रोधशिरीषाश्वत्थपत्रगन्धाश् च कृत्तिकास्नाने।
बहुबीजप्रशस्ततोयैर् जयार्थिनो रोहिणीस्नानम्॥
मुक्ताकाञ्चनमणिसंयुक्तेन ऽम्भसा मृइगाङ्कर्क्षे।
रौद्रे वचाश्वगन्धाप्रियंगुमिश्रैर् जलैः कथितम्॥
आदित्ये गोमयगोष्ठमृद्भिर् अथ गौरशालिभिः पुष्ये।
सिद्धार्थसहस्रद्वय[क्.सिद्धार्थद्विसहस्रैः]प्रियंगुमदयन्तिकाभिश् च॥
वल्मीकशतान् मृद्भिः नागे[क्.सार्पे] पित्र्ये च देवनिर्माल्यैः।
पूर्वासु फल्गुनीषु च सलवणघृतशाड्वलैः प्रोक्तम्॥
शतपुष्पया प्रियंग्वा मुस्ताभिश् चोत्तरासु क्रुवीत।
हस्ते सरोगिरिमृदा चित्रायां देवनिर्माल्यैः॥
स्वातौ जलरुहकुसुमैर् ऐन्द्राग्न्ये[क्.ऐन्द्राग्ने] मत्स्य[क्.मुस्त]पद्मकक्षौद्रैः।
मैत्रे सरिदुभयमृदा हरितालमृदा च माहेन्द्रे॥
भद्रासने शमीमयपत्रसहस्रद्वयाम्बुभिर् मूले॥
समधूकपद्ममत्स्यैः स्नानम् अषाढासु पूर्वासु॥
कुर्याद् उशीरचन्दनपद्मकमिश्रेण वारिणा वैश्वे।
नद्युभयकूलसंगममृत्कनकैः कीर्त्यते श्रवणे॥
घृतभद्रदारुमधुभिश् च वासवे वारुने घृतक्षौद्रैः।
समदनफल[क्.समदनफलैः]सहदेवाम्बुशूकमदयन्तिकामिश्रैः॥
श्रीवासकः प्रियंगुश् च ऽऽजे स्याद् उत्तरास्व् अगुरुगन्धाः।
शस्ताः सपद्मकोशीरचन्दना मानवेन्द्राणाम्॥
रेवत्यां वृषभद्विपविषाणकोशैः च सर्पिमधुपूर्णैः[क्.ससर्पिमधुपूर्णैः]।
गोरोचनाञ्जनयुतैः सलिलैश् च यियासतः पुंसः[क्.यियासताम् पुंसाम्]॥
गिरिवल्मीकनदीमुखकूलद्वयशक्रपादमृद्भिर् अतः।
द्विपवृषविषाणपार्थिवगणिकाद्वाराहृताभिश् च॥
गिरिशिखरान् मूर्धानं वल्मीकमृदा च शोधयेत्[क्.शोचयेत्] कर्णौ।
नद्युभयकूलसंगममृद्भिः प्रक्षालयेत् पार्श्वे॥
इन्द्रस्थानाद् ग्रीवां बाहू करिवृषभयोर् विस्हाणात्[क्.विस्हाणाग्रात्]।
हृदयं च[क्.ओमित्तेद्] नृपद्वारात्[क्.नृपतिद्वारात्] कटिम् अपि वेश्याघृहद्वारात्॥
अक्षतमाषाः स्विन्नास्तिलसहितास् तण्दुला दधि च गव्यम्[क्.अक्षतमाषा आद्यं तिलसहितस् तण्डुलश् च दधिगव्यम्]।
वृषत[क्.वृषभ]पिशितं मृगस्य च पञ्चानाम् आश्विनादीनाम्॥
रुधिरविलापनपायसविहग[क्.भुजंग]मांसानि शांकरादीनाम्।
पित्र्ये तिलौदनं षष्टिकान्नम् ऋक्षद्वये परतः[क्.च तत्परतः]॥
प्राश्याः प्रियंगुचित्राण्डजफलं[क्.प्रियंगुचित्राण्डजाः पलं] यावकं कुलत्थाश् च।
मधुससर्पिषी[क्.मधुसर्पिषी] च हस्तान् मूलान्य् आपः [मूलाम्भः] सक्तवो ऽपि[क्.ओमित्तेद्] मूलात्॥
श्रवणादीनां अद्यात्[क्.भक्ष्याः] शालिशाकं[क्.शालिः शाकं] बिडालमांसं च।
आजं यथेष्टमांसं च शक्तवो[क्.सुसक्तवो] माषसंपृक्ताः॥
प्राचीं गजेन यायाद् रथेन याम्यां हयेन वारुण्याम्।
नरयानेनोदीचीं सर्वं दत्वा दिगीशाय॥
प्राच्यादि घृतं तिलौदनं मत्स्याण् क्षीरं इति प्रदक्षिणम्।
अद्यान् न्र्पतिर् यथादिशं नक्षत्राभिहितं च सिद्धये॥
अस्वादु च्युतमक्षिकानुविद्धं[क्.च्युतकचमक्षिकानुविद्धं]
दुर्गन्धि क्षयकृद् अभूरि यच् च दघ्दम्।
सुस्विन्नं शुचि[क्.मृदु] रुचिरं मनो ऽनुकूलं
स्वाद्व् अन्नं बहु विजाय[क्.च जयाय] यानकाले॥ए22
मूल पाठ: Yogayātrā · Edition: Ramacandra Jha, Darabhanga, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the Brhatsamhita · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0