योगशतक · श्लोक 61-80
दार्वीपर्पटनिम्बवत्सककणादुःस्पर्शयष्टीवृषास्
त्रायन्तीत्रिफलापटोलकटुकाभूनिम्बरक्ताम्बुदाः ।
एषां कल्ककषायसाधितम् इदं सर्पिः प्रशस्तं दृशः
पित्तासृक्प्रभवेषु शुक्रतिमिरेषूर्ध्वेषु च व्याधिषु
शुक्लैरण्डान् मूलम् अथोग्रा शतपुष्पा पुष्पोद्भूतं यच् च बृहत्यास् तगरं च ।
तैलं सिद्धं तैः सपयस्कैस् तिमिरघ्नं नस्यं श्रेष्ठं व्याधिषु चोर्ध्वेष्व् अपरेषु
क्वाथे मुष्ककभस्मनो ऽनलशिखादग्धं क्षिपेच् छङ्खकं
तत् तेनैव पुनर् जलेन विपचेत् क्षारं स तैले विधिः ।
युञ्ज्यात् तद् व्रणदुष्टिषु व्रणरुजास्व् अर्शस्सु नाडीषु च
त्वग्दोषेषु भगंदरेषु विविधे कण्ठामये च स्थिरे
निशासयष्टीमधुपद्मकोत्पलैः प्रियङ्गुकासावरलोध्रचन्दनैः ।
विपाच्य तैलं पयसा प्रयोजयेत् क्षतेषु संरोपणदाहनाशनम्
जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा-
मञ्जिष्ठाभयसिक्थतुत्थमधुकैर् नक्ताह्वबीजैः समैः ।
सर्पिः सिद्धम् अनेन सूक्ष्मवदना मर्माश्रिताः स्राविनो
गम्भीराः सरुजा व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च
शिरीषपुष्पं स्वरसेन भावितं सहस्रकृत्वो मरिचं सिताह्वयम् ।
प्रयोजयेद् अञ्जनपाननावनैर् विमोहितानाम् अपि सर्पदंशिनाम्
मयूरपित्तेन तु तण्डुलीयकं काकाण्डयुक्तं प्रपिबेद् अनल्पम् ।
विषाणि संस्तावरजङ्गमानि सोपद्रवाण्य् अप्य् अचिरेण हन्ति
तैलं तिलानां पललं गुडं च क्षीरं तथार्कं समम् एव पीतम् ।
आलर्कम् उग्रं विषम् आशु हन्ति सद्योद्भवं वायुर् इवाभ्रवृन्दम्
आगारधूमो महिषाक्षयुक्तः सवाजिगन्धाघृततण्डुलीयकः ।
गोमूत्रपिष्टो ह्य् अगदो निहन्ति विषाणि संस्थावरजङ्गमानि
मांसीसेव्यालकौन्तीजलजलदशिलारोचनापद्मकेशी-
स्पृक्काचण्डाहरिद्रागदसितपलितासृग्लतापद्मकैलाः ।
तुल्या गौराष्टभागाश् चतुरिभकुसुमा वर्तयः सर्वभोग्याः
कृत्यालक्ष्मीपिशाचज्वरविषम् अगदा घ्नन्ति चन्द्रोदयाख्याः
सिद्धार्थत्रिफलाशिरीषकटभीश्वेताकरञ्जामृता-
मञ्जिष्ठारजनीद्वयत्रिकटुकं श्यामा वचा हिङ्गु च ।
शस्तं छागलमूत्रपिष्टम् अगदं सर्वग्रहोत्सादनं
कृत्योन्मादपिशाचराक्षसहरं पानादिभिः सेवितम्
कर्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतकैस्
त्वग्वांशीवृषदंशविट्तुषवचाकेशाहिनिर्मोचकैः ।
गोशृङ्गीद्विपदन्तहिङ्गुमरिचैस् तुल्यैश् च धूपः कृतः
स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नः स्मृतः
त्रिकटुकदलकुङ्कुमग्रन्थिकक्षारसिंहीनिशाकुष्ठसिद्धार्थयुग्माम्बुशक्राह्वयैः
सितलशुनफलत्रिकोशीरतिक्तावचातुत्थयष्टीबलालोहिताख्याशिलापद्मकैः ।
दधितगरमधूकसारप्रियाह्वाविषाख्याविषातार्क्ष्यशैलैः सचव्यामरैः कल्कितैः
घृतम् अनवम् अशेषमूत्राम्बुसिद्धं स्मृतं भूतरावं तु पानेन तत् स्याद् ग्रहघ्नं परम्
नतमधुककरञ्जलाक्षापटोलीसमङ्गावचापाटलीहिङ्गुसिद्धार्थसिंहीनिशायुग्लतारोहिणी-
फलखदिरकटुत्रिकाकाण्डदारुक्रिमिघ्नाजगन्धामराङ्कोल्लकोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः ।
गदशुकतरुपुष्पबीजाम्बुयष्ट्यद्रिकर्णीनिकुम्भाग्निबिल्वैः
समैः कल्कितैर् मूत्रवर्गेण सिद्धं घृतं
विधिविनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्वग्रहोन्मादकुष्ठज्वरांस् तन् महाभूतरावं स्मृतम्
दार्वी हरिद्रा कुटजस्य बीजं सिंही च यष्टीमधुकं च तुल्यम् ।
क्वाथः शिशोः स्तन्यकृते च दोषे सर्वातिसारेषु च सर्वजेषु
बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पली च ।
क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्याव् अतिसारितेषु
शृङ्गीं सकृष्णातिविषां विचूर्ण्य लेहं विदध्यान् मधुना शिशूनाम् ।
कासज्वरच्छर्दिभिर् अर्दितानां समाक्षिकां चातिविषाम् अथैकाम्
धात्रीचूर्णस्य कंसं स्वरसपरिगतः क्षौद्रसर्पिः समांशं
कृष्णामानीसिताष्टप्रसृतयुतम् इदं स्थापितं भस्मराशौ ।
वर्षान्ते तत् समश्नन् भवति विपलितो रूपवर्णप्रभावी
निर्व्याधिर् बुद्धिमेधास्मृतिवचनबलस्थैर्यसत्त्वैर् उपेतः
यष्टीतुगासैन्धवपिप्पलीभिः सशर्कराभिस् त्रिफला प्रयुक्ता ।
आयुःप्रदा वृष्यतमातिमेध्या भवेज् जराव्याधिविनाशनी च
चूर्णं श्वदंष्ट्रामलकामृतानां लिहेत् ससर्पिर् मधुना च युक्तम् ।
वृष्यः स्थिरः शान्तविकारदुःखः समाशतं जीवति कृष्णकेशः
मूल पाठ: Yogaśataka · Edition: Heinz Helmuth Michael Schmidt: Das Yogaśata : Ein Zeugnis altindischer Medizin, Sanskrit und Tibetisch, Bonn 1978 (Diss.). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0