भाषा

ENहिગુ
ग्रंथ पाठ

योगसूत्र (टीका सहित) · अध्याय 3

3.1

शब्दादिष्व् अव्यसनम् इन्द्रियजय इति केचित्. सक्तिर् व्यसनं व्यस्यत्य् एनं श्रेयस इति. अविरुद्धा प्रतिपत्तिर् न्याय्या. शब्दादिसंप्रयोगः स्वेच्छयेत्य् अन्ये. रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानम् इन्द्रियजय इति केचित्. चित्तैकाग्र्याद् अप्रतिपत्तिर् एवेति जैगीषव्यः. ततश् च परमा त्व् इयं वश्यता यच् चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रयत्नकृतम् उपायान्तरम् अपेक्षन्ते योगिन इति. 2.55
इति श्रीपाताञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये द्वितीयः साधनपादः 2.
उक्तानि पञ्च बहिरङ्गानि(णि) साधनानि. धारणा वक्तव्या ---
देशबन्धश् चित्तस्य धारणा

3.2

नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिषि नासिकाग्रे जिह्वाग्र इत्य् एवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा. 3.1
तत्र प्रत्ययैकतानता ध्यानम्

3.3

तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम्. 3.2
तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः

3.4

ध्यानम् एव ध्येयाकारानिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यम् इव यदा भवति ध्येयस्वभावावेशात् तदा समाधिर् इत्य् उच्यते. 3.3
त्रयम् एकत्र संयमः

3.5

तद् एतद् धारणाध्यानसमाधित्रयम् एकत्र संयमः. एकविषयाणि त्रीणि साधनानि संयम इत्य् उच्यते. तद् अस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति. 3.4
तज्जयात् प्रज्ञालोकः

3.6

तस्य संयमस्य जयात् समाधिप्रज्ञाया भवत्य् आलोको यथा यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदी भवति. 3.5
तस्य भूमिषु विनियोगः

3.7

तस्य संयमस्य जितभूमेर् यानन्तरा भूमिस् तत्र विनियोगः. न ह्य् अजिताधरभूमिर् अनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते. तदभावाच् च कुतस् तस्य प्रज्ञालोकः. ईश्वरप्रसादाज् जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः. कस्मात्, तदर्थस्यान्यत एवावगतत्वात्. भूमेर् अस्या इयम् अनन्तरा भूमिर् इत्य् अत्र योग एवोपाध्यायः. कथम् एवं ह्य् उक्तम्. "योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते । यो ऽप्रमत्तस् तु योगेन स योगे रमते चिरम्" इति. 3.6
त्रयम् अन्तरङ्गं पूर्वेभ्यः

3.8

तद् एतद् धारणाध्यानसमाधित्रयम् अन्तरङ्गं संप्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति. 3.7
तद् अपि बहिरङ्गं निर्बीजस्य

3.9

तद् अप्य् अन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति कस्मात्, तदभावे भावाद् इति. 3.8
अथ निरोधचित्तक्षणेषु चलं गुणवृत्तम् इति कीदृशस् तदा चित्तपरिणामः ---
व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः

3.10

व्युत्थानसंस्काराश् चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास् तयोर् अभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते. निरोधक्षणं चित्तम् अन्वेति तद् एकस्य चित्तस्य प्रतिक्षणम् इदं संस्कारान्यथात्वं निरोधपरिणामः. तदा संस्कारशेषं चित्तम् इति निरोधसमाधौ व्याख्यातम्. 3.9
तस्य प्रशान्तवाहिता संस्कारात्

3.11

निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति. तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मसंस्कारो ऽभिभूयत इति. 3.10
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः

3.12

सर्वार्थता चित्तधर्मः. एकाग्रतापि चित्तधर्मः. सर्वार्थतायाः क्षयस् तिरोभाव इत्य् अर्थः. एकाग्रताया उदय आविर्भाव इत्य् अर्थः. तयोर् धर्मित्वेनानुगतं चित्तं, तद् इदं चित्तम् अपायोपजनयोः स्वात्मभूतयोर् धर्मयोर् अनुगतं समाधीयते स चित्तस्य समाधिपरिणामः. 3.11
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः

3.13

समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस् तत्सदृश उदितः, समाधिचित्तम् उभयोर् अनुगतं पुनस् तथैवासमाधिभ्रेषाद् इति. स खल्व् अयं धर्मिणश् चित्तस्यैकाग्रतापरिणामः. 3.12
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः

3.14

एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामो ऽवस्थापरिणामश् चोक्तो वेदितव्यः. तत्र व्युत्थाननिरोधयोर् अभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः. लक्षणपरिणामश् च निरोधस् त्रिलक्षणस् त्रिभिर् अध्वभिर् युक्तः. स खल्व् अनागतलक्षणम् अध्वानं प्रथमं हित्वा धर्मत्वम् अनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः. यत्रास्य स्वरूपेणाभिव्यक्तिः. एषो ऽस्य द्वितीयो ऽध्वा. न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः.
तथा व्युत्थानं त्रिलक्षणं त्रिभिर् अध्वभिर् युक्तं वर्तमानलक्षणं हित्वा धर्मत्वम् अनतिक्रान्तम् अतीतलक्षणं प्रतिपन्नम्. एषो ऽस्य तृतीयो ऽध्वा. न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम्. एवं पुनर् व्युत्थानम् उपसंपद्यमानम् अनागतलक्षणं हित्वा धर्मत्वम् अनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम्. यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः एषो ऽस्य द्वितीयो ऽध्वा. न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तम् इति. एवं पुनर् निरोध एवं पुनर् व्युत्थानम् इति.
तथावस्थापरिणामः तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति. एष धर्माणाम् अवस्थापरिणामः. तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानाम् अप्य् अवस्थाभिः परिणाम इति. एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणम् अपि गुणवृत्तम् अवतिष्ठते. चलं च गुणवृत्तम्. गुणस्वाभाव्यं तु प्रवृत्तिकारणम् उक्तं गुणानाम् इति. एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः परिणामो वेदितव्यः.
परमार्थतस् त्व् एक एव परिणामः. धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति. तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्व् अतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम्. यथा सुवर्णभाजनस्य भित्त्वान्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वम् इति.
अपर आह --- धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात्. पूर्वापरावस्थाभेदम् अनुपतितः कौटस्थ्येनैव परिवर्तेत यद्य् अन्वयी स्याद् इति.
अयम् अदोषः. कस्मात्. एकान्ततानभ्युपगमात्. तद् एतत् त्रैलोक्यं व्यक्तेर् अपैति नित्यत्वप्रतिषेधात्. अपेतम् अप्य् अस्ति विनाशप्रतिषेधात्. संसर्गाच् चास्य सौक्ष्म्यं, सौक्ष्म्याच् चानुपलब्धिर् इति.
लक्षणपरिणामो धर्मो ऽध्वसु वर्तमानो ऽतीतो ऽतीतलक्षणयुक्तो ऽनागतवर्तमानाभ्यां लक्षणाभ्याम् अवियुक्तः. तथानागतो ऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्याम् अवियुक्तः. तथा वर्तमानो वर्तमानलक्षणयुक्तो ऽतीतानागताभ्यां लक्षणाभ्याम् अवियुक्त इति. यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति.
अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगाद् अध्वसंकरः प्राप्नोतीति परैर् दोषश् चोद्यत इति. तस्य परिहारः --- धर्माणां धर्मत्वम् अप्रसाध्यम्. सति च धर्मत्वे लक्षणभेदो ऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम्. एवं हि न चित्तं रागधर्मकं स्यात् क्रोधकाले रागस्यासमुदाचाराद् इति.
किंच त्रयाणां लक्षणानां युगपद् एकस्यां व्यक्तौ नास्ति संभवः. क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेद् इति. उक्तं च रूपातिशया वृत्त्यतिशयाश् च विरुध्यन्ते, सामान्यानि त्व् अतिशयैः सह प्रवर्तन्ते. तस्माद् असंकरः यथा रागस्यैव क्वचित् समुदाचार इति न तदानीम् अन्यत्राभावः, किंतु केवलं सामान्येन समन्वागत इत्य् अस्ति तदा तत्र तस्य भावः तथा लक्षणस्येति.
न धर्मी त्र्यध्वा धर्मास् तु त्र्यध्वानस् ते लक्षिता अलक्षितास् तत्र लक्षितास् तां ताम् अवस्थां प्राप्नुवन्तो ऽन्यत्वेन प्रतिनिर्दिश्यन्ते ऽवस्थान्तरतो न द्रव्यान्तरतः. यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने यथा चैकत्वे ऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति.
अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिद् उक्तः. कथम्. अध्वनो व्यापारेण व्यवहितत्वात्. यदा धर्मः स्वव्यापारं न करोति तदानागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस् तदातीत इत्य् एवं धर्मधर्मिणोर् लक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर् दोष उच्यते.
नासौ दोषः. कस्मात्. गुणिनित्यत्वे ऽपि गुणानां विमर्दवैचित्र्यात्. यथा संस्थानम् आदिमद् धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनाम् एवं लिङ्गम् आदिमद् धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिना तस्मिन् विकारसंज्ञेति.
तत्रेदम् उदाहरणं मृद्धर्मी पिण्डाकाराद् धर्माद् धर्मान्तरम् उपसंपद्यमानो धर्मतः परिणमते घटाकार इति. घटाकारो ऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते. घटो नवपुराणतां प्रतिक्षणम् अनुभवन्न् अवस्थापरिणामं प्रतिपद्यत इति. धर्मिणो ऽपि धर्मान्तरम् अवस्था धर्मस्यापि लक्षणान्तरम् अवस्थेत्य् एक एव द्रव्यपरिणामो भेदेनोपदर्शित इति. एवं पदार्थान्तरेष्व् अपि योज्यम् इति. त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपम् अनतिक्रान्ता इत्य् एक एव परिणामः सर्वान् अमून् विशेषान् अभिप्लवते. अथ को ऽयं परिणामः.अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति. 3.13
तत्र ---
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी

3.15

योग्यतावच्छिन्ना धर्मिणः शक्तिर् एव धर्मः. स च फलप्रसवभेदानुमित एकस्यान्यो ऽन्यश् च परिदृष्टः. तत्र वर्तमानः स्वव्यापारम् अनुभवन् धर्मी धर्मान्तरेभ्यः शान्तेभ्यश् चाव्यपदेश्येभ्यश् च भिद्यते. यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात् को ऽसौ केन भिद्येत.
तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्याश् चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः सव्यापारा उदितास् ते चानागतस्य लक्षणस्य समनन्तरा वर्तमानस्यानन्तरा अतीताः किमर्थम् अतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वपश्चिमताया अभावात्. यथानागतवर्तमानयोः पूर्वपश्चिमता नैवम् अतीतस्य. तस्मान् नातीतस्यास्ति समनन्तरः तदनागत एव समनन्तरो भवति वर्तमानस्येति.
अथाव्यपदेश्याः के सर्वं सर्वात्मकम् इति. यत्रोक्तम् --- जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम्. तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्व् इत्य् एवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति.
देशकालाकारनिमित्तापबन्धान् न खलु समानकालम् आत्मनाम् अभिव्यक्तिर् इति. य एतेष्व् अभिव्यक्तानभिव्यक्तेषु धर्मेष्व् अनुपाती सामान्यविशेषात्मा सो ऽन्वयी धर्मी. यस्य तु धर्ममात्रम् एवेदं निरन्वयं तस्य भोगाभावः. कस्मात्, अन्येन विज्ञानेन कृतस्य कर्मणो ऽन्यत् कथं भोक्तृत्वेनाधिक्रियते. तत्स्मृत्यभावश् च नान्यदृष्टस्य स्मरणम् अन्यस्यास्तीति. वस्तुप्रत्यभिज्ञानाच् च स्थितो ऽन्वयी धर्मी यो धर्मान्यथात्वम् अभ्युपगतः प्रत्यभिज्ञायते तस्मान् नेदं धर्ममात्रं निरन्वयम् इति. 3.14
क्रमान्यत्वं परिणामान्यत्वे हेतुः

3.16

एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर् भवतीति. तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपालमृत्कणमृद् इति च क्रमः. यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः. पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः. लक्षणपरिणामक्रमो घटस्यानागतभावाद् वर्तमानभावः क्रमः. तथा पिण्डस्य वर्तमानभावाद् अतीतभावः क्रमः. नातीतस्यास्ति क्रमः. कस्मात्. पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्य् अतीतस्य तस्माद् द्वयोर् एव लक्षणयोः क्रमः. तथावस्थापरिणामक्रमो ऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते. सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिम् आपद्यत इति. धर्मलक्षणाभ्यां च विशिष्टो ऽयं तृतीयः परिणाम इति.
त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः. धर्मो ऽपि धर्मी भवत्य् अन्यधर्मस्वरूपापेक्षयेति. यदा तु परमार्थतो धर्मिण्य् अभेदोपचारस् तद्द्वारेण स एवाभिधीयते धर्मस् तदायम् एकत्वेनैव क्रमः प्रत्यवभासते.
चित्तस्य द्वये धर्मा परिदृष्टाश् चापरिदृष्टाश् च. तत्र प्रत्ययात्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः. ते च सप्तैव भवन्त्य् अनुमानेन प्रापितवस्तुमात्रसद्भावाः.
"निरोधधर्मसंस्काराः परिणामो ऽथ जीवनम् ।
चेष्टा शक्तिश् च चित्तस्य धर्मा दर्शनवर्जिताः ॥" इति. 3.15
अतो योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते ---
परिणामत्रयसंयमाद् अतीतानागतज्ञानम्

3.17

धर्मलक्षणावस्थापरिणामेषु संयमाद् योगिनां भवत्य् अतीतानागतज्ञानम्. धारणाध्यानसमाधित्रयम् एकत्र संयम उक्तः. तेन परिणामत्रयं साक्षात्क्रियमाणम् अतीतानागतज्ञानं तेषु संपादयति. 3.16
शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्

3.18

तत्र वाग्वर्णेष्व् एवार्थवती. श्रोत्रं च ध्वनिपरिणाममात्रविषयम्. पदं पुनर् नादानुसंहारबुद्धिनिर्ग्राह्यम् इति. वर्णा एकसमयासंभवित्वात् परस्परनिरनुग्रहात्मानस् ते पदम् असंस्पृश्यानुपस्थाप्याविर्भूतास् तिरोभूताश् चेति प्रत्येकम् अपदस्वरूपा उच्यन्ते.
वर्णः पुनर् एकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरप्रतियोगित्वाद् वैश्वरूप्यम् इवापन्नः पूर्वश् चोत्तरेणोत्तरश् च पूर्वेण विशेषे ऽवस्थापित इत्य् एवं बहवो वर्णाः क्रमानुरोधिनो ऽर्थसंकेतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तम् अर्थं द्योतयन्तीति.
तद् एतेषाम् अर्थसंकेतेनावच्छिन्नानाम् उपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस् तत्पदं वाचकं वाच्यस्य संकेत्यते. तद् एकं पदम् एकबुद्धिविषय एकप्रयत्नाक्षिप्तम् अभागम् अक्रमम् अवर्णं बौद्धम् अन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैर् एवाभिधीयमानैः श्रूयमाणैश् च श्रोतृभिर् अनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्ध्या सिद्धवत्संप्रतिपत्त्या प्रतीयते.
तस्य संकेतबुद्धितः प्रविभाग एतावताम् एवंजातीयको ऽनुसंहार एकस्यार्थस्य वाचक इति. संकेतस् तु पदपदार्थयोर् इतरेतराध्यासरूपः स्मृत्यात्मको यो ऽयं शब्दः सो ऽयम् अर्थो यो ऽयम् अर्थः सो ऽयं शब्द इति. एवम् इतरेतराध्यासरूपः संकेतो भवतीति. एवम् एते शब्दार्थप्रत्यया इतरेतराध्यासात् संकीर्णा गौर् इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम्. य एषां प्रविभागज्ञः स सर्ववित्.
सर्वपदेषु चास्ति वाक्यशक्तिवृक्ष इत्य् उक्ते ऽस्तीति गम्यते. न सत्तां पदार्थो व्यभिचरतीति. तथा न ह्य् असाधना क्रियास्तीति.
तथा च पचतीत्य् उक्ते सर्वकारकाणाम् आक्षेपो नियमार्थो ऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानाम् इति. दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश् छन्दो ऽधीते, जीवति प्राणान् धारयति. तत्र वाक्ये पदार्थाभिव्यक्तिस् ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा. अन्यथा भवत्य् अश्वो ऽजापय इत्य् एवमादिषु नामाख्यातसारूप्याद् अनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति.
तेषां शब्दार्थप्रत्ययानां प्रविभागः. तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश् च. कस्मात् सो ऽयम् इत्य् अभिसंबन्धाद् एकाकार एव प्रत्ययः संकेत इति.
यस् तु श्वेतो ऽर्थः स शब्दप्रत्यययोर् आलम्बनीभूतः. स हि स्वाभिर् अवस्थाभिर् विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः. एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्य् अन्यथा शब्दो ऽन्यथार्थो ऽन्यथा प्रत्यय इति विभागः. एवं तत्प्रविभागसंयमाद् योगिनः सर्वभूतरुतज्ञानं संपद्यत इति. 3.17
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्

3.19

द्वये खल्व् अमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा विपाकहेतवो धर्माधर्मरूपाः. ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवद् अपरिदृष्टाश् चित्तधर्माः. तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः. न च देशकालनिमित्तानुभवैर् विना तेषाम् अस्ति साक्षात्करणम्. तद् इत्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् उत्पद्यते योगिनः. परत्राप्य् एवम् एव संस्कारसाक्षात्करणात् परजातिसंवेदनम्.
अत्रेदम् आख्यानं श्रूयते --- भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद् दशसु महासर्गेषु जन्मपरिणामक्रमम् अनुपश्यतो विवेकजं ज्ञानं प्रादुरभूत्. अथ भगवान् आवट्यस् तनुधरस् तम् उवाच --- दशसु महासर्गेषु भव्यत्वाद् अनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनर् उत्पद्यमानेन सुखदुःखयोः किम् अधिकम् उपलब्धम् इति. भगवन्तम् आवट्यं जैगीषव्य उवाच. दशसु महासर्गेषु भव्यत्वाद् अनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवंदुःखं संपश्यता देवमनुष्येषु पुनः पुनर् उत्पद्यमानेन यत् किंचिद् अनुभूतं तत् सर्वं दुःखम् एव प्रत्यवैमि. भगवान् आवट्य उवाच. यद् इदम् आयुष्मतः प्रधानवशित्वम् अनुत्तमं च संतोषसुखं किम् इदम् अपि दुःखपक्षे निक्षिप्तम् इति. भवगाञ् जैगीषव्य उवाच --- विषयसुखापेक्षयैवेदम् अनुत्तमं संतोषसुखम् उक्तम्. कैवल्यसुखापेक्षया दुःखम् एव. बुद्धिसत्त्वस्यायं धर्मस् त्रिगुणस् त्रिगुणश् च प्रत्ययो हेयपक्षे न्यस्त इति. दुःखरूपस् तृष्णातन्तुः. तृष्णादुःखसंतापापगमात् तु प्रसन्नम् अबाधं सर्वानुकूलं सुखम् इदम् उक्तम् इति. 3.18
प्रत्ययस्य परचित्तज्ञानम्

3.20

प्रत्यये संयमात् प्रत्ययस्य साक्षात्करणात् ततः परचित्तज्ञानम्. 3.19
न च तत् सालम्बनं तस्याविषयीभूतत्वात्

3.21

रक्तं प्रत्ययं जानात्य् अमुष्मिन्न् आलम्बने रक्तम् इति न जानाति. परप्रत्ययस्य यद् आलम्बनं तद् योगिचित्तेन नालम्बनीकृतं परप्रत्ययमात्रं तु योगिचित्तस्यालम्बनीभूतम् इति. 3.20
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम्

3.22

कायस्य रूपे संयमाद् रूपस्य या ग्राह्या शक्तिस् तां प्रतिष्टभ्नाति. ग्राह्यशक्तिस्तम्भे सति चक्षुष्प्रकाशासंप्रयोगे ऽन्तर्धानम् उत्पद्यते योगिनः. एतेन शब्दाद्यन्तर्धानम् उक्तं वेदितव्यम्. 3.21
सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा

3.23

आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च. तत्र यथार्द्रं वस्त्रं वितानितं लघीयसा कालेन शुष्येत् तथा सोपक्रमम्. यथा च तद् एव संपिण्डितं चिरेण संशुष्येद् एवं निरुपक्रमम्. यथा वाग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत् तथा सोपक्रमम्. यथा वा स एवाग्निस् तृणराशौ क्रमशो ऽवयवेषु न्यस्तश् चिरेण दहेत् तथा निरुपक्रमम्. तदैकभविकम् आयुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च. तत्संयमाद् अपरान्तस्य प्रायणस्य ज्ञानम्.
अरिष्टेभ्यो वेति त्रिविधम् अरिष्टम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकं चेति. तत्राध्यात्मिकं घोषं स्वदेहे पिहितकर्णो न शृणोति, ज्योतिर् वा नेत्रे ऽवष्टब्धे न पश्यति. तथाधिभौतिकं यमपुरुषान् पश्यति, पितॄन् अतीतान् अकस्मात् पश्यति. तथाधिदैविकं स्वर्गम् अकस्मात् सिद्धान् वा पश्यति. विपरीतं वा सर्वम् इति अनेन वा जानात्य् अपरान्तम् उपस्थितम् इति. 3.22
मैत्र्यादिषु बलानि

3.24

मैत्री करुणा मुदितेति तिस्रो भावनास् तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते. दुःखितेषु करुणां भावयित्वा करुणाबलं लभते. पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते. भावनातः समाधिर् यः स संयमस् ततो बलान्य् अवन्ध्यवीर्याणि जायन्ते. पापशीलेषूपेक्षा न तु भावना. ततश् च तस्यां नास्ति समाधिर् इत्य् अतो न बलम् उपेक्षातस् तत्र संयमाभावाद् इति. 3.23
बलेषु हस्तिबलादीनि

3.25

हस्तिबले संयमाद् धस्तिबलो भवति.वैनतेयबले संयमाद् वैनतेयबलो भवति. वायुबले संयमाद् वायुबलो भवतीत्य् एवमादि. 3.24
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्

3.26

ज्योतिष्मती प्रवृत्तिर् उक्ता मनसस् तस्या य आलोकस् तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वार्थे विन्यस्य तम् अर्थम् अधिगच्छति. 3.25
भुवनज्ञानं सूर्ये संयमात्

3.27

तत्प्रस्तारः सप्त लोकाः. तत्रावीचेः प्रभृति मेरुपृष्ठं यावद् इत्य् एवं भूर्लोकः. मेरुपृष्ठाद् आरभ्य --- आध्रुवाद् ग्रहनक्षत्रताराविचित्रो ऽन्तरिक्षलोकः. ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस् तृतीयो लोकः. चतुर्थः प्राजापत्यो महर्लोकः. त्रिविधो ब्राह्मः तद्यथा --- जनलोकस् तपोलोकः सत्यलोक इति.
"ब्राह्मस् त्रिभूमिको लोक प्राजापत्यस् ततो महान् ।
माहेन्द्रश् च स्वर् इत्य् उक्तो दिवि तारा भुवि प्रजाः ॥"
इति संग्रहश्लोकः.
तत्रावीचेर् उपर्य् उपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धतामिस्राः. यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टम् आयुर् दीर्घम् आक्षिप्य जायन्ते. ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि. भूमिर् इयम् अष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर् मध्ये पर्वतराजः काञ्चनः. तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि. तत्र वैदूर्यप्रभानुरागान् नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः, श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरण्टकाभ उत्तरः. दक्षिणपार्श्वे चास्य जम्बूर् यतो ऽयं जम्बूद्वीपः. तस्य सूर्यप्रचाराद् रात्रिंदिवं लग्नम् इव वर्तते. तस्य नीलश्वेतशृङ्गवन्त उदीचीनास् त्रयः पर्वता द्विसाहस्रायामाः. तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि रमणकं हिरण्मयम् उत्तराः कुरव इति. निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः. तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्षं किंपुरुषं भारतम् इति. सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला गन्धमादनसीमानः. मध्ये वर्षमिलावृतम्. तद् एतद् योजनशतसाहस्रं सुमेरोर् दिशिदिशि तदर्धेन व्यूढम्.
स खल्व् अयं शतसाहस्रायामो जम्बूद्वीपस् ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः. ततश् च द्विगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मलगोमेध(प्लक्ष) पुष्करद्वीपाः, समुद्राश् च सर्षपराशिकल्पाः सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः. सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः पञ्चाशद् योजनकोटिपरिसंख्याताः. तद् एतत् सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम्. अण्डं च प्रधानस्याणुर् अवयवो यथाकाशे खद्योत इति.
तत्र पाताले जलधौ पर्वतेष्व् एतेषु देवनिकाया असुरगन्धर्वकिंनरकिंपुरुषयक्षराक्षसभूतप्रेतपिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति. सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः.
सुमेरुस् त्रिदशानाम् उद्यानभूमिः तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसम् इत्य् उद्यानानि. सुधर्मा देवसभा सुदर्शनं पुरम्. वैजयन्तः प्रासादः. ग्रहनक्षत्रतारकास् तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोर् उपर्य् उपरि संनिविष्टा दिवि विपरिवर्तन्ते.
माहेन्द्रनिवासिनः षड्देवनिकायाः --- त्रिदशा अग्निष्वात्ता याम्यास् तुषिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश् चेति. सर्वे संकल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिर् अप्सरोभिः कृतपरिचाराः.
महति लोके प्राजापत्ये पञ्चविधो देवनिकायः --- कुमुदा ऋभवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति. एते महाभूतवशिनो ध्यानाहाराः कल्पसहस्रायुषः. प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति. ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुञः.
द्वितीये तपसि लोके त्रिविधो देवनिकायः --- आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति. ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वम् अप्रतिहतज्ञाना अधरभूमिष्व् अनावृतज्ञानविषयाः. तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत् सर्गायुषः.
तत्राच्युताः सवितर्कध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, संज्ञासंज्ञिनश् चास्मितामात्रध्यानसुखाः. ते ऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति. त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः. विदेहप्रकृतिलयास् तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति. एतद् योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा, ततो ऽन्यत्रापि एवं तावद् अभ्यसेद् यावद् इदं सर्वं दृष्टम् इति. 3.26
चन्द्रे ताराव्यूहज्ञानम्

3.28

चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात्. 3.27
ध्रुवे तद्गतिज्ञानम्

3.29

ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात् ऊर्ध्वविमानेषु कृतसंयमस् तानि विजानीयात्. 3.28
नाभिचक्रे कायव्यूहज्ञानम्

3.30

नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् वातपित्तश्लेष्माणस् त्रयो दोषाः. धातवः सप्त त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि पूर्वं पूर्वम् एषां बाह्यम् इत्य् एष विन्यासः. 3.29
कण्ठकूपे क्षुत्पिपासानिवृत्तिः

3.31

जिह्वाया अधस्तात् तन्तुस् तन्तोर् अधस्तात् कण्ठस् ततो ऽधस्तात् कूपस् तत्र संयमात् क्षुत्पिपासे न बाधेते. 3.30
कूर्मनाड्यां स्थैर्यम्

3.32

कूपाद् अध उरसि कूर्माकारा नाडी, तस्यां कृतसंयमः स्थिरपदं लभते यथा सर्पो गोधा वेति. 3.31
मूर्धज्योतिषि सिद्धदर्शनम्

3.33

शिरःकपाले ऽन्तश् छिद्रं प्रभास्वरं ज्योतिस् तत्र संयमं कृत्वा सिद्धानां द्यावापृथिव्योर् अन्तरालचारिणां दर्शनम्. 3.32
प्रातिभाद् वा सर्वम्

3.34

प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम्. यथोदये प्रभा भास्करस्य. तेन वा सर्वम् एव जानाति योगी प्रातिभस्य ज्ञानस्योत्पत्ताव् इति. 3.33
हृदये चित्तसंवित्

3.35

यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं तस्मिन् संयमाच् चित्तसंवित्. 3.34
सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्

3.36

बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम्. तस्माच् च सत्त्वात् परिणामिनो ऽत्यन्तविधर्मा विशुद्धो ऽन्यश् चितिमात्ररूपः पुरुषः. तयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात् स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद् दृश्यः.
यस् तु तस्माद् विशिष्टश् चितिमात्ररूपो ऽन्यः पौरुषेयः प्रत्ययस् तत्र संयमात् पुरुषविषया प्रज्ञा जायते. न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति तथा ह्य् उक्तम् --- "विज्ञातारम् अरे केन विजानीयात्" इति. 3.35
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते

3.37

प्रातिभात् सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम्. श्रावणाद् दिव्यशब्दश्रवणम्. वेदनाद् दिव्यस्पर्शाधिगमः. आदर्शाद् दिव्यरूपसंवित् आस्वादाद् दिव्यरससंवित् वार्तातो दिव्यगन्धविज्ञानम् इत्य् एतानि नित्यं जायन्ते. 3.36
ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः

3.38

ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास् तद्दर्शनप्रत्यनीकत्वात् व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः. 3.37
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः

3.39

लोलीभूतस्य मनसो ऽप्रतिष्ठस्य शरीरे कर्माशयवशाद् बन्धः प्रतिष्ठेत्य् अर्थः तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद् भवति. प्रचारसंवेदनं च चित्तस्य समाधिजम् एव कर्मबन्धक्षयात् स्वचित्तस्य प्रचारसंवेदनाच् च योगी चित्तं स्वशरीरान् निष्कृष्य शरीरान्तरेषु निक्षिपति. निक्षिप्तं चित्तं चेन्द्रियाण्य् अनु पतन्ति. यथा मधुकरराजानं मक्षिका उत्पतन्तम् अनूत्पतन्ति निविशमानम् अनु निविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तम् अनु विधीयन्त इति. 3.38
उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च

3.40

समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिर् आहृदयवृत्तिः. समं नयनात् समानश् चानाभिवृत्तिः. अपनयनाद् अपान आपादतलवृत्तिः उन्नयनाद् उदान आशिरोवृत्तिः व्यापी व्यान इति. एषां प्रधानं प्राणः उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च प्रायणकाले भवति तां वशित्वेन प्रतिपद्यते. 3.39
समानजयाज् ज्वलनम्

3.41

जितसमानस् तेजस उपध्मानं कृत्वा ज्वलयति. 3.40
श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम्

3.42

सर्वश्रोत्राणाम् आकाशं प्रतिष्ठा सर्वशब्दानां च यथोक्तम् --- तुल्यदेशश्रवणानाम् एकदेशश्रुतित्वं सर्वेषां भवतीति तच् चैतद् आकाशस्य लिङ्गम्.
अनावरणं चोक्तम्. तथामूर्तस्यानावरणदर्शनाद् विभुत्वम् अपि प्रख्यातम् आकाशस्य. शब्दग्रहणानुमितं श्रोत्रम्. बधिराबधिरयोर् एकः शब्दं गृह्णात्य् अपरो न गृह्णातीति तस्माच् छ्रोत्रम् एव शब्दविषयम् श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते. 3.41
कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम्

3.43

यत्र कायस् तत्राकाशं तस्यावकाशदानात् कायस्य तेन संबन्धः प्राप्तिस् तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु वा तूलादिष्व् आ परमाणुभ्यः समापत्तिं लब्ध्वा जितसंबन्धो लघुर् भवति. लघुत्वाच् च जले पादाभ्यां विहरति ततस् तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति ततो यथेष्टम् आकाशगतिर् अस्य भवतीति. 3.42
बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः

3.44

शरीराद् बहिर् मनसो वृत्तिलाभो विदेहा नाम धारणा. सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्य् उच्यते. या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्व् अकल्पिता तत्र कल्पितया साधयन्त्य् अकल्पितां महाविदेहाम् इति. यया परशरीराण्य् आविशन्ति योगिनः, ततश् च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति. 3.43
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः

3.45

तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाकारादिभिर् धर्मैः स्थूलशब्देन परिभाषिताः एतद् भूतानां प्रथमं रूपम्. द्वितीयं रूपं स्वसामान्यं मूर्तिर् भूमिः स्नेहो जलं वह्निर् उष्णता वायुः प्रणामी सर्वतोगतिर् आकाश इत्य् एतत् स्वरूपशब्देनोच्यते.
अस्य सामान्यस्य शब्दादयो विशेषाः तथा चोक्तम् --- एकजातिसमन्वितानाम् एषां धर्ममात्रव्यावृत्तिर् इति.
सामान्यविशेषसमुदायो ऽत्र द्रव्यम्. द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनम् इति.
शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस् ताभ्याम् एवाभिधीयते समूहः.
स च भेदाभेदविवक्षितः. आम्राणां वनं ब्राह्मणानां संघ आम्रवणं ब्राह्मणसंघ इति.
स पुनर् द्विविधो युतसिद्धावयवो ऽयुतसिद्धावयवश् च. युतसिद्धावयवः समूहो वनं संघ इति अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुर् इति. अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यम् इति पतञ्जलिः एतत् स्वरूपम् इत्य् उक्तम्.
अथ किम् एषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैको ऽवयवः परमाणुः सामान्यविशेषात्मायुतसिद्धावयवभेदानुगतः समुदाय इत्य् एवं सर्वतन्मात्राण्य् एतत् तृतीयम्. अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनो ऽन्वयशब्देनोक्ताः. अथैषां पञ्चमं रूपम् अर्थवत्त्वं, भोगापवर्गार्थता गुणेष्व् एवान्वयिनी, गुणास् तन्मात्रभूतभौतिकेष्व् इति सर्वम् अर्थवत्. तेष्व् इदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात् तस्य तस्य रूपस्य स्वरूपदर्शनं जयश् च प्रादुर्भवति. तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति तज्जयाद् वत्सानुसारिण्य इव गावो ऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति. 3.44
ततो ऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च

3.46

तत्राणिमा भवत्य् अणुः लघिमा लघुर् भवति महिमा महान् भवति. प्राप्तिर् अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम्. प्राकाम्यम् इच्छानभिघातः भूमाव् उन्मज्जति निमज्जति यथोदके. वशित्वं भूतभौतिकेषु वशी भवत्य् अवश्यश् चान्येषाम् ईशितृत्वं तेषां प्रभवाप्ययव्यूहानाम् ईष्टे. यत्र कामावसायित्वं सत्यसंकल्पता यथा संकल्पस् तथा भूतप्रकृतीनाम् अवस्थानम्. न च शक्तो ऽपि पदार्थविपर्यासं करोति कस्मात् अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु संकल्पाद् इति. एतान्य् अष्टाव् ऐश्वर्याणि.
कायसंपद् वक्ष्यमाणा तद्धर्मानभिघातश् च पृथ्वी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलाम् अप्य् अनुविशतीति. नापः स्निग्धाः क्लेदयन्ति नाग्निर् उष्णो दहति न वायुः प्रणामी वहति अनावरणात्मके ऽप्य् आकाशे भवत्य् आवृतकायः सिद्धानाम् अप्य् अदृश्यो भवति. 3.45
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत्

3.47

दर्शनीयः कान्तिमान् अतिशयबलो वज्रसंहननश् चेति. 3.46
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः

3.48

सामान्यविशेषात्मा शब्दादिर् ग्राह्यः तेष्व् इन्द्रियाणां वृत्तिर् ग्रहणम्. न च तत्सामान्यमात्रग्रहणाकारं कथम् अनालोचितः स विषयविशेष इन्द्रियेण मनसानुव्यवसीयेतेति. स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोर् अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यम् इन्द्रियम्. तेषां तृतीयं रूपम् अस्मितालक्षणो ऽहंकारः. तस्य सामान्यस्येन्द्रियाणि विशेषाः चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषाम् इन्द्रियाणि साहंकाराणि परिणामः. पञ्चमं रूपं गुणेषु यद् अनुगतं पुरुषार्थवत्त्वम् इति. पञ्चस्व् एतेष्व् इन्द्रियरूपेषु यथाक्रमं संयमस् तत्र तत्र जयं कृत्वा पञ्चरूपजयाद् इन्द्रियजयः प्रादुर्भवति योगिनः. 3.47
ततो मनोजवित्वं विकरणभावः प्रधानजयश् च

3.49

कायस्यानुत्तमो गतिलाभो मनोजवित्वम्. विदेहानाम् इन्द्रियाणाम् अभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः. सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्य् एतास् तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते एताश् च करणपञ्चरूपजयाद् अधिगम्यन्ते. 3.48
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च

3.50

निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम्. सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्य् अर्थः. सर्वज्ञातृत्वं सर्वात्मनां गुणानां
शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानाम् अक्रमोपारूढं विवेकजं ज्ञानम् इत्य् अर्थः. इत्य् एषा विशोका नाम सिद्धिर् यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति. 3.49
तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम्

3.51

यदास्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश् चापरिणामी शुद्धो ऽन्यः सत्त्वाद् इति. एवम् अस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्य् अप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति. तेषु प्रलीनेषु पुरुषः पुनर् इदं तापत्रयं न भुङ्क्ते. तद् एतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्यात्यन्तिको गुणवियोगः कैवल्यं तदा स्वरूपप्रतिष्ठा चितिशक्तिर् एव पुरुष इति. 3.50
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात्

3.52

चत्वारः खल्व् अमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिर् अतिक्रान्तभावनीयश् चेति. तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः ऋतंभरप्रज्ञो द्वितीयः भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनाद् इमान्. चतुर्थो यस् त्व् अतिक्रान्तभावनीयस् तस्य चित्तप्रतिसर्ग एको ऽर्थः सप्तविधास्य प्रान्तभूमिप्रज्ञा.
तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वविशुद्धिम् अनुपश्यन्तः स्थानैर् उपनिमन्त्रयन्ते भो इहास्यताम् इह रम्यतां कमनीयो ऽयं भोगः कमनीयेयं कन्या रसायनम् इदं जरामृत्युं बाधते वैहायसम् इदं यानम् अमी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वम् इदम् उपार्जितम् आयुष्मता प्रतिपद्यताम् इदम् अक्षयम् अजरम् अमरस्थानं देवानां प्रियम् इति. एवम् अभिधीयमानः सङ्गदोषान् भावयेद् घोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिद् आसादितः क्लेशतिमिरविनाशी योगप्रदीपस् तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः. स खल्व् अहं लब्धालोकः कथम् अनया विषयमृगतृष्णया वञ्चितस् तस्यैव पुनः प्रदीप्तस्य संसाराग्नेर् आत्मानम् इन्धनीकुर्याम् इति. स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्य् एवं निश्चितमतिः समाधिं भावयेत्.
सङ्गम् अकृत्वा स्मयम् अपि न कुर्याद् एवम् अहं देवानाम् अपि प्रार्थनीय इति स्मयाद् अयं सुस्थितंमन्यतया मृत्युना केशेषु गृहीतम् इवात्मानं न भावयिष्यति. तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशान् उत्तम्भयिष्यति ततः पुनर् अनिष्टप्रसङ्गः. एवम् अस्य सङ्गस्मयाव् अकुर्वतो भावितो ऽर्थो दृढीभविष्यति भावनीयश् चार्थो ऽभिमुखीभविष्यतीति. 3.51
क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम्

3.53

यथापकर्षपर्यन्तं द्रव्यं परमाणुर् एवं परमापकर्षपर्यन्तः कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्याद् उत्तरदेशम् उपसंपद्येत स कालः क्षणः. तत्प्रवाहाविच्छेदस् तु क्रमः क्षणतत्क्रमयोर् नास्ति वस्तुसमाहार इति बुद्धिसमाहारो मुहूर्ताहोरात्रादयः. स खल्व् अयं कालो वस्तुशून्यो ऽपि बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते.
क्षणस् तु वस्तुपतितः क्रमावलम्बी क्रमश् च क्षणानन्तर्यात्मा तं कालविदः काल इत्य् आचक्षते योगिनः. न च द्वौ क्षणौ सह भवतः क्रमश् च न द्वयोः सहभुवोर् असंभवात्. पूर्वस्माद् उत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः तस्माद् वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति. तस्मान् नास्ति तत्समाहारः ये तु भूतभाविनः क्षणास् ते परिणामान्विता व्याख्येयाः तेनैकेन क्षणेन कृत्स्नो लोकः परिणामम् अनुभवति. तत्क्षणोपारूढाः खल्व् अमी सर्वे धर्माः तयोः क्षणतत्क्रमयोः संयमात् तयोः साक्षात्करणम्. ततश् च विवेकजं ज्ञानं प्रादुर्भवति. 3.52
तस्य विषयविशेष उपक्षिप्यते ---
जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः

3.54

तुल्ययोर् देशलक्षणसारूप्ये जातिभेदो ऽन्यताया हेतुः, गौर् इयं बडवेयम् इति. तुल्यदेशजातीयत्वे लक्षणम् अन्यत्वकरं कालाक्षी गौः स्वस्तिमती गौर् इति. द्वयोर् आमलकयोर् जातिलक्षणसारूप्याद् देशभेदो ऽन्यत्वकर इदं पूर्वम् इदम् उत्तरम् इति. यदा तु पूर्वम् आमलकम् अन्यव्यग्रस्य ज्ञातुर् उत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वम् एतद् उत्तरम् एतद् इति प्रविभागानुपपत्तिः. असंदिग्धेन च तत्त्वज्ञानेन भवितव्यम् इत्य् अत इदम् उक्तं ततः प्रतिपत्तिर् विवेकजज्ञानाद् इति.
कथं, पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद् देशाद् भिन्नः ते चामलके स्वदेशक्षणानुभवभिन्ने. अन्यदेशक्षणानुभवस् तु तयोर् अन्यत्वे हेतुर् इति. एतेन दृष्टान्तेन परमाणोस् तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणाद् उत्तरस्य परमाणोस् तद्देशानुपपत्ताव् उत्तरस्य तद्देशानुभवो भिन्नः सहक्षणभेदात् तयोर् ईश्वरस्य योगिनो ऽन्यत्वप्रत्ययो भवतीति.
अपरे तु वर्णयन्ति --- ये ऽन्त्या विशेषास् ते ऽन्यताप्रत्ययं कुर्वन्तीति तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश् चान्यत्वे हेतुः. क्षणभेदस् तु योगिबुद्धिगम्य एवेति अत उक्तं मूर्तिव्यवधिजातिभेदाभावान् नास्ति मूलपृथक्त्वम् इति वार्षगण्यः. 3.53
तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम्

3.55

तारकम् इति स्वप्रतिभोत्थम् अनौपदेशिकम् इत्य् अर्थः सर्वविषयं नास्य किंचिद् अविषयीभूतम् इत्य् अर्थः. सर्वथाविषयम् अतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्य् अर्थः. अक्रमम् इत्य् एकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्य् अर्थः. एतद् विवेकजं ज्ञानं परिपूर्णम् अस्यैवांशो योगप्रदीपो मधुमतीं भूमिम् उपादाय यावद् अस्य परिसमाप्तिर् इति. 3.54
प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा ---
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति

मूल पाठ: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra) · Edition: Kāśinātha Śāstrī Āgāśe: Vācaspatimiśraviracitaṭīkāsaṃvalitavyāsabhāṣyasametāni Pātañjalayogasūtrāṇi, tathā bhojadevaviracitarājamārtaṇḍābhidhavṛttisametāni pātañjalayogasūtrāṇi. sūtrapāṭhasūtravarṇānukramasūcībhyāṃ ca sanāthīkṛtāni ... Pune : Ānandāśramamudraṇālaye 1904 (Ānandāśrama Sanskrit Series, 47). · Data entry Philipp A. Maas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc