योगसूत्र (टीका सहित) · अध्याय 4
यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यम् इवापन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः. एतस्याम् अवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा. न हि दग्धक्लेशबीजस्य ज्ञाने पुनर् अपेक्षा काचिद् अस्ति सत्त्वशुद्धिद्वारेणैतत् समाधिजम् ऐश्वर्यं ज्ञानं चोपक्रान्तम्. परमार्थतस् तु ज्ञानाद् अदर्शनं निवर्तते तस्मिन् निवृत्ते न सन्त्य् उत्तरे क्लेशाः. क्लेशाभावात् कर्मविपाकाभावः चरिताधिकाराश् चैतस्याम् अवस्थायां गुणा न पुरुषस्य पुनर् दृश्यत्वेनोपतिष्ठन्ते. तत्पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिर् अमलः केवली भवति. 3.55
इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे व्यासभाष्ये विभूतिपादस् तृतीयः 3.
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः
देहान्तरिता जन्मना सिद्धिः ओषधिभिर् असुरभवनेषु रसायनेनेत्य् एवमादिः. मन्त्रैर् आकाशगमनाणिमादिलाभः. तपसा संकल्पसिद्धिः, कामरूपी यत्र तत्र कामग इत्य् एवमादि समाधिजाः सिद्धयो व्याख्याताः. 4.1
तत्र कायेन्द्रियाणाम् अन्यजातीयपरिणतानाम् ---
जात्यन्तरपरिणामः प्रकृत्यापूरात्
पूर्वपरिणामापाय उत्तरपरिणामोपजनस् तेषाम् अपूर्वावयवानुप्रवेशाद् भवति. कायेन्द्रियप्रकृतयश् च स्वं स्वं विकारम् अनुगृह्णन्त्य् आपूरेण धर्मादिनिमित्तम् अपेक्षमाणा इति. 4.2
निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत्
न हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतीनां भवति न कार्येण कारणं प्रवर्त्यत इति कथं तर्हि, वरणभेदस् तु ततः क्षेत्रिकवत्. यथा क्षेत्रिकः केदाराद् अपां पूर्णात् केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनापकर्षत्य् आवरणं त्व् आसां भिनत्ति तस्मिन् भिन्ने स्वयम् एवापः केदारान्तरम् आप्लावयन्ति तथा धर्मः प्रकृतीनाम् आवरणधर्मं भिनत्ति तस्मिन् भिन्ने स्वयम् एव प्रकृतयः स्वं स्वं विकारम् आप्लावयन्ति. यथा वा स एव क्षेत्रिकस् तस्मिन्न् एव केदारे न प्रभवत्य् औदकान् भौमान् वा रसान् धान्यमूलान्य् अनुप्रवेशयितुं, किं तर्हि मुद्गगवेधुकश्यामाकादींस् ततो ऽपकर्षति. अपकृष्टेषु तेषु स्वयम् एव रसा धान्यमूलान्य् अनुप्रविशन्ति, तथा धर्मो निवृत्तिमात्रे कारणम् अधर्मस्य, शुद्ध्यशुद्ध्योर् अत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर् भवतीति. अत्र नन्दीश्वरादय उदाहार्याः विपर्ययेणाप्य् अधर्मो धर्मं बाधते. ततश् चाशुद्धिपरिणाम इति. तत्रापि नहुषाजगरादय उदाहार्याः. 4.3
यदा तु योगी बहून् कायान् निर्मिमीते तदा किम् एकमनस्कास् ते भवन्त्य् अथानेकमनस्का इति ---
निर्माणचित्तान्य् अस्मितामात्रात्
अस्मितामात्रं चित्तकारणम् उपादाय निर्माणचित्तानि करोति, ततः सचित्तानि भवन्तीति. 4.4
प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम्
बहूनां चित्तानां कथम् एकचित्ताभिप्रायपुरःसरा प्रवृत्तिर् इति सर्वचित्तानां प्रयोजकं चित्तम् एकण् निर्मिमीते, ततः प्रवृत्तिभेदः. 4.5
तत्र ध्यानजम् अनाशयम्
पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति. तत्र यद् एव ध्यानजं चित्तं तद् एवानाशयं तस्यैव नास्त्य् आशयो रागादिप्रवृत्तिर् नातः पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद् योगिन इति इतरेषां तु विद्यते कर्माशयः. 4.6
यतः ---
कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम्
चतुष्पदी खल्व् इयं कर्मजातिः कृष्णा शुक्लकृष्णा शुक्लाशुक्लाकृष्णा चेति. तत्र कृष्णा दुरात्मनाम्, शुक्लकृष्णा बहिःसाधनसाध्या. तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः शुक्ला तपःस्वाध्यायध्यानवताम्. सा हि केवले मनस्य् आयत्तत्वाद् अबहिःसाधनाधीना न परान् पीडयित्वा भवति. अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानाम् इति तत्राशुक्लं योगिन एव फलसंन्यासाद् अकृष्णं चानुपादानात् इतरेषां तु भूतानां पूर्वम् एव त्रिविधम् इति. 4.7
ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम्
तत इति त्रिविधात् कर्मणः, तद्विपाकानुगुणानाम् एवेति यज्जातीयस्य कर्मणो यो विपाकस् तस्यानुगुणा या वासनाः कर्मविपाकम् अनुशेरते तासाम् एवाभिव्यक्तिः. न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं संभवति किंतु दैवानुगुणा एवास्य वासना व्यज्यन्ते नारकतिर्यङ्मनुष्येषु चैवं समानश् चर्चः. 4.8
जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात्
वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः. स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश् च स्वव्यञ्जकाञ्जन एवोदियाद् द्राग् इत्य् एवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत. कस्मात्, यतो व्यवहितानाम् अप्य् आसां सदृशं कर्माभिव्यज्ञकं निमित्तीभूतम् इत्य् आनन्तर्यम् एव. कुतश् च, स्मृतिसंस्कारयोर् एकरूपत्वात् यथानुभवास् तथा संस्काराः. ते च कर्मवासनानुरूपाः यथा च वासनास् तथा स्मृतिर् इति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः. स्मृतेश् च पुनः संस्कारा इत्येवम् एते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद् व्यज्यन्ते अतश् च व्यवहितानाम् अपि निमित्तनैमित्तिकभावानुच्छेदाद् आनन्तर्यम् एव सिद्धम् इति. 4.9
तासाम् अनादित्वं चाशिषो नित्यत्वात्
तासां वासनानाम् आशिषो नित्यत्वाद् अनादित्वम्. येयम् आत्माशीर् मा न भूवं भूयासम् इति.सर्वस्य दृश्यते सा न स्वाभाविकी. कस्मात् जातमात्रस्य जन्तोर् अननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् न च स्वाभाविकं वस्तु निमित्तम् उपादत्ते. तस्माद् अनादिवासनानुविद्धम् इदं चित्तं निमित्तवशात् काश्चिद् एव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति.
घटप्रासादप्रदीपकल्पं संकोचविकासि चित्तं शरीरपरिमाणाकारमात्रम् इत्य् अपरे प्रतिपन्नाः तथा चान्तराभावः संसारश् च युक्त इति.
वृत्तिर् एवास्य विभुनश् चित्तस्य संकोचविकासिनीत्य् आचार्यः. तच् च धर्मादिनिमित्तापेक्षम्. निमित्तं च द्विविधम् --- बाह्यम् आध्यात्मिकं च. शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि, चित्तमात्राधीनं श्रद्धाद्य् अध्यात्मिकम्. तथा चोक्तम् --- ये चैते मैत्र्यादयो ध्यायिनां विहारास् ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्मम् अभिनिर्वर्तयन्ति. तयोर् मानसं बलीयः. कथं, ज्ञानवैराग्ये केनातिशय्येते, दण्डकारण्यं च चित्तबलव्यतिरेकेण शारीरेण कर्मणा शून्यं कः कर्तुम् उत्सहेत समुद्रम् अगस्त्यवद् वा पिबेत्. 4.10
हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः
हेतुर् धर्मात् सुखम् अधर्माद् दुःखं सुखाद् रागो दुःखाद् द्वेषस् ततश् च प्रयत्नस् तेन मनसा वाचा कायेन वा परिस्पन्दमानः परम् अनुगृह्णात्य् उपहन्ति वा ततः पुनर् धर्माधर्मौ सुखदुःखे रागद्वेषाव् इति प्रवृत्तम् इदं षडरं संसारचक्रम्. अस्य च प्रतिक्षणम् आवर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानाम् इत्य् एष हेतुः. फलं तु यम् आश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्य् अपूर्वोपजनः. मनस् तु साधिकारम् आश्रयो वासनानाम्. न ह्य् अवसिताधिकारे मनसि निराश्रया वासनाः स्थातुम् उत्सहन्ते. यद् अभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास् तदालम्बनम्. एवं हेतुफलाश्रयालम्बनैर् एतैः संगृहीताः सर्वा वासनाः एषाम् अभावे तत्संश्रयाणाम् अपि वासनानाम् अभावः. 4.11
नास्त्य् असतः संभवः, न चास्ति सतो विनाश इति द्रव्यत्वेन संभवन्त्यः कथं निवर्तिष्यन्ते वासना इति ---
अतीतानागतं स्वरूपतो ऽस्त्य् अध्वभेदाद् धर्माणाम्
भविष्यद्व्यक्तिकम् अनागतम् अनुभूतव्यक्तिकम् अतीतं स्वव्यापारोपारूढं वर्तमानं, त्रयं चैतद् वस्तु ज्ञानस्य ज्ञेयम्. यदि चैतत् स्वरूपतो नाभविष्यन् नेदं निर्विषयं ज्ञानम् उदपत्स्यत. तस्माद् अतीतानागतं स्वरूपतो ऽस्तीति. किंच भोगभागीयस्य वापवर्गभागीयस्य वा कर्मणः फलम् उत्पित्सु यदि निरुपाख्यम् इति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत. सतश् च फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वम् उत्पादयतीति.
धर्मी चानेकधर्मस्वभावस् तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतो ऽस्त्य् एवम् अतीतम् अनागतं च. कथं तर्हि, स्वेनैव व्यङ्ग्येन स्वरूपेणानागतम् अस्ति. स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतम् इति वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिर् इति न सा भवत्य् अतीतानागतयोर् अध्वनोः. एकस्य चाध्वनः समये द्वाव् अध्वनौ धर्मिसमन्वागतौ भवत एवेति नाभूत्वा भावस् त्रयाणाम् अध्वनाम् इति. 4.12
ते व्यक्तसूक्ष्मा गुणात्मानः
ते खल्व् अमी त्र्यध्वनो धर्मा वर्तमाना व्यक्तात्मानो ऽतीतानागताः सूक्ष्मात्मानः षडविशेषरूपाः. सर्वम् इदं गुणानां संनिवेशविशेषमात्रम् इति परमार्थतो गुणात्मानः. तथा च शास्त्रानुशासनम् ---
"गुणानां परमं रूपं न दृष्टिपथम् ऋच्छति ।
यत् तु दृष्टिपथं प्राप्तं तन् मायेव सुतुच्छकम् ॥" इति. 4.13
यदा तु सर्वे गुणाः कथम् एकः शब्द एकम् इन्द्रियम् इति ---
परिणामैकत्वाद् वस्तुतत्त्वम्
प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रम् इन्द्रियं, ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्तिसमानजातीयानाम् एकः परिणामः पृथिवीपरमाणुस् तन्मात्रावयवस् तेषां चैकः परिणामः पृथिवी गौर् वृक्षः पर्वत इत्येवमादिर् भूतान्तरेष्व् अपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्य् उपादाय सामान्यम् एकविकारारम्भः समाधेयः.
नास्त्य् अर्थो विज्ञानविसहचरः, अस्ति तु ज्ञानम् अर्थविसहचरं स्वप्नादौ कल्पितम् इत्य् अनया दिशा ये वस्तुस्वरूपम् अपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतो ऽस्तीति य आहुस् ते तथेति प्रत्युपस्थितम् इदं स्वमाहात्म्येन वस्तु कथम् अप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपम् उत्सृज्य तद् एवापलपन्तः श्रद्धेयवचनाः स्युः. 4.14
कुतश् चैतद् अन्याय्यम् ---
वस्तुसाम्ये चित्तभेदात् तयोर् विभक्तः पन्थाः
बहुचित्तालम्बनीभूतम् एकं वस्तु साधारणं, तत् खलु नैकचित्तपरिकल्पितं नाप्य् अनेकचित्तपरिकल्पितं किंतु स्वप्रतिष्ठम्. कथं, वस्तुसाम्ये चित्तभेदात् धर्मापेक्षं चित्तस्य वस्तुसाम्ये ऽपि सुखज्ञानं भवत्य् अधर्मापेक्षं तत एव दुःखज्ञानम् अविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानम् इति. कस्य तच् चित्तेन परिकल्पितम्. न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः. तस्माद् वस्तुज्ञानयोर् ग्राह्यग्रहणभेदभिन्नयोर् विभक्तः पन्थाः. नानयोः संकरगन्धो ऽप्य् अस्तीति.
सांख्यपक्षे पुनर् वस्तु त्रिगुणं चलं च गुणवृत्तम् इति धर्मादिनिमित्तापेक्षं चित्तैर् अभिसंबध्यते. निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनात्मना हेतुर् भवति. केचिद् आहुः. ज्ञानसहभूर् एवार्थो भोग्यत्वात् सुखादिवद् इति त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपम् एवापह्नुवते. 4.15
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्
एकचित्ततन्त्रं चेद् वस्तु स्यात् तदा चित्ते व्यग्रे निरुद्धे वास्वरूपम् एव तेनापरामृष्टम् अन्यस्याविषयीभूतम् अप्रमाणकम् अगृहीतस्वभावकं केनचित् तदानीं किं तत् स्यात्. संबध्यमानं च पुनश् चित्तेन कुत उत्पद्येत ये चास्यानुपस्थिता भागास् ते चास्य न स्युर् एवं नास्ति पृष्ठम् इत्य् उदरम् अपि न गृह्येत. तस्मात् स्वतन्त्रो ऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते तयोः संबन्धाद् उपलब्धिः पुरुषस्य भोग इति. 4.16
तदुपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम्
अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तम् अभिसंबन्ध्योपरञ्जयन्ति. येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस् ततो ऽन्यः पुनर् अज्ञातः वस्तुनो ज्ञाताज्ञातस्वरूपत्वात् परिणामि चित्तम्. 4.17
यस्य तु तद् एव चित्तं विषयस् तस्य ---
सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात्
यदि चित्तवत् प्रभुर् अपि पुरुषः परिणमेत् ततस् तद्विषयाश् चित्तवृत्तयः शब्दादिविषयवज् ज्ञाताज्ञाताः स्युः सदाज्ञातत्वं तु मनसस् तत्प्रभोः पुरुषस्यापरिणामित्वम् अनुमापयति. 4.18
स्याद् आशङ्का चित्तम् एव स्वाभासं विषयाभासं च भविष्यतीत्य् अग्निवत् ---
न तत् स्वाभासं दृश्यत्वात्
यथेतराणीन्द्रियाणि शब्दादयश् च दृश्यत्वान् न स्वाभासानि तथा मनो ऽपि प्रत्येतव्यम्. न चाग्निर् अत्र दृष्टान्तः न ह्य् अग्निर् आत्मस्वरूपम् अप्रकाशं प्रकाशयति प्रकाशश् चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः. न च स्वरूपमात्रे ऽस्ति संयोगः किंच स्वाभासं चित्तम् इत्य् अग्राह्यम् एव कस्यचिद् इति शब्दार्थः. तद्यथा स्वात्मप्रतिष्ठम् आकाशं न परप्रतिष्ठम् इत्य् अर्थः स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्रवृत्तिर् दृश्यते --- क्रुद्धो ऽहं भीतो ऽहम् अमुत्र मे रागो ऽमुत्र मे क्रोध इति एतत् स्वबुद्धेर् अग्रहणे न युक्तम् इति. 4.19
एकसमये चोभयानवधारणम्
न चैकस्मिन् क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो यद् भवनं सैव क्रिया तद् एव च कारकम् इत्य् अभ्युपगमः. 4.20
स्यान् मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति ---
चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च
अथ चित्तं चेच् चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते, साप्य् अन्यया साप्य् अन्ययेत्य् अतिप्रसङ्गः. स्मृतिसंकरश् च, यावन्तो बुद्धिबुद्धीनाम् अनुभवास् तावत्यः स्मृतयः प्राप्नुवन्ति. तत्संकराच् चैकस्मृत्यनवधारणं च स्याद् इत्य् एवं बुद्धिप्रतिसंवेदिनं पुरुषम् अपलपद्भिर् वैनाशिकैः सर्वम् एवाकुलीकृतम्. ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन संगच्छन्ते केचित् तु सत्त्वमात्रम् अपि परिकल्प्यास्ति स सत्त्वो य एतान् पञ्च स्कन्धान् निक्षिप्यान्यांश् च प्रतिसंदधातीत्य् उक्त्वा तत एव पुनस् त्रस्यन्ति. तथा स्कन्धानां महन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोर् अन्तिके ब्रह्मचर्यं चरिष्यामीत्य् उक्त्वा सत्त्वस्य पुनः सत्त्वम् एवापह्नुवते. सांख्ययोगादयस् तु प्रवादाः स्वशब्देन पुरुषम् एव स्वामिनं चित्तस्य भोक्तारम् उपयन्तीति. 4.21
कथम् ---
चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम्
अपरिणामिनी हि भोक्तृशक्तिर् अप्रतिसंक्रमा च परिणामिन्य् अर्थे प्रतिसंक्रान्तेव तद्वृत्तिम् अनुपतति. तस्याश् च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेर् अनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिर् आख्यायते. तथा चोक्तम्.
