भाषा

ENहिગુ
ग्रंथ पाठ

योगसूत्र (टीका सहित) · अध्याय 2

2.1

स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानाम् अपि संस्काराणां प्रतिबन्धी भवति. कस्मात्, निरोधजः संस्कारः समाधिजान् संस्कारान् बाधत इति.
निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वम् अनुमेयम्. व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश् चित्तं स्वस्यां प्रकृताव् अवस्थितायां प्रविलीयते. तस्मात् ते संस्काराश् चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति. यस्माद् अवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश् चित्तं निवर्तते, तस्मिन् निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठो ऽतः शुद्धः केवलो मुक्त इत्य् उच्यत इति. 1.51
इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये प्रथमः समाधिपादः 1.
उद्दिष्टः समाहितचित्तस्य योगः. कथं व्युत्थितचित्तो ऽपि योगयुक्तः स्याद् इत्य् एतद् आरभ्यते ---
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः

2.2

नातपस्विनो योगः सिध्यति. अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर् नान्तरेण तपः संभेदम् आपद्यत इति तपस उपादानम्. तच् च चित्तप्रसादनम् अबाधमानम् अनेनासेव्यम् इति मन्यते.
स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा. ईश्वरप्रणिधानं सर्वक्रियाणां परमगुराव् अर्पणं तत्फलसंन्यासो वा. 2.1
स हि क्रियायोगः ---
समाधिभावनार्थः क्लेशतनूकरणार्थश् च

2.3

स ह्य् आसेव्यमानः समाधिं भावयति क्लेशांश् च प्रतनूकरोति. प्रतनूकृतान् क्लेशान् प्रसंख्यानाग्निना दग्धबीजकल्पान् अप्रसवधर्मिणः करिष्यतीति. तेषां तनूकरणात् पुनः क्लेशैर् अपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति. 2.2
अथ के क्लेशाः कियन्तो वेति ---
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः

2.4

क्लेशा इति पञ्च विपर्यया इत्य् अर्थः. ते स्पन्दमाना गुणाधिकारं द्रढयन्ति, परिणामम् अवस्थापयन्ति, कार्यकारणस्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्रीभूत्वा कर्मविपाकं चाभिनिर्हरन्तीति. 2.3
अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्

2.5

अत्राविद्या क्षेत्रं प्रसवभूमिर् उत्तररेषाम् अस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम्. तत्र का प्रसुप्तिः. चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः. तस्य प्रबोध आलम्बने संमुखीभावः. प्रसंख्यानवतो दग्धक्लेशबीजस्य संमुखीभूते ऽप्य् आलम्बने नासौ पुनर् अस्ति, दग्धबीजस्य कुतः प्ररोह इति. अतः क्षीणक्लेशः कुशलश् चरमदेह इत्य् उच्यते. तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति. सतां क्लेशानां तदा बीजसामर्थ्यं दग्धम् इति विषयस्य संमुखीभावे ऽपि सति न भवत्य् एषां प्रबोध इत्य् उक्ता प्रसुप्तिर् दग्धबीजानाम् अप्ररोहश् च.
तनुत्वम् उच्यते --- प्रतिपक्षभावनोपहताः क्लेशास् तनवो भवन्ति. तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः. कथं, रागकाले क्रोधस्यादर्शनात्. न हि रागकाले क्रोधः समुदाचरति. रागश् च क्वचिद् दृश्यमानो न विषयान्तरे नास्ति. नैकस्यां स्त्रियां चैत्रो रक्त इत्य् अन्यासु स्त्रीषु विरक्तः, किंतु तत्र रागो लब्धवृत्तिर् अन्यत्र तु भविष्यद्वृत्तिर् इति. स हि तदा प्रसुप्ततनुविच्छिन्नो भवति.
विषये यो लब्धवृत्तिः स उदारः. सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति. कस् तर्हि विच्छिन्नः प्रसुप्तस् तनुर् उदारो वा क्लेश इति, उच्यते --- सत्यम् एवैतत्, किंतु विशिष्टानाम् एवैतेषां विच्छिन्नादित्वम्. यथैव प्रतिपक्षभावनातो निवृत्तस् तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति. सर्व एवामी क्लेशा अविद्याभेदाः. कस्मात्, सर्वेष्व् अविद्यैवाभिप्लवते. यद् अविद्यया वस्त्व् आकार्यते तद् एवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते क्षीयमाणां चाविद्याम् अनु क्षीयन्त इति. 2.4
तत्राविद्यास्वरूपम् उच्यते ---
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या

2.6

अनित्ये कार्ये नित्यख्यातिः. तद्यथा --- ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति. तथाशुचौ परमबीभत्से काये, ---
"स्थानाद् बीजाद् उपष्टम्भान् निःस्यन्दान् निधनाद् अपि ।
कायम् आधेयशौचत्वात् पण्डिता ह्य् अशुचिं विदुः" ॥
इति अशुचौ शुचिख्यातिर् दृश्यते. नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकम् आश्वासयन्तीवेति कस्य केनाभिसंबन्धः. भवति चैवम् अशुचौ शुचिविपर्यासप्रत्यय इति. एतेनापुण्ये पुण्यप्रत्ययस् तथैवानर्थे चार्थप्रत्ययो व्याख्यातः.
तथा दुःखे सुखख्यातिं वक्ष्यति --- "परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः" इति. तत्र सुखख्यातिर् अविद्या. तथानात्मन्य् आत्मख्यातिर् बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्य् अनात्मन्य् आत्मख्यातिर् इति. तथैतद् अत्रोक्तम् --- "व्यक्तम् अव्यक्तं वा सत्त्वम् आत्मत्वेनाभिप्रतीत्य तस्य संपदम् अनु नन्दत्य् आत्मसंपदं मन्वानस् तस्य व्यापदम् अनु शोचत्य् आत्मव्यापदं मन्वानः स सर्वो ऽप्रतिबुद्धः" इति. एषा चतुष्पदा भवत्य् अविद्या मूलम् अस्य क्लेशसंतानस्य कर्माशयस्य च सविपाकस्येति.
तस्याश् चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम्. यथा नामित्रो मित्राभावो न मित्रमात्रं किंतु तद्विरुद्धः सपत्नः. यथा वागोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किंतु देश एव ताभ्याम् अन्यद् वस्त्वन्तरम्. एवम् अविद्या न प्रमाणं न प्रमाणाभावः किंतु विद्याविपरीतं ज्ञानान्तरम् अविद्येति. 2.5
दृग्दर्शनशक्त्योर् एकात्मतेवास्मिता

2.7

पुरुषो दृक्शक्तिर् बुद्धिर् दर्शनशक्तिर् इत्य् एतयोर् एकस्वरूपापत्तिर् इवास्मिता क्लेश उच्यते. भोक्तृभोग्यशक्त्योर् अत्यन्तविभक्तयोर् अत्यन्तासंकीर्णयोर् अविभागप्राप्ताव् इव सत्यां भोगः कल्पते. स्वरूपप्रतिलम्भे तु तयोः कैवल्यम् एव भवति कुतो भोग इति. तथा चोक्तम् --- "बुद्धितः परं पुरुषम् आकारशीलविद्यादिभिर् विभक्तम् अपश्यन् कुर्यात् तत्रात्मबुद्धिं मोहेन" इति. 2.6
सुखानुशयी रागः

2.8

सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस् तृष्णा लोभः स राग इति. 2.7
दुःखानुशयी द्वेषः

2.9

दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो मन्युर् जिघांसा क्रोधः स द्वेषः. 2.8
स्वरसवाही विदुषो ऽपि तथा रूढो ऽभिनिवेशः

2.10

सर्वस्य प्राणिन इयम् आत्माशीर् नित्या भवति मा न भूवं भूयासम् इति. न चाननुभूतमरणधर्मकस्यैषा भवत्य् आत्माशीः. एतया च पूर्वजन्मानुभवः प्रतीयते. स चायम् अभिनिवेशः क्लेशः स्वरसवाही कृमेर् अपि जातमात्रस्य प्रत्यक्षानुमानागमैर् असंभावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखम् अनुमापयति.
यथा चायम् अत्यन्तमूढेषु दृश्यते क्लेशस् तथा विदुषो ऽपि विज्ञातपूर्वापरान्तस्य रूढः. कस्मात् समाना हि तयोः कुशलाकुशलयोर् मरणदुःखानुभवाद् इयं वासनेति. 2.9
ते प्रतिप्रसवहेयाः सूक्ष्माः

2.11

ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश् चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति. 2.10
स्थितानां तु बीजभावोपगतानाम् ---
ध्यानहेयास् तद्वृत्तयः

2.12

क्लेशानां या वृत्तयः स्थूलास् ताः क्रियायोगेन तनूकृताः सत्यः प्रसंख्यानेन ध्यानेन हातव्या यावत् सूक्ष्मीकृता यावद् दग्धबीजकल्पा इति. यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात् सूक्ष्मो यत्नेनोपायेन चापनीयते तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास् तु महाप्रतिपक्षा इति. 2.11
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः

2.13

तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधभवः. स दृष्टजन्मवेदनीयश् चादृष्टजन्मवेदनीयश् च. तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिभिर् निर्वर्तित ईश्वरदेवतामहर्षिमहानुभावानाम् आराधनाद् वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति. तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनर् अपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते. यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः. तथा नहुषो ऽपि देवानाम् इन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति. तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः. क्षीणक्लेशानाम् अपि नास्त्य् अदृष्टजन्मवेदनीयः कर्माशय इति. 2.12
सति मूले तद्विपाको जात्यायुर्भोगाः

2.14

सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः. यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति, नापनीततुषा दग्धबीजभावा वा तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति. स च विपाकस् त्रिविधो जातिर् आयुर् भोग इति.
तत्रेदं विचार्यते --- किम् एकं कर्मैकस्य जन्मनः कारणम् अथैकं कर्मानेकं जन्माक्षिपतीति. द्वितीया विचारणा --- किम् अनेकं कर्मानेकं जन्म निर्वर्तयति अथानेकं कर्मैकं जन्म निर्वर्तयतीति. न तावद् एकं कर्मैकस्य जन्मनः कारणम्. कस्मात्, अनादिकालप्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमाद् अनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति. न चैकं कर्मानेकस्य जन्मनः कारणम्. कस्मात्, अनेकेषु कर्मसु एकैकम् एव कर्मानेकस्य जन्मनः कारणम् इत्य् अवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्य् अनिष्ट इति. न चानेकं कर्मानेकस्य जन्मनः कारणम्. कस्मात्, तद् अनेकं जन्म युगपन् न संभवतीति क्रमेणैव वाच्यम्. तथा च पूर्वदोषानुषङ्गः.
तस्माज् जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य संमूर्छित एकम् एव जन्म करोति. तच् च जन्म तेनैव कर्मणा लब्धायुष्कं भवति. तस्मिन्न् आयुषि तेनैव कर्मणा भोगः संपद्यत इति. असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाको ऽभिधीयत इति. अत एकभविकः कर्माशय उक्त इति.
दृष्टजन्मवेदनीयस् त्व् एकविपाकारम्भी भोगहेतुत्वाद् द्विविपाकारम्भी वायुर्भोगहेतुत्वान् नन्दीश्वरवन् नहुषवद् वेति. क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस् तु वासनाभिर् अनादिकालसंमूर्छितम् इदं चित्तं विचित्रीकृतम् इव सर्वतो मत्स्यजालं ग्रन्थिभिर् इवाततम् इत्य् एता अनेकभवपूर्विका वासनाः. यस् त्व् अयं कर्माशय एष एवैकभविक उक्त इति. ये संस्काराः स्मृतिहेतवस् ता वासनास् ताश् चानादिकालीना इति.
यस् त्व् असाव् एकभविकः कर्माशयः स नियतविपाकश् चानियतविपाकश् च. तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्व् अदृष्टजन्मवेदनीयस्यानियतविपाकस्य कस्मात्. यो ह्य् अदृष्टजन्मवेदनीयो ऽनियतविपाकस् तस्य त्रयी गतिः --- कृतस्याविपक्वस्य नाशः, प्रधानकर्मण्य् आवापगमनं वा, नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरम् अवस्थानम् इति.
तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयाद् इहैव नाशः कृष्णस्य. यत्रेदम् उक्तम् --- "द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतो ऽपहन्ति तद् इच्छस्व कर्माणि सुकृतानि कर्तुम् इहैव ते कर्म कवयो वेदयन्ते."
प्रधानकर्मण्य् आवापगमनम्. यत्रेदम् उक्तं --- "स्यात् स्वल्पः संकरः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम्. कस्मात्, कुशलं हि मे बह्व् अन्यद् अस्ति यत्रायम् आवापं गतः स्वर्गे ऽप्य् अपकर्षम् अल्पं करिष्यति" इति.
नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरम् अवस्थानम्. कथम् इति, अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणम् अभिव्यक्तिकारणम् उक्तम्. न त्व् अदृष्टजन्मवेदनीयस्यानियतविपाकस्य. यत् त्व् अदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन् नश्येद् आवापं वा गच्छेद् अभिभूतं वा चिरम् अप्य् उपासीत, यावत् समानं कर्माभिव्यञ्जकं निमित्तम् अस्य न विपाकाभिमुखं करोतीति. तद्विपाकस्यैव देशकालनिमित्तानवधारणाद् इयं कर्मगतिश् चित्रा दुर्विज्ञाना चेति. न चोत्सर्गस्यापवादान् निवृत्तिर् इत्य् एकभविकः कर्माशयो ऽनुज्ञायत इति. 2.13
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्

2.15

ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःखफला इति. यथा चेदं दुःखं प्रतिकूलात्मकम् एवं विषयसुखकाले ऽपि दुःखम् अस्त्य् एव प्रतिकूलात्मकं योगिनः. 2.14
कथं, तद् उपपाद्यते ---
परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः

2.16

सर्वस्यायं रागानुविद्धश् चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः. तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतो ऽप्य् अस्ति कर्माशयः. तथा चोक्तम् --- "नानुपहत्य भूतान्य् उपभोगः संभवतीति हिंसाकृतो ऽप्य् अस्ति शरीरः कर्माशयः" इति. विषयसुखं चाविद्येत्य् उक्तम्.
या भोगेष्व् इन्द्रियाणां तृप्तेर् उपशान्तिस् तत् सुखम्. या लौल्याद् अनुपशान्तिस् तद् दुःखम्. न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम्. कस्मात्, यतो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम् इति. तस्माद् अनुपायः सुखस्य भोगाभ्यास इति. स खल्व् अयं वृश्चिकविषभीत इवाशीविषेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति. एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायाम् अपि योगिनम् एव क्लिश्नाति.
अथ का तापदुःखता, सर्वस्य द्वेषानुविद्धश् चेतनाचेतनसाधनाधीनस् तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः. सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परम् अनुगृह्णात्य् उपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्माव् उपचिनोति. स कर्माशयो लोभान् मोहाच् च भवतीत्य् एषा तापदुःखतोच्यते. का पुनः संस्कारदुःखता, सुखानुभवात् सुखसंस्काराशयो दुःखानुभवाद् अपि दुःखसंस्काराशय इति. एवं कर्मभ्यो विपाके ऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति.
एवम् इदम् अनादि दुःखस्रोतो विप्रसृतं योगिनम् एव प्रतिकूलात्मकत्वाद् उद्वेजयति. कस्मात्, अक्षिपात्रकल्पो हि विद्वान् इति. यथोर्णातन्तुर् अक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु, एवम् एतानि दुःखान्य् अक्षिपात्रकल्पं योगिनम् एव क्लिश्नन्ति नेतरं प्रतिपत्तारम्. इतरं तु स्वकर्मोपहृतं दुःखम् उपात्तम् उपात्तं त्यजन्तं त्यक्तं त्यक्तम् उपाददानम् अनादिवासनाविचित्रया चित्तवृत्त्या समन्ततो ऽनुविद्धम् इवाविद्यया हातव्य एवाहंकारममकारानुपातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्तास् त्रिपर्वाणस् तापा अनुप्लवन्ते. तद् एवम् अनादिना दुःखस्रोतसा व्युह्यमानम् आत्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति.
गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः. प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्री भूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणम् एवारभन्ते. चलं च गुणवृत्तम् इति क्षिप्रपरिणामि चित्तम् उक्तम्. रूपातिशया वृत्त्यतिशयाश् च परस्परेण विरुध्यन्ते, सामान्यानि त्व् अतिशयैः सह प्रवर्तन्ते. एवम् एते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस् त्व् एषां विशेष इति. तस्माद् दुःखम् एव सर्वं विवेकिन इति.
तद् अस्य महतो दुःखसमुदायस्य प्रभवबीजम् अविद्या. तस्याश् च सम्यग्दर्शनम् अभावहेतुः. यथा चिकित्साशास्त्रं चतुर्व्यूहम् --- रोगो रोगहेतुर् आरोग्यं भैषज्यम् इति. एवम् इदम् अपि शास्त्रम् चतुर्व्यूहम् एव. तद्यथा --- संसारः संसारहेतुर् मोक्षो मोक्षोपाय इति. तत्र दुःखबहुलः संसारो हेयः. प्रधानपुरुषयोः संयोगो हेयहेतुः. संयोगस्यात्यन्तिकी निवृत्तिर् हानम्. हानोपायः सम्यग्दर्शनम्.
तत्र हातुः स्वरूपम् उपादेयं वा हेयं वा न भवितुम् अर्हतीति हाने तस्योच्छेदवादप्रसङ्ग उपादाने च हेतुवादः. उभयप्रत्याख्याने शाश्वतवाद इत्य् एतत् सम्यग्दर्शनम्. 2.15
तद् एतच् छास्त्रं चतुर्व्यूहम् इत्य् अभिधीयते ---
हेयं दुःखम् अनागतम्

2.17

दुःखम् अतीतम् उपभोगेनातिवाहितं न हेयपक्षे वर्तते. वर्तमानं च स्वक्षणे भोगारूढम् इति न तत् क्षणान्तरे हेयताम् आपद्यते. तस्माद् यद् एवानागतं दुःखं तद् एवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं प्रतिपत्तारम्. तद् एव हेयताम् आपद्यते. 2.16
तस्माद् यद् एव हेयम् इत्य् उच्यते तस्यैव कारणं प्रतिनिर्दिश्यते ---
द्रष्टृदृश्ययोः संयोगो हेयहेतुः

2.18

द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः. दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः. तद् एतद् दृश्यम् अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयताम् आपन्नं यतः. अन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रम् अपि परार्थत्वात् परतन्त्रम्.
तयोर् दृग्दर्शनशक्त्योर् अनादिर् अर्थकृतः संयोगो हेयहेतुर् दुःखस्य कारणम् इत्य् अर्थः. तथा चोक्तम् --- तत्संयोगहेतुविवर्जनात् स्याद् अयम् आत्यन्तिको दुःखप्रतीकारः. कस्मात्, दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात्. तद्यथा --- पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पा(प)दानधिष्ठानं पादत्राणव्यवहितेन वाधिष्ठानम्, एतत् त्रयं यो वेद लोके स तत्र प्रतीकारम् आरभमाणो भेदजं दुःखं नाप्नोति. कस्मात्, त्रित्वोपलब्धिसामर्थ्याद् इति. अत्रापि तापकस्य रजसः सत्त्वम् एव तप्यम्. कस्मात्, तपिक्रियायाः कर्मस्थत्वात्, सत्त्वे कर्मणि तपिक्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे, दर्शितविषयत्वात्. सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषो ऽप्य् अनुतप्यत इति. 2.17
दृश्यस्वरूपम् उच्यते ---
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्

2.19

प्रकाशशीलं सत्त्वम्. क्रियाशीलं रजः स्थितिशीलं तम इति. एते गुणाः परस्परोपरक्तप्रविभागाः परिणामिनः संयोगवियोगधर्माण इतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वे ऽप्य् असंभिन्नशक्तिप्रविभागास् तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायाम् उपदर्शितसंनिधाना गुणत्वे ऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः संनिधिमात्रोपकारिणो ऽयस्कान्तमणिकल्पाः प्रत्ययम् अन्तरेणैकतमस्य वृत्तिम् अनुवर्तमानाः प्रधानशब्दवाच्या भवन्ति. एतद् दृश्यम् इत्य् उच्यते.
तद् एतद् भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते. तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति. तत् तु नाप्रयोजनम् अपि तु प्रयोजनम् उररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद् दृश्यं पुरुषस्येति. तत्रेष्टानिष्टगुणस्वरूपावधारणम् अविभागापन्नं भोगो भोक्तुः स्वरूपावधारणम् अपवर्ग इति. द्वयोर् अतिरिक्तम् अन्यद् दर्शनं नास्ति. तथा चोक्तम् --- अयं तु खलु त्रिषु गुणेषु कर्तृष्व् अकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्य् उपनीयमानान् सर्वभावान् उपपन्नान् अनुपश्यन्न् अदर्शनम् अन्यच् छङ्कत इति.
ताव् एतौ भोगापवर्गौ बुद्धिकृतौ बुद्धाव् एव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति. यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धाव् एव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फलस्य भोक्तेति. बुद्धेर् एव पुरुषार्थापरिसमाप्तिर् बन्धस् तदर्थावसायो मोक्ष इति. एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषे ऽध्यारोपितसद्भावाः. स हि तत्फलस्य भोक्तेति. 2.18
दृश्यानां गुणानां स्वरूपभेदावधारणार्थम् इदम् आरभ्यते ---
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि

2.20

तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणाम् अविशेषाणां विशेषाः. तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि, एकादशं मनः सर्वार्थम्, इत्य् एतान्य् अस्मितालक्षणस्याविशेषस्य विशेषाः. गुणानाम् एष षोडशको विशेषपरिणामः.
षड् अविशेषाः. तद्यथा --- शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः, षष्ठश् चाविशेषो ऽस्मितामात्र इति. एते सत्तामात्रस्यात्मनो महतः षडविशेषपरिणामाः. यत् तत् परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्न् एते सत्तामात्रे महत्य् आत्मन्य् अवस्थाय विवृद्धिकाष्ठाम् अनुभवन्ति.
प्रतिसंसृज्यमानाश् च तस्मिन्न् एव सत्तामात्रे महत्य् आत्मन्य् अवस्थाय यत् तन् निःसत्तासत्तं निःसदसन् निरसद् अव्यक्तम् अलिङ्गं प्रधानं तत् प्रतियन्ति. एष तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं चालिङ्गपरिणाम इति.
अलिङ्गावस्थायां न पुरुषार्थो हेतुर् नालिङ्गावस्थायाम् आदौ पुरुषार्थता कारणं भवतीति. न तस्याः पुरुषार्थता कारणं भवतीति. नासौ पुरुषार्थकृतेति नित्याख्यायते. त्रयाणां त्व् अवस्थाविशेषाणाम् आदौ पुरुषार्थता कारणं भवति. स चार्थो हेतुर् निमित्तं कारणं भवतीत्य् अनित्याख्यायते. गुणास् तु सर्वधर्मानुपातिनो न प्रत्यस्तम् अयन्ते नोपजायन्ते. व्यक्तिभिर् एवातीतानागतव्ययागमवतीभिर् गुणान्वयिनीभिर् उपजननापायधर्मका इव प्रत्यवभासन्ते. यथा देवदत्तो दरिद्राति. कस्मात् यतो ऽस्य म्रियन्ते गाव इति, गवाम् एव मरणात् तस्य दरिद्राणं न स्वरूपहानाद् इति समः समाधिः.
लिङ्गमात्रम् अलिङ्गस्य प्रत्यासन्नं, तत्र तत् संसृष्टं विविच्यते क्रमान् अतिवृत्तयः. तथा षड् अविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात्. तथा तेष्व् अविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते. तथा चोक्तं पुरस्तात्. न विशेषेभ्यः परं तत्त्वान्तरम् अस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः. तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते. 2.19
व्याख्यातं दृश्यम् अथ द्रष्टुः स्वरूपावधारणार्थम् इदम् आरभ्यते ---
द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः

2.21

दृशिमात्र इति दृक्शक्तिर् एव विशेषणापरामृष्टेत्य् अर्थः. स पुरुषो भुद्धेः प्रतिसंवेदी. स बुद्धेर् न सरूपो नात्यन्तं विरूप इति. न तावत् सरूपः कस्मात्. ज्ञाताज्ञातविषयत्वात् परिणामिनी हि बुद्धिः. तस्याश् च विषयो गवादिर् घटादिर् वा ज्ञातश् चाज्ञातश् चेति परिणामित्वं दर्शयति.
सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति कस्मात्. न हि बुद्धिश् च नाम पुरुषविषयश् च स्याद् अगृहीता गृहीता चेति सिद्धं पुरुषस्य सदाज्ञातविषयत्वं ततश् चापरिणामित्वम् इति. किं च परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति. तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणा बुद्धिस् त्रिगुणत्वाद् अचेतनेति. गुणानां तूपद्रष्टा पुरुष इत्य् अतो न सरूपः.
अस्तु तर्हि विरूप इति. नात्यन्तं विरूपः कस्मात्. शुद्धो ऽप्य् असौ प्रत्ययानुपश्यो यतः. प्रत्ययं बौद्धम् अनुपश्यति, तम् अनुपश्यन्न् अतदात्मापि तदात्मक इव प्रत्यवभासते. तथा चोक्तम् --- अपरिणामिनी हि भोक्तृशक्तिर् अप्रतिसंक्रमा च परिणामिन्य् अर्थे प्रतिसंक्रान्तेव तद्वृत्तिम् अनुपतति, तस्याश् च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेर् अनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिर् इत्य् आख्यायते. 2.20
तदर्थ एव दृश्यस्यात्मा

2.22

दृशिरूपस्य पुरुषस्य कर्मरूपताम् आपन्नं दृश्यम् इति तदर्थ एव दृश्यस्यात्मा भवति. स्वरूपं भवतीत्य् अर्थः. स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति. स्वरूपहानाद् अस्य नाशः प्राप्तो न तु विनश्यति. 2.21
कस्मात् ---
कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात्

2.23

कृतार्थम् एकं पुरुषं प्रति दृश्यं नष्टम् अपि नाशं प्राप्तम् अप्य् अनष्टं तदन्यपुरुषसाधारणत्वात्. कुशलं पुरुषं प्रति नाशं प्राप्तम् अप्य् अकुशलान् पुरुषान् प्रति न कृतार्थम् इति तेषां दृशेः कर्मविषयताम् आपन्नं लभत एव पररूपेणात्मरूपम् इति. अतश् च दृग्दर्शनशक्त्योर् नित्यत्वाद् अनादिः संयोगो व्याख्यात इति. तथा चोक्तम् --- धर्मिणाम् अनादिसंयोगाद् धर्ममात्राणाम् अप्य् अनादिः संयोग इति. 2.22
संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते ---
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः

2.24

पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः. तस्मात् संयोगाद् दृश्यस्योपलब्धिर् या स भोगः. या तु द्रष्टुः स्वरूपोपलब्धिः सो ऽपवर्गः. दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणम् उक्तम्. दर्शनम् अदर्शनस्य प्रतिद्वन्द्वीत्य् अदर्शनं संयोगनिमित्तम् उक्तम्. नात्र दर्शनं मोक्षकारणम् अदर्शनाभावाद् एव बन्धाभावः स मोक्ष इति. दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्य् अतो दर्शनं ज्ञानं कैवल्यकारणम् उक्तम्.
किंचेदम् अदर्शनं नाम, किं गुणानाम् अधिकार आहोस्विद् दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः. स्वस्मिन् दृश्ये विद्यमाने यो दर्शनाभावः.
किम् अर्थवत्ता गुणानाम्. अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम्. किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः. यत्रेदम् उक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणाद् अप्रधानं स्यात्.
तथा गत्यैव वर्तमानं विकारनित्यत्वाद् अप्रधानं स्यात्. उभयथा चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा. कारणान्तरेष्व् अपि कल्पितेष्व् एव समानश् चर्चः. दर्शनशक्तिर् एवादर्शनम् इत्य् एके, "प्रधानस्यात्मख्यापनार्था प्रवृत्तिः" इति श्रुतेः.
सर्वबोध्यबोधसमर्थः प्राक्प्रवृत्तेः पुरुषो न पश्यति सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति. उभयस्याप्य् अदर्शनं धर्म इत्य् एके. तत्रेदं दृश्यस्य स्वात्मभूतम् अपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति. तथा पुरुषस्यानात्मभूतम् अपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनेवादर्शनम् अवभासते. दर्शनं ज्ञानम् एवादर्शनम् इति केचिद् अभिदधति. इत्य् एते शास्त्रगता विकल्पाः. तत्र विकल्पबहुत्वम् एतत् सर्वपुरुषाणां गुणानां संयोगे साधारणविषयम्. 2.23
यस् तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः ---
तस्य हेतुर् अविद्या

2.25

विपर्ययज्ञानवासनेत्य् अर्थः. विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनर् आवर्तते. सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति, चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान् न पुनर् आवर्तते.
अत्र कश्चित् पण्डकोपाख्यानेनोद्घाटयति --- मुग्धया भार्ययाभिधीयते --- पण्डकार्यपुत्र, अपत्यवती मे भगिनी किमर्थं नाम नाहम् इति, स ताम् आह --- मृतस् ते ऽहम् अपत्यम् उत्पादयिष्यामीति. तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा. तत्राचार्यदेशीयो वक्ति --- ननु बुद्धिनिवृत्तिर् एव मोक्षो ऽदर्शनकारणाभावाद् बुद्धिनिवृत्तिः. तच् चादर्शनं बन्धकारणं दर्शनान् निवर्तते. तत्र चित्तनिवृत्तिर् एव मोक्षः, किमर्थम् अस्थान एवास्य मतिविभ्रमः. 2.24
हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तम् उक्तम् अतः परं हानं वक्तव्यम् ---
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम्

2.26

तस्यादर्शनस्याभावाद् बुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्य् अर्थः. एतद् धानम्. तद्दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनर् असंयोगो गुणैर् इत्य् अर्थः. दुःखकारणनिवृत्तौ दुःखोपरमो हानम्, तदा स्वरूपप्रतिष्ठः पुरुष इत्य् उक्तम्. 2.25
अथ हानस्य कः प्राप्त्युपाय इति ---
विवेकख्यातिर् अविप्लवा हानोपायः

2.27

सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः. सा त्व् अनिवृत्तमिथ्याज्ञाना प्लवते. यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं संपद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति. सा विवेकख्यातिर् अविप्लवा हानोपायः. ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश् चाप्रसव इत्य् एष मोक्षस्य मार्गो हानस्योपाय इति. 2.26
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा

2.28

तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः. सप्तधेति अशुद्ध्यावरणमलापगमाच् चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति.
तद्यथा --- परिज्ञातं हेयं नास्य पुनः परिज्ञेयम् अस्ति. क्षीणा हेयहेतवो न पुनर् एतेषां क्षेतव्यम् अस्ति. साक्षात्कृतं निरोधसमाधिना हानम्. भावितो विवेकख्यातिरूपो हानोपाय इति. एषा चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः. चित्तविमुक्तिस् तु त्रयी चरिताधिकारा बुद्धिः. गुणा गिरिशिखरतटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति. न चैषां प्रविलीनानां पुनर् अस्त्य् उत्पादः प्रयोजनाभावाद् इति. एतस्याम् अवस्थायां गुणसंबन्धातीतः स्वरूपमात्रज्योतिर् अमलः केवली पुरुष इति. एतां सप्तविधां प्रान्तभूमिप्रज्ञाम् अनुपश्यन् पुरुषः कुशल इत्य् आख्यायते. प्रतिप्रसवे ऽपि चित्तस्य मुक्तः कुशल इत्य् एव भवति गुणातीतत्वाद् इति. 2.27
सिद्धा भवति विवेकख्यातिर् हानोपाय इति, न च सिद्धिर् अन्तरेण साधनम् इत्य् एतद् आरभ्यते ---
योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः

2.29

योगाङ्गान्य् अष्टाव् अभिधायिष्यमाणानि. तेषाम् अनुष्ठानात् पञ्चपर्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः. तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः. यथा यथा च साधनान्य् अनुष्ठीयन्ते तथा तथा तनुत्वम् अशुद्धिर् आपद्यते. यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर् विवर्धते. सा खल्व् एषा विवृद्धिः प्रकर्षम् अनुभवत्या विवेकख्यातेः, आ गुणपुरुषस्वरूपविज्ञानाद् इत्य् अर्थः. योगाङ्गानुष्ठानम् अशुद्धेर् वियोगकारणम्. यथा परशुश् छेद्यस्य. विवेकख्यातेस् तु प्राप्तिकारणं यथा धर्मः सुखस्य नान्यथा कारणम्. कति चैतानि कारणानि शास्त्रे भवन्ति. नवैवेत्य् आह. तद्यथा ---
"उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः ।
वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥" इति.
तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य, स्थितिकारणं मनसः पुरुषार्थता, शरीरस्येवाहार इति. अभिव्यक्तिकारणं यथा रूपस्यालोकस् तथा रूपज्ञानम्, विकारकारणं मनसो विषयान्तरम्. यथाग्निः पाक्यस्य. प्रत्ययकारणं धूमज्ञानम् अग्निज्ञानस्य. प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः.
वियोगकारणं तद् एवाशुद्धेः. अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः. एवम् एकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे द्वेषो दुःखत्वे रागः सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये. धृतिकारणं शरीरम् इन्द्रियाणाम्. तानि च तस्य. महाभूतानि शरीराणाम्, तानि च परस्परं सर्वेषां तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वाद् इत्य् एवं नव कारणानि. तानि च यथासंभवं पदार्थान्तरेष्व् अपि योज्यानि. योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति. 2.28
तत्र योगाङ्गान्य् अवधार्यन्ते ---
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि

2.30

यथाक्रमम् एषाम् अनुष्ठानं स्वरूपं च वक्ष्यामः. 2.29
तत्र ---
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः

2.31

तत्राहिंसा सर्वथा सर्वदा सर्वभूतानाम् अनभिद्रोहः. उत्तरे च यमनियमास् तन्मूलास् तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते. तदवदातरूपकरणायैवोपादीयन्ते. तथा चोक्तम् --- स खल्व् अयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस् ताम् एवावदातरूपाम् अहिंसां करोति.
सत्यं यथार्थे वाङ्मनसे. यथा दृष्टं यथानुमितं तथा वाङ् मनश् चेति. परत्र स्वबोधसंक्रान्तये वाग् उक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेद् इति. एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय. यदि चैवम् अप्य् अभिधीयमाना भूतोपघातपरैव स्यान् न सत्यं भवेत् पापम् एव भवेत् तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्. तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्.
स्तेयम् अशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनर् अस्पृहारूपम् अस्तेयम् इति. ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः. विषयाणाम् अर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनाद् अस्वीकरणम् अपरिग्रह इत्य् एते यमाः. 2.30
ते तु ---
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्

2.32

तत्राहिंसा जात्यवच्छिन्ना मत्स्यवधकस्य मत्स्येष्व् एव नान्यत्र हिंसा. सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति. सैव कालावच्छिन्ना न चतुर्दश्यां न पुण्ये ऽहनि हनिष्यामीति. सैव त्रिभिर् उपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति. यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति. एभिर् जातिदेशकालसमयैर् अनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः. सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतम् इत्य् उच्यन्ते. 2.31
शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः

2.33

तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम्. आभ्यन्तरं चित्तमलानाम् आक्षालनम्. संतोषः संनिहितसाधनाद् अधिकस्यानुपादित्सा. तपो द्वंद्वसहनम्. द्वंद्वाश् च जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च. व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसांतपनादीनि. स्वाध्यायो मोक्षशास्त्राणाम् अध्ययनं प्रणवजपो वा. ईश्वरप्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणम्.
शय्यासनस्थो ऽथ पथि व्रजन् वा स्वस्थः परिक्षीणवितर्कजालः ।
संसारबीजक्षयम् ईक्षमाणः स्यान् नित्ययुक्तो ऽमृतभोगभागी ॥
यत्रेदम् उक्तं ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् चेति. 2.32
एतेषां यमनियमानाम् ---
वितर्कबाधने प्रतिपक्षभावनम्

2.34

यदास्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् हनिष्याम्य् अहम् अपकारिणम् अनृतम् अपि वक्ष्यामि द्रव्यम् अप्य् अस्य स्वीकरिष्यामि दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति. एवम् उन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस् तत्प्रतिपक्षान् भावयेत्. घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणम् उपागतः सर्वभूताभयप्रदानेन योगधर्मः. स खल्व् अहं त्यक्त्वा वितर्कान् पुनस् तान् आददानस् तुल्यः श्ववृत्तेनेति भावयेत्. यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनर् आददान इति. एवमादि सूत्रान्तरेष्व् अपि योज्यम्. 2.33
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्

2.35

तत्र हिंसा तावत् --- कृता कारितानुमोदितेति त्रिधा. एकैका पुनस् त्रिधा लोभेन मांसचर्मार्थेन क्रोधेनापकृतम् अनेनेति मोहेन धर्मो मे भविष्यतीति. लोभक्रोधमोहाः पुनस् त्रिविधा मृदुमध्याधिमात्रा इति. एवं सप्तविंशतिर् भेदा भवन्ति हिंसायाः. मृदुमध्याधिमात्राः पुनस् त्रिधा --- मृदुमृदुर् मध्यमृदुस् तीव्रमृदुर् इति. तथा मृदुमध्यो मध्यमध्यस् तीव्रमध्य इति. तथा मृदुतीव्रो मध्यतीव्रो ऽधिमात्रतीव्र इति. एवम् एकाशीतिभेदा हिंसा भवति. सा पुनर् नियमविकल्पसमुच्चयभेदाद् असंख्येया, प्राणभृद्भेदस्यापरिसंख्येयत्वाद् इति. एवम् अनृतादिष्व् अपि योज्यम्.
ते खल्व् अमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्. दुःखम् अज्ञानं चानन्तं फलं येषाम् इति प्रतिपक्षभावनम्. तथा च हिंसकस् तावत् प्रथमं वध्यस्य वीर्यम् आक्षिपति. ततश् च शस्त्रादिनिपातेन दुःखयति. ततो जीविताद् अपि मोचयति. ततो वीर्याक्षेपाद् अस्य चेतनाचेतनम् उपकरणं क्षीणवीर्यं भवति. दुःखोत्पादान् नरकतिर्यक्प्रेतादिषु दुःखम् अनुभवति, जीवितव्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो मरणम् इच्छन्न् अपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात् कथंचिद् एवोच्छ्वसिति. यदि च कथंचित् पुण्यावापगता हिंसा भवेत् तत्र सुखप्राप्तौ भवेद् अल्पायुर् इति. एवम् अनृतादिष्व् अपि योज्यं यथासंभवम्. एवं वितर्काणां चामुम् एवानुगतं विपाकम् अनिष्टं भावयन् न वितर्केषु मनः प्रणिदधीत. 2.34
प्रतिपक्षभावनाद् धेतोर् हेया वितर्का यदास्य स्युर् अप्रसवधर्माणस् तदा तत्कृतम् ऐश्वर्यं योगिनः सिद्धिसूचकं भवति. तद्यथा ---
अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः

2.36

सर्वप्राणिनां भवति. 2.35
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्

2.37

धार्मिको भूया इति भवति धार्मिकः, स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति अमोघास्य वाग् भवति. 2.36
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्

2.38

सर्वदिक्स्थान्य् अस्योपतिष्ठन्ते रत्नानि. 2.37
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः

2.39

यस्य लाभाद् अप्रतिघान् गुणान् उत्कर्षयति. सिद्धश् च विनेयेषु ज्ञानम् आधातुं समर्थो भवतीति. 2.38
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः

2.40

अस्य भवति को ऽहम् आसं कथम् अहम् आसं किंस्विद् इदं कथंस्विद् इदं के वा भविष्यामः कथं वा भविष्याम इत्य् एवम् अस्य पूर्वान्तपरान्तमध्येष्व् आत्मभावजिजासा स्वरूपेणोपावर्तते. एता यमस्थैर्ये सिद्धयः. 2.39
नियमेषु वक्ष्यामः ---
शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः

2.41

स्वाङ्गे जुगुप्सायां शौचम् आरभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर् भवति. किंच परैर् असंसर्गः कायस्वभावावलोकी स्वम् अपि कायं जिहासुर् मृज्जलादिभिर् आक्षालयन्न् अपि कायशुद्धिम् अपश्यन् कथं परकायैर् अत्यन्तम् एवाप्रयतैः संसृज्येत. 2.40
किंच ---
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च

2.42

भवन्तीति वाक्यशेषः. शुचेः सत्त्वशुद्धिस् ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस् ततश् चात्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्य् एतच् छौचस्थैर्याद् अधिगम्यत इति. 2.41
संतोषाद् अनुत्तमः सुखलाभः

2.43

तथा चोक्तम् ---
"यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" इति. 2.42
कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः

2.44

निर्वर्त्यमानम् एव तपो हिनस्त्य् अशुद्ध्यावरणमलं तदावरणमलापगमात् कायसिद्धिर् अणिमाद्या. तथेन्द्रियसिद्धिर् दूराच् छ्रवणदर्शनाद्येति. 2.43
स्वाध्यायाद् इष्टदेवतासंप्रयोगः

2.45

देवा ऋषयः सिद्धाश् च स्वाध्यायशीलस्य दर्शनं गच्छन्ति, कार्ये चास्य वर्तन्त इति. 2.44
समाधिसिद्धिर् ईश्वरप्रणिधानात्

2.46

ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर् यया सर्वम् ईप्सितम् अवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च. ततो ऽस्य प्रज्ञा यथाभूतं प्रजानातीति. 2.45
उक्ताः सह सिद्धिभिर् यमनियमाः आसनादीनि वक्ष्यामः तत्र ---
स्थिरसुखम् आसनम्

2.47

तद्यथा पद्मासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं क्रौञ्चनिषदनं हस्तिनिषदनम् उष्ट्रनिषदनं समसंस्थानं स्थिरसुखं यथासुखं चेत्य् एवमादीनि. 2.46
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्

2.48

भवतीति वाक्यशेषः प्रयत्नोपरमात् सिध्यत्य् आसनं येन नाङ्गमेजयो भवति. अनन्ते वा समापन्नं चित्तम् आसनं निर्वर्तयतीति. 2.47
ततो द्वन्द्वानभिघातः

2.49

शीतोष्णादिभिर् द्वन्द्वैर् आसनजयान् नाभिभूयते. 2.48
तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः

2.50

सत्य् आसनजये बाह्यस्य वायोर् आचमनं श्वासः, कौष्ठ्यस्य वायोर् निःसारणं प्रश्वासः, तयोर् गतिविच्छेद उभयाभावः प्राणायामः. 2.49
स तु ---
बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः

2.51

यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः. यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः. तृतीयः स्तम्भवृत्तिर् यत्रोभयाभावः सकृट्प्रयत्नाद् भवति. यथा तप्ते न्यस्तम् उपले जलं सर्वतः संकोचम् आपद्यते तथा द्वयोर् युगपद् गत्यभाव इति. त्रयो ऽप्य् एते देशेन परिदृष्टा इयान् अस्य विषयो देश इति. कालेन परिदृष्टाः क्षणानाम् इयत्तावधारणेनावच्छिन्ना इत्य् अर्थः. संख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस् तद्वन् निगृहीतस्यैतावद्भिर् द्वितीय उद्घात एवं तृतीयः. एवं मृदुर् एवं मध्य एवं तीव्र इति संख्यापरिदृष्टः. स खल्व् अयम् एवम् अभ्यस्तो दीर्घसूक्ष्मः. 2.50
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः

2.52

देशकालसंख्याभिर् बाह्यविषयपरिदृष्ट आक्षिप्तः. तथाभ्यन्तरविषयपरिदृष्ट आक्षिप्तः. उभयथा दीर्घसूक्ष्मः. तत्पूर्वको भूमिजयात् क्रमेणोभयोर् गत्यभावश् चतुर्थः प्राणायामः. तृतीयस् तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः. चतुर्थस् तु श्वासप्रश्वासयोर् विषयावधारणात् क्रमेण भूमिजयाद् उभयाक्षेपपूर्वको गत्यभावश् चतुर्थः प्राणायाम इत्य् अयं विशेष इति. 2.51
ततः क्षीयते प्रकाशावरणम्

2.53

प्राणायामान् अभ्यस्यतो ऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म. यत् तद् आचक्षते. महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वम् आवृत्य तद् एवाकार्ये नियुङ्क्त इति. तद् अस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद् दुर्बलं भवति प्रतिक्षणं च क्षीयते. तथा चोक्तम्. "तपो न परं प्राणायामात् ततो विशुद्धिर् मलानां दीप्तिश् च ज्ञानस्य" इति. 2.52
किंच ---
धारणासु च योग्यता मनसः

2.54

प्राणायामाभ्यासाद् एव "प्रच्छर्दनविधारणाभ्यां वा प्राणस्य" इति वचनात्. 2.53
अथ कः प्रत्याहारः ---
स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः

2.55

स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति, चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरम् अपेक्षन्ते. यथा मधुकरराजं मक्षिका उत्पतन्तम् अनूत्पतन्ति निविशमानम् अनु निविशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्य् एष प्रत्याहारः. 2.54
ततः परमा वश्यतेन्द्रियाणाम्

मूल पाठ: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra) · Edition: Kāśinātha Śāstrī Āgāśe: Vācaspatimiśraviracitaṭīkāsaṃvalitavyāsabhāṣyasametāni Pātañjalayogasūtrāṇi, tathā bhojadevaviracitarājamārtaṇḍābhidhavṛttisametāni pātañjalayogasūtrāṇi. sūtrapāṭhasūtravarṇānukramasūcībhyāṃ ca sanāthīkṛtāni ... Pune : Ānandāśramamudraṇālaye 1904 (Ānandāśrama Sanskrit Series, 47). · Data entry Philipp A. Maas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc