योगशतक · श्लोक 81-100
निम्बस्य तैलं प्रकृतिस्थम् एवं नस्यां निषिक्तं विधिना यथावत् ।
मासेन तत् क्षीरघृतोपयोज्यं जराप्रभूतं पलितं निहन्ति
गोक्षुरकः क्षुरकः शतमूली वानरि नागबलातिबला च ।
चूर्णम् इदं पयसा निशि पेयं यस्य गृहे प्रमदाशतम् अस्ति
मधुकां मधुना घृतेन च प्रलिहन् क्षीरम् अनुप्रयोजयेत् ।
लभते च न धातुसंक्षयं प्रमदानां च शतं च गच्छति
यष्टीकषायं लवणाग्रयुक्तं कलिङ्गकृष्णाफलकल्कमिश्रम् ।
सक्षौद्रम् एतद् वमनं प्रयोज्यं घ्राणास्यकण्ठश्रवणामयेषु
हरीतकीभिः क्वथितं सुवीरं दन्त्यङ्घ्रिकृष्णाविडचूर्णयुक्तम् ।
विरेचनं सोरुबुतैलम् एतन् निरत्ययं योज्यम् अथामयघ्नम्
रास्नाराठफलत्रयामृतलतायुक्पञ्चमूलीबला-
मांसक्वाथयुतः सतैललवणक्षौद्रांशसर्पिर्गुडः ।
पुष्पाह्वाघनकुष्ठबिल्वफलिनीकृष्णावचाकल्कितो
वस्तिः काञ्जिकदुग्धमूत्रसहितो वातामयेभ्यो हितः
तैलं बलाक्वथितकल्कसुगन्धिगर्भसिद्धं पयोदधितुषोदकमस्तुचुक्रैः ।
तद्वत् सहाचरसरण्यमृतावरीभिः प्रत्येकपक्वम् अनुवाससमीरणघ्नम्
नस्यं विदध्याद् गुडनागरं वा ससैन्धवां मागधिकाम् अथोवा ।
घ्राणास्यमन्याहनुबाहुपृष्ठशिरोक्षिकण्ठश्रवणामयेषु
श्रेष्ठः पर्पटको ज्वरेषु विहितस् तृष्णासु पञ्चाम्लिको
लाजा च्छर्दिषु वस्तिजेषु गिरिजो मेहेषु धात्रीरसः ।
रास्ना वातगदेषु मूत्रम् उदरे प्लीहामये पिप्पली
संधाने कृमिहा विषे शुकतरुः शोफे तथा गुग्गुलुः
वृषो ऽश्रपित्ते कुटजो ऽतिसारे भल्लातम् अर्शस्सु गरेषु हेम ।
स्थूलेषु दारुः कृमिषु क्रिमिघ्नं हरीतकी पाण्डुगदेषु शस्यते
अक्ष्यामयेषु त्रिफला वदन्ति शूलेषु सर्वेषु तथा रसोनम् ।
कुष्ठेषु नित्यं खदिरस्य सारं सर्वेषु कासेषु निदिग्धिकां च
शंसन्ति वाजीकरणे श्वदंष्ट्राम् उरःक्षते नागबला बलां च ।
रसायनेष्व् आमलकं सदेवग्रहेषु रोगेषु शिलाह्वयं च
इत्य् एते विधिविहिताः प्रसिद्धयोगाः सिद्ध्यर्थं विनिगदिता भिषग्वराणाम् ।
दृष्ट्वैतान् कथम् अचिकित्सको ऽपि युञ्ज्याद् इत्य् अर्थं पुनर् अपि वक्ष्यते ऽत्र किंचित्
संधारणानशनजागरणोच्चभाषाव्यायामयानकटुतिक्तकषायरूक्षैः ।
चिन्ताव्यवायभयलङ्घनशोकशीतैर् वायुः प्रकोपम् उपयाति घनागमे च
कट्वाम्लमद्यलवणोष्णविदाहितीक्ष्णक्रोधानलातपपरिश्रमशुष्कशाकैः ।
क्षाराद्यजीर्णविषमाशनभोजनश् च पित्तं प्रकोपम् उपयाति घनात्यये च
स्वप्नाद् दिवा मधुरशीतलमत्समांसगुर्वाम्लपिच्छलतिलेक्षुपयोविकारैः ।
स्निग्धातितृप्तिलवणोदकपानभक्षैः श्लेष्मा प्रकोपम् उपयाति तथा वसन्ते
इत्य् एवम् एते क्रमशो द्विशो वा दोषाः प्रवृद्धा युगपत् त्रयो वा ।
कुर्वन्ति रोगान् विविधान् शरीरे संख्यातु संज्नाविगतान् अनेकान्
पारुष्यसंकोचनतोदशूलश्यामत्वम् अङ्गव्यथभङ्गचेष्टान् ।
सुप्तत्वशीतत्वखरत्वशोषान् कर्माणि वायोः प्रवदन्ति तज्ज्ञाः
परिस्रवस्वेदविदाहरागदौर्गन्धिसंक्लेदविपाककोपान् ।
प्रलापमूर्छभ्रमपीतभावान् पित्तस्य कर्माणि वदन्ति तज्ज्ञाः
श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपान् ।
उत्सेकसंघातचिरक्रियाश् च कफस्य कर्माणि वदन्ति तज्ज्नाः
मूल पाठ: Yogaśataka · Edition: Heinz Helmuth Michael Schmidt: Das Yogaśata : Ein Zeugnis altindischer Medizin, Sanskrit und Tibetisch, Bonn 1978 (Diss.). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0