"न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम् ।
गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिम् अविशिष्टां कवयो वेदयन्ते" इति. 4.22
अतश् चैतद् अभ्युपगम्यते ---
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्
मनो हि मन्तव्येनार्थेनोपरक्तं, तत् स्वयं च विषयत्वाद् विषयिणा पुरुषेणात्मीयया वृत्त्याभिसंबद्धं, तद् एतच् चित्तम् एव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकम् अप्य् अविषयात्मकम् इवाचेतनं चेतनम् इव स्फटिकमणिकल्पं सर्वार्थम् इत्य् उच्यते.
तद् अनेन चित्तसारूप्येण भ्रान्ताः केचित् तद् एव चेतनम् इत्य् आहुः अपरे चित्तमात्रम् एवेदं सर्वं नास्ति खल्व् अयं गवादिर् घटादिश् च सकारणो लोक इति. अनुकम्पनीयास् ते. कस्मात्, अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तम् इति. समाधिप्रज्ञायां प्रज्ञेयो ऽर्थः प्रतिबिम्बीभूतस् तस्यालम्बनीभूतत्वाद् अन्यः. स चेद् अर्थश् चित्तमात्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपम् अवधार्येत. तस्मात् प्रतिबिम्बीभूतो ऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति. एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात् त्रयम् अप्य् एतज् जातितः प्रविभजन्ते ते सम्यग्दर्शिनस् तैर् अधिगतः पुरुषः. 4.23
कुतश् च ---
तद् असंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात्
तद् एतच् चित्तम् असंख्येयाभिर् वासनाभिर् एव चित्रीकृतम् अपि परार्थं परस्य भोगापवर्गार्थं न स्वार्थं संहत्यकारित्वाद् गृहवत्. संहत्यकारिणा चित्तेन न स्वार्थेन भवितव्यं, न सुखचित्तं सुखार्थं न ज्ञानं ज्ञानार्थम् उभयम् अप्य् एतत् परार्थम्. यश् च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः स एव परो न परः सामान्यमात्रम्. यत् तु किंचित् परं सामान्यमात्रं स्वरूपेणोदाहरेद् वैनाशिकस् तत् सर्वं संहत्यकारित्वात् परार्थम् एव स्यात्. यस् त्व् असौ परो विशेषः स न संहत्यकारी पुरुष इति. 4.24
विशेषदर्शिन आत्मभावभावनानिवृत्तिः
यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्तानुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्य् अस्ति विशेषदर्शनबीजम् अपवर्गभागीयं कर्माभिनिर्वर्तितम् इत्य् अनुमीयते. तस्यात्मभावभावना स्वाभाविकी प्रवर्तते यस्याभावाद् इदम् उक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचिर् भवत्य् अरुचिश् च निर्णये भवति तत्रात्मभावभावना को ऽहम् आसं कथम् अहम् आसं किंस्विद् इदं कथंस्विद् इदं के भविष्यामः कथं वा भविष्याम इति. सा तु विशेषदर्शिनो निवर्तते कुतः चित्तस्यैवैष विचित्रः परिणामः, पुरुषस् त्व् असत्याम् अविद्यायां शुद्धश् चित्तधर्मैर् अपरामृष्ट इति. ततो ऽस्यात्मभावभावना कुशलस्य निवर्तत इति. 4.25
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्
तदानीं यद् अस्य चित्तं विषयप्राग्भारम् अज्ञाननिम्नम् आसीत् तद् अस्यान्यथा भवति कैवल्यप्राग्भारं विवेकजज्ञाननिम्नम् इति. 4.26
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः
प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्यातिमात्रप्रवाहिणश् चित्तस्य तच्छिद्रेषु प्रत्ययान्तराण्य् अस्मीति वा ममेति वा जानामीति वा न जानामीति वा. कुतः, क्षीयमाणबीजेभ्यः पूर्वसंस्कारेभ्य इति. 4.27
हानम् एषां क्लेशवद् उक्तम्
यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर् भवति. ज्ञानसंस्कारास् तु चित्ताधिकारसमाप्तिम् अनुशेरत इति न चिन्त्यन्ते. 4.28
प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः
यदायं ब्राह्मणः प्रसंख्याने ऽप्य् अकुसीदस् ततो ऽपि न किंचित् प्रार्थयते. तत्रापि विरक्तस्य सर्वथा विवेकख्यातिर् एव भवतीति संस्कारबीजक्षयान् नास्य प्रत्ययान्तराण्य् उत्पद्यन्ते तदास्य धर्ममेघो नाम समाधिर् भवति. 4.29
ततः क्लेशकर्मनिवृत्तिः
तल्लाभाद् अविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति कुशलाकुशलाश् च कर्माशयाः समूलघातं हता भवन्ति. क्लेशकर्मनिवृत्तौ जीवन्न् एव विद्वान् विमुक्तो भवति कस्मात्, यस्माद् विपर्ययो भवस्य कारणम्. न हि क्षीणविपर्ययः कश्चित् केनचित् क्वचिज् जातो दृश्यत इति. 4.30
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम्
सर्वैः क्लेशकर्मावरणैर् विमुक्तस्य ज्ञानस्यानन्त्यं भवति. आवरकेण तमसाभिभूतम् आवृतम् अनन्तं ज्ञानसत्त्वं क्वचिद् एव रजसा प्रवर्तितम् उद्घाटितं ग्रहणसमर्थं भवति. तत्र यदा सर्वैर् आवरणमलैर् अपगतं भवति तदा भवत्य् अस्यानन्त्यम्. ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पं संपद्यते यथाकाशे खद्योतः. यत्रेदम् उक्तम् ---
"अन्धो मणिम् अविध्यत् तम् अनङ्गुलिर् आवयत् ।
अग्रीवस् तं प्रत्यमुञ्चत् तम् अजिह्वो ऽभ्यपूजयत् ॥" इति. 4.31
ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम्
तस्य धर्ममेघस्योदयात् कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणम् अप्य् अवस्थातुम् उत्सहन्ते. 4.32
अथ को ऽयं क्रमो नामेति ---
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः
क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः न ह्य् अननुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति नित्येषु च क्रमो दृष्टः.
द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च. तत्र कूटस्थनित्यता पुरुषस्य. परिणामिनित्यता गुणानाम्. यस्मिन् परिणम्यमाने तत्त्वं न विहन्यते तन् नित्यम् उभयस्य च तत्त्वानभिघातान् नित्यत्वम्. तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्व् अलब्धपर्यवसानः. कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्य् अलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियाम् उपादाय कल्पित इति.
अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर् न वेति. अवचनीयम् एतत् कथम् अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यतीति ओं भोः इति.
अथ सर्वो मृत्वा जनिष्यत इति विभज्यवचनीयम् एतत्. प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यत इतरस् तु जनिष्यते. तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्य् एवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशून् अधिकृत्य श्रेयसी देवान् ऋषींश् चाधिकृत्य नेति. अयं त्व् अवचनीयः प्रश्नः संसारो ऽयम् अन्तवान् अथानन्त इति. कुशलस्यास्ति संसारक्रमसमाप्तिर् नेतरस्येति अन्यतरावधारणे दोषः तस्माद् व्याकरणीय एवायं प्रश्न इति. 4.33
गुणाधिकारक्रमसमाप्तौ कैवल्यम् उक्तं तत्स्वरूपम् अवधार्यते ---
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति
मूल पाठ: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra) · Edition: Kāśinātha Śāstrī Āgāśe: Vācaspatimiśraviracitaṭīkāsaṃvalitavyāsabhāṣyasametāni Pātañjalayogasūtrāṇi, tathā bhojadevaviracitarājamārtaṇḍābhidhavṛttisametāni pātañjalayogasūtrāṇi. sūtrapāṭhasūtravarṇānukramasūcībhyāṃ ca sanāthīkṛtāni ... Pune : Ānandāśramamudraṇālaye 1904 (Ānandāśrama Sanskrit Series, 47). · Data entry Philipp A. Maas · GRETIL (Göttingen) · CC BY-NC-SA 4.0