भाषा

ENहिગુ
ग्रंथ पाठ

योगयात्रा · अध्याय 5

5.1

पूर्वादितस् त्रिपरिवर्तगतैर् अजाद्यैर् भैः सप्तकैर् अनलभाच् च गमो जयाय।
वायुअग्निदिक्स्थपरिघस्य समार्द्धगैश् च मैत्राश्विहस्तगुरुभेषु च सर्वदिक्षु॥

5.2

पूर्वेणाइन्द्रं[क्.पूर्वेणाइ ऽऽन्द्रं] दक्षिणेन ऽऽजपादं रोहिण्यो ऽतश् च ऽर्यमाख्यं च शूलम्।
कामं यायात् साम्परायेषु कार्येष्व् एवं द्वारे[क्.अद्वारे ऽपि] प्रोज्झ्य शूलानि तानि॥

5.3

विवर्जयेत् त्वाष्ट्रयमोरगाणाम् अर्धम् द्वितीयं गमने जयेप्सुः।
पूर्वार्धम् आग्नेयमघानिलानां स्वातीम्[क्.स्वातिम्] मघां चो ऽशनसः समस्ताम्॥

5.4

उत्पातपापग्रहपीडिते भे ये यान्ति भूरिग्रहसंयुते वा।
ते पूर्ववित्तान्य् अपि नाशयन्ति धातुप्रसक्ता इव मूर्त्तिकेन्द्राः[क्.वार्तिकेन्द्राः]॥

5.5

रविसितकुजराहुसौरिचन्द्रा[क्.रविसितकुजराहुसौरचन्द्रा] ज्ञगुरुयुताः पुरतः क्रमाद् दिगीशाः।
व्रजति यदि ललाटगे दिगीशे पतति ततो द्रुमवत् सरित्तटात्सः[क्.सरित्तटस्थः]॥

5.6

यातो ऽयनस्य प्रतिलोमकाष्ठां यः स्यात् स्वतन्त्रो[क्.सुतन्त्रो] ऽपि जितः परेषां।
स केवलव्याकरणाभियुक्तः[क्.केवलं] व्याकरणाभियुक्तः काव्यज्ञगोष्ठ्याम् इव हास्यम् एति॥

5.7

अयनेन गतो ऽर्कसोमयोर् द्युनिशं वा स्थितयोः पृथक् पृथक्।
विदुषाम् इव सर्वशास्त्रवित्[क्.शब्दशास्त्रवित्] समवाये द्विषतां विराजते॥

5.8

तिथिं चतुर्थीं नवमीं चतुर्दशीं विहाय विष्टिं करणं च गच्छतः।
भवन्ति चामीकरवाजिवारणाश् चतुर्थिपूर्वाश् च तदाप्तिवारणाः॥

5.9

ऋक्षे[क्.रिक्ते] तिथौ वा व्यतिपातदुष्टे यो याति मोहात् खलु वैधृते वा।
स नाशम् आयात्य् अचिरेण याता[क्.राजा] राजे ऽव दैवज्ञविलोमचेष्टः॥

5.10

आरोग्यम् ऋक्षेण धनं क्षणेन कार्यस्य सिद्धिस् तिथिना शुभेन।
राश्युद्गमेन ऽध्वनि सिद्धिम् आहुः प्रायः शुभानि[क्.सुखानि] क्षणदाकरेण॥

5.12

प्रतिशुक्रबुधाशनिवृष्टिहता दिग् अधः कुरुते नृपतिं गमने।
मदिरामुदिता मदनाकुलिता प्रमदे ऽव कुलम् परवेश्मरता॥

5.13

वीर्यान्वितैर् यायिभिर् आत्मभद्रैः क्लेशं[क्.क्लेशेद्] विना हन्ति चमूम् अरीणाम्।
त्रैलोक्यलाभे ऽप्य् असमाप्तकार्यां तृष्णां यथा चीरफलाम्बुतुष्टः॥

5.14

सर्पिस् तिलौदनषैः[क्.तिलोदनझषैः] पयसा च भुक्त्वा पूर्वादि वारणरथाश्वनरैर् गतस्य।
सोढुम् प्रतापम् अरयो न न्र्पस्य शक्ता गन्धद्विपस्य कलभा इव गन्धदानम्[क्.दानगन्धम्]॥

5.15

एकतश् च सकलानि निमित्तान्य् एकतश् च मनसः परिशुद्धिः।
चेतसो ऽस्ति[क्.ऽपि] सहसा न[क्.ऽस्ति] रणे भीर् मारुतो ऽपि विजयाजयहेतुः॥

5.16

भूरिशूरवरवाजिकुञ्जरा ज्ञातयुद्धगतयो ऽभिमानिनः।
क्व ऽपि यान्ति घनतूलराशिवन् मारुताभिहतवक्षसो ऽरयः॥

5.17

अनुलोमगते[क्.अनुलोमगतौ] प्रदक्षिणे सुरभौ देहसुखे ऽनिले गतः।
तिमिराणि गभस्तिमान् इव प्रसभं हन्ति बलानि विद्विषाम्॥

5.18

उपपत्तिर् अयत्नतो यदा तृणपानाशनरत्नवाससाम्॥
प्रमदाक्षितिनागवाजिनां विजयद्वारम् अपावृतं तदा॥

5.19

लग्नस्य ये ऽंशा ह्य् उदिता[क्.उदिता] ग्रहो यस् तेषु स्थितो लग्नफलं स धत्ते।
यस् तान् अतीतः स भवेद् द्वितीयः स्थानेषु शेषेष्व् अपि चिन्त्यम् एतत्[क्.चिन्तनीयम्]॥

5.20

गतो ऽनुकूलैर् ग्रहभाग्निमारुतैर् मनो ऽब्दविद्युत्स्वनवृष्टिकार्मुकैः।
रिपोः प्रमथ्नाति रणाजिरे चमूं द्विपः समूलां सरसी ऽव पद्मिनीम्॥

5.21

दैवेन हीनः परभीषणार्थं यातो ऽतिकृच्छ्रेण नयत्य् अहानि।
स्वशक्त्यतीतो नृपवेश्मनी ऽव कृत्वा प्रतिज्ञाम् प्रतिवादिभीतः॥

5.22

दैवान्वितः साधुजनोपकारी प्रभावमन्त्रोद्यमशक्तियुक्तः।
भुङ्क्ते महीं सम्यग् अवाप्य यात्रां ससह्यविन्द्याचलपारियात्राम्॥

5.23

गोचरेण शुभदः शशी न चेद् अष्टवर्गपरिशोधितो ऽपि[क्ऽथ] वा।
पूर्ववायुर् इव पुष्पकालजो यायिनाम् फलविनाशकृद् भवेत्॥

5.24

आश्रित्य चन्द्रस्य बलाबलानि ग्रहाः प्रयच्छन्ति शुभाशुभानि।
मनःसमेतानि यथेन्द्रियाणि कर्मार्हतां[क्.कर्मण्यतां] यान्ति न केवलानि॥

5.25

सर्वतः क्षुतम् अशोभनम् उक्तं गोः क्षुतं[क्.गोक्षुतम्] मरणं एव करोति।
केचिद् आहुर् अफलं बकाद् च[क्.हि बलाद्] यद् वृद्धपीनसितबालाकृतं च॥

5.26

शकुनतिथिभलाभे छत्त्रशय्यासनाद्यं पदम् अपि विजिगीषुश् चालयेच् छ्रदधानः[क्.छ्रद्धधानः]।
यदि शकुननिमित्तस्वप्नचेतोविशुद्धिर्[क्.शकुननिमित्ते ऽस्य स्वचेतोविशुद्धिर्] न भवति तद् अनिष्टं सर्वकार्येषु यानम्॥

5.27

दिनकृद्दिवसे तथा ऽंशके यात्रा लग्नगते ऽथवा रवौ।
संतापायति स्मरातुरा[क्.स्मरातुरं] वेश्ये ऽवा ऽर्थविवर्जितं नरम्॥

5.28

उदये शशिनो ऽंशके ऽह्नि वा भवति गतो न चिरेण दुर्मनाः॥
प्रमदाम् इव जातयौवनां[क्.यातयौवनां] रत्यर्थं समवाप्य कर्कशः॥

5.29

भौमोदये ऽंशे ऽहनि वा ऽस्य यात्रा करोति बन्धं वधम् अर्थनाशम्।
संसेविता ऽपापपराङ्मुखेन मनोभवान्धेन पराङ्गने ऽव॥

5.30

बुधस्य लग्नांशकवासरेषु यात्रा नरं प्रीणयति प्रकामम्।
भावानुरक्ता प्रवराङ्गने ऽव विदग्धचेष्टा मदनाभितप्तम्[क्.मदनाभिभूतम्]॥

5.31

गुरोर् विलग्नांशदिनेषु यात्रा शुभानु[क्.हितानु]बन्धेप्सितकामदा च।(बॄ 5.31--33)
जाये ऽव भर्तुर् मनसो ऽनुकूला कुलाभिवृद्ध्यै रतिदा हिता च॥

5.32

यात्रा भृगोर् अंशदिनोदयेषु प्रीणाति कामैर् विविधैर् यियासुम्॥
विलासिनी कामवशोपयातम् भावैर् अनेकैर् मदनातुरे ऽव॥

5.33

द्युलग्नभागेषु शनेश् च यात्रा प्राणच्छिदादीन् प्रचिनोति[क्.प्रतनोति] दोषान्।
अन्यप्रसक्ता वनिते ऽव मोहात् संषेविता[क्.मोहान् निषेविता] मन्मथमोहितेन॥

5.34

लग्नेन हीना ऽन्यगुणान्वितापि प्रीतिं न यात्रा मनसः करोति।
स्वलङ्कृता रूपसमन्विता ऽपि प्रभ्रष्टशीला वनिते ऽव पुंसः॥

5.35

लग्नस्य शुद्धिः शकुनैर् निमित्तैर् विज्ञायते ऽन्तःकरणेन सम्यक्।
अनन्यभावाश्रयसंप्रवृत्तैः कौली ऽव पुंसश् चरितैर् विदेशे॥

5.36

छाया शुभाशुभफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः।
तेजोगुणान् बहिर् अपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटस्थितैव[क्.स्फटिकरत्नघटस्थिते ऽव]॥

5.37

स्निघद्विजत्वङ्नखरोमकेशा छाया सुगन्धा च महीसमुत्था।
तुष्ट्यर्थलाभाभिउदयान् करोति धर्मस्य च ऽहन्य् अहनि प्रवृद्धिम्॥

5.38

स्निग्धा सिता च हरिता नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति।
सर्वार्थसिद्धिजननी जननी ऽव चाप्या[क्.ऽऽप्या] छाया फलं तनुभृतां शुभम् आदधाति॥

5.39

चण्डा ऽधृष्या पद्महेमाग्निवर्णा युक्ता तेजोविक्रमैः सप्रतापैः।
आग्नेयी ऽति प्राणिनां स्याज् जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य धत्ते॥

5.40

मलिनपरुषकृष्णा पापगन्धा ऽनिलोत्था जनयति वधबन्धव्याध्यनर्थार्थनाशान्।
स्फटिकसदृशरूपा भाग्ययुक्ता ऽत्युदारा निधिर् इव गगनोत्था श्रेयसां स्वच्छवर्णा॥ए40

मूल पाठ: Yogayātrā · Edition: Ramacandra Jha, Darabhanga, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the Brhatsamhita · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